हरि
hariपुं · masc.In 27 kośas: 141 synonym verses, 14 as a nānārtha head word, 78 as a meaning of another word.
आदित्यः सवितार्यमा खरसहस्रोष्णांशुरंशू रवि-र्मार्तण्डस्तरणिर्गभस्तिररुणो भानुर्नभोऽहर्मणिः ।सूर्योऽर्कः किरणो भगो ग्रहपुषः पूषा पतङ्गः खगोमार्ताण्डो यमुनाकृतान्तजनकः प्रद्योतनस्तापनः ॥ ९५ ॥ब्रध्नो हंसश्चित्रभानुर्विवस्वान्सूरस्त्वष्टा द्वादशात्मा च हेलिः ।मित्रो ध्वान्तारातिरब्जांशुहस्तश्चक्राब्जाहर्बान्धवः सप्तसप्तिः ॥ ९६ ॥दिवादिनाहर्दिवसप्रभाविभाभासः करः स्यान्मिहिरो विरोचनः ।ग्रहाब्जिनीगोद्युपतिर्विकर्तनो हरिः शुचीनौ गगनाद्ध्वजाध्वगौ ॥ ९७ ॥हरिदश्वो जगत्कर्मसाक्षी भास्वान्विभावसुः ।त्रयीतनुर्जगच्चक्षुस्तपनोऽरुणसारथिः ॥ ९८ ॥
शार्दूलविक्रीडितम्
आदित्यपुंसवितृपुंअर्यमन्पुंखरांशुपुंसहस्रांशुपुंउष्णांशुपुंअंशुपुंरविपुंमार्तण्डपुंतरणिपुंगभस्तिपुंअरुणपुंभानुपुंनभोमणिपुंअहर्मणिपुंसूर्यपुंअर्कपुंकिरणपुंभगपुंग्रहपुषपुंपूषन्पुंपतङ्गपुंखगपुंमार्ताण्डपुंयमुनाकृतान्तजनकपुंप्रद्योतनपुंतापनपुंब्रध्नपुंहंसपुंचित्रभानुपुंविवस्वत्पुंसूरपुंत्वष्टृपुंद्वादशात्मन्पुंहेलिपुंमित्रपुंध्वान्तारातिपुंअब्जहस्तपुंअंशुहस्तपुंचक्रबान्धवपुंअब्जबान्धवपुंअहर्बान्धवपुंसप्तसप्तिपुंदिवाकरपुंदिनकरपुंअहस्करपुंदिवसकरपुंप्रभाकरपुंविभाकरपुंभास्करपुंमिहिरपुंविरोचनपुंग्रहपतिपुंअब्जिनीपतिपुंगोपतिपुंद्युपतिपुंविकर्तनपुंहरिपुंशुचिपुंइनपुंगगनध्वजपुंगगनाध्वगपुंहरिदश्वपुंजगत्कर्मसाक्षिन्पुंभास्वत्पुंविभावसुपुंत्रयीतनुपुंजगच्चक्षुस्पुंतपनपुंअरुणसारथिपुं
genderपुंmasc.
इन्द्रो हरिर्दुश्च्यवनोऽच्युताग्रजो वज्री विडौजा मघवान्पुरंदरः ।प्राचीनबर्हिः पुरुहूतवासवौ संक्रन्दनाखण्डलमेघवाहनाः ॥ १७१ ॥सुत्रामवास्तोष्पतिदल्मिशक्रा वृषा शुनासीरसहस्रनेत्रौ ।पर्जन्यहर्यश्वऋभुक्षिबाहुदन्तेयवृद्धश्रवसस्तुराषाट् ॥ १७२ ॥सुरर्षभस्तपस्तक्षो जिष्णुर्वरशतक्रतुः ।कौशिकः पूर्वदिग्देवाप्सरःस्वर्गशचीपतिः ॥ १७३ ॥पृतनाषाडुग्रधन्वा मरुत्वान्मघवास्य तु ।
इन्द्रवंशा
इन्द्रपुंहरिपुंदुश्च्यवनपुंअच्युताग्रजपुंवज्रिन्पुंविडौजस्पुंमघवन्पुंपुरंदरपुंप्राचीनबर्हिस्पुंपुरुहूतपुंवासवपुंसंक्रन्दनपुंआखण्डलपुंमेघवाहनपुंसुत्रामन्पुंवास्तोष्पतिपुंदल्मिपुंशक्रपुंवृषन्पुंशुनासीरपुंसहस्रनेत्रपुंपर्जन्यपुंहर्यश्वपुंऋभुक्षिन्पुंबाहुदन्तेयपुंवृद्धश्रवस्पुंतुराषाह्पुंसुरर्षभपुंतपस्तक्षपुंजिष्णुपुंवरपुंशतक्रतुपुंकौशिकपुंपूर्वदिक्पतिपुंदेवपतिपुंअप्सरःपतिपुंस्वर्गपतिपुंशचीपतिपुंपृतनाषाह्पुंउग्रधन्वन्पुंमरुत्वत्पुं
genderपुंmasc.
यमः कृतान्तः पितृदक्षिणाशाप्रेतात्पतिर्दण्डधरोऽर्कसूनुः ।कीनाशमृत्यू समवर्तिकालौ शीर्णाङ्घ्रिहर्यन्तकधर्मराजाः ॥ १८४ ॥यमराजः श्राद्धदेवः शमनो महिषध्वजः ।कालिन्दीसोदरश्चापि धूमोर्णा तस्य वल्लभा ॥ १८५ ॥
उपजातिः
genderपुंmasc.
विष्णुर्जिष्णुजनार्दनौ हरिहृषीकेशाच्युताः केशवोदाशार्हः पुरुषोत्तमोऽब्धिशयनोपेन्द्रावजेन्द्रानुजौ ।विष्वक्सेननरायणौ जलशयो नारायणः श्रीपति-र्दैत्यारिश्च पुराणयज्ञपुरुषस्तार्क्ष्यध्वजोऽधोक्षजः ॥ २१४ ॥गोविन्दषड्बिन्दुमुकुन्दकृष्णा वैकुण्ठपद्मेशयपद्मनाभाः ।वृषाकपिर्माधववासुदेवौ विश्वंभरः श्रीधरविश्वरूपौ ॥ २१५ ॥दामोदरः शौरिसनातनौ विधुः पीताम्बरो मार्जजिनौ कुमोदकः ।त्रिविक्रमो जह्नुचतुर्भुजौ पुनर्वसुः शतावर्तगदाग्रजौ स्वभूः ॥ २१६ ॥मुञ्जकेशिवनमालिपुण्डरीकाक्षबभ्रुशशबिन्दुवेधसः ।पृश्निशृङ्गधरणीधरात्मभूः पाण्डवायनसुवर्णबिन्दवः ॥ २१७ ॥श्रीवत्सो देवकीसूनुर्गोपेन्द्रो विष्टरश्रवाः ।सोमसिन्धुर्जगन्नाथो गोवर्धनधरोऽपि च ॥ २१८ ॥यदुनाथो गदाशार्ङ्गचक्रश्रीवत्सशङ्खभृत् ।
शार्दूलविक्रीडितम्
विष्णुपुंजिष्णुपुंजनार्दनपुंहरिपुंहृषीकेशपुंअच्युतपुंकेशवपुंदाशार्हपुंपुरुषोत्तमपुंअब्धिशयनपुंउपेन्द्रपुंअजपुंइन्द्रानुजपुंविष्वक्सेनपुंनरायणपुंजलशयपुंनारायणपुंश्रीपतिपुंदैत्यारिपुंपुराणपुरुषपुंयज्ञपुरुषपुंतार्क्ष्यध्वजपुंअधोक्षजपुंगोविन्दपुंषड्बिन्दुपुंमुकुन्दपुंकृष्णपुंवैकुण्ठपुंपद्मेशयपुंपद्मनाभपुंवृषाकपिपुंमाधवपुंवासुदेवपुंविश्वंभरपुंश्रीधरपुंविश्वरूपपुंदामोदरपुंशौरिपुंसनातनपुंविधुपुंपीताम्बरपुंमार्जपुंजिनपुंकुमोदकपुंत्रिविक्रमपुंजह्नुपुंचतुर्भुजपुंपुनर्वसुपुंशतावर्तपुंगदाग्रजपुंस्वभूपुंमुञ्जकेशिन्पुंवनमालिन्पुंपुण्डरीकाक्षपुंबभ्रुपुंशशबिन्दुपुंवेधस्पुंपृश्निशृङ्गपुंधरणीधरपुंआत्मभूपुंपाण्डवायनपुंसुवर्णबिन्दुपुंश्रीवत्सपुंदेवकीसूनुपुंगोपेन्द्रपुंविष्टरश्रवस्पुंसोमसिन्धुपुंजगन्नाथपुंगोवर्धनधरपुंयदुनाथपुंगदाभृत्पुंशार्ङ्गभृत्पुंचक्रभृत्पुंश्रीवत्सभृत्पुंशङ्खभृत्पुं
genderपुंmasc.
genderपुंmasc.
घोटकस्तुरगस्तार्क्ष्यस्तुरंगोऽश्वस्तुरंगमः ॥ १२३२ ॥गन्धर्वोऽर्वा सप्तिवीती वाहो वाजी हयो हरिः ।
अनुष्टुप्
genderपुंmasc.
