परम्
paramअ · indecl.In 2 kośas: 2 synonym verses, 1 as a nānārtha head word.
अस्वीकारेऽन्यथाकारं पुनः सिद्धाप्रयोजने ।प्रकर्षे तु प्रकामं स्यात्तथैव बलवत्सुकम् ।सुसुष्ठ्वतीव किमुत भूयोऽत्यन्तं भृशं परम् ॥ ७ ॥
अनुष्टुप्
genderअindecl.
ओमभ्युपगमे प्रोक्तं परमं परमित्यपि ।कच्चिदिच्छासमाख्याने प्रागतीतार्थकं भवेत् ॥
अनुष्टुप्
genderअindecl.
किमु सम्भावनायाञ्च विमर्षविदितार्थयोः ।तात्मकोपे स्मृतौ विस्मयकुत्सयोः ।प्राकाम्ये च विकल्पे च सम्भावनाप्रसिद्धयोः ।शं कल्याणे सुखे शस्ते शास्त्रेऽपि च निगद्यते ॥सं समार्थे प्रकृष्टार्थे सङ्गतेशोभयेऽपि च ।हं कोपोक्त्यामनुनये सामित्वर्द्धार्थनिन्दयोः ॥हुं दूरीकरणे स्मृत्यामसूयाप्रश्नयोरपि ।हूं प्रश्ने च वितर्के च त्वसकृत्क्राधतर्जने ॥एवमङ्गीकृते वार्थप्रकारेष्वषधारणे ।अलं निष्कारणे शक्तौ भूषणे च निरर्थके ॥अङ्गीकारे च पर्याप्तौ प्रश्ने परकृतावपि ।कथं प्रश्ने प्रकारार्थे सम्भ्रमे हर्षगर्हयोः ॥कामं प्रकामेऽनुगतौ क्रोधानुगमयोरपि ।नूनं तर्के स्मृतौ वाक्यपूरणे निश्चितेऽपि च ॥परं नियोगे क्षेपे च प्राध्वं नम्रानुकूलयोः ।सत्यं प्रश्नेऽभ्युपगमेऽवश्यन्तु नित्ययत्नयोः ॥अभीक्ष्णं वारवारार्थे शीघ्रप्रकर्षयोरपि ।इदानीं सम्प्रतीत्यर्थवाक्यभूषणयोरपि ॥तद्दिनं दिनमध्येतु प्रतिवासर इत्यपि ।साम्प्रतञ्चापि योग्यार्थे सम्प्रतीत्यर्थ इत्यपि ॥भृशं प्रकर्षे चार्थे च मुहुरर्थे च शोभने ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 न्तु (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)