कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

धनद

dhanadaपुं · masc.

In 17 kośas: 18 synonym verses, 4 as a nānārtha head word, 9 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.113 · p. 11
श्रीदः सितोदरकुहेशसखाः पिशाचकीच्छावसुस्त्रिशिर ऐलबिलैकपिङ्गाः ।पौलस्त्यवैश्रवणरत्नकराः कुबेरयक्षौ नृधर्मधनदौ नरवाहनश्च ॥ १८९ ॥कैलासौका यक्षधननिधिकिंपुरुषेश्वराः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.69
कुबेरस्त्र्यम्बकसखो यक्षराड्गुह्यकेश्वरः ।मनुष्यधर्मा धनदो राजराजो धनाधिपः ॥ ६८ ॥किन्नरेशो वैश्रवणः पौलस्त्यो नरवाहनः ।यक्षैकपिङ्गैलविलश्रीदपुण्यजनेश्वराः ॥ ६९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वै (wrong syllable)
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.78 · p. 10
ऐलविलः पौलस्त्यो वैश्रवणः किन्नरेश्वरो धनदः ।श्रीदः श्रीकण्ठसखो मनुष्यधर्मा धनाध्यक्षः ॥ ७८ ॥
आर्या
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.100 · p. 13
आशाः ककुभः काष्ठा हरितश्च दिशः समाख्याताः ।इन्द्रानलयमनैर्ऋतवरुणमरुद्धनदरुद्रदिक्पालाः ॥ १०० ॥
उद्गीतिः
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.124 · p. 19
इति पञ्च उपप्राणास्तद्वत्स्थानगता मताः ।कुबेरस्तु धनस्वामी धनिको धनदोऽपि च ॥ १२४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव पूःप्रकाण्डः Kalpadrukośa 1.3.43 · p. 13
पश्चिमालिन्दशून्येऽपि धनदं दक्षिणा हि च ।अलिन्दहीनमानन्दं पूर्वालिन्दविवर्जितम् ॥ ४३ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.71 · p. 387
शम्भुपर्यायमित्रार्थः पौलस्त्यो नरवाहनः ।एकपिङ्गो वैश्रवणः कुबेरो धनदश्च सः ॥ ७१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वै (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.169 · p. 24
श्रीदो वैश्रवणो धनेश-धनदाविच्छावसुर्यक्षराट्पौलस्त्यस्त्रिशिराः कुहो हरसखो यक्षोऽवलक्षोदरः ।रक्षोराण्-नरवाहनो निधिपतिः कैलासगः किंनर-स्वामिन्यैलबिलः पिशाचकि-बक-श्रेष्ठैकपिङ्गा अपि ॥ १६९ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 96 · p. 48
वैश्रवणं राजराजमुत्तराशापतिं तथा ।अलकानिलयं श्रीदं धनपर्यायदायकम् ॥ ९६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.70 · p. 14
यादःपतिस्तथा मेघनादः पश्चिमदिक्पतिः ।परञ्जनोऽथ धनदः कुबेरो नरवाहनः ॥ ७० ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.104 · p. 14
मनुष्यधर्मा धनदः श्रीदश्च नरवाहनः ।तद्वने स्याच्चैत्ररथं तत्पुर्यामलका मता ॥ १०४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च्चै (wrong syllable)
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त दिक्पालमरीचिः Pañcatattvaprakāśa 6.1.344 · p. 24
मनुष्यधर्मा धनदो यक्षराट् नरवाहनः ।तुरङ्गास्यः किंपुरुषो मयुः किन्नरयक्षकौ ॥ ३४४ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.51 · p. 6
कुबेरो धनदः श्रीदो यक्षराजो धनाधिपः ।किंनरेशो राजराजः पौलस्त्यो गुह्यकेश्वरः ॥ ५१ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.217 · p. 29
कुबेरो धनदः श्रीदः नृधर्मा नरवाहनः ॥ २१७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.135 · p. 10
उषर्बुधश्च धनदो वसुप्राणस्तनूनपात् ।स्याद्वाडवाग्निः कर्ककश्च पातालवडवामुखः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.162 · p. 12
अलकाधिपतिर्यस्कः श्वेतोदरो धनेश्वरः ।धनदस्त्र्याम्बकसखो मयुराज-पिशाचिनौ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.135 · p. 18
इच्छावसू राजराजो धनदो निधिनायकः ।रत्नहस्तोऽलकाधीशस्तस्य चैत्ररथं वनम् ॥ १३५ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश लोकपालाध्यायः Vaijayantī 1.2.56 · p. 13
मनुष्यधर्मैलबिलः पौलस्त्यो धनदो धनी ।कैलासनाथस्त्रिशिरा धनाध्यक्षो वटाश्रयः ॥ ५६ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास दपादः Dharaṇikośa 17.1.4 · p. 93
कामदा घेनुका चापि मर्यादा सीमनि स्थितौ ।धनदो दातरि श्रीदे विशदं स्पष्टशुक्लयोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ दान्ताः Koṣakalpataru 6.19.29 · p. 235
श्रीदे पुमान्स्याद्धनदो वदान्ये ।स्यान्मुस्तकेऽब्दे जलदोऽथ पुष्प-रसे च मांस्यां नलदं च सेव्ये ॥ २९ ॥
इन्द्रवज्राtwo metres in one verse
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.970 · p. 132
श्वेतवर्णयुते चाथ सुरभौ धवला स्त्रियाम् ।धनदस्तु कुबेरे ना भेद्यवत् तु धनप्रदे ॥ ९७० ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2108 · p. 255
योगाङ्गेऽथ वृषे शुभ्रे धवलो धवली गवि ।धनदो दातरि श्रीदे नभसो व्योम्नि सागरे ॥ २१०८ ॥
अनुष्टुप्