अरण्यजेऽस्मिन्गवलः सिंहः कण्ठीरवो हरिः ॥ १२८३ ॥हर्यक्षः केसरीभारिः पञ्चास्यो नखरायुधः ।महानादः पञ्चशिखः पारीन्द्रः पत्यरी मृगात् ॥ १२८४ ॥श्वेतपिङ्गोऽप्यथ व्याघ्रो द्वीपी शार्दूलचित्रकौ ।चित्रकायः पुण्डरीकस्तरक्षुस्तु मृगादनः ॥ १२८५ ॥
अनुष्टुप्
genderपुंmasc.
पृथौ गृण्डिबलोपाकौ कोकस्त्वीहामृगो वृकः ।अरण्यश्वा मर्कटस्तु कपिः कीशः प्लवंगमः ॥ १२९१ ॥प्लवंगः प्लवगः शाखामृगो हरिर्बलीमुखः ।वनौका वानरोऽथासौ गोलाङ्गूलोऽसिताननः ॥ १२९२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ह (wrong syllable)
genderपुंmasc.
मण्डूके हरिशालूरप्लवभेकप्लवंगमाः ।वर्षाभूः प्लवगः शालुरजिह्वव्यङ्गदर्दुराः ॥ १३५४ ॥स्थले नरादयो ये तु ते जले जलपूर्वकाः ।
अनुष्टुप्
genderपुंmasc.
अरुणो बालसंध्याभः पीतरक्तस्तु पिञ्जरः ।कपिलः पिङ्गलः श्यावः पिशङ्गः कपिशो हरिः ॥ १३९६ ॥बभ्रुः कद्रुः कडारश्च पिङ्गे कृष्णस्तु मेचकः ।स्याद्रामः श्यामलः श्यामः कालो नीलोऽसितः शितिः ॥ १३९७ ॥
अनुष्टुप्
genderविadj.
सर्पः पृदाकुर्भुजगो भुजङ्गोऽहिर्भुजङ्गमः ॥ ६ ॥आशीविषो विषधरश्चक्री व्यालः सरीसृपः ।कुण्डली गूढपाच्चक्षुःश्रवाः काकोदरः फणी ॥ ७ ॥दर्वीकरो दीर्घपृष्ठो दन्दशूको बिलेशयः ।उरगः पन्नगो भोगी जिह्मगः पवनाशनः ॥ ८ ॥लेलिहानो द्विरसनो गोकर्णः कञ्चुकी तथा ।कुम्भीनसः फणधरो हरिर्भोगधरस्तथा ॥
अनुष्टुप्
सर्पपुंपृदाकुपुंभुजगपुंभुजङ्गपुंअहिपुंभुजङ्गमपुंआशीविषपुंविषधरपुंचक्रिन्पुंव्यालपुंसरीसृपपुंकुण्डलिन्पुंगूढपाद्पुंचक्षुःश्रवस्पुंकाकोदरपुंफणिन्पुंदर्वीकरपुंदीर्घपृष्ठपुंदन्दशूकपुंबिलेशयपुंउरगपुंपन्नगपुंभोगिन्पुंजिह्मगपुंपवनाशनपुंलेलिहानपुंद्विरसनपुंगोकर्णपुंकञ्चुकिन्पुंकुम्भीनसपुंफणधरपुंहरिपुंभोगधरपुं
genderपुंmasc.
सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः ।कण्ठीरवो मृगारिपुर्मृगदृष्टिर्मृगाशनः ॥पुण्डरीकः पञ्चनखचित्रकायमृगद्विषः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 रि (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable)
genderपुंmasc.
जनार्दनाधोक्षजवासुदेवं दामोदरं श्रीधरमच्युतं च ।उपेन्द्रमिन्द्रावरजं च बभ्रं हरिं हृषीकेशमुदाहरन्ति ॥ २३ ॥
उपजातिः
genderपुंmasc.
आदित्यः सविता सहस्रकिरणः प्रद्योतनो भास्कर-स्तिग्मांशुस्तरणिस्तथा दिनमणिर्भास्वान्विवस्वान्हरिः ।मार्तण्डस्तपनो विकर्तन इनः पूषा पतङ्गो भगः,सूर्यो गोपतिरर्यमा दिनकरः सूरोंऽशुमाली रविः ॥ ३५ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
इन्द्रो दुश्च्यवनो हरिः सुरपतिः सङ्क्रन्दनो वासवो,वृत्रारिर्बलसूदनः शतमखो वृद्धश्रवाः कौशिकः ।जिष्णुर्वज्रधरः सहस्रनयनो वास्तोष्पतिर्गोपतिः,पर्जन्यो मघवा वृषा हरिहयः प्राचीनबर्हिः स्मृतः ॥ ५२ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
अन्तको धर्मराजश्च यमो दण्डधरो हरिः ।दक्षिणाशापतिः सद्भिः श्राद्धदेवश्च कथ्यते ॥ ७२ ॥
अनुष्टुप्
genderपुंmasc.
नभस्वान्मातरिश्वा च समीरश्च समीरणः ।सदागतिर्गन्धवहो हरिः प्रोक्तो महाबलः ॥ ७६ ॥
अनुष्टुप्
genderपुंmasc.
मातङ्गद्विरदद्विपाः करिगजस्तम्बेरमानेकपाः,कुम्भीकुञ्जरवारणेभरदिनः सामोद्भवः सिन्धुरः ।तुल्यार्थाः कथिता हरिर्मृगपतिः पञ्चाननः केसरी,हर्यक्षो नखरायुधो मृगरिपुः सिंहश्च कण्ठीरवः ॥ २१४ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
बलीमुखो मर्कटको वनौकाः,प्लवङ्गमः स्यात्प्लवगः प्लवङ्गः ।हरिः कपिः कीश इमे च शब्दाः,शाखामृगो वानर इत्यभिन्नाः ॥ २३१ ॥
उपजातिः
genderपुंmasc.
अर्वा गन्धर्वोऽश्वः सप्तिर्वाजी तुरङ्गमस्तुरगः ।तार्क्ष्यो हरिस्तुरङ्गो युयुरुक्तो घोटको हयो वाहः ॥ ४३६ ॥
गीतिः
genderपुंmasc.
मण्डूकः प्लवको भेकः शालूरो दर्दुरो हरिः ।प्लवङ्गमः प्लवगः स्याद्वर्षाभूस्तद्वधूः स्मृता ॥ ६६२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable)
genderपुंmasc.
हरिः कद्रुः कडारश्च पिङ्गलः परिकीर्तितः ।पीतं हारिद्रमाख्यातं श्यावं तु कपिशं स्मृतम् ॥ ७३५ ॥
अनुष्टुप्
genderविadj.
भसितं भस्म भूतिः स्यादग्न्युत्पात उपाहितः ।यमः पितृपतिर्दण्डनाथो दण्डधरो हरिः ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
सिंहो मृगेन्द्रः पञ्चास्यः पारीन्द्रः श्वेतपिङ्गलः ।व्याकीर्णास्यो महानादो मृगपः केसरी हरिः ॥ ३०६ ॥
अनुष्टुप्
genderपुंmasc.
मृगारिमृगराट् सिंहो मृगेन्द्रः केसरी हरी ।नारी स्त्री युवती योषित्कन्या च प्रमदाङ्गना ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
अर्कस्त्रयी तनुर्भानुस्तिग्मांश्रुर्मिहिरो हरिः ॥ ५७ ॥
genderपुंmasc.
राघवो जानकीकान्तो रामो रावणसूदनः ।अग्रजन्मा दाशरथिः साकेतनिलयो हरिः ॥ १२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दा (wrong syllable)
genderपुंmasc.
चूर्णकृद्भाष्यकारः स्याद् हरिर्भर्तृहरिः समौ ।रघुकारः कालिदासो मेधारुद्रस्तु कोटिकृत् ॥ १४० ॥
अनुष्टुप्
genderपुंmasc.
मरुद्रथो वासुदेवस्तार्क्ष्यो वातायनो हरिः ।शालिहोत्रश्चैकशफो दधिक्रा एतशोप्यरुट् ॥ १९२ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 श्चै (wrong syllable)
genderपुंmasc.
वनपर्वतयोरर्थान्निवासार्थोऽष्टपादपि ।उष्ट्राकृतिश्चाथ सिंहः पञ्चास्यः केसरी हरी ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
हर्यक्षः केशरी मानी नखी मृगपतिर्हरिः ।कण्ठीरवः पञ्चशिखः शैलाटो भीमविक्रमः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
उत्तालो वानरः कीशो मर्कटोऽपि बलीमुखः ।हरिः किखिः कपिः शोणो दधिर्वनगृहार्थकः ॥ ४६ ॥
अनुष्टुप्
genderपुंmasc.
स्पर्शनः कः समीरो यः स्पर्शनो मारुतो नभः ।वायुस्ततो मातरिश्वा हरिरात्मा वहश्च वाः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
शच्या अपि च जम्भारिपर्यायो माहिरो हरिः ।स्वराट् संक्रन्दनोऽनुग्रधन्वा पर्थज्ञ इत्ययम् ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
हयंकषो मातलिः स्यादिन्द्रपर्यायसारथिः ।वृषणाश्वावस्य हरी हय उच्चैःश्रवा बिलः ॥ ३२ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 व (wrong syllable)
genderपुंmasc.
