कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

ब्रह्मन्

brahmanपुं · masc.

In 27 kośas: 70 synonym verses, 10 as a nānārtha head word, 72 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवाधिदेवकाण्डः Abhidhānacintāmaṇi 1.43 · p. 5
स्याद्गोमुखो महायक्षस्त्रिमुखो यक्षनायकः ॥ ४१ ॥तुम्बरुः कुसुमश्चापि मातङ्गो विजयोऽजितः ।ब्रह्मा यक्षेट् कुमारः षण्मुखपातालकिंनराः ॥ ४२ ॥गरुडो गन्धर्वो यक्षेट् कुबेरो वरुणोऽपि च ।भृकुटिर्गोमेधः पार्श्वो मातङ्गोऽर्हदुपासकाः ॥ ४३ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 न्ध (wrong syllable); pāda 3, syllable 5 मे (wrong syllable)
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवाधिदेवकाण्डः Abhidhānacintāmaṇi 1.76 · p. 6
महानन्दोऽमृतं सिद्धिः कैवल्यमपुनर्भवः ।शिवं निःश्रेयसं श्रेयो निर्वाणं ब्रह्म निर्वृतिः ॥ ७४ ॥महोदयः सर्वदुःखक्षयो निर्याणमक्षरम् ।मुक्तिर्मोक्षोऽपवर्गोऽथ मुमुक्षुः श्रमणो यतिः ॥ ७५ ॥वाचंयमो व्रती साधुरनगार ऋषिर्मुनिः ।निर्ग्रन्थो भिक्षुरस्य स्वं तपोयोगशमादयः ॥ ७६ ॥
अनुष्टुप्
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवाधिदेवकाण्डः Abhidhānacintāmaṇi 1.81 · p. 7
अहिंसासूनृतास्तेयब्रह्माकिंचनता यमाः ॥ ८१ ॥
अनुष्टुप्
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.213 · p. 13
द्रुहिणो विरिञ्चिर्द्रुघणो विरिञ्चः परमेष्ठ्यजोऽष्टश्रवणः स्वयंभूः ।कमनः कविः सात्त्विकवेदगर्भौ स्थविरः शतानन्दपितामहौ कः ॥ २११ ॥धाता विधाता विधिवेधसौ ध्रुवः पुराणगो हंसगविश्वरेतसौ ।प्रजापतिर्ब्रह्मचतुर्मुखौ भवान्तकृज्जगत्कर्तृसरोरुहासनौ ॥ २१२ ॥शंभुः शतधृतिः स्रष्टा सुरज्येष्ठो विरिञ्चनः ।हिरण्यगर्भो लोकेशो नाभिपद्मात्मभूरपि ॥ २१३ ॥
metre not recognised
genderपुंmasc.
अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र देवकाण्डः Abhidhānacintāmaṇipariśiṣṭa 2.9 · p. 1
सूर्ये वाजी लोकबन्धुर्भानेमिर्भानुकेसरः ।सहस्राङ्को दिवापुष्टः कालभृद्रात्रिनाशनः ॥ ७ ॥पपीः सदागतिः पीतुः सांवत्सररथः कपिः ।दृशानः पुष्करो ब्रह्मा बहुरूपश्च कर्णसूः ॥ ८ ॥वेदादयः खतिलकः प्रत्यूषाण्डं सुरावृतः ।लोकप्रकाशनः पीथो जगद्दीपोऽम्बुतस्करः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.17
ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः ।हिरण्यगर्भो लोकेशः स्वयम्भूश्चतुराननः ॥ १६ ॥धाताब्जयोनिर्द्रुहिणो विरिञ्चिः कमलासनः ।स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृड्विधिः ॥नाभिजन्माण्डजः पूर्वो निधनः कमलोद्भवः ।सदानन्दो रजोमूर्तिः सत्यको हंसवाहनः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.6 · p. 2
ब्रह्मा स्रष्टा परमेष्ठी धाता पद्मभूः सुरज्येष्ठः ।वेधा विधिर्विरिञ्चो हिरण्यगर्भः शतानन्दः ॥ ६ ॥
metre not recognised
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.124 · p. 15
कैवल्यं निर्वाणं निःश्रेयसममृतमक्षरं ब्रह्म ।अपुनर्भवोऽपवर्गो मुक्तिर्मोक्षो महानन्दः ॥ १२४ ॥
आर्या
genderक्लीneut.
बालप्रबोधिका Bālaprabodhikā · नत्कीर प्रथमोपदेशः Bālaprabodhikā 1.3 · p. 66
अमरा मरुतो देवा निलिम्पास्त्रिदशाः सुराः ।ब्रह्मा विधाता लोकेशः स्वयंभूश्चतुराननः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.5 · p. 8
मनोवेगः सत्रभुजः परान्नप्राशनाः स्थिराः ।ब्रह्मा विधाता विश्वात्मा पद्मभूः पुरुषोत्तमः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम मनुष्याधिकारः पञ्चमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 5.1 · p. 27
मनुष्या मनुजा मर्त्या द्विपादो नहुषो नरः ।ब्रह्मक्षत्रियविट्छूद्रा इति वर्णचतुष्टये ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.11 · p. 69
स्यान्मुखद्व्यग्रपर्यायजन्मपर्याय इत्ययम् ।वर्णज्येष्ठः शमीगर्भो ब्रह्म षट्कर्मकृत्पुनः ॥ ११ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.169 · p. 87
