All kośas › Śabdaratnāvalī
शब्दरत्नावली Śabdaratnāvalī
4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)
अव्ययवर्गप्रकाशः · नानार्थवर्गः
अथाव्ययनानार्थाश्च कियन्तः कथिता परे ।
8.1.1 · p. 300
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ना (wrong syllable)
आ समुच्चयवाक्यानुकम्पाप्रगृह्यनिर्णये ।
8.1.3 · p. 300
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)
ई विषादे समुत्त्रासे तथानुकम्पनेऽपि च ।
8.1.5 · p. 300
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नु (wrong syllable)
ऊ वाक्यारम्भरक्षाकम्पनेषु च कीर्त्यते ।
8.1.7 · p. 300
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 रि (wrong syllable)
ऐ स्यात्सम्बोधनाह्वानस्मरणेष्वपि शोचने ।
8.1.11 · p. 300
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ध (wrong syllable)
धिक् भर्त्सने च निन्दायां मनाक् स्यादल्पमन्दयोः ।हिरुक् विनार्थे मध्यार्थेऽप्यमार्थे च दृश्यते ॥
8.1.15 · p. 300
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ना (syllables merged)
चात्योन्यार्थे समाहारेऽन्वाचये पादपूरणे ।समुच्चये च निर्द्वन्द्वे पक्षान्तरेऽवधारणे ॥किञ्च पक्षान्तरारम्भसाकल्यपूर्वदूषणे ।प्राक् पूर्वानन्तराग्रेषु प्रभावातीतयोरपि ॥दिग्देशकालभेदेषु क्रमप्राप्तावपि स्मृतम् ।तिर्यक् तिरोऽर्थे वक्रार्थे विरुद्धार्थेऽपि दृश्यते ॥ननु च प्रश्नदुष्टोक्तयोः सम्यग्दृढप्रतिज्ञयोः ॥
8.1.18 · p. 300
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्त (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 ल्य (wrong syllable)
नञभावे निषेधे च स्वरूपार्थे व्यतिक्रमे ।ईषदर्थे च सादृश्ये तद्विरुद्धतदर्थयोः ॥
8.1.19 · p. 300
अनुष्टुप्
सुष्ठु प्रशंसनेऽत्यर्थे दुष्ठु निन्दाप्रशंसयोः ।अपष्ठु शोभनार्थे स्यान्निरवद्ये च तद्भवेत् ॥
8.1.20 · p. 300
अनुष्टुप्
अन्तरेण विनार्थे स्यान्मध्यार्थेऽपि क्वचिद्भवेत् ।
8.1.21 · p. 300
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च्च (wrong syllable)
पक्षान्तरे नियोगे च प्रशंसायां विनिग्रहे ।अस्तु प्रकर्षे पीडायां प्रशंसायाञ्च लङ्घने ॥असम्प्रत्यभ्यनुज्ञानेऽधिक्षेपासूययोरपि ।इति प्रकरणे हेतौ परकृत्यनुकर्षयोः ॥
8.1.23 · p. 300
अनुष्टुप्
निदर्शनसमाप्त्योश्च प्रकारे च प्रकाशने ।उत प्रश्ने वितर्के च विकल्पे पादपूरणे ॥
8.1.24 · p. 301
अनुष्टुप्
उत्प्रश्नात्यर्थतर्केषु सन्देहेऽपि च कुत्रचित् ।चित्पक्षान्तरसाकल्यप्रशंसाकुत्सितेषु च ॥
8.1.25 · p. 301
अनुष्टुप्
जात्वसम्भावितार्थे च गर्हा कदाचिदर्थयोः ।निद्विकल्पे निषेधे च प्रतिज्ञालङ्घनेऽपि च ॥प्रति प्रतिनिधौ वीप्सेत्थम्भूताख्यानलक्षणे ।प्रतिदाने चाभिमुख्ये स्वभावमात्रयोरपि ॥हन्त हर्षार्त्तिवादेषु वाक्यारम्भे च सम्भ्रमे ।पश्यत स्यात्प्रशंसायां विस्मयाक्षेपभाषणे ॥बत हर्षामन्त्रणयोः खेदानुक्रोशविस्मये ।स्वस्ति स्यान्मङ्गलाशसापुण्यसन्तोषणेषु च ॥