अथ स्याच्छ्राद्धदेवार्थो यमः कालोऽन्तको हरिः ।कृतान्तो हर्षणः कङ्को महिषाद्वाहनध्वजः ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
भर्गो भर्ग्यः खण्डपर्शुर्भरुः शङ्कुर्हरिः पुनः ।शंभूः सर्वोऽपि वामः स्याद्गिरिशो नटराडपि ॥ ९८ ॥
अनुष्टुप्
genderपुंmasc.
तिथिप्रणीश्च विश्वप्सा भुवन्युर्विकुसो हरिः ।ग्रहनेमिर्जयन्तोऽपि राजपर्यायको विधुः ॥ १६८ ॥
अनुष्टुप्
genderपुंmasc.
श्यावस्तु कपिशश्चाथ श्वेतरक्तस्तु पाटलः ।धूम्रस्तु धूमलः कृष्णलोहितः कपिशो हरिः ॥ १६६ ॥
अनुष्टुप्
genderविadj.
मिहिरोऽर्कोंशुमानद्रिर्हरिर्हेलिर्विरोचनः ।गौर्द्यौर्भगः पुनस्त्वष्टा ग्रहमुट् किरणः खगः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
श्रीवासो यज्ञपुरुषः सुषेणः पुरुषोत्तमः ।विश्वंभरो विधुर्हंसस्तमोहा विषयी हरिः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
विष्णौ कृष्ण-जनार्द्दनाऽच्युत-हरि-श्रीवत्सलक्ष्माऽजित-श्रीवत्स-क्रतुपूरुषाऽसुररिपु-श्रीश-स्वभू-माधवाः ।वैकुण्ठः पुरुषोत्तमो मुरभिदो विश्वंभरः श्रीधरोगोविन्दो गरुडध्वजो गिरिधरः पीताम्बरः केशवः ॥ १३ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
इन्द्रे शक्र-शचीश-देवऋषभ-स्वाराट्-स्वराधीश्वराजम्भाराति-पुलोमजिन्-नमुचिभित्-सुत्राम-गोत्रारयः ।सुत्रामा बलभित् सहस्रनयनो वास्तोष्पतिर्वासवःस्युर्मेघंकर-मेघवाहन-हरि-प्राचीश-संक्रन्दनाः ॥ ९३ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
कीनाशः शमनो यमः पितृपतिः कालः कृतान्तोऽन्तकःधूमोर्णारम[15b]णो विशीर्णचरणो वैवस्वतो धर्मराट् ।कालिन्दीसहजो दिनेशतनुजो मृत्युर्हरिः प्रेतराट्स्यात्सांज्ञायनिरन्तकृच्च समवर्त्ती दक्षिणाशापतिः ॥ १४३ ॥
शार्दूलविक्रीडितम्metre not read in every line
genderपुंmasc.
सूर्यः स्यादरुणः सहस्रकिरणो भास्वान्विवस्वान्रविर्-भातुर्भानु-दिवाकरौ दिनमणिः प्रद्योतनो भास्करः ।आदित्यः सविताऽर्यमा यमपिता पीतुः पतंगः खगःपारुः पेरुरिनो हरिश्च तपनोऽर्क्कस्तापनः स्वर्मणिः ॥ २८ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
सुधानिधि-कलानिधी [22a] सवन ओषधीशो विधुःवलक्षगु-निशामणी तपस-रोहिणीवल्लभौ ।हिमद्युति-तमोनुदौ कुमुदिनीपतिः पारदोहरिः कुमुदबान्धवो दशहयश्च जैवातृकः ॥ ५८ ॥
पृथ्वीmetre not read in every line
genderपुंmasc.
हरित्पीतरक्तैर्युतः स्यात्पिशङ्गोभवेदेष गोरोचनातुल्यवर्णः ।कदुः कद्रु-बभ्रू हरिः पिङ्गलः स्यात्प्रदीपार्च्चिषा तुल्यवर्णश्च पिङ्गः ॥ ३५ ॥
भुजङ्गप्रयातम्
genderविadj.
कडारः कपिलः पिङ्गः पिशङ्ग-कदु-कद्रवः ।बभ्रुर्हरिः[31] पिङ्गलश्च तुल्यार्था इति केचन ॥ ३६ ॥
अनुष्टुप्
genderविadj.
वर्षाभूः पुंसि मण्डूको हरिर्भेकः प्लवंगमः ।प्लव-शालूर-सालूराजिह्व-प्लवग-दर्दुराः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
सिंहो हरिः पञ्चशिखो मृगेन्द्रो मृगारि-नागारि-नखायुधाः स्युः ।पारीन्द्र-कण्ठीरव-जङ्गमाद्रि-शैलाट-विक्रान्त-सकृत्प्रजाश्च ॥ १ ॥
उपजातिः
genderपुंmasc.
प्लवंगमः पूर्वगामी दुर्मुखश्च वलीमुखः ।शाखामृगो ग्राममृगोऽस्थिभञ्जो मण्डलो हरिः ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
अर्वा तुरंगस्तुरगस्तुरंगमोगन्धर्व-वाहाश्व-हयाश्च घोटकः ।वाजी च मुद्गाशन-वीति-सप्तयस्तार्क्ष्यो हरि-श्रीसुत-सैन्धवा ययीः ॥ ८ ॥
इन्द्रवंशा
genderपुंmasc.
उकनाहः पीतरक्तः कृष्णरक्तोऽथ वा हयः ।शोणः कोकनदाभो यो हरिः सीतच्छविस्तु यः ॥ ३३ ॥
अनुष्टुप्
genderपुंmasc.
लोभ्यो बलाटः प्रथनो हरितस्तु हरिर्मतः ।पीतेऽत्र वसुखण्डीरः प्रवेलो जय इत्यपि ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
मुद्गे तु प्रथनो लोभ्यो बलाटो हरितो हरिः ।पीतेऽस्मिन् वसुखण्डीरप्रवेलजयशारदाः ॥ ३९० ॥
अनुष्टुप्
genderपुंmasc.
अग्नौ पुरोहितः स्वैरी स्वाहानाथो मखी शिखी ।हरिश्च शमने तु स्युरद्रिजक्षुद्रमुद्रकाः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
विष्णुर्हरिर्वनचरो विवाहो विहगध्वजः ।श्रीपर्णनयनः शृङ्गी भारतीमालिकाधरः ॥ ३५ ॥
अनुष्टुप्
genderपुंmasc.
सूर्यः सूरिर्ग्रहधनो हरिदक्षीणलोचनः ।हेलिः किरीटी पद्माप्तो हरिर्वासरवल्लभः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
तेजोमयं मण्डलं स्यान्मूर्तित्रयनिरन्तरम् ।मयूखजन्मजीमूतघनाब्दहरिघोटकाः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
सिंहः सुगन्धिः पारीन्द्रः शार्दूलः श्वेतपिङ्गलः ।कण्ठीरवो महानादो हरिः शार्दूलविक्रमः ॥ ७० ॥
अनुष्टुप्
genderपुंmasc.
घोणी जलप्रियो वज्रदंष्ट्रो वाराहको हरिः ।कामरूपी स्तब्धरोमा पीनस्कन्धस्तलेक्षणः ॥ ७२ ॥
अनुष्टुप्
genderपुंmasc.
माषस्तु मलदो मांसं घरी बीजवरो बली ।मुद्गस्तु प्रथनो लोह्यो बलाङ्गो हरितो हरिः ॥ २०९ ॥
अनुष्टुप्
genderपुंmasc.
तत्पर्य्यायचरो ज्ञेयो हरिर्वलिमुखः कपिः ।वानरः प्लवगश्चैव गोलाङ्गूलोऽथ मर्कटः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
वाहोऽश्वस्तुरगो वाजी हयो धुर्यस्तुरङ्गमःसप्तिरर्वा हरी रथ्यः सप्ताद्यश्वो मयूखवान् ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
तत्पतिः शक्र इन्द्रश्च शुनासीरः शतक्रतुः ।प्राचीनबर्हिः सुत्रामा वज्री चाखण्डलो हरिः ॥ ५७ ॥
अनुष्टुप्
genderपुंmasc.
कृष्णो दामोदरो विष्णुरुपेन्द्रः पुरुषोत्तमः ।केशवश्च हषीकेशः शार्ङ्गी नारायणो हरिः ॥ ७४ ॥
अनुष्टुप्
genderपुंmasc.
नागाद्यरिः कण्ठी(ण्ठि)रवो मृगेन्द्रः केसरी हरिः ।व्याघ्रश्चमूरः शार्दूलः शरभोऽष्टापदोऽष्टपात् ॥ ९० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ण्ठी (wrong syllable)
genderपुंmasc.
जनार्दनो जलशायो वासुदेवोऽप्यधोक्षजः ।दामोदरः शौरिविधुपीताम्बरजिना हरिः ॥ २ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
genderपुंmasc.
हूहूहाहामुखा देवगायनाः कथिता बुधैः ।इन्द्रोऽच्युताग्रजो वज्रो विडौजा मधवान् हरिः ॥ ५४ ॥
अनुष्टुप्
genderपुंmasc.