अहिंसासूनृतास्तेयब्रह्माकिंचनता यमाः ।नियमाः शौचसंतोषौ स्वाध्यायतपसी अपि ॥ १६९ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.10 · p. 406
सिद्धः साध्यः शुभः शुक्लो ब्रह्मेन्द्रश्चापि वैधृतिः ।तत्रातिगञ्जो गञ्जोऽपि द्वितीयश्चाष्टमः स्त्रियाम् ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.32 · p. 409
सौम्योऽदितिस्तु ब्राह्मोऽथ वाक्पतिर्द्वादशो रविः ।त्रयोदशोऽप्यथापि स्युस्त्वष्टृब्रह्मसमीरणाः ॥ ३२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.95 · p. 416
ब्रह्मास्त्रियां कः स एष पुमर्थः प्रकृतिः स्त्रियाम् ।स्वः षण् प्रधानमव्यक्तमक्षरं बहुधातुकम् ॥ ९५ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.154 · p. 434
महानन्दोऽपवर्गः स्त्री निवृत्तिर्मुक्तिरित्यपि ।सिद्धिः क्लीबे ब्रह्म शिवं श्रेयो निःश्रेयसामृते ॥ १५४ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव सूर्यादिप्रकाण्डः Kalpadrukośa 3.1.12 · p. 437
सरण्यूच्छाययोर्भर्ता संवत्सरपथार्थकः ।जलचौरः खलतिको ब्रह्मा ज्योतिश्च न द्वयोः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.3 · p. 439
विरञ्चो विश्वसृड्ब्रह्मा स्त्रियां संजश्चिरन्तनः ।अष्टश्रवाः शतधृतिः पद्मपर्यायलाञ्छनः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.33 · p. 442
निगमश्च पुनः क्लीबे छन्दो ब्रह्माथ बह्वृचः ।ऋग्वेदः पुंस्यथ क्लीबे यजुः सामापि न द्वयोः ॥ ३३ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ परमात्मवर्गः Koṣakalpataru 1.1.15 · p. 2
परात्मा भगवान् हंसः पुरुषः स्यादजोऽव्ययः ।स्यादौपनिषदस्तत्त्वं ब्रह्माऽद्वैतं तद[2b]क्षरम् ॥ १५ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ परमात्मवर्गः Koṣakalpataru 1.1.33 · p. 4
मोक्षः स्यादपुनर्भवोऽपि च महानन्दोऽपवर्गस्तथादुःखौघप्रलयो महोदयद्रहः स्त्री निर्वृतिः सिद्धिवत् ।मुक्तिर्ब्रह्म नपुंसकेऽमृतशिवश्रेयांसि निःश्रेयसम्निर्वाणं सुखमक्षरं च कथितं कैवल्यमुच्चैःपदम् ॥ ३३ ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्: pāda 2, syllable 10 य (wrong syllable)
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.56 · p. 13
ब्रह्माब्जात-सरोजसंभव-सुरज्येष्ठात्मभू-नाभिजाःशुभ्रि-स्रष्टृ-हिरण्यगर्भ[10a]विधिकाः शम्भू-स्वयंभू-भुवः ।लोकेशश्चतुराननः शतधृति-र्धाता-विधाता कविश्-चित्राटीर-विरञ्चि-हंसगमनाः सत्वाज-पद्मासनाः ॥ ५६ ॥
शार्दूलविक्रीडितम्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.8 · p. 232
वर्णज्येष्ठो वेदगर्भः सूत्रकण्ठस्त्रयीमुखः ।कजो मित्रश्च सावित्रो ब्रह्मा चैतश एतशाः ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.48 · p. 236
अध्वर्योरिदमर्थे स्यादाध्वर्यवमिति त्रिषु ।होता ऋत्विगथोद्गाता भवेत्सामग उक्थशाः ।समग्रवेदविद्ब्रह्मा ब्रह्मत्वं तस्य कर्मणि ॥ ४८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.50 · p. 113
श्राद्धो[232b]त्सेध-कबन्ध-सौध-मधु चान्धं चायुधं चौषधंमौनं मानविमानयानपुलिनापीनोदपानासनम् ।उद्यानं नलिनं खलीनखलिनस्थानाभिधानौदन-ब्रह्मप्रेमसमानजानुनिधनप्रस्फोटनं पक्ष्म च ॥ ५० ॥
शार्दूलविक्रीडितम्metre not read in every line
genderपुंक्लीm. n.
स्रगादयः शब्दाः स्त्रियां भवन्ति । तद्यथा । इयं स्रक् माला । इयं स्रुक् यज्ञोपकरणभाण्डम् । इयं स्फिक् कटिप्रदेशः । इयं त्वक् बहिश्चर्म । इयं वाक् वाणी । इयं योषित् बाला । द्यौश्च नौश्च द्युनावौ च स्त्रियां भवतः इयं द्यौः स्वर्गः । इयं नौः जलतरणिः । हिशब्दः पादपूरणे । दीधितिमेकां वर्ज्जयित्वा रश्मिवाचकाः शब्दाः पर्यायाश्च ये ते पुंसि भवन्ति । तद्यथा इमे रश्मयः प्रग्रहाः किरणाः अंशवः पादाः मयूखाः अभीषवः गभस्तयः घृणय इत्येवमादयः । तुशब्दः पादपूरणे ।मूर्द्ध्नोऽक्षतक्षमज्जश्लेष्मात्माश्मयु[यू]वपूषराजभी रहितम् ।सर्वं द्व्यच्कं नान्तं नपुंसकं पुंसि वा भवेद्ब्रह्मा ॥ १९ ॥
metre not recognised
genderपुंक्लीm. n.
