कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कण

kaṇaपुं · masc.

In 19 kośas: 25 synonym verses, 9 as a nānārtha head word, 3 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1427 · p. 54
त्रुटौ मात्रा लवो लेशः कणो ह्रस्वं पुनर्लघु ॥ १४२७ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.109
स्तोकाल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशं तनु ॥ ६१ ॥स्त्रियां मात्रा त्रुटिः पुंसि लवलेशकणाणवः ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.67 · p. 9
ऊष्मा वाष्पः स्फुलिङ्गश्च कणा जिह्वास्तथार्चिषः ।अलातमुल्मुकं ज्ञेयमुल्का ज्वालास्य निर्गता ॥ ६७ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.578 · p. 65
खलेवाली भवेन्मेठिः खलधान्यं खलं स्मृतम् ।बुशः कडङ्गरः प्रोक्तः कणः स्यात्क्षुद्रतण्डुलः ॥ ५७८ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.688 · p. 79
सूक्ष्मलेशलवश्लक्ष्णक्षुद्रदभ्रकणाणवः ।किञ्चिन्मात्रतनुस्तोकह्रस्वाल्पत्रुटयः समाः ॥ ६८८ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर चतुर्थोपदेशः Bālaprabodhikā 4.68 · p. 72
गुन्दिदो मर्दलध्वाने बाणे हिटुकडक्कपाः ।भेरीनादे तु भाङ्कारः क्वणतः क्वणनं कणः ।पृक्वाणो निक्वणः क्वाणः वीणायाः क्वणिते मतः ॥ ६८ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर त्रयोदशोपदेशः Bālaprabodhikā 13.276 · p. 91
जीरके तु जया तु स्यात् सूक्ष्मसौदो रसः कणः ।कृष्णे तु जीरके पृथ्वी रोहिण्यां कटुरोहिणी ॥ २७६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.117 · p. 227
सूक्ष्मं श्लक्ष्णं कृशं दभ्रमथ मात्रा स्त्रियां त्रुटिः ।लवलेशकणाः पुंसि स्यादत्यल्पेप्यणुः कणाः ॥ ११७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.130 · p. 21
मुर्म्मुरः स्यादथालातोल्मुके अङ्गारमस्त्रियाम् ।त्रिषु स्फुलिङ्गश्च कणः संकरोऽग्निचटध्वनिः ॥ १३० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.50 · p. 276
स्याद्यावकस्तु कुल्माषः पुलाकस्तुच्छधान्यकम् ।;l[6535}बुषं बुसं तु न स्त्रियां कडंगरः कडंकरः ।कणस्तु सूक्ष्मतन्दुलस्तुषस्तु पुंसि तत्त्वचि ॥ ५० ॥
अनुष्टुप्two metres in one verseLatin letters: l
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.77 · p. 19
दभ्राणू तलिनं तुच्छं क्षुल्लकं क्षुद्रकं दरम् ।सूक्ष्मं श्लक्ष्णं पेलवं च लव-लेश-कणा नरि ॥ ७७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीपुंसलिङ्गाधिकारः Koṣakalpataru 4.4.23 · p. 109
वारिपर्ण-फण-शाण-पार्ष्णयःस्यात्सृणिर्द्रुभिदि वाण ईरितः ।स्यात्स्फुलिङ्गलववाचकः कणः ।स्यात्करेणुरिभयोर्हरेणुवत् ॥ २३ ॥
रथोद्धता
genderपुंस्त्रीm. f.
निघादयःशब्दाः पुंसि भवन्ति । अयं निघः पर्वतः । अयं सङ्घः समूहः । अयमुद्घः प्रशस्तः । अयमुपघ्न आश्रयः पर्वतश्च । अयमोघो नदीवेगः पुरुषारम्भश्च । विघ्नः कर्मनिघातः । घर्मो निदाघः । अर्घः पूजा मूल्यविशेषः । वर्णो हरितपीतादिः ब्राह्मणादिः अकारादीनि चाक्षराणि ।पणगुणगणकणशोणाः किणफणघुणशाणबाणचूर्णाश्च ।नित्यं हि पुंसि पन्था बाष्पोष्माध्वानश्च विज्ञेयाः ॥ २६ ॥
metre not recognised
genderपुंmasc.