दक्षिणाशापतिः पितृपतिर्मृत्युहरी पुनः ।यमराजः कृतान्तश्च शीर्णाङ्घ्रिमहिषध्वजौ ॥ ८० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 पि (wrong syllable)
genderपुंmasc.
कृतान्तजनको मित्रसप्तसप्ततिहेलयः ।ध्वान्तारातिर्जगत्कर्मसाक्षी ग्रहपतिर्हरिः ॥ ८८ ॥
अनुष्टुप्
genderपुंmasc.
अर्चिष्मानाश्रयाशोऽपि विश्वप्सा बहुलो हरिः ।तिथः कृपीटयोनिश्च तुत्थो हव्यवहः स्मृतः ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
स्पर्शनश्च हरिः प्रोक्तः पवमानसदागती ।स झञ्झा वृष्टियुक् प्रोक्तः व्यानस्त्वङ्मात्रसंस्थितः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
विटपी पादपश्चाद्रिर्द्रद्रुमौ विष्टरः कुठः ।वसुर्जर्णहरी सालोऽनोकहोऽगोऽपि पुष्पदः ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
सतीनककलायौ तु चणको हरिमन्थकः ।बलाटः प्रथनो लोभ्यो मुद्गस्तु हरितो हरिः ॥ ९० ॥
अनुष्टुप्
genderपुंmasc.
तुरगो घोटको वाजी तुरंगोऽर्वा तुरंगमः ।हयस्तार्क्ष्यो हरिः सप्तिवीती गन्धर्वनामकः ॥ १४६ ॥
अनुष्टुप्
genderपुंmasc.
[42] सिंहः पञ्चाननः श्वेतपिङ्गः कण्ठीरवो हरिः ।महानादस्तथेभारिः पारीन्द्रो नखरायुधः ॥ १८८ ॥
अनुष्टुप्
genderपुंmasc.
शाखामृगो वनौकाश्चारण्यश्वा हरिकीशकौ ।प्लवङ्गः श्यामवक्त्रोऽसौ गोलाङ्गूलो विभाव्यते ॥ १९७ ॥
अनुष्टुप्
genderपुंmasc.
प्लवंगमहरी शालूरो व्यङ्गः कुत्रचित्स्मृतः ।इत्यादयोऽपरे भेदा ज्ञेया ग्रन्थान्तरे स्वयम् ॥ २४९ ॥
अनुष्टुप्
genderपुंmasc.
पिञ्जरः कपिलः पिङ्गपिशङ्गौ कपिशो हरिः ।कडारः श्यावबभ्रू च कद्रुरेतस्तु कर्बुरे ॥ २९१ ॥
अनुष्टुप्
genderविadj.
तरणिर्दमुनाः शोणः कीली शुक्रश्च कीलकः ।हरिरप्पित्तमः शुद्धो बभ्रुरुष्णो भृगुर्विधुः ॥ ८४ ॥
अनुष्टुप्
genderपुंmasc.
उष्णस्त्वष्टा हरिर्हेलिरिनः सूनुश्च गोपतिः ।कुतपः सपु(हु?)रिस्तर्णिर्मिहिरो मण्डली ग्रही ॥ १११ ॥
अनुष्टुप्
genderपुंmasc.
अश्वे तु घोडको वाजी वीतिर्घोटकवाहकौ ।गन्धर्वः सैन्धवः सप्तिः करमः कमलो हरिः ॥ २९४ ॥
अनुष्टुप्
genderपुंmasc.
प्राणत्यागे कालधर्मः पञ्चता प्रलयो लयः ।दिष्टान्तो निधनं मृत्युर्मरणं सदनं हरिः ॥ ४०१ ॥
अनुष्टुप्
genderपुंmasc.
हर्यक्षः केसरी सिंहो हरिः पञ्चाननः सटी ।द्वीपी व्याघ्रो वर्त्तुलाक्षः शार्दूलो मृगमांसभुक् ॥ १२६ ॥
अनुष्टुप्
genderपुंmasc.
गन्धर्वोऽश्वो हरिर्वाजी तुरङ्गः सैन्धवोऽर्कजः ।एणः कुरङ्गो हरिणो मृगः श्वसनवाहनः ॥ १३० ॥
अनुष्टुप्
genderपुंmasc.
हेलिः प्रभाकरादित्यौ द्वादशात्मा नभोमणिः ।हरिः पतङ्गस्तरणिः सहस्रांशुर्विरोचनः ॥ ३०८ ॥
अनुष्टुप्
genderपुंmasc.
हृषीकेशो हरिः शौरिः श्रीवत्साङ्को रमापतिः ।कौमोदकी विष्णुगदा शौरिचक्रं सुदर्शनम् ॥ ३९४ ॥
अनुष्टुप्
genderपुंmasc.
महाराजश्चक्रवर्ती हरिः शौरिः सुरोत्तमः ।लक्ष्मीः पद्मालया पद्मा पद्माप्ता शुभवीक्षणा ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
श्रीपतिः केशवः कृष्णो गोविन्दो माधवोऽच्युतः ।दामोदरो दैत्यरिपुर्विष्णुर्नारायणो हरिः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
प्राचीनबर्हिर्मघवाञ्शतमन्युः सुरर्षभः ।ऋभुक्षा नमुचिद्विट् च वृत्रहा कौशिको हरिः ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.
प्रद्योतनो जगच्चक्षुः कर्मसाक्षी दिवाकरः ।हरिदश्वो हरिर्हेलिर्ब्रध्नो हंसो विकर्तनः ॥ ६३ ॥
अनुष्टुप्
genderपुंmasc.
वातायुः कृष्णसारश्च रुरुमुख्यास्तु तद्भिदः ।सिंहो मृगेन्द्रः पारीन्द्रो हर्यक्षः केसरी हरिः ॥ १५१ ॥
अनुष्टुप्
genderपुंmasc.
सप्तसप्तिर्हरिर्हेलिः तिमिरारिर्विकर्त्तनः ।भास्करश्चित्रभानुश्च भास्वान् मित्रः विभावसुः ॥ ८२ ॥
अनुष्टुप्
genderपुंmasc.
इन्द्रो हरिरुपेन्द्रश्च वज्री दुश्च्यवनो वृषाः ॥ १८२ ॥
अनुष्टुप्
genderपुंmasc.
धर्मराजो महासत्यः शमनो महिषध्वजः ।कीनाशो वै कृतान्तश्च हरिर्दण्डधरस्तथा ॥ २०८ ॥
अनुष्टुप्
genderपुंmasc.
हरिः सौरिः हृषीकेशः शौरिः सोमः स्वभूः स्थिरः ।पुनर्वसुः शतावर्तः शद्रुर्वंशः सुयामुनः ॥ २८६ ॥
अनुष्टुप्
genderपुंmasc.
एतन्नामानि मन्यन्ते माषस्य हि महीतले ।पुनर्मुद्गो बलाटश्च प्रथनो हरितो हरिः ॥ २११२ ॥
अनुष्टुप्
genderपुंmasc.
अश्वः सप्तिर्हयो ह्रेषी हरिर्वहिश्च हंस इति ।अर्वा वाजी तथा किण्वी क्रमणः सिंहविक्रमः ॥ २२३० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
सिंहो हरिश्च हर्यक्षः शृङ्गोष्णीषः सुगन्धिकः ।पञ्चशिखश्च पञ्चास्यः पञ्चनखः पलङ्कषः ॥ २३१८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
मर्कटो वानरश्चैव वनौकाश्च तथा हरिः ।एतन्नामानि मन्यन्ते मर्कटस्य महीतले ॥ २३३५ ॥
अनुष्टुप्
genderपुंmasc.
हरिश्चक्षुःश्रवाश्चक्री कुम्भीनसश्च कञ्चुकी ।जिह्मगो लेलिहानश्च व्याडो व्यालश्च कुण्डली ॥ २३५५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
genderपुंmasc.
मण्डूको दर्दुरो भेकः प्लवगश्च प्लवङ्गमः ।प्लवो व्यङ्गस्तथाऽजिह्वो वर्षाभूश्च हरिः पुनः ॥ २४५८ ॥
अनुष्टुप्
genderपुंmasc.
पिशङ्गः पिङ्गलः पिङ्गः श्यावो बभ्रुस्तथा हरिः ।कडारश्चेति नामानि कथ्यन्ते कपिलस्य वै ॥ २५३६ ॥
अनुष्टुप्
genderपुंmasc.
बास्तोष्पतिः पुलोमारिर्वज्री नमूचीसूदनः ।अर्हः प्राचीनबर्हाः स्याद् वृत्रहाऽऽखण्डलो हरिः ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
समवर्ती शीर्णपादः शमनो भीमनाशनः ।कालोऽन्तकोऽपि यमराट् कङ्को वैवस्वतो हरिः ॥
अनुष्टुप्
genderपुंmasc.
नभस्वान् श्वसनो वातः पवमानः स्वकम्पकः ।अक्षतिः कम्पलक्ष्मा च श्वसी निश्वावको हरिः ॥
अनुष्टुप्
genderपुंmasc.
नक्षत्रेशो रोहिणीशस्तुषारकिरणो हरिः ।हिमद्युतिर्द्विजपतिर्विश्वप्साऽमृतदीधितिः ॥
अनुष्टुप्
genderपुंmasc.