धनद as a meaning in nānārtha verses

  • कोषकल्पतरु पद्मलाञ्छनस्यात्पद्मलाञ्छनोऽर्क्के विधौ च लङ्कापतौ धनदे । तारालक्ष्म्योस्तु स्त्री तद्वत्प्रोक्तः सरस्वत्याम् ॥ ६२ ॥ Koṣakalpataru 6.21.62
  • कोषकल्पतरु कुबेरनन्दितरौ धनदे च कुबेरो ऽथो नकुले द्युपतौ द्युपगोपे । कोटिरमाहुरथो कठिने स्यात् पूर्णगतश्च परत्र कठोरः ॥ ६५ ॥ Koṣakalpataru 6.27.65
  • नानार्थार्णवसंक्षेप कुतनुमर्कटे ना तु कुतनुर्धनदे त्रि तु कुत्सिता । ननुर्यस्य भवेत् तत्र कुटरस्तु द्रुमान्तरे ॥ ५५६ ॥ Nānārthārṇavasaṃkṣepa 4.556
  • नानार्थार्णवसंक्षेप राजराजधर्मे च राजराजस्तु धनदे राजसत्तमे । तृणजातौ तु दात्रे च काले चापि लवाणकः ॥ १०३ ॥ Nānārthārṇavasaṃkṣepa 6.103
  • परमानन्दीयनाममाला धधः पुनर्धनदे धीरेऽश्ववारकसुचित्रयोः । धं पृक्ते धीस्तु बुद्धौ स्यान्निषङ्गे धा तु धातरि ॥ २६ ॥ Paramānandīyanāmamālā 1.26
  • शब्दरत्नावली राजराजयमराट् स्यात् कुवेरेऽपि मञ्चानां रङ्गबन्धने । राजराजः सार्वभौमे धनदे च सुधाकरे ॥ Śabdaratnāvalī 7.8.37
  • शब्दरत्नावली पद्मलाञ्छनअमेरुद्रुमभिदो(?)र्ना जम्बुमाली निगद्यते । स्यात्क्लीबं दन्तशुद्धौ ना खदिरे दन्तधावनः ॥ केतुग्रहे हुताशे च स्यात्पुमान् धूमकेतनः । शिवे सुते च पक्षान्ते मित्रे ना नन्दिवर्द्धनः ॥ दाने च प्रतिपत्तौ च बोधने प्रतिपादनम् । भुजङ्गे च मयूरे च प्रचलाकी भवेत्पुमान् ॥ धनदे भास्करे विष्णौ विधौ च पद्मलाञ्छनः । वाग्देवतायां तारायां पद्मायां पद्मलाञ्छना ॥ कालीयके हरिद्रायां न द्वयोः पीतचन्दनम् । भीमे षेष्ठे च महिष पृष्ठशृङ्गी भवेत्पुमान् ॥ देवदारुणि कालीये न द्वयोर्वरचन्दनम् । स्त्रीरत्नरोचनालाक्षाहरिद्राफलिनीषु च ॥ साध्व्यां गौरीसरस्वत्योः पद्यायां वरवर्णिनी । वासुदेवे मधुकरे स्यात्पुंसि मधुसूदनः ॥ Śabdaratnāvalī 7.20.134
  • वैजयन्ती हर्यक्षहर्यक्षो धनदे सिंहे व्रीह्यब्दार्चिः षु हायनः । महोदरेपि हेरंबो हरिमा मृत्युरोगयोः ॥ ८४ ॥ Vaijayantī 7.1.84
  • वैजयन्ती यक्षयादस्पतिश्च तावब्धावप्यथो यक्षगुह्यकौ । धनदेऽप्यथ वृक्षेऽद्रौ शिखर्यगनगागमाः ॥ ५८ ॥ Vaijayantī 8.1.58