8.1.26 · p. 301
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 5 म (wrong syllable); pāda 3, syllable 7 श (wrong syllable)
अस्ति सम्भाषणे सत्ये विद्यमानेऽन्तिकेऽपि च ।स्वित्पादपूरणे तर्के दूषणाख्यानयोरपि ॥
8.1.27 · p. 301
अनुष्टुप्
आराद्दूरे समीपे च तथाभ्यन्तरगाढयोः ।स्यात्कच्चिन्मङ्गले प्रश्ने हर्षे कामप्रवेदने ॥पश्चात्प्रतीच्याञ्चरमे त्वधिकारे च दृश्यते ।यदुत्प्रश्ने वितर्के च प्रकारार्थोपमानयोः ॥
8.1.28 · p. 301
अनुष्टुप्
अनु प्रश्ने पुराकल्पे परिवेदनचिन्तयोः ।सकृत्स्यादेकवारार्थे सहार्थपुनरर्थयोः ॥
8.1.32 · p. 301
अनुष्टुप्
अहो बतानुकम्पायां खेदे सम्बोधनेऽपि च ।पुरस्तात्प्रथमेऽवाच्यामग्रे चाल्पपुरार्थयोः ॥
8.1.33 · p. 301
अनुष्टुप्
अथो अथ समारम्भे सत्ये कल्याणकार्स्त्थयोः ।विकल्पानन्तरप्रश्नेष्वधिकारे समुच्चये ॥
8.1.34 · p. 301
अनुष्टुप्
यथा तुल्येऽनुमाने च प्रशंसायामपीष्यते ।वृथा निष्कारणे व्यर्थे तथा निष्फलचालने ॥अव्यथा वितथे दुष्टे भिन्नार्थेऽपि निगद्यते ।सर्वथा तु प्रतिज्ञायां भृशे हेतौ च कीर्त्यते ॥
8.1.36 · p. 301
अनुष्टुप्
तदप्रकाशे विभागे च शक्तौ प्राधान्यबन्धयोः ।भावे मोक्षे च लाभे च स्यादाबद्धोर्द्ध्वकर्मणोः (?) ॥यद्गर्हायामधृतौ च हेतावपि निगद्यते ।यदि स्यात्तु विगर्हायां विकल्पे विस्मयेपि च ॥
8.1.37 · p. 302
अनुष्टुप्metre not read in every linenearly अनुष्टुप्nearly अनुष्टुप्: pāda 1, syllable 6 धृ (wrong syllable)
न निषेधे तूपमायां शिरश्चालन इत्यपि ॥नि सामीप्ये निवेशेऽतिशये दाने च संशये ।नित्यार्थे कोशले क्षेपे बन्धेऽन्तर्भावमोक्षयोः ॥आश्रये राश्यधोभावविन्यासोयरमेष्वपि ।नु प्रश्नातीततर्कानुनयोपमानहेतुषु ॥
8.1.39 · p. 302
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
अनु लक्षणसादृश्यपश्चादर्थेष्वनुक्रमे ।वीप्सा सहार्थभागार्थभूतेष्वाख्यासमीपयोः ॥
8.1.40 · p. 302
अनुष्टुप्
इनायासपराक्रान्ते किन्नु प्रश्नवितर्कयोः ।चन पक्षान्तरे कार्त्स्न्ये विस्मये च निगद्यते ॥
8.1.41 · p. 302
अनुष्टुप्
ननु प्रश्ने परकृतावधिकारे विनिग्रहे ।सम्भ्रमानुनयानुज्ञागमन्त्रणेषु … ॥
8.1.42 · p. 302
अनुष्टुप्metre not read in every line
नानाविनार्थानेकार्थोभयार्थेषु च दृश्यते ।स्थाने योग्ये कारणार्थे सादृश्यसत्ययोरपि ॥
8.1.43 · p. 302
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्य (wrong syllable)
अप चौर्ये च निर्देशे विकृतौ च विपर्यये ।विनियोगे वर्जनार्थे हर्षापकृष्टयोरपि ॥अपि सम्भावनाशङ्काप्रश्नगर्हासमुच्चये ।कामचारक्रियायुक्तपदार्थे च निगद्यते ॥उप दाक्षिण्यसामर्थ्यहीवात्मय … ।अधिकार्थे समीपे च दाषाख्याननिदर्शने ।आश्चर्यकरणे दाने मारणे व्याप्तिलिप्सयोः ॥उपमारम्भपूजासु भवेदुद्योग इत्यपि ।
8.1.44 · p. 302
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 5 र्थे (wrong syllable)