उष्णरश्मिश्चित्रभानुर्भगो मित्रः प्रभाकरः ।ब्रध्नो बृध्नः सहस्रांशुः पद्मिनीवल्लभो हरिः ॥
अनुष्टुप्
genderपुंmasc.
कृष्णलोहितमिश्रस्तु धूम्रो धूमल उच्यते ।कपिलः पिङ्गलः पिङ्गः पिशङ्गः कापिलो हरिः ॥
अनुष्टुप्
genderपुंmasc.
हरिः शटाङ्गो मृगराट् मृगराजो मरुत्प्लवः ।हर्यक्षः केशरी केशी नगौकाः करिदारणः ॥
अनुष्टुप्
genderपुंmasc.
पुनर्वसुर्वररुचिर्गोनर्दीयः पतञ्जलिः ।चूर्णिकृद्भाष्यकारः स्यात् हरिर्भर्तृहरिः स्मृतः ॥
अनुष्टुप्
genderपुंmasc.
राजस्कन्धो हरिद्रान्तः सप्तिरेकशफो हरिः ।अर्वाश्ववीतयः किन्धी नलानञ्च (?) विमानकः ॥
अनुष्टुप्
genderपुंmasc.
तुविर्भुविश्च द्वौ सान्तौ तपनस्तापनो भगः ।भर्गो हरिर्हरिद्भानु-भानू पेरुश्च पारुवत् ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
नान्तौ सुत्रामा सूत्रामा हर्यश्वो हरिमान् हरिः ।बिडोजाः स्यात् बिडौजाश्च सन्तौ वृत्रश्च वृत्रहा ॥ ६० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 मा (wrong syllable)
genderपुंmasc.
हरिश्च, रक्तचन्दने पत्रगं च पतङ्गकम् ।पत्राङ्गं, सौमनसे तु जातिर्जाती फलं तथा ॥ २०१ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 न्द (wrong syllable); pāda 3, syllable 6 न (wrong syllable)
genderपुंmasc.
मुद्गे हरिः सहरितस्तुम्बरस्तु वनोद्भवे ।राजमुद्गे मकुष्टः स्याद् मयुष्ठोऽपि स-ठान्तिमौ ॥ २५४ ॥
अनुष्टुप्
genderपुंmasc.
पीतनीले तु पालाशः पलाशो हरितो हरिः ।लोहितो रोहितो रक्ते, पीतरक्ते तु पिङ्गलः ॥ १७ ॥
अनुष्टुप्
genderविadj.
विष्णुः श्रीपतिरच्युतोऽसुररिपुर्विश्वंभरः केशवोवैकुण्ठः पुरुषोत्तमो मधुरिपुर्नारायणो माधवः ।शार्ङ्गी तार्क्ष्यरथः समुद्रशयनः पीताम्बरः श्रीधर-श्चक्री कैटभजित्सरोजनयनोऽनन्तो मुकुन्दो हरिः ॥ १९ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
वज्रीन्द्रो मघवा वृषा वलरिपुर्वास्तोष्पतिर्वासवःशक्रो जम्भरिपुः सहस्रनयनः संक्रन्दनो वृत्रहा ।सुत्रामा सुरनायकः शतमखो वृद्धश्रवाः कौशिकःस्वाराड्दुश्च्यवनः शचीसहचरो जिष्णुर्मरुत्वान् हरिः ॥ ६६ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
चण्डातको हरिक्षेमौ गणहासश्च राक्षसी ।बहुला चन्द्रबालैला पृथ्वीका निष्कुटी तुटिः ॥ ५३१ ॥
अनुष्टुप्
genderपुंmasc.
सिंहः पञ्चमुखो हरिर्मृगपतिः कण्ठीरवः केसरीहर्यक्षो नखरायुधोऽथ कुठरः स्यादल्पकण्ठीरवः ।सिंहारिः शरभोऽष्टपादथ समाः शार्दूलपिण्डारक-व्याघ्रद्वीपितरक्षुचित्रतनवः स्युः पुण्डरीकोऽप्यमी ॥ ६७६ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
तुरगतुरङ्गतुरङ्गमसैन्धवसप्त्यश्ववाजिवाहहयाः ।गन्धर्ववीतिघोटकहर्यर्वश्रीजहेषिणश्च समाः ॥ ७१९ ॥
गीतिः
genderपुंmasc.
सत्या जयाश्च पितरो वैकुण्ठा हरयोऽजिताः ।मरीचयः सुशर्माणः स्वरूपा अमृतौजसः ॥
अनुष्टुप्
genderपुंmasc.
वामोरुर्मीन(र्मूल)निलय आषाढी कामिको हरिः ।तीव्रश्च तरलो नीलस्त-कारः कीर्त्तितो बुधैः ॥ ३४ ॥
अनुष्टुप्
genderपुंmasc.
महासेनो द्विजिह्वाख्यो हयो भद्रश्च कण्टकः ।द्विबिन्दुकोऽमरेशश्च सोमश्चैव हरिस्तथा ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
वामोरुमूलगो बिन्दुराषाढी कामिको हरिः ।तीव्रश्च तरलो नीलो णान्तस्थादिः त-कारकः ॥ ३४ ॥
अनुष्टुप्
genderपुंmasc.
देवराजरस्तु लः कौशिकोऽसन्महा-बाहुदन्तेयदल्मीवाणोऽद्रिभित् ।वज्रपाणिर्महेन्द्रः सुग्रामणी-र्ग्रामनेमिर्वृषा नाकनाथो हरिः ॥ ५६ ॥
metre not recognised
genderपुंmasc.
उडुपः पर्वधिः क्लेदो जयन्तस्तपसो हरिः ।तारापीडः खचमसो विकसः सिन्धुनन्दनः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
दिनमणिहरिहेलिब्रध्नभाकोषभाभृ-दरथिखगपतङ्गेनाद्रयः सप्तसप्तिः ।मिहिरमहिरपीथाः कालकृत्पद्मपाणिःखमणिररुणशूरावंशुमानंशुमाली ॥ १८ ॥
मालिनी
genderपुंmasc.
चूर्णिकृद्भाष्यकारश्च हरिर्भर्तृहरिः स्मृतः ।रघुकारः कालिदासो मेधारुद्रश्च कोटिजित् ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
लेखस्थानं ग्रन्थकुटी मुद्रा प्रत्ययकारिणी ।यातुर्गन्तुश्च पथिको हरिः पथिकसन्ततिः ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
पूर्वद्वारे गुहहरौ राजश्रोथौ क्रमेण तौ ।द्वितीये तु धर्माधर्मौ तौ खरद्वारिकौ क्रमात् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ध (wrong syllable)
genderपुंmasc.
पद्मनाभो विश्वरूपः कृष्णो हरिरसंपुषः ।कैटभारिर्ब्रह्मनाभो गोविन्दो मधुसूदनः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
कण्ठीरवो मृगरिपुः सुगन्धिर्हरितो हरिः ।हलीक्ष्णस्तृणसिंहः स्यात् कुटरुर्मूगासिंहकः ॥ २ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 गा (wrong syllable)
genderपुंmasc.
किखिः स्त्री क्रोष्टुभेदेऽल्पे पृथौ लोपाशगृण्डिवौ ।वानरो मर्कटः कीशः कपिः शाखामृगो हरिः ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
निषादाद्ब्राह्मणी भेकं क्षत्रिया कालकुण्डकम् ।वैश्या सूचिं हरिं शूद्रा सोऽपि चायोगवः क्वचित् ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
एवमेकादश प्रोक्ता वर्णानां प्रतिलोमजाः ।गोधादिवधबन्धास्तु हरीणां पुल्कसाश्च ते ॥ ८९ ॥
अनुष्टुप्
genderपुंmasc.
पीतस्तु हरियाः पीतहरिते हरिहालकौ ।पीयूषवर्णे सेराहः पंगुलः सितकाचसः ॥ १०४ ॥
अनुष्टुप्
genderपुंmasc.
मुद्गस्तु प्रथनो लोभ्यो बलांगो हरितो हरिः ।पीतेऽस्मिन्वसुखण्डीरप्रवेलजयशारदाः ॥ ३६ ॥
अनुष्टुप्
genderपुंmasc.