मूर्द्धन् उक्षन् तक्षन् मज्जन् श्लेष्मन् आत्मन् अश्मन् युवन् पूषन् इत्येतैः शब्दै रहितं वर्जितं यदन्यत् द्व्यच्कं द्विस्व[श्व]रं च नान्तं प्रातिपदिकं तत्सर्वं नपुंसकं भवति । यथा इदं चर्म वर्म शर्म भस्म सद्म लोम इत्येवमादयः । मूर्द्धादयोऽपि नान्तत्वात् द्व्यच्का अतस्तेषामपि नपुंसकता प्राप्नोति । तदर्थमिति प्रतिषेधः कृतः मूर्द्धोऽक्षतक्षेत्यादि पुंल्लिङ्गाधिकारात्पुंसि भवन्ति । यथा अयं मूर्द्धा शिरः । उक्षा वृषभः । मज्जा सारः । तक्षा वर्द्धकिः । श्लेष्मा धातुविकारः । आत्मा शरीरस्थः । अश्मा नीलः । युवा तरुणः । पूषादित्यः पुंसि वा भवेद्ब्रह्मेति । द्वच्कत्वान्नान्तत्वाच्च ब्रह्मशब्दस्य नपुंसकत्वे प्राप्ते पुंस्त्वं वा विधीयते ब्रह्मशब्दो वा नपुंसकलिङ्गो भवति । इदं ब्रह्मा वेदाध्ययनमीश्वरश्च । अयं ब्रह्मा प्रजापतिः । यद्येवं यत् द्व्यच्कं नान्तं तन्नपुंसकम् । एवं सति राजन् शब्दस्यापि नपुंसकता स्यात् पुंस्यन्तर्भावो द्रष्टव्यः ।त्रुटिसीमसन्ध्यारात्रयः स्त्रियां धूलिवेणिखार्यश्च ।पुंसि निशीथो ज्योत्स्नादयाशलाका स्त्रियां नित्यम् ॥ २० ॥
metre not recognised
genderपुंक्लीm. n.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.142 · p. 79
स तु चतुर्मुखो ब्रह्मा द्विमुखस्तु वरार्गलः ।षण्मुखस्तु कार्तिकेयः पञ्चमुखस्तु शङ्करः ॥ १४२ ॥
metre not recognised
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.104 · p. 21
द्विपादो नहुषो गोधा व्राताः पञ्चजना नरः ।ब्रह्मक्षत्रियविट्शूद्रा इति वर्णचतुष्टये ॥ १०४ ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.118 · p. 23
परमाप्तो गुरुर्ब्रह्म आत्मलाभकरः शिवः ।वरूथः प्रवरो ज्ञानी ब्राह्मणो ज्योतिरात्मवान् ॥ ११८ ॥
अनुष्टुप्
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 73 · p. 36
हिरण्यगर्भः स्रष्टा च प्रजापतिः सहस्रपात् ।ब्रह्मात्मभूरनन्तात्मा कः तत्पुत्रोऽथ नारदः ॥ ७३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 114 · p. 57
वर्षीयान् वृषभो ज्यायान् पुरुराद्यः प्रजापतिः ।ऐक्ष्वाकुः(कः) काश्यपो ब्रह्मा गौतमो नाभिजोऽग्रजः ॥ ११४ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.23 · p. 8
ब्रह्मा प्रजापतिर्धाता विधाता विधिवेधसौ ।द्रुघणाजौ शतानन्दस्थविरौ कमनः कविः ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.266 · p. 85
कैवल्यममृतं सिद्धिर्महानन्दोऽपुनर्भवः ।मुक्तिर्ब्रह्म शिवं मोक्षो निर्वृतिः श्रेयसा सह ॥ २६६ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.166 · p. 231
ब्रह्म कर्म धनुर्नामाष्ठीवत्पक्ष्मविहायसी ।शिग्रुर्भूममहिम्नी चेत्यादयः पुंनपुंसकाः ॥ १६६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.17 · p. 3
वचनं जल्पितं नन्द्यं गदितं ब्रह्ममर्चितम् ।अस्थिरं लपितं शान्तमाहारो व्यवहारकः ॥ १७ ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त दिक्पालमरीचिः Pañcatattvaprakāśa 6.1.339 · p. 24
ब्रह्मा शेष इति प्रोक्ताः पूर्वाचार्यैर्दिगीश्वराः ।ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः ॥ ३३९ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त अण्डजमरीचिः Pañcatattvaprakāśa 6.3.397 · p. 28
बलभद्रः प्रलम्बारिर्बलदेवोऽच्युताग्रजः ।आत्मभूः सृष्टिकृद्ब्रह्मा चतुर्वक्त्रः प्रजापतिः ॥ ३९७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण स्वर्गादिलोकपालाधिकारः प्रथमस्सर्गः Śabdacandrikā 1.23 · p. 36
झषकेतुर्जराभीरुः कामः पञ्चशरः स्मरः ।ब्रह्मात्मभूः पत्रिरथः पद्मभूः पङ्कजासनः ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण ब्राह्मणप्रकरणम् Śabdacandrikā 5.1.2 · p. 41
ब्रह्मक्षत्रियविट्छूद्रा इति वर्णचतुष्टयम् ।उपवर्णास्तु सङ्कीर्णा विवर्णास्त्वन्त्यजातयः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.8 · p. 2
ब्रह्मा प्रजापतिः स्रष्टा विधिर्वेधाः पितामहः ।हिरण्यगर्भो द्रुहिणः परमेष्ठी चतुर्मुखः ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवाधिदेवविभागः Suśīlanāmamālā 2.30 · p. 5
ब्रह्मा यक्षेट् कुमारः षण्मुखः पातालकिन्नरौ ।यक्षौ गरुडगन्धर्वौ यक्षेन्द्रश्च कुबेरकः ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवाधिदेवविभागः Suśīlanāmamālā 2.48 · p. 7
महानन्दोऽमृतं मुक्तिः मोक्षो ब्रह्म महोदयः ।श्रेयो निःश्रेयसं सिद्धिः कैवल्यमपुनर्भवः ॥ ४८ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.270 · p. 36
ब्रह्मा चतुर्मुखः शम्भुः स्रष्टा शतधृतिर्ध्रुवः ।विश्वरेताः जगत्कर्ता पितामहः प्रजापतिः ॥ २७० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1350 · p. 214
भूदेवो ब्राह्मणो ब्रह्मा षट्कर्मा मुखसम्भवः ॥ १३५० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.22 · p. 3
ब्रह्मा स्वयम्भुर्लोकेशो देवदेवः प्रजापतिः ।धाता हिरण्यगर्भः स्यात् पद्मगर्भः पितामहः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.352 · p. 25
वेद आम्नायनिगमौ छन्दो ब्रह्म श्रुतिः स्त्रियाम् ।अथ वेदविधिर्यः स्यात् त्रयीधर्मस्तु स स्मृतः ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.296 · p. 212
शुद्धकर्माऽवापाद्दानं माहादाने प्रवारणम् ।वरणं, विप्रे ब्रह्मा स्याद् ब्रह्माणो जाति-जन्म-जाः ॥ २९६ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 वा (wrong syllable); pāda 3, syllable 5 प्रे (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.10 · p. 2
ब्रह्मा विश्वसृडात्मभूः शतधृतिर्धाता विधाता विधि-र्वेधा हंसरथो विरिञ्चिरमरज्येष्ठो विरिञ्चोऽब्जभूः ।वागीशश्चतुराननः सरसिजावासः स्वयंभूरजःकः स्रष्टा द्रुहिणः प्रजापतिशतानन्दौ स्वभूर्नाभिजः ॥ १० ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.15 · p. 3
ओंकारः प्रणवो ब्रह्मच्छन्दसी तु श्रुतिस्त्रयी ।निगमो वेद आम्नाय आगमानुश्रवावपि ॥ १५ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.65 · p. 9
त्रय एवादिदेवाः स्युर्ब्रह्मविष्णुमहेश्वराः ॥ ६५ ॥
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चित्ताध्यायः Śabdaratnākara 1.9.275 · p. 37
मुक्तिनिर्वाणकैवल्यब्रह्मनिःश्रेयसामृतम् ।मोक्षोऽपवर्गः सत्त्वोऽस्त्री प्रधानं प्रकृतिः स्त्रियाम् ॥ २७५ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1171 · p. 144
ब्रह्माग्रजन्मा यज्ञस्तु सप्ततन्तुः सवः क्रतुः ।हवोऽध्वरो मखो यागो वितानं सवनं समे ॥ ११७१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1191 · p. 146
स्युर्ब्रह्माध्वर्युरुद्गाता होता चामी महर्त्विजः ।ऋत्विजो याजकाश्चाथ नियमो व्रतमस्त्रियाम् ॥ ११९१ ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात ॐ Tantrābhidhāna 2.1.2 · p. 5
सर्वबीजोत्पादकश्च पञ्चदेवो ध्रुवस्त्रिकः ।सावित्री त्रिशिखो ब्रह्म त्रिगुणो गुणजीवकः ॥ २ ॥
अनुष्टुप्
genderक्लीneut.
