All kośas › Dharaṇikośa
धरणिकोश Dharaṇikośa
1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)
नान्ताः · नश्लोकः
॥ नश्लोकः ॥
घनं सान्द्रं घनं वाद्यं घनो मुस्ते घनोऽम्बुदः ।[62]घनौ काठिन्यसंघातौ घनौ विस्तारणाम्बरौ ॥
19.3.1 · p. 126
अनुष्टुप्
स्थानं स्थितौ च सादृश्ये संनिवेशावकाशयोः ।स्थानेशब्दो निपातस्थो युक्तार्थः कारणार्थकः ॥
19.3.2 · p. 126
अनुष्टुप्
सूनं प्रसूतमाख्यातं क्वचित्पुष्पेऽपि दृश्यते ।सूना जन्तुवधस्थाने सूना च गजगण्डिका ॥
19.3.3 · p. 126
अनुष्टुप्
जनो लोके जनी वध्वामुत्पत्तौ च जनी स्मृता ।महल्लोकात्परो लोको जन इत्यभिशब्दितः ॥
19.3.4 · p. 126
अनुष्टुप्
धनुश्चापे राशिभेदे धामिन्याख्यद्रुमेऽपि च ।उकारान्तो धनुशब्दो यश्च सान्तो भविष्यति ॥
19.3.5 · p. 126
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 नु (wrong syllable)
पर्व स्यादुत्सवे ग्रन्थप्रस्तावे विषुवादिषु ।दर्शप्रतिपदोः सन्धौ स्यात्तिथिः पञ्चकान्तरे ॥
19.3.6 · p. 127
अनुष्टुप्
ब्रह्म तत्त्वं तु ब्रह्मा च ब्रह्माणौ विप्रवेधसौ ।वेदेऽपि च स्मृतं ब्रह्म ब्रह्मा योगो रवीन्दुजः ॥
19.3.7 · p. 127
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तु (wrong syllable)
आत्मा कलेवरे यत्ने स्वभावे परमात्मनि ।चित्ते धृतौ च बुद्धौ च परव्यावर्तनेऽपि च ॥
19.3.8 · p. 127
अनुष्टुप्
पक्षी वशापकः प्रोक्तः पक्षी चापि विहंगमः ।आगामिवर्तमानाहर्युक्तायां निशि पक्षिणी ॥
19.3.9 · p. 127
अनुष्टुप्
भोगी राजनि सर्पे च वैयापृत्यकरेऽपि च ।भोगिन्य राजकामिन्यः संगृहीताश्च योषितः ॥
19.3.10 · p. 127
अनुष्टुप्
मालिनी जाह्नवी प्रोक्ता मालाकारी च मालिनी ।… ॥
19.3.12 · p. 128
अनुष्टुप्metre not read in every line
पिशुनो नारदः प्रोक्तः पिशुनौ खलसूचकौ ।पिशुना कथिता पृक्का पिशुनं कुङ्कुमं स्मृतम् ॥
19.3.13 · p. 128
अनुष्टुप्
व्यसनश्चाशुभे पापे पानस्त्रीमृगयादिषु ।दैवानिष्टफले सक्तौ विपत्तिभ्रंशयोरपि ॥
19.3.14 · p. 128
अनुष्टुप्
मन्दचेष्टे वितानः स्याद्वितानं वस्त्रवेश्मनि ।वितानः कथितो यज्ञे शून्यविस्तारयो[63]रपि ॥
19.3.15 · p. 128
अनुष्टुप्
उत्थानं गृहवास्त्वन्ते स्यादुत्थानं च पौरुषे ।उद्योगेऽपि च उत्थानं तन्त्रे उत्थानमुद्गतौ ॥
19.3.16 · p. 128
अनुष्टुप्
अर्जुनास्तृणवृक्षाक्षिरोगभेदास्तथार्जुनाः ।सितपार्थकार्तवीर्याः करतोयार्जुनी च गौः ॥
19.3.17 · p. 128
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्थ (wrong syllable)
सज्जनं सज्जनश्चैव सज्जना त्रितयं क्रमात् ।घट्टाख्ये गुल्मके साधौ हस्तिपर्याणके मतम् ॥
19.3.18 · p. 129
अनुष्टुप्
अञ्जनं कज्जलं चाक्तुरञ्जना मारुताङ्गना ।अञ्जनो दिग्गजः शैलोऽप्यञ्जनं स्याद्रसाञ्जनम् ॥
19.3.19 · p. 129
अनुष्टुप्
साधनं मृतसंस्कारे सैन्ये मेढ्रे वघे धने ।निवृत्ते दापने सिद्धावुपायेऽनुगमे गतौ ॥
19.3.20 · p. 129
अनुष्टुप्
व्यञ्जनं तेमने चिह्ने श्मश्रुणि व्यञ्जनं स्मृतम् ।स्त्रीपुंसशुद्धदेशे च व्यञ्जनं चार्धमात्रिकम् ॥
19.3.21 · p. 129
अनुष्टुप्
स्रंसनं के निपाते च पृथग्भावे क्रमात्स्मृतौ ।भेदनेनसमायुक्तावतिसारे च कीर्तितः ॥
19.3.22 · p. 129
अनुष्टुप्
काञ्चनं कनके प्रोक्तं चम्पके नागकेशरे ।धूस्तूरे काञ्चनं प्राहुर्हरिता काञ्चनी स्मृता ॥
19.3.23 · p. 129
अनुष्टुप्
ललाम कथितं रश्मिप्रधानध्वजवाजिषु ।भूषाप्रभावशृङ्गेषु पुण्ड्रवालधिलक्ष्मसु ॥
19.3.24 · p. 130
अनुष्टुप्
तपस्वी चानुकम्पार्हस्तपस्वी स्यात्तपोधने ।तपस्विनी च मांसी स्यात्कुनखा च तपस्विनी ॥
19.3.25 · p. 130
अनुष्टुप्
कात्यायन्यर्धवृद्धा या काषायवसनाधवा ।उमा कात्यायनी प्रोक्ता कश्चित्कात्यायनो मुनिः ॥
19.3.26 · p. 130
अनुष्टुप्
घनाघनो वर्षुकाब्दे शक्रे च मत्तहस्तिनि ।अन्योन्यघटने चैव घातके च घनाघनः ॥
19.3.27 · p. 130
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
सुदर्शनं हरेश्चक्रमोषधिश्च सुदर्शना ।सुदर्शनं पुरं चैन्द्रं मेरुजम्बुः सुदर्शनः ॥
19.3.28 · p. 130
अनुष्टुप्
वृक्षादनः कुठारः स्यात्पियालाख्यो द्रुमो[64]ऽपि सः ।वृक्षादनी स्मृता वन्दा विदारीगन्धिका च सा ॥
19.3.29 · p. 130
अनुष्टुप्
पद्मलाञ्छन उद्दिष्टो ब्रह्मा लोकेश्वरो हरिः ।स्यात्पद्मलाञ्छना तारा लक्ष्मीः स्यात्पद्मलाञ्छना ॥
19.3.30 · p. 131
अनुष्टुप्