दीर्घपृष्ठो विषधरः पन्नगो दृक्श्रवा हरिः ।बिलौका गूढपाच्चक्री नाकुसद्मानिलाशनः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
लोकान्तरे द्विपे वह्नौ हारो मुक्तागणे स्मृतः ।संग्रामेऽथ मतो हीरो रुद्रे वज्रेऽपि कथ्यते ॥ ३७३ ॥
अनुष्टुप्
doubtful
श्रीसिंहे च कपौ शुके हरिहरे चामीकरे भार्गवेचन्द्रेभे कविराजवाजिवहने वंशे यमे पारदे ।नागे वर्णसमीरणेऽपि दहने स्कन्दे च संक्रन्दनेमार्तण्डेऽशनिपन्नगेश्वरदिने खड्गे हरिः कीर्तितः ॥ १२८ ॥
शार्दूलविक्रीडितम्
हंसकोकिलसिंहाश्वकपिभेदेशुकाहिषु ।लोकान्तराग्निकृष्णेषु शिवे ना पिङ्गले त्रिषु ॥हारः पुमानुरोभूषायुद्धमुक्तावलीषु च ।हारि युद्धादि भङ्गेषु स्त्री पान्यसन्ततिवन्धयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
doubtful
निःसपत्ननृपे भिक्षौ हीरः पन्नगसिंहयोः ।विष्णुसिंहार्कचन्द्रेन्द्रयमानिलशुकादिषु ॥ २०२८ ॥
अनुष्टुप्
doubtful
सूनं पुष्पे सुतायां स्त्री स्नेहोऽस्त्री द्रवहार्दयोः ।विष्णुचन्द्रेन्द्रवातार्कयमाश्वांशुशुकाग्निषु ॥ ९९ ॥
अनुष्टुप्
doubtful
हरि as a meaning in nānārtha verses
- धरणिकोश अजद्विजो विप्रेऽण्डजे दन्ते हरेणुपुष्पयोर्द्विजा । अजा हरिहरब्रह्मच्छागा रघुप्तुतोऽप्यजः ॥ Dharaṇikośa 7.2.1
- धरणिकोश अनन्तअनन्ता दूर्वायां भुवि च हरिणीशारिविकयो- रनन्ता नागेशानवधिहरयोऽनन्तमपि खम् । निरस्तो निच्यूते त्वरितवचनं क्षिप्तशरयो- र्निरस्तः संत्यक्ते प्रतिहतबले चापि गदितः ॥ Dharaṇikośa 15.2.60
- धरणिकोश पद्मलाञ्छनपद्मलाञ्छन उद्दिष्टो ब्रह्मा लोकेश्वरो हरिः । स्यात्पद्मलाञ्छना तारा लक्ष्मीः स्यात्पद्मलाञ्छना ॥ Dharaṇikośa 19.3.30
- धरणिकोश वृषाकपिप्रतापस्तेजसि स्वेदे विकल्पौ पक्षसंशयौ । आकल्पः कल्पने वेशे उडुपश्चन्द्रभेलयोः । परिकम्पो भये कम्पे वृषाकपी हरीश्वरौ ॥ Dharaṇikośa 20.1.3
- धरणिकोश केशवलघ्वी रथप्रभेदेऽपि ग्रीवा शिरापि कीर्तिता । क्लीवो निर्विक्रमे शण्ठे केशवः केशवान्हरिः ॥ Dharaṇikośa 28.1.3
- कोषकल्पतरु कञ्जसञ्जो विरिञ्चौ च हरेऽथ कञ्जः । केशे विरिञ्चे[267b]चरमे तु पद्मे- ऽमृतेऽथ कामे च[हरे]हरौ च ॥ २० ॥ Koṣakalpataru 6.7.20
- कोषकल्पतरु अजितअयाचिते स्याच्च घृते सुधायां स्त्रियां गुडूच्यामलकाभयासु । असत्यकृष्योरनृतं हरौ तु प्रोक्तोऽजितो निर्जितकेऽन्यवत्स्यात् ॥ ७० ॥ Koṣakalpataru 6.16.70
- कोषकल्पतरु अनन्तसंनाहेऽतिदृढे गृ[295a]हे च गदितो न स्त्री निवातोऽन्यव- द्वातोनेऽथ हरौ च शेषभुजगेऽनन्तः पुमान्खेऽन्तिमे । दूर्वाभूम्यमृतासु गोपतनयाग्निज्वालिकालाङ्गली- षूक्तः स्त्री खगभेदभासखगमेषूक्तः शकुन्तः पुमान् ॥ १८ ॥ Koṣakalpataru 6.16.18
- कोषकल्पतरु चक्रिन्चक्री हरौ स्याच्छकटे कुलाले ग्रामोद्भवे * ककुभद्रुमे तु । धनुर्धरे पार्थविदग्धयोश्च धन्वी कृती पण्डितयोग्ययोः स्यात् ॥ ७७ ॥ Koṣakalpataru 6.21.77
- कोषकल्पतरु वृषाकपिस्याद्विप्रलापोऽपि विरुद्धवाके ऽपार्थोदिते ना तु वृषाकपिः स्यात् । हरे हरौ च ज्वलनेऽथ कम्पे भये परीकम्पमुशन्ति सन्तः ॥ २० ॥ Koṣakalpataru 6.22.20
- कोषकल्पतरु शम्भुकस्तूरिकायां गदिता स्त्रियां च विभुः शिवे व्यापिनि तु त्रिषु स्यात् । नित्ये प्रभौ ब्रह्मणि तु स्वभूः स्यात् विष्णौ च शंभुस्तु हरे हरौ च ॥ ४५ ॥ Koṣakalpataru 6.24.45
- कोषकल्पतरु श्यामश्यामः प्रयागस्य वटेऽम्बुदे च पिके हरि-चकवल्लरीषु । क्लीबं मरीचे लवणे च कृष्णे स्त्रियां निशासोमलताकणासु ॥ ६१ ॥ Koṣakalpataru 6.25.61
- कोषकल्पतरु बभ्रुव्याघ्रोऽपि र[49b]क्ते उरुबौ स्त्रियां तु निदिग्धिकायां मृगराजजातौ । हरौ हरेऽग्नौ नकुले च वज्रे मुनौ विलासे नरि बभ्रुरुक्तः ॥ ६१ ॥ Koṣakalpataru 6.27.61
- कोषकल्पतरु भरुवज्रे शरे चाथ खरुर्हरे स्या- द्दर्पे च दन्ते तुरगे स्त्रियां तु । पतिंवरायां त्रितये तु पाण्डौ भरुर्हरौ पुंसि हरे च हेम्नि ॥ ६३ ॥ Koṣakalpataru 6.27.63
- कोषकल्पतरु दैत्यारित्वक्पत्रं तु वराङ्गौषधके प्रोक्तं [ स्त्रियां ] च कारव्याम् । दैत्यारिरिन्द्रहर्योर्मुनिपक्षिभिदोस्तु तित्तिरिः [ प्रोक्तः ] । स्यान्मन्दुराश्वशाला … । … भ्यर्णगवेस्त्वर्थका तद्वत् ( ? ) ॥ ७९ ॥ Koṣakalpataru 6.27.79
- नानार्थार्णवसंक्षेप उअथैकाक्षरपुल्लिँङ्गा अकारो विष्णुवेधसोः । कण्ठस्थानस्वरे चाथ स्यादुकारो हरे हरौ ॥ १ ॥ Nānārthārṇavasaṃkṣepa 1.2.1
- नानार्थार्णवसंक्षेप नृस्त्री खे स्वर्गे च दृक् तु स्त्री ज्ञानदर्शनबुद्धिषु । नेत्रे च त्रिषु तु द्रष्टृज्ञात्रोर्नृ द्वे हरे हये ॥ १२ ॥ Nānārthārṇavasaṃkṣepa 1.5.12
- नानार्थार्णवसंक्षेप शम्भुशक्रः कुटजवृक्षे च महेन्द्रेऽप्यथ शम्भुवाक् । हरे हरौ विरिञ्चे च स्यादर्हत्यथ शापवाक् ॥ ११९ ॥ Nānārthārṇavasaṃkṣepa 2.2.119
- नानार्थार्णवसंक्षेप स्रष्टृवनस्पतौ विद्युति च कश्चिद्वणिजि तु द्वयोः । स्रष्टा तु सृष्टिकृन्मात्रे त्रिर्ना हरिविरिञ्चयोः ॥ १४७२ ॥ Nānārthārṇavasaṃkṣepa 2.5.1472
- नानार्थार्णवसंक्षेप अव्यक्तअनिर्जिते पुनस्त्रि स्यादव्यक्तस्तु पुमान् हरौ । परमात्मनि च क्ली तु साङ्ख्यतत्त्वान्तरेऽपि च ॥ ४४ ॥ Nānārthārṇavasaṃkṣepa 4.44
- नानार्थार्णवसंक्षेप नारायणस्याद्रात्रिचरमात्रे च नकूबारस्तु देवरे । पुमान्निराश्रये तु त्रिर्ना तु नारायणो हरौ ॥ ३०० ॥ Nānārthārṇavasaṃkṣepa 6.300
- नानार्थार्णवसंक्षेप वृषाकपिवृषाकपिस्तु पुंसि स्यादग्नौ सूर्ये हरे हरौ । सूक्तस्य विहिसोतोरित्यस्य द्रष्टरि चाप्यृषौ ॥ ५८४ ॥ Nānārthārṇavasaṃkṣepa 6.584