तन्त्राभिधान Tantrābhidhāna · अज्ञात अ Tantrābhidhāna 2.2.7 · p. 5
ब्रह्मा वामाऽऽद्यजो ह्रस्वः करसूः प्रणवाद्यकः ।ब्रह्माणी कामरूपश्च कामेशी वासिनी वियत् ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मातृकानिघण्टु Tantrābhidhāna 5.2 · p. 35
ध्रुवस्तारस्त्रिवृद्ब्रह्म वेदाद्य(दि)स्तारकोव्ययः ।प्रणवश्च त्रिमात्रोऽपि ओङ्कारो ज्योतिरादिमः ॥ २ ॥
अनुष्टुप्
genderक्लीneut.
श्रीकण्ठ आद्यजो ह्रस्वो ब्रह्म चैवादिमातृका ।सुरेशश्चैव वागीशः सारस्वतो ललाटजः ॥ १० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्व (wrong syllable)
genderक्लीneut.
प्रणवस्तारकोऽव्यक्तो वेदादिश्च शिवोऽव्ययः ।आदिमश्च ध्रुवोङ्कारौ मूलज्योतिः शिवादिकः ।त्रिवृद्ब्रह्मा त्रिमात्रश्च शब्दाः प्रणववाचकाः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
ब्रह्म सृष्टिः खादिमश्च क्रोधीशश्च स्वरान्त(ङ्ग)कः ।दक्षदोमूलगश्चक्री कामाख्यो गणनायकः ॥ १९ ॥
अनुष्टुप्
genderक्लीneut.
उत्पलिनी Utpalinī · व्याडि Utpalinī 7 · p. 46
अपुत्रो ब्राह्मणः कुम्भः कल्माषः पिण्डिजातकम् ।अधिमुख्यं श्रेष्ठिजातं दमयन्ती महाकपिः ।बोधिर्ब्रह्मा महाबोधिर्वानरः शरभो रुरुः ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश आदिदेवाध्यायः Vaijayantī 1.1.6 · p. 3
आजानजाः स्वतोदेवाः कर्मदेवास्तु कर्मभिः ।ब्रह्मा विधाता विश्वात्मा घाता स्रष्टा प्रजापतिः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.80 · p. 51
चतुर्मुखे ब्रह्मसंज्ञः पंचवक्त्रे हराह्वयः ।षण्मुखे तु गुहाख्योऽथ किंपाके काकमर्दकः ॥ ८० ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश मनुष्याध्यायः Vaijayantī 3.5.2 · p. 72
ब्रह्मक्षत्रियविट्शूद्रा इति वर्णाश्चतुष्टये ।उपवर्णास्तु संकीर्णा विवर्णास्त्वन्त्यजातयः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.27 · p. 85
आथर्वणं पौरोहितं वेदाश्चत्वार एव ते ।छन्दो ब्रह्म श्रुतिर्वेदोऽप्यथ विद्याश्चतुर्दश ॥ २७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रो (wrong syllable)
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.79 · p. 89
अध्वर्यूद्गातृहोतारो ब्रह्मा चेति महर्त्विजः ।मन्त्राणां दैवतं छन्दो निरुक्तं ब्राह्मणान्यृषीन् ॥ ७९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.161 · p. 96
परमात्मा परो ब्रह्म जीवः क्षेत्रज्ञ आविशः ।शक्तिस्तु माया प्रकृतिर्व्योमाख्यं मूलकारणम् ॥ १६१ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.163 · p. 96
महांस्तु लैंगिको ब्रह्मा लिंगज्येष्ठश्च चेतना ।मनीषा शेमुषी बुद्धिर्धीः पूः ख्यातिर्विदा बुधा ॥ १६३ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश लिङ्गसङ्ग्रहाध्यायः Vaijayantī 8.9.30 · p. 291
पिशाचादिषु भूतोऽस्त्री शंकुरप्राणिगोचरः ।विशेषकञ्च तिलकं पुण्ट्रे ब्रह्मा द्विजेऽब्जजे ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.114
वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः ॥ ११४ ॥
अनुष्टुप्
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.868 · p. 99
वेदाध्यात्मब्राह्मणहिरण्यगर्भेषु कथ्यते ब्रह्म ।प्रकृतिगुणे सत्तायां स्थामनि भूते च सत्त्वं स्यात् ॥ ८६८ ॥
आर्या
धरणिकोश Dharaṇikośa · धरणिदास नश्लोकः Dharaṇikośa 19.3.7 · p. 127
ब्रह्म तत्त्वं तु ब्रह्मा च ब्रह्माणौ विप्रवेधसौ ।वेदेऽपि च स्मृतं ब्रह्म ब्रह्मा योगो रवीन्दुजः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तु (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.86 · p. 259
स्कन्धे च कालेऽथ गिरौ घने चग्रावोपले धन्व तु चापवाचि ।स्थले तथा जाङ्गलदेशवा[ची]ब्रह्मा तु ना धातरि भूसुरे च ॥ ८६ ॥
