कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पद्मलाञ्छन

padmalāñchana

In 3 kośas: 0 synonym verses, 3 as a nānārtha head word.

धरणिकोश Dharaṇikośa · धरणिदास नश्लोकः Dharaṇikośa 19.3.30 · p. 131
पद्मलाञ्छन उद्दिष्टो ब्रह्मा लोकेश्वरो हरिः ।स्यात्पद्मलाञ्छना तारा लक्ष्मीः स्यात्पद्मलाञ्छना ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.62 · p. 269
स्यात्पद्मलाञ्छनोऽर्क्के विधौ च लङ्कापतौ धनदे ।तारालक्ष्म्योस्तु स्त्री तद्वत्प्रोक्तः सरस्वत्याम् ॥ ६२ ॥
उपगीतिः
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.134 · p. 247
अमेरुद्रुमभिदो(?)र्ना जम्बुमाली निगद्यते ।स्यात्क्लीबं दन्तशुद्धौ ना खदिरे दन्तधावनः ॥केतुग्रहे हुताशे च स्यात्पुमान् धूमकेतनः ।शिवे सुते च पक्षान्ते मित्रे ना नन्दिवर्द्धनः ॥दाने च प्रतिपत्तौ च बोधने प्रतिपादनम् ।भुजङ्गे च मयूरे च प्रचलाकी भवेत्पुमान् ॥धनदे भास्करे विष्णौ विधौ च पद्मलाञ्छनः ।वाग्देवतायां तारायां पद्मायां पद्मलाञ्छना ॥कालीयके हरिद्रायां न द्वयोः पीतचन्दनम् ।भीमे षेष्ठे च महिष पृष्ठशृङ्गी भवेत्पुमान् ॥देवदारुणि कालीये न द्वयोर्वरचन्दनम् ।स्त्रीरत्नरोचनालाक्षाहरिद्राफलिनीषु च ॥साध्व्यां गौरीसरस्वत्योः पद्यायां वरवर्णिनी ।वासुदेवे मधुकरे स्यात्पुंसि मधुसूदनः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 भि (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)