- परमानन्दीयनाममाला अनन्तअनन्तस्तु हरौ शेषबलयोरक्षरं शिवे । परब्रह्मणि धर्मे चाध्वरवर्णनभःस्वपि ॥ २१ ॥ Paramānandīyanāmamālā 5.1.21
- परमानन्दीयनाममाला आत्मयोनिमरुद्व्याधौ तथा व्याध आत्माधीनो विदूषके । प्राणाधारे सुते शाल आत्मयोनिः स्मरे हरे ॥ ५० ॥ Paramānandīyanāmamālā 5.1.50
- परमानन्दीयनाममाला ईशइष्टिर्यागेच्छयोरीशो हरौ शम्भौ क्षमे मतः । ईक्ष्वाकुर्नृपमेदे स्यात्कटुतुम्ब्यामपीरितः ॥ ५९ ॥ Paramānandīyanāmamālā 5.2.59
- परमानन्दीयनाममाला चक्रिन्चर्चा देव्यां च निन्दायां चिन्तायां स्थासकेऽपि च । चक्री कोके कुलालेऽपि सार्वभौमे रथे हरौ ॥ १७९ ॥ Paramānandīyanāmamālā 5.11.179
- परमानन्दीयनाममाला जिष्णुजडस्त्वज्ञे हिमग्रस्ते जनी वध्वां जगच्चरे । जङ्गमेऽप्यथ जिष्णुः स्याज्जयशीले रवौ हरौ ॥ १९५ ॥ Paramānandīyanāmamālā 5.13.195
- परमानन्दीयनाममाला नारायणनारायणो हरौ तालभेदे नारायणी श्रियाम् । नदीकान्तोऽम्बुधौ वृक्षविशेषेऽपि निबध्यते ॥ २७८ ॥ Paramānandīyanāmamālā 5.18.278
- परमानन्दीयनाममाला पाञ्चजन्यपरायणोऽप्यथासक्ते कार्त्स्न्ये पारायणं स्मृतम् । पाञ्चजन्यो हरौ पोटगले शङ्खे हरेरपि ॥ ३१९ ॥ Paramānandīyanāmamālā 5.19.319
- शब्दरत्नावली अजअजो हरिहरब्रह्मछागस्मरनृपेषु च । अब्जो शङ्केऽस्त्रियां नातु धन्वन्तर्यम्बुजेन्दुषु ॥ Śabdaratnāvalī 7.8.2
- शब्दरत्नावली केशटकेशटो भातरि हरौ स्यादजौकणयोरपि । चर्पटः पर्पटे क्षारे चपेटे विपुलेऽपि च ॥ Śabdaratnāvalī 7.11.42
- शब्दरत्नावली स्वामिन्स्वामी पुमान् कार्त्तिकेये प्रभौ विष्णौ हरे हरौ । स्थापन्योषधिभेदे स्त्री क्लीबं सवनरोपणे ॥ Śabdaratnāvalī 7.20.95
- शब्दरत्नावली आत्मयोनिआत्मयोनिः शिवे कामे हरौ च परमेष्ठिनि । उद्वर्त्तनमुत्पतने विलेपे घर्षणेऽपि च ॥ उद्वाहनी भवेद्रज्वां द्विसीत्ये तु नपुंसकम् । उपासनं शराभ्यासे सेवनासनयोरपि ॥ कपीतनश्चलदले गर्दभाण्डे शिरीषके । आम्रातके च पूगे च मालूरेऽपि च कुत्रचित् ॥ कलापी स्यान्मयूरे च प्लक्षभूमिरुहे पुमान् । क्षौमं(?) शुद्धार्द्धजरती विधवादुर्गयोः स्त्रियाम् ॥ कुम्भयोनिर्वशिष्ठे स्याद् द्रोणेऽगस्त्ये पुमानयम् । कुचन्दनं वृक्षभेदे कुङ्कुमे रक्तचन्दने ॥ कुण्डली कुण्डलवति व्याले बर्हिप्रचेतसोः । केशरी सिंहपुन्नागनागकेशरवाजिषु ॥ Śabdaratnāvalī 7.20.105
- शब्दरत्नावली अव्ययअनयो व्यसने दैवे विपत्त्यशुभयोरपि ॥ अत्ययोऽतिक्रमे दोषे विनाशे दण्डकृच्छ्रयोः । अवध्यमवधार्हे स्यादनर्थकवचस्यपि ॥ अव्ययो ना हरौ शब्दभेदेऽस्त्री निर्व्यये त्रिषु । अहार्यः पुंसि शैले स्यादहर्त्तव्येऽभिधेयवत् ॥ अभिख्यानाम्नि शोभायां यशस्याख्यान इत्यपि । अभया स्त्री हरितक्यां वीरणेऽपि च न द्वयोः ॥ निर्भये वाच्यलिङ्गं स्यात्प्रसादेऽपि च कुत्रचित् । अगस्त्यो वङ्गसेनाख्यतरौ कुम्भोद्भवेऽपि च ॥ आशयः स्यादभिप्रायाधारयोः पनसेऽपि च । आत्रेयो ना मुनौ पुष्पवतीनद्योरपि स्त्रियाम् ॥ आम्नायः पुंसि वेदे स्यादुपदेशे कुलक्रमे । उदयस्तून्नतौ दीप्तौ मङ्गले पूर्वपर्वते ॥ उपायः स्यादुपपन्तौ सामभेदादिके पुमान् । ऊर्णायुः क्षणभङ्गे ना मेषे च मेषकम्बले ॥ Śabdaratnāvalī 7.26.38
- शब्दरत्नावली भारीकट्फलायामनन्तायां तथा तिथिभिदि स्त्रियाम् । त्रिषु साधुश्रेष्ठयोः स्यान्नपुंसि करणान्तरे ॥ भारी हरौ वीवधे स्यात्पलानां द्विसहस्रके । भीरुस्त्रिलिङ्ग आगर्ते स्यात् स्त्रियां मेववस्त्रिषु (?) ॥ भूरि क्लीबं काञ्चने स्यात्प्रचुरेऽपि च वाच्यवत् । पुमान् विष्णौ महादेवे परमेष्ठिनि वासवे ॥ Śabdaratnāvalī 7.27.27
- शब्दरत्नावली अक्षरअजिरं प्राङ्गने देहे दर्द्दूरे विषयेऽनिले । अक्षरं न द्वयोर्ब्रह्मवर्णयोर्ना हरे हरौ ॥ Śabdaratnāvalī 7.27.55
- शब्दरत्नावली चक्रधरकालञ्जरो योगिचक्रमेलकाद्रिशिवेषु च । कृष्णसारो मृगस्नुह्योः शिंशपायामपि स्त्रियाम् ॥ गिरिसारस्तु मलये लोहे बङ्गे च कीर्त्यते । चराचरं भवेत्क्लीबं जगति त्रिषु जङ्गमे ॥ चक्रधरो ग्रामजालिभुजङ्गमहरिष्वपि । तोयधरो मेघमुस्तासुनिषम्रौषधीष्वपि ॥ Śabdaratnāvalī 7.27.124
- शब्दरत्नावली विश्वम्भरवातपुत्रो महाधूर्त्ते भीमसेने हनूमति । विश्वम्भरो हरौ शक्ते पृथिव्यामपि च स्त्रियाम् ॥ विश्वकद्रुः खले ध्वाने खेटकुक्कुरयोरपि । विभावरी तु वक्रस्त्री कुट्टानी यामिनीषु च ॥ विवादवस्त्रमुण्ड्याञ्च मौखर्यनिरतस्त्रियाम् । शतपुत्रो मयूरे स्याद्धार्वाघाटे तु सारसे ॥ Śabdaratnāvalī 7.27.144
- शब्दरत्नावली केशकुशा रज्वां कुशं नीरे कुशी फाले कुथेऽस्त्रियाम् । पुमान् रायसुते द्वीपे त्रिषु पापिष्ठमत्तयोः । केशः सुगन्धिबालायां वरुणे कुन्तले हरौ ॥ Śabdaratnāvalī 7.30.4
- शब्दरत्नावली अम्बरीषअम्बरीषो हरे भूपकिशोरमिहिरेषु ना । क्लीबलिङ्गं रणे भाष्ट्रेऽनुतपिनरकेऽस्त्रियाम् ॥ Śabdaratnāvalī 7.31.27
- शब्दरत्नाकर कृष्णकचः केशे जीवपुत्रे कृष्णो नीलेऽनले हरौ । व्यासेऽर्जुने च कृष्णा तु पिप्पली द्रुपदात्मजा ॥ १९०० ॥ Śabdaratnākara 4.1.1900
- शब्दरत्नाकर अनन्तअर्जुनी गवि नद्यां स्यादनूरौ भास्करेऽरुणः । अनन्ता भूरनन्तं खमनन्तो हरिशेषयोः ॥ २०३२ ॥ Śabdaratnākara 4.1.2032
- शब्दरत्नाकर माधवमासे मद्ये हरौ पुष्पसमयेऽपि च माधवः । धुस्तूरे सर्पभेदे च मातृभ्रातरि मातुलः ॥ २१४३ ॥ Śabdaratnākara 4.1.2143
- शब्दरत्नाकर अयुगास्त्रअभिरूपः सुरूपः स्याद्विश्रुते च विचक्षणे । अवदातः सिते शुद्धेऽप्ययुगास्त्रौ हरिस्मरौ । अहिशत्रुः खगाधीशे नकुले नाकनायके ॥ २१९१ ॥ Śabdaratnākara 4.1.2191