उपजातिः
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.87 · p. 259
योगान्तरेऽप्यृत्विजि भास्वतीन्दौस्त्रियां तु नाध्यात्मतपःसु तत्त्वे ।ज्ञाने परात्मन्यपि तद्वदाहुःशर्मान्तिमे नाम्नि सुखे द्विजे नो ॥ ८७ ॥
उपजातिः
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.845 · p. 115
ब्रह्मा रुद्रहृषीकेशविरिञ्चार्केन्दुवह्निषु ।यज्ञे विप्रे च भृग्वादिष्वृत्विग्भेदे च पुंस्ययम् ॥ ८४५ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.846 · p. 115
क्लीबं तु वेदे मन्त्रेऽन्ने खेऽध्यात्मात्मतपःसु च ।मोक्षे जपे धने चाथ बलभद्रे व(ले?ली) पुमान् ॥ ८४६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.62 · p. 239
फलिन्यग्निशिखायान्तु फल्यां स्त्री तद्वति त्रिषु ।फाल्गुणोऽर्जुनवृक्षे च गुडाकेशनदीजयोः ॥मासभेदे पुमानेव पौर्णमास्यान्तु फाल्गुनी ।ब्रह्मा प्रजापतौ ऋत्विग्योगभेदद्विजेषु ना ॥ब्रह्म तत्त्वे च वेदे च तपस्यपि च न द्वयोः ।वन्धनी वटिजीवातु नङिमाठनकर्मसु (?) ॥बन्धनञ्च वधे बन्धे हिंसायाञ्च नपुंसकम् ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 6.5.53 · p. 234
फली ताम्रादिफलके बर्हिर्नाग्नौ नपुं कुश ।ब्रह्मा रुद्रेंद्रभृग्वादिविप्रर्त्विग्यज्ञधातृषु ॥ ५३ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 6.5.54 · p. 234
अर्केऽग्नौ क्ली तु वेदेऽन्नं स्वाध्यात्मात्मतपःसु च ।बलं रूपेऽस्थनि स्थौल्ये शक्तिरेतश्चमूषु च ॥ ५४ ॥
अनुष्टुप्
doubtful

ब्रह्मन् as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् आत्मन्आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च ॥ १०९ ॥ Amarakośa 3.3.109
  • नामलिङ्गानुशासनम् शम्भुस्तम्भौ स्थूणाजडीभावौ शम्भू ब्रह्मत्रिलोचनौ । Amarakośa 3.3.257
  • हलायुधकोशः (अभिधानरत्नमाला) कउक्तानामप्यनुक्तानां शब्दानामिह संग्रहः । कशब्दः सुखवाय्वम्बुब्रह्ममस्तकवाचकः ॥ ८४७ ॥ Abhidhānaratnamālā (Halāyudha) 5.847
  • धरणिकोश कअथ कान्ताः प्रकथ्यन्ते श्लोकस्यार्धेन संप्रति । कं वारि[4]णि सुखे शीर्षे कोऽर्कब्रह्मात्मवायुषु ॥ Dharaṇikośa 1.2.1
  • धरणिकोश अजद्विजो विप्रेऽण्डजे दन्ते हरेणुपुष्पयोर्द्विजा । अजा हरिहरब्रह्मच्छागा रघुप्तुतोऽप्यजः ॥ Dharaṇikośa 7.2.1
  • धरणिकोश ज्ञज्ञः स्याद्ब्रह्मणि सौम्ये च पण्डिते च महीसुते । Dharaṇikośa 9.2.1
  • धरणिकोश पद्मलाञ्छनपद्मलाञ्छन उद्दिष्टो ब्रह्मा लोकेश्वरो हरिः । स्यात्पद्मलाञ्छना तारा लक्ष्मीः स्यात्पद्मलाञ्छना ॥ Dharaṇikośa 19.3.30
  • धरणिकोश शम्भुशुभो योगे शुभं क्षेमे डिम्भः शिशौ च बालिशे । शम्भुरर्हच्छिवो ब्रह्मा स्तम्भः स्थूणाजडत्वयोः ॥ Dharaṇikośa 23.1.2
  • धरणिकोश अक्षरप्रवरं संततौ श्रेष्ठे चाक्षरं ब्रह्मवर्णयोः । प्रतीहारो द्वारि द्वाःस्थे संप्रहारः सृते हतौ ॥ Dharaṇikośa 26.1.21
  • धरणिकोश शलकलिरन्त्ययुगे युद्धे कलिः कलहशूरयोः । शलं स्याच्छल्लकीलोम्नि [90] ब्रह्मभृङ्गगणाः शलाः ॥ Dharaṇikośa 27.2.4
  • धरणिकोश तत्त्वप्राध्वोऽतिमात्रं प्रणतः प्राध्वं बन्धनमुच्यते । तत्त्वं ब्रह्मणि तद्भावे वाद्यभेदे च चेतसि ॥ Dharaṇikośa 28.2.6
  • धरणिकोश वेधस्वेधा विद्वानपि ब्रह्मा वर्चांसि रूपविट्त्विषः । एनोऽपराधे दुरिते आगः पापापराधयोः ॥ Dharaṇikośa 31.1.3
  • कोषकल्पतरु हेमाङ्गभूकर्कारौ हस्तिनि सर्पे कालिङ्गो ना कर्कट्यां स्त्री । हेमाङ्गः[265a]स्याद्ब्रह्मणि तार्क्ष्ये हालाङ्गोऽयं रोहितकूर्मे ॥ २४ ॥ Koṣakalpataru 6.3.24
  • कोषकल्पतरु द्रुघणस्याच्छून्योषरयोस्त्रिलिङ्गमिरिणं क्लीबे तु नित्यं गृहे त्राणे त्रातरि हिंसने च शरणं स्याद्वारिपर्ण्यां पुनः । क्लीबे कत्तृणमीरितं तृणभिदि त्राणे पुनर्यन्त्रणं न स्यात्पुंसि च बन्धने नियमनेऽथो मुद्गरे ब्रह्मणि ॥ २१ ॥ Koṣakalpataru 6.15.21