पणादयः शब्दाः पुंसि भवन्ति । अयं पणो विंशतिगण्डकः । अयं गुणः सङ्ख्याख्यः शुक्लादिः[दि] पाटलादिश्च । अयं गणः सङ्घातः । अयं कणः परमाणुः । शोणो नदः । किणो निकषः । फणो भुजङ्गः । घुणः कीटविशेषः । शाणः पाषाणविकारः । बाणः शरः असुरः घृष्टिका च । अयं चूर्णः शकलः खण्ड इत्यर्थः । अयं पन्था मार्गः । अयं बाष्पोऽश्रु । अयमूष्मा घर्मः । अयमध्वा मार्गः । नित्यग्रहणं विभाषानिवृत्त्यर्थम् ।नपुंसके श्वभ्रतृणरणार्णानि ।वीणातूणाघोणाघृणास्तु नियतं स्त्रियां विद्यात् ॥ २७ ॥
metre not recognised
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 78 · p. 39
शिलीमुखः शरो बाणो मार्गणो रोपणः कणः ।इषुः काण्डं क्षुरप्रं च नाराचं तोमरं खगः ॥ ७८ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंस्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.4.105 · p. 224
नक्षत्रार्थेऽश्लेषहस्तश्रवणाः स्युस्तथैव च ।कणो लेशे स्फुलिङ्गेऽपि कुम्भः स्यात्कलशे तथा ॥ १०५ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट पाताललोकसर्गः Paryāyaśabdaratna 3.32 · p. 126
बिन्दौ कणश्च लेशश्च बिन्दुकं शीकरोऽपि च ।विप्रुट् च विपृषश्चैव पृषच्च पृषतस्तथा ॥ ३२ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.89 · p. 43
विश्वं कृत्स्नं तथाशेषं खण्डेऽर्धं शकलं दलम् ।स्तोकं तुच्छं दभ्रमल्पं मात्रा लेशः कणो लवः ॥ ८९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2595 · p. 418
कणो मात्रा लवो लेशस्त्रुटी त्रुटिर्निगद्यते ॥ २५९५ ॥
metre not recognised
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश विशेषणवर्गप्रकाशः Śabdaratnāvalī 5.15 · p. 164
पुमानणुर्लवोलेश कणोऽपि च निगद्यते ।बहुले प्रचुरे प्राज्यं प्रभूतं पुरुहंपुरु ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.60 · p. 193
जीरणो जरणः कणः जीरकः कृष्णजीरके ।सुषवी दन्त्यमूर्धन्यतालवयान्तर्गता पृथुः ॥ ६० ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 क (wrong syllable); pāda 4, syllable 2 लव (syllable split)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1676 · p. 201
त्रुटिर्मात्रा स्त्रियौ पुंसि कणलेशलवाणवः ।शून्यं तु वशिकं तुच्छं रिक्तं च विदृढो दृढः ॥ १६७६ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शब्दाध्यायः Vaijayantī 2.4.11 · p. 31
वाणं हुडुक्कहिक्कायां भेरीनादे तु टट्टरः ।क्वणनं क्वणितं क्वाणो निक्वाणो निक्वणः कणः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश मनुष्याध्यायः Vaijayantī 3.5.30 · p. 74
कैवर्ती बुरुलं भिल्ली शनकं शनकी रसम् ।श्वपाकी गर्मुटं घोली घर्घरं द्रमिडी कणम् ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.70 · p. 164
पिण्डिर्ना पिष्टधानादिचूर्णे गौडी तु मर्मरा ।उलुंबं बुंबिका बुंबी चक्षुष्याः सक्तवः कणाः ॥ ७० ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.90
कणोऽतिसूक्ष्मे धान्यांशे सङ्घाते प्रमथे गणः ।