- शब्दरत्नाकर लक्ष्मीपतिरजस्वलस्तु महिषे पुष्पवत्यां रजस्वला । लोकपालो नृपेन्द्राद्योः राज्ञि लक्ष्मीपतिर्हरौ ॥ २२२२ ॥ Śabdaratnākara 4.1.2222
- शब्दरत्नाकर विश्वकर्मन्वृषाकपिस्तु वैकुण्ठे हरेऽर्केऽग्नौ विभावसुः । विश्वकर्मा द्युकक्ष्णि स्यादर्यम्णि हरिवातयोः ॥ २२२३ ॥ Śabdaratnākara 4.1.2223
- शब्दरत्नाकर वासुदेववाडवेयोऽश्विनोर्विप्रे वासुदेवो मुनौ हरौ । धर्माध्यक्षे ज्योतिषिके वारवाणिरथो वटे ॥ २२२४ ॥ Śabdaratnākara 4.1.2224
- शब्दरत्नाकर श्रीवत्साङ्कशंकुकर्णौ गर्दभोष्ट्रौ शरभृङ्गौ शिलीमुखौ । श्रीवत्साङ्कौ हरिवृकौ सिंहकाकौ सकृत्प्रजौ ॥ २२२८ ॥ Śabdaratnākara 4.1.2228
- तन्त्राभिधान तत-कारो हरिराख्यात आपटी च वरानने! । थ-कारो देवदेवेशि! कुष्ठो दण्डी च कीर्त्तितः ॥ २० ॥ Tantrābhidhāna 1.20
- तन्त्राभिधान अःअः कण्ठको महासेनः कला पूर्णामृता हरिः । इच्छा भद्रा गणेशश्च रतिर्विद्या सुखं मुखम् ॥ ५३ ॥ Tantrābhidhāna 2.17.53
- तन्त्राभिधान ततः पूतना हरिः(विः) शुद्धिः शक्ती शक्तिर्जटी ध्वजा । वामस्फिग्वामकट्यौ च कामिनी मध्यकर्णकः ॥ १०२ ॥ Tantrābhidhāna 2.33.102
- तन्त्राभिधान लज्ञानिनी वेगिनी नाथः प्रद्युम्नः शोषणो हरिः । विश्वात्म-मन्दौ बलवान् मेरुर्गिरिः कलारसः ॥ १५० ॥ Tantrābhidhāna 2.45.150
- तन्त्राभिधान हलक्ष्मीर्ब्रह्मा हरिः शम्भुः प्राणशक्तिर्ललाटजः । ----------------------------------- स्व(स)कोपवारणः शूली चैतन्यं पादपूरणः ॥ १६५ ॥ Tantrābhidhāna 2.50.165
- तन्त्राभिधान हमहालक्ष्मीः परं नादो मेघनादो हरिर्मनः । बिन्दुर्दुर्गा प्रिया देवी मेघः श्यामेश्वरः पुमान् ॥ १६६ ॥ Tantrābhidhāna 2.50.166
- तन्त्राभिधान स्वाहास्वाहा परा देवभोज्यं ठद्वयं चन्द्रयुग्मकम् । श्रुवो हरिर्देवमाता देवास्यं वह्निसुन्दरी ॥स्वाहा॥ Tantrābhidhāna 2.52.7
- तन्त्राभिधान ङ----------------------------------- दक्षाङ्गुल्यग्रगः शूली क्लीबाख्यश्चैव रुद्रकः । डामरेशो हरिः श्रीमान् रुद्रेशो ङा-र्णकः स्मृतः ॥ २२ ॥ Tantrābhidhāna 6.22
- तन्त्राभिधान ढयाम्यपादाङ्गुली पूर्णोऽप्युमाकान्तस्तथा हरिः । शङ्खनाभिर्दृढं लोहो दाहको ढा-र्णकः स्मृतः ॥ ३१ ॥ Tantrābhidhāna 6.31
- त्रिकाण्डशेष कृष्णकरणं पुसि सङ्कीर्णे कल्याणं काञ्चने शुभे । कृष्णो वर्णे हरौ व्यासे कृष्णं मरिचलोहयोः ॥ १२३ ॥ Trikāṇḍaśeṣa 3.3.123
- त्रिकाण्डशेष धराधरदिगम्बरोऽन्धकारे च वाद्यमेघौ च दर्दुरौ । धात्री भुव्यामलक्याञ्च हरिशैलौ धराधरौ ॥ ३५७ ॥ Trikāṇḍaśeṣa 3.3.357
- त्रिकाण्डशेष माधवमाधवौ हरिवैशाखौ राजीवो मृगमीनयोः । रौरवो घोरनरकौ लवश्छेदनलेशयोः ॥ ४२१ ॥ Trikāṇḍaśeṣa 3.3.421
- त्रिकाण्डशेष अम्बरीषभ्राष्ट्रे युध्यम्बरीषं ना किशोरहरिशम्भुषु ॥ ४३४ ॥ Trikāṇḍaśeṣa 3.3.434
- त्रिकाण्डशेष सिंहराशिभेदे हरौ सिंहः श्रेष्ठार्थे चोत्तरस्थितः । सौहृदै घृततैलादौ स्यात्स्नेहोऽप्यव्ययाः परे ॥ ४६३ ॥ Trikāṇḍaśeṣa 3.3.463
- वैजयन्ती यज्ञमृगस्तु मृगशीर्षेऽपि मोक्षो मृत्यौ मरुद्गिरौ । यन्ता हस्तिपके सूते यज्ञोऽग्न्यात्महरीष्टिषु ॥ ४७ ॥ Vaijayantī 6.1.47
- वैजयन्ती कृष्णशूद्रे काके पिके व्यासे ध्वान्तपक्षेऽर्जुने हरौ । कोशोऽस्त्री कुड्मले दिव्ये शास्त्रेऽर्थौघे गृहे तनौ ॥ १५ ॥ Vaijayantī 6.5.15
- वैजयन्ती शुचिभद्रे चाथोपधा शुद्धसचिवेऽग्नौ हरौ शुचिः । चन्द्रेऽर्के च त्रिषु त्वेष शुद्धेऽनुपहते सिते ॥ ८५ ॥ Vaijayantī 6.5.85
- वैजयन्ती ईशानअप्याकर्षणमाक्षेप आलंभः स्पर्शहिंसयोः । ईशानौ हरिधातारावुत्सेधौ वपुरुन्नती ॥ १० ॥ Vaijayantī 7.1.10
- वैजयन्ती द्रुहिणद्रुहिणौ हरिधातारौ शास्त्रोदाहरणयोस्तु दृष्टान्तः । दोषज्ञौ बुधभिषजौ धरुणाः स्तनधातृलोकार्काः ॥ ३२ ॥ Vaijayantī 7.1.32
- वैजयन्ती अक्षरअक्षरोऽसौ हरौ धातर्यक्षरं प्रणवे विधौ । धर्मे वर्णे तपःक्रत्वोः खे मोक्षे मूलकारणे ॥ ३ ॥ Vaijayantī 7.5.3
- वैजयन्ती पवित्रपौरुषं पल्लवं त्वस्त्री प्रकोष्ठेऽप्यतिविस्तृतौ । पवित्रोऽग्नौ हरौ पूते क्ली तु ताम्रेऽप्सु गोमये ॥ ५८ ॥ Vaijayantī 7.5.58
- वैजयन्ती उच्चैःश्रवस्उपतापौ रुजातापौ द्वारपालेऽप्युदास्थितः । स्नानाचान्त्योरुपस्पर्शो हरावुच्चैः श्रवा हये ॥ १९ ॥ Vaijayantī 8.1.19
- वैजयन्ती लक्ष्मीपतिलक्ष्मीपुत्रोऽश्व आढ्ये च राज्ञि लक्ष्मीपतिर्हरौ । लोकपालो नृपेन्द्राद्योर्हये वातप्रमीर्मृगे ॥ ३८ ॥ Vaijayantī 8.1.38
- वैजयन्ती वासुदेववाडबेयोऽश्विनोर्विप्रे वासुदेवो हये हरौ । विश्वगोप्ता हरौ शक्रे चन्द्रेऽर्केऽग्नौ विभावसुः ॥ ३९ ॥ Vaijayantī 8.1.39
- वैजयन्ती श्रीवत्सांकश्रीवत्सांकौ हरिवृकौ सिंहकाकौ सकृत्प्रजौ । सहसानुर्मयूरेऽहौ संप्रयोगो रतेऽन्वये ॥ ४५ ॥ Vaijayantī 8.1.45
- वैजयन्ती अपराजितवर्णमात्रेऽभिनिष्ठानो हरीशावपराजितौ । आशुशुक्षणिरर्केऽग्नौ यज्वन्यप्यासुतीवलः ॥ ५० ॥ Vaijayantī 8.1.50
- वैजयन्ती नारायणदुरोदरं नपुं द्यूते पणे द्यूतकरे तु ना । नारायणी शतावर्यां लक्ष्म्यां गौर्यां च ना हरौ ॥ १० ॥ Vaijayantī 8.5.10
- वैजयन्ती महावीरवज्रेऽश्वे तनये हंसे शूरेऽग्नौ प्रवरे हरौ । राजादनं प्रियाले ना क्षीरिकायां पलाशके ॥ २१ ॥ Vaijayantī 8.5.21
- वैजयन्ती विश्वंभरवारवाणं तु कूर्पासे कवचेऽपि च न स्त्रियाम् । विश्वंभरा धरित्री स्यादग्नौ विश्वंभरो हरौ ॥ २२ ॥ Vaijayantī 8.5.22
- वैजयन्ती भगवत्भगवत्युमा भगवान् बुद्धे पूज्ये हरे हरौ । भोगी ग्रामाद्यधिकृते सर्पे सुखिमहीभुजोः ॥ ३१ ॥ Vaijayantī 8.5.31