  • कोषकल्पतरु विधिप्रत्याशायां बन्धके चित्तरोगे पुंस्याधिः स्यादप्यधिष्ठानके च । रोगे बाष्पे व्याधिरुक्तो विधिस्तु काले दैवे ब्रह्मणि स्याद्विधाने ॥ ५९ ॥ Koṣakalpataru 6.20.59
  • कोषकल्पतरु आत्मन्क्लेदा सुधांशौ नरि चौषधौ[18b]च स्नेहा च मित्रे नरि शीतरश्मौ । आत्मा नरि स्याद्धृतिबुद्धिशील- ब्रह्मप्रयत्नेषु वपुर्हृदोश्च । व्यावर्तने स्यात्परतश्च काले- ऽथाध्वा तु संस्थानपथोश्च शास्त्रे ॥ ८५ ॥ Koṣakalpataru 6.21.85
  • कोषकल्पतरु आत्मयोनिस्यात्कुम्भयोनिर्मुनिवृक्षभेदे कामे पुनर्ब्रह्मणि चात्मयोनिः । स्याच्चित्रभानुस्तरणौ च वह्नौ कलध्वनिः कोकिलकेकिनोश्च ॥ ४६ ॥ Koṣakalpataru 6.21.46
  • कोषकल्पतरु अग्रजन्मन्राहौ च कृष्णवर्त्मा हुताशने स्याद्दुराचारे । ब्रह्मणि तथाग्रजन्मा ज्येष्ठे भ्रातरि महीदेवे ॥ ६४ ॥ Koṣakalpataru 6.21.64
  • कोषकल्पतरु स्वभूकस्तूरिकायां गदिता स्त्रियां च विभुः शिवे व्यापिनि तु त्रिषु स्यात् । नित्ये प्रभौ ब्रह्मणि तु स्वभूः स्यात् विष्णौ च शंभुस्तु हरे हरौ च ॥ ४५ ॥ Koṣakalpataru 6.24.45
  • कोषकल्पतरु अक्षरअस्त्यक्षरं ब्रह्मणि वर्णमुक्त्यो- रन्त्ये ध्रुवेऽन्योपममृक्षरो ना । स्यात्कण्टकेऽप्यृत्विजि वारिधारा- वाची तु षण्ढे प्रवरस्तु न स्त्री ॥ ८७ ॥ Koṣakalpataru 6.27.87
  • कोषकल्पतरु चित्राटीरब्रह्मणि चित्राटीरो घण्टाकर्णोपहाराय । अङ्कयति यस्य भालं निहतच्छागास्रबिन्दुभिस्तत्र ॥ २४ ॥ Koṣakalpataru 6.27.24
  • कोषकल्पतरु वेधस्विष्णौ बुधे ब्रह्मणि चाथ पापे- ऽपराध आगोऽथ पुरीषदीप्त्योः । रूपेऽपि वर्चोऽथ सुधांशुपुत्रे पुमांश्च वेदे त्वभिलाषके च ॥ ९९ ॥ Koṣakalpataru 6.31.99
  • कोषकल्पतरु पितामहपितामहो ब्रह्मणि तातताते तमोपहोऽर्केन्दुजिनेषु वह्नौ । तनूरुहोऽस्त्री गरुतीह लोम्नि समीरणे गन्धवहो नसि स्त्री ॥ ६१ ॥ Koṣakalpataru 6.32.61
  • नानार्थार्णवसंक्षेप खअथ क्लीबे खमाकाशे स्वर्गे छिद्रे गृहेऽभ्रके । नक्षत्रेन्द्रिययोर्ब्रह्मण्यथ हृच्चित्तवक्षसोः ॥ १ ॥ Nānārthārṇavasaṃkṣepa 1.3.1
  • नानार्थार्णवसंक्षेप खखस्याभ्रके ब्रह्मणि च मीनमेषविषाणिनाम् । मिथुनस्य कुलीरस्य सिंहकन्यातुलालिनाम् ॥ ९ ॥ Nānārthārṇavasaṃkṣepa 2.5.9
  • नानार्थार्णवसंक्षेप द्विजब्रह्मक्षत्त्रियविट्स्वण्डजातेषु दशनेषु ना । द्विजा तु स्त्री हरेण्याख्यगन्धद्रव्ये द्विकं पुनः ॥ ५९४ ॥ Nānārthārṇavasaṃkṣepa 2.5.594
  • नानार्थार्णवसंक्षेप सोमसोमो ब्रह्मणि पूष्णीन्तो वह्नौ पुण्ये लतान्तरे । याज्ञिकानां प्रसिद्धे ना ----- चामृते ॥ १५६२ ॥ Nānārthārṇavasaṃkṣepa 2.5.1562
  • नानार्थार्णवसंक्षेप अक्षरपरमाणौ ब्रह्माणि च प्रणवे तु नृशण्डयोः । त्रिस्त्वक्षरितरि स्याच्चाविद्यमानक्षरे तथा ॥ ७ ॥ Nānārthārṇavasaṃkṣepa 4.7
  • नानार्थार्णवसंक्षेप एतशएकहङ् ना यमे काके पुनर्द्वे त्रि तु काणके । ए(न?त)शास्त्वश्मनि द्वे ना त्वग्नौ ब्रह्मणि होतरि ॥ २९५ ॥ Nānārthārṇavasaṃkṣepa 4.295
  • नानार्थार्णवसंक्षेप द्विजद्वयोस्तु पठितः पूर्वैः स्याद्ब्रह्मक्षत्त्रविट्सु च । पक्षिण्यथ दिवौकास्तु देवचातकयोर्द्वयोः ॥ ९३३ ॥ Nānārthārṇavasaṃkṣepa 4.933
  • परमानन्दीयनाममाला कब्रह्मवायुसुहृत्केकिवह्न्युद्योतमात्मसु । कुः पापीयसि मह्यां च निवारणकुशब्दयोः ॥ १० ॥ Paramānandīyanāmamālā 1.10
  • परमानन्दीयनाममाला ज्ञज्ञो मुनौ चतुरे चन्द्रपुत्रे ब्रह्मणि ञः पुनः । गायने घर्घरध्वानगूढरूपकयोस्तथा ॥ १९ ॥ Paramānandīyanāmamālā 1.19
  • परमानन्दीयनाममाला यमूर्बन्धवेश्मनोर्योऽथ ब्रह्मवातयमेषु च । यं जले या रमायात्रोः खट्वाङ्गरथयोरपि ॥ ३५ ॥ Paramānandīyanāmamālā 1.35