व स्यादेकार्थे श्रेष्ठार्थे वरुणार्थे त्वनव्ययम् ॥वा स्यात्समुच्चयैवार्थविकल्पार्थोपमासु च ॥
8.1.45 · p. 302
अनुष्टुप्metre not read in every line
वि स्याद्विगतनानार्थश्रेष्ठार्थेषु समुच्चये ।वै पादपूरणे सत्यानुनयामन्त्रणेषु च ॥
8.1.46 · p. 302
अनुष्टुप्
अभीत्थम्भूतवीप्साभिमुख्याभिलाषसन्धिषु ।
8.1.47 · p. 302
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 भि (wrong syllable)
मा विकल्पे वारणे स्यात्स्मातीते पादपूरणे ॥मा स्म स्यान्मङ्गले तथ्ये वारणेऽन्यकृतावपि ।अमासहार्थे रश्म्यर्थे निकरार्थे रसार्थके ॥अज्ञाते विस्मये स्मृत्यामुद्यमार्थे निगद्यते ।उं प्रश्ने चाभ्युपगमे क्रोधे च कोपगर्जिते ॥ऊं पृच्छायामपक्रोशे रोषोक्तौ दम्भभाषिते ।उमङ्गीकारकल्याणप्रणवोपक्रताह्वये ॥
8.1.48 · p. 302
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
कं पादपूरणे नीरे मस्तके मङ्गले सुखे ।किं निषेधे वितर्के च सन्देहे प्रश्नकृत्स्न्योः ॥
8.1.49 · p. 303
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
किमु सम्भावनायाञ्च विमर्षविदितार्थयोः ।तात्मकोपे स्मृतौ विस्मयकुत्सयोः ।प्राकाम्ये च विकल्पे च सम्भावनाप्रसिद्धयोः ।शं कल्याणे सुखे शस्ते शास्त्रेऽपि च निगद्यते ॥सं समार्थे प्रकृष्टार्थे सङ्गतेशोभयेऽपि च ।हं कोपोक्त्यामनुनये सामित्वर्द्धार्थनिन्दयोः ॥हुं दूरीकरणे स्मृत्यामसूयाप्रश्नयोरपि ।हूं प्रश्ने च वितर्के च त्वसकृत्क्राधतर्जने ॥एवमङ्गीकृते वार्थप्रकारेष्वषधारणे ।अलं निष्कारणे शक्तौ भूषणे च निरर्थके ॥अङ्गीकारे च पर्याप्तौ प्रश्ने परकृतावपि ।कथं प्रश्ने प्रकारार्थे सम्भ्रमे हर्षगर्हयोः ॥कामं प्रकामेऽनुगतौ क्रोधानुगमयोरपि ।नूनं तर्के स्मृतौ वाक्यपूरणे निश्चितेऽपि च ॥परं नियोगे क्षेपे च प्राध्वं नम्रानुकूलयोः ।सत्यं प्रश्नेऽभ्युपगमेऽवश्यन्तु नित्ययत्नयोः ॥अभीक्ष्णं वारवारार्थे शीघ्रप्रकर्षयोरपि ।इदानीं सम्प्रतीत्यर्थवाक्यभूषणयोरपि ॥तद्दिनं दिनमध्येतु प्रतिवासर इत्यपि ।साम्प्रतञ्चापि योग्यार्थे सम्प्रतीत्यर्थ इत्यपि ॥भृशं प्रकर्षे चार्थे च मुहुरर्थे च शोभने ।
8.1.50 · p. 303
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 न्तु (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)
किमु=सम्भावनाविमर्षविदितार्थशम्=कल्याणसुखशस्तशास्त्रसम्=समार्थप्रकृष्टार्थसङ्गतशोभाहम्=कोपोक्तिअनुनयसामित्वऋद्ध्यर्थनिन्दाहुम्=दूरीकरणअसूयाप्रश्नहूम्=वितर्कअसकृत्क्रोधतर्जनएवम्=अङ्गीकृतअर्थप्रकारअवधारणअलम्=निष्कारणशक्तिभूषणनिरर्थकअङ्गीकारपर्याप्तिपरकृतिकथम्=प्रकारार्थसम्भ्रमहर्षगर्हाकामम्=प्रकामअनुगतिअनुगमनूनम्=तर्कवाक्यपूरणनिश्चितपरम्=नियोगक्षेपप्राध्वम्=नम्रअनुकूलसत्यम्=अभ्युपगमअवश्यम्=नित्ययत्नअभीक्ष्णम्=वारवारार्थशीघ्रप्रकर्षइदानीम्=सम्प्रतीत्यर्थवाक्यभूषणतद्दिनम्=दिनमध्यप्रतिवासरसाम्प्रतम्=योग्यार्थभृशम्=चार्थमुहुरर्थशोभनआत्मकोपस्मृतिविस्मयकुत्साप्राकाम्यविकल्पप्रसिद्धि