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास णार्धश्लोकः Dharaṇikośa 14.2.6 · p. 51
गणः स्यात्प्रमथे संघे संख्यासैन्यप्रभेदयोः ।क्षणो व्यापारशून्यत्वे मुहूर्तोत्सवपर्वसु ।कणोऽतिसूक्ष्मे धान्यांशे पिप्पल्यां जीरके कणा ॥
अनुष्टुप्
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.111 · p. 473
श्रोण्यौषध्योः कटो मोहे भ्रमः कुम्भो घटेऽपि च ।वृन्दागोलकयोः पिण्डः स्फुलिङ्गलेशयोः कणः ॥ १११ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ङ्ग (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ णान्ताः Koṣakalpataru 6.15.3 · p. 193
धान्यांशेऽतितनौ कणो नरि युगे त्वेष स्फुलिङ्गे लवेकृष्णाजीरकयोश्च नक्तजकृमौ च स्त्री रणस्तु क्वणे ।कोणेऽस्त्री तु स संगरे नरि पुनः सत्वादिसंध्यादिक-श्वेताद्येषु वृकोदरे पचिकरे रत्यां च विद्यादिंषु ।व्यायामेन्द्रियदानपोपरगते(?)धर्मे च ना स्याद्गुणो-ऽथ व्यापारमुहूर्तपर्वसु महे सूक्ष्मेऽपि काले क्षणः ।ना द्यूतव्यवहारवित्तभृतिषु स्याच्छ्वेंतकानां मितौमूल्ये चामिषशाककेऽपि च पणः कार्षापणेऽपीरितः ।संख्यासैन्यविशेषयोः पशुपतेर्भृत्येषु संघे गणोघ्राते घ्राण[278b]मुदीरितं च परवत्तन्नासिकायां द्विमुक् ।काणो ना करटे तथैकनयने त्रय्यां स्त्रियां त्वौषधौबाणो ना दनुजे स्त्रियां कुसुमभित्काण्डाङ्गकाण्डेषु च ॥ ३ ॥
शार्दूलविक्रीडितम्metre not read in every line
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.130 · p. 54
कणोऽतिसूक्ष्मे बाणे च तण्डुलावयवे च ना ।सक्तुष्वप्याह पुंभूम्नि तदेकावयवेऽन्यथा ॥ १३० ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र णद्विः Śivakoṣa 11.1.153 · p. 15
कणो ना सूक्ष्मधान्यांशे पिप्पलीजीरयोर्द्वयोः ।कृष्णं मरीचे लोहे स्त्री नीलीद्राक्षाकणासु च ॥ १५३ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश णान्ताः Śabdaratnāvalī 7.15.5 · p. 207
काणोऽतिसूक्ष्मे धान्यांशे काणः काकैकचक्षुषोः ॥
doubtful
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1882 · p. 229
कोणोऽश्रौ लगुडे सौरौ केतुरङ्के ध्वजे ग्रहे ।मुख्ये दुर्जात उत्पाते कणो लेशे कणौ(णो?)षणा ॥ १८८२ ॥
अनुष्टुप्
meaningsलेश
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 6.1.15 · p. 215
कारुस्तु विश्वकर्मापि धान्यांशे शीकरे कणः ।कालो दिष्टे यमे काचो मृद्भेदे शिक्यदृग्रुजोः ॥ १५ ॥
अनुष्टुप्

कण as a meaning in nānārtha verses

  • कोषकल्पतरु कणिकागोधूमपिष्टे कणिका कणे चा- थ स्यात्करिण्यां गणिका च यूथ्याम् । वाराङ्गनायामरणिद्रुमेऽथ स्याद्ग्रामकूटेऽपि च धीवरे च ॥ १२ ॥ Koṣakalpataru 6.1.12
  • शब्दरत्नावली रणरणोऽस्त्री समरे पुंसि स्वने कणे गतावपि । वर्णो यशोगुणकुथाद्विजशुक्लादिषु स्तुतौ ॥ Śabdaratnāvalī 7.15.14
  • वैजयन्ती कंबुउस्रः किरण उस्रा गौर् ऋक्षंनिर्लोमनीन्द्रिये । कंब्वस्त्री वलये शंखे शंबूके कणसंख्ययोः ॥ ९ ॥ Vaijayantī 6.5.9