  • परमानन्दीयनाममाला अजअजः कृष्णे स्मरे रुद्रे मेषे ब्रह्मण्यकं पुनः । दुःखाघयोरघं पापे व्यसनाशर्मणोरपि ॥ २ ॥ Paramānandīyanāmamālā 5.1.2
  • परमानन्दीयनाममाला पितामहपुरस्कृतोऽग्रगे शस्ते प्रतिक्षिप्तो निराकृते । पितामहः पितुस्ताते ब्रह्मण्यपि च कथ्यते ॥ ३१८ ॥ Paramānandīyanāmamālā 5.19.318
  • परमानन्दीयनाममाला शम्भुशरुः कोपे शरे वज्रे शद्रिः कृष्णे तडित्वति । शम्भुर्बह्मणि रुद्रे च शुभो योगे शुभं सुखे ॥ ३५७ ॥ Paramānandīyanāmamālā 5.25.357
  • शब्दरत्नावली कको ब्रह्माण्डवायुसूर्याग्नियमदक्षान्मवर्हिषु ॥ Śabdaratnāvalī 7.1.1
  • शब्दरत्नावली सर्वतोमुखसर्वतोमुख उग्रे च ब्रह्मब्राह्मणयोः पुमान् । क्लीबं वियति पानीये क्षेत्रज्ञे च पुमानयम् ॥ Śabdaratnāvalī 7.2.20
  • शब्दरत्नावली अजअजो हरिहरब्रह्मछागस्मरनृपेषु च । अब्जो शङ्केऽस्त्रियां नातु धन्वन्तर्यम्बुजेन्दुषु ॥ Śabdaratnāvalī 7.8.2
  • शब्दरत्नावली ञञो गायने घर्घरे च ञो ब्रह्मबुधसूरिषु । Śabdaratnāvalī 7.10.1
  • शब्दरत्नावली अङ्गतिअर्हन्तः पुंसि वृद्धे स्यात्सुगते च महेश्वरे । अर्वती वडवायाञ्च कुम्भदास्यामपि स्त्रियाम् । अङ्गतिर्ना ब्रह्मविष्ण्वोरग्निहोतरि केशवे ॥ Śabdaratnāvalī 7.16.78
  • शब्दरत्नावली आत्मन्वुद्धौ ब्रह्मणि देहे च तनये च भवेत्पुमान् । उत्तानं स्यादगम्भीरे ऊर्द्धास्यशयिते त्रिषु ॥ Śabdaratnāvalī 7.20.36
  • शब्दरत्नावली सामयोनिसदादानो गन्धहस्तिन्यैरावतगणेशयोः । सम्बदनं वशीकारे क्लीबमालोचनेऽपि च ॥ समादानं समीचीनग्रहे बौद्धाह्णिकेऽपि च । सम्वाहनन्तु भारादिवाहने चाङ्गमर्दने ॥ समापनं परिच्छेदप्रमापनसमाप्तिषु । सनातनो हरे विष्णौ नित्यपित्रतिथिष्वपि ॥ सनातनी भवान्यान्तु वाण्यब्धिसुतयोः स्त्रियाम् । स्तनयित्नुर्जलधरे विद्युति स्तनिते स्त्रियाम् ॥ सरोजिनी तु कमलाकरपङ्कजयोः स्त्रियाम् । समापन्नं वधे क्लिष्टे समाप्तप्राप्तयोरपि ॥ संयमनं व्रते बन्धे यमपूर्यामपि स्त्रियाम् । भवेत्सारसनं काञ्च्यामुरस्तेन तनुत्रिणाम्(?) ॥ सामयोनिर्ग्रजब्रह्मसामोत्थेषु भवेत्पुमान् । सुदर्शनो विष्णुचक्रे जम्बूवृक्षे सुरलाये ॥ क्लीबं महेन्द्रनगरे प्रज्ञौषधिभिदोः स्त्रियाम् । सुयामुनोऽच्युते मेघे प्रासादवत्सराजयोः ॥ सुकर्मा योगभेदे स्यात्सत्कर्मविधिकर्मणोः । सुधन्वा वीरभेदे स्याद्धानुष्के विश्वकर्मणि ॥ सुपर्वा पुंसि वंशे तु धूमपर्वामरेषु च ॥ Śabdaratnāvalī 7.20.127
  • शब्दरत्नावली विभुदम्भः स्यात्कैतवे कल्के साटोपाहङ्कृतावपि । दृन्भूश्चवज्रचक्राहिमुख्यभूतिषु च स्त्रियाम् ॥ नाभिर्ना चक्रमध्ये च क्षत्रिये मुख्यभूपतौ । द्वयोः प्राण्यङ्गमध्ये तु स्त्रियां कस्तूरिकामदे ॥ निभो व्याजे तु पुंलिङ्गः प्रकाशे सदृशे त्रिषु । रम्भः कपौ च वंशे ना कदल्यप्सरसोः स्त्रियाम् ॥ विभुर्वृद्धे प्रभौ राज्ञि ब्रह्मशङ्करयोः पुमान् । शम्भुर्महेश्वरे सिद्धे सुगते परमेष्ठिने ॥ शुभं क्षेमे शुभोयोगे शुभा कान्तीच्छयोः स्त्रियाम् । सभाद्यूते मन्दिरे च गोष्ट्यां सामाजिके स्त्रियाम् ॥ स्वभूर्विष्णौ विधौ पुंसि स्तम्भः स्थूनाजडत्वयोः । Śabdaratnāvalī 7.24.7
  • शब्दरत्नावली ममो ब्रह्मणि शिवे चन्द्रे मा लक्ष्मीमानमातृषु । मूर्बन्धने स्त्रियामेव मा निषेधे बदव्ययम् ॥ Śabdaratnāvalī 7.25.1
  • शब्दरत्नावली हरिस्वैरं पुमांस्तु स्वच्छन्दमन्दयोः क्वापि वाच्यवत् । हरिरिन्द्रांशुब्रह्मेन्दुमण्डूकयमबर्हिषु ॥ Śabdaratnāvalī 7.27.49
  • शब्दरत्नावली अक्षरअजिरं प्राङ्गने देहे दर्द्दूरे विषयेऽनिले । अक्षरं न द्वयोर्ब्रह्मवर्णयोर्ना हरे हरौ ॥ Śabdaratnāvalī 7.27.55
  • शब्दरत्नावली ओलृरदित्यां ॡ दितौ च एर्विष्णौ ऐर्महेश्वरे । ओ ब्रह्मण्यौरनन्ते च अं विधौ अः पितामहे ॥ Śabdaratnāvalī 8.2
  • शब्दरत्नाकर धातृमरुर्धन्वा धनुर्धन्व धवः पत्यौ द्रुमान्तरे । धृतिः सौख्ये धारणे च धाता ब्रह्मणि पोषके ॥ १९४४ ॥ Śabdaratnākara 4.1.1944