अयि सम्बोधने सानुनयप्रश्नानुरागयोः ॥अये विषादे क्रोधे च स्मृतौ सम्बोधनेऽपि च ।पश्य प्रशंसास्मययोर्दिष्ट्या मङ्गलहर्षयोः ॥समया निकटे मध्ये कालविज्ञायनेऽपि च ।
8.1.51 · p. 303
अनुष्टुप्
प्र प्रकर्षे गताद्यर्थे अरे सम्बोधने क्रुधि ॥उर्य्युरी चोररी च स्याद्विस्तारेऽङ्गीकृतावपि ।दुर्निषेधे च दुःखे च निर्निषेधे च निश्चये ॥परि स्यात्सर्वतीभावभागवर्जनदूषणे ।व्याप्ति वीप्सालक्षणेत्थम्भूतदोषप्रकाशने ॥
8.1.52 · p. 303
अनुष्टुप्
आलिङ्गने निरसने पूजा सन्तोषभाषणे ।परा प्राधान्यमोक्षाभिमुख्यविक्रमहर्षणे ॥प्रातिलोम्ये भृशार्थे च तथा गतिवधार्थयोः ।पुरा पुराणे निकटे प्रबन्धातीतभाविषु ॥स्वराकाशे शोभने च स्वर्गेऽपि च भावान्तरे ॥
8.1.53 · p. 304
अनुष्टुप्
अन्तरङ्गीकृतौ मध्ये व्यवधानेऽपि दृश्यते ।अन्तरा तु विनार्थे स्यात्समीपमध्योरपि ॥प्रादुः प्राकाश्यसम्भाव्यवृत्तिष्वपि निगद्यते ।पुनरप्रथमे भेदे पक्षान्तराधिकारयोः ॥
8.1.54 · p. 304
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 4 म (syllables merged)nearly अनुष्टुप्: pāda 2, syllable 3 न्त (wrong syllable)
किल सम्भाव्यवार्त्तानुनयनिश्चिततुष्टिषु ।खलु निश्चितजिज्ञासापदवाक्यादिपूरणे ॥हेतावसहने गत्यां विशेषे च निगद्यते ॥
8.1.55 · p. 304
अनुष्टुप्
ऊषा रात्रौ च रात्र्यन्ते दोषा रात्रौ निशामुखे ।मंक्षु शीघ्रातिशययोर्निकर्षान्तिकमध्ययोः ॥
8.1.58 · p. 304
अनुष्टुप्
सु भृशार्थे चानुमतौ समृद्धिपूजयोरपि ।आः पीडायां स्मृतौ कोपे साटोपतर्जनेऽपि च ॥इः कोपेऽपि च सन्तापे दुःखभावनयोरपि ।निः साकल्ये चोभयार्थे निषेधे निश्चयेऽपि च ॥दुः गतौ दूषणेऽपि स्याल्लज्जासम्भावनेऽपि च ॥
8.1.59 · p. 304
metre not recognised
भोः स्यात्सम्बोधने प्रश्ने विषादेऽपि निगद्यते ।अञ्जसा च द्रुते तत्त्वे निरस्त्वर्द्धिवक्रयोः ॥नीचैः स्वच्छन्दाल्पयोः स्यात्पुरश्च प्रथमाग्रयोः ।पूर्वेद्युः प्रातःसमये धर्मादौ पूर्ववासरे ॥पतस्ततः प्रभृतयस्तूहनीयाः प्रयोगताः ॥
8.1.60 · p. 304
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
ह पादपूरणे कुत्सानियोगक्षेपनिग्रहे ।हा विषादे शोककुत्सादुःखार्थेषु निगद्यते ।हि सम्भ्रमासूययोः स्यात्पादपूरणशोकयोः ॥
8.1.61 · p. 304
अनुष्टुप्metre not read in every line
ही विस्मये विषादे च दुःखहेतुशुचोरपि ।हे च सम्बोधनाह्वानासूयादम्भादरेषु च ॥
8.1.62 · p. 304
अनुष्टुप्
अह कोपे प्रशंसायां नियोगे च विनिग्रहे ।अहो धिगर्थे शोके च करुणार्थविषादयोः ॥सम्बोधने प्रशंसायामाश्चर्ये पादपूरणे ।असूयायां वितर्के च खेदाख्याने निगद्यते ॥
8.1.64 · p. 305
अनुष्टुप्
आहो प्रश्ने विचारे च उताह प्रश्नचिन्तयोः ।सह साकल्य-सामर्थ्य-विद्यमान-समृद्धिषु ॥सम्बन्धे यौगपद्ये च साहाय्ये च निगद्यते ।हीही हास्ये विस्मये च हेहै सम्बोधनाख्ययोः ॥
8.1.66 · p. 305
अनुष्टुप्
हं सम्बोधने च दर्पे च दम्भप्रश्ने च कीर्त्यते ।अहह स्यात्परिक्लेशखेदेऽद्भुतप्रहर्षयोः ।
8.1.67 · p. 305
अनुष्टुप्metre not read in every line