  • शब्दरत्नाकर विधिवीर्यं पराक्रमे शुक्ले वृत्तिर्वर्तनजीवने । विधिर्ब्रह्मणि दैवे च विधाने कर्मकल्पयोः ॥ १९९७ ॥ Śabdaratnākara 4.1.1997
  • शब्दरत्नाकर अव्यक्तब्रह्मण्यव्यक्तमस्पष्टे त्रिषु स्यात् सौम्यमन्दयोः । अलसोऽथाङ्गजः कामे प्राणादौ तनये रुजि ॥ २०४० ॥ Śabdaratnākara 4.1.2040
  • शब्दरत्नाकर अण्डजअण्डजो ब्रह्मणि व्याले गोधायां सरटे खगे । अशनिर्वज्रतटितोरनीकोऽस्त्री चमूयुधोः ॥ २०४२ ॥ Śabdaratnākara 4.1.2042
  • शब्दरत्नाकर अक्षरअक्षरः पुरुषे ब्रह्मवर्णनिःश्रेयसेऽक्षरम् । आलोकौ दर्शनद्योतावाहवौ समराध्वरौ ॥ २०४३ ॥ Śabdaratnākara 4.1.2043
  • शब्दरत्नाकर ओंए दुःखभावने कोपे प्रत्यक्षे सन्निधावपि । ॐ स्याद्ब्रह्मण्यनुज्ञायां कं सुखेऽम्भसि मूर्धनि ॥ २२५१ ॥ Śabdaratnākara 5.1.2251
  • तन्त्राभिधान कवर्गाद्यश्च मु(सु)खं ब्रह्मा सखाम्भोधिः शिरो(वो) जलम् । माहेश्वरी तुला पुष्पं(ष्पा) मङ्गलश्चरणं करः ॥ ५८ ॥ Tantrābhidhāna 2.18.58
  • तन्त्राभिधान हलक्ष्मीर्ब्रह्मा हरिः शम्भुः प्राणशक्तिर्ललाटजः । ----------------------------------- स्व(स)कोपवारणः शूली चैतन्यं पादपूरणः ॥ १६५ ॥ Tantrābhidhāna 2.50.165
  • तन्त्राभिधान ओए-कारः कथितो विष्णुरै-कारश्च महेश्वरः । ओ-कारस्तु भवेद्ब्रह्मा औ-कारो रुद्र उच्यते ॥ ४ ॥ Tantrābhidhāna 3.4
  • तन्त्राभिधान कइन्द्रासनगतो ब्रह्मा धूम्रभैरव्यलङ्कृतः । नादबिन्दुसमायुक्तस्त्रिमूर्तिस्तु स मन्मथः ॥क्लीं॥ Tantrābhidhāna 10.38
  • तन्त्राभिधान रक काली ब्रह्म र प्रोक्तं महामायार्थकश्च ई । विश्वमात्रर्थको नादो बिन्दुर्दुःखहरार्थकः ॥ Tantrābhidhāna 11.6
  • तन्त्राभिधान रक्ष नृसिंहो ब्रह्म रश्च ऊर्ध्वदन्तार्थकश्च औ । दुःखहरार्थको बिन्दुर्नृसिंहं तेन पूजयेत् ॥क्ष्रौं॥ Tantrābhidhāna 11.19
  • त्रिकाण्डशेष अजपद्मधन्वन्तरी चाऽब्जावण्डजः खगमीनयोः । निचुलेऽप्यम्बुजोऽजस्तु ब्रह्मविष्णुस्मरेष्वपि ॥ ८१ ॥ Trikāṇḍaśeṣa 3.3.81
  • त्रिकाण्डशेष शतधृतिब्रह्मशक्रौ शतधृती वार्तायां श्रवणे श्रुतिः । दुर्बले निशिते स्यातां शितशातावथो वचः ॥ १८८ ॥ Trikāṇḍaśeṣa 3.3.188
  • त्रिकाण्डशेष विधिसीता योजनगन्धा स्यात्कस्तूरी व्याससूरपि । विधिर्ब्रह्मणि काले च प्रकारे वेधने विधा ॥ २२२ ॥ Trikāṇḍaśeṣa 3.3.222
  • त्रिकाण्डशेष आत्मभूआरम्भे उद्यमे दर्पे कामे ब्रह्मणि चाऽत्मभूः । ऋषभौ श्रेष्ठवृषभौ करभोऽधःकरोष्ट्रयोः ॥ २८४ ॥ Trikāṇḍaśeṣa 3.3.284
  • त्रिकाण्डशेष पितामहसमारम्भे च पटहो ब्रह्मण्यपि पितामहः । प्रवाहो व्यवहारे च बहुर्विपुलसङ्ख्ययोः ॥ ४५९ ॥ Trikāṇḍaśeṣa 3.3.459
  • वैजयन्ती वेष्टवीर्यं पराक्रमे रेतस्यन्नमाहात्म्ययोरपि । वेष्टं ब्रह्मणि नाके च शल्के शकलवल्कले ॥ ३२ ॥ Vaijayantī 6.3.32
  • वैजयन्ती अव्यक्तप्रधानेऽव्यक्तमव्यक्तो ब्रह्मण्यस्पष्टमूर्खयोः । अमरेन्द्रपुरी स्थूणा गुडूची चामराः सुराः ॥ १३ ॥ Vaijayantī 7.5.13
  • वैजयन्ती आत्मयोनिब्रह्माप्यथोपचर्यायामुपचार उपायने । उपनाहो वैरबन्धे वीणायाश्च निबन्धने ॥ १७ ॥ Vaijayantī 8.1.17
  • वैजयन्ती पितामहपरिमर्देऽपि परिमलः पितामहौ ब्रह्मपितृतातौ । परिवारः प्रावारेऽपि नृपार्हार्थेऽपि परिबर्हः ॥ २८ ॥ Vaijayantī 8.1.28
  • वैजयन्ती प्रजापतिदक्षादिष्वग्निजामात्रो राज्ञि ब्रह्मणि धातरि । ब्रह्मपुत्रस्तु रुद्रेऽपि बाहुलेयो गुहे वृषे ॥ ३५ ॥ Vaijayantī 8.1.35
  • वैजयन्ती खखस्याभ्रके ब्रह्मणि च मेघस्याभ्रकमुस्तयोः । भुवो नामानि सौराष्ट्र्यां शैलेये ग्रावशैलयोः ॥ ४ ॥ Vaijayantī 8.6.4
  • वैजयन्ती ओम्ओं स्याद्ब्रह्मण्यनुज्ञायां के सुखेंऽभसि मूर्ध्नि च । प्रश्ने क्षेपे विकल्पे किं कु पापेऽल्पार्थकुत्सयोः ॥ ३ ॥ Vaijayantī 8.7.3