All kośas › Śabdaratnāvalī
शब्दरत्नावली Śabdaratnāvalī
4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)
अव्ययवर्गप्रकाशः · एकार्थवर्गः
इत्यनेकार्थवर्गः ॥
अथ चिरं चिरेण स्याच्चिराय चिरतश्चिरात् ।चिरस्य चिररात्राय दीर्घकालार्थका इमे ॥
8.2.1 · p. 305
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 चि (wrong syllable)
वारंवारं मुहुः शश्वदसकृच्च पुनः पुनः ।वारं वारेण वा भीक्ष्ण्यं पौनःपुन्यं प्रतीक्षणम् ॥
8.2.2 · p. 305
अनुष्टुप्
स्यात्सपद्यञ्जसाह्नाय मङ्क्षुद्राक्झटिति द्रुते ।अत्यर्थे बलवत्सुष्ठु किमुतातिस्वतीव च ॥
8.2.3 · p. 305
अनुष्टुप्
नाना विनाऽन्तरेणार्ते हिरुक् पृथक् च बद्धने ।अन्तरेण च मध्यार्थे हिरुक् सामीप्यमध्ययोः ॥
8.2.4 · p. 305
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पृ (wrong syllable)
असाकल्ये चिच्चन स्याद्धेतौ यत्तद्यतस्ततः ।कदाचिज्जात्पनित्ये स्याद् व्यर्थार्थे तु मृषा वृथा ॥
8.2.5 · p. 305
अनुष्टुप्
तु हि च स्म हवै षट्कं श्लोकानां पादपूरणे ।अहो आहो उताहो किं किमुत च वितर्कणे ॥
8.2.8 · p. 305
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 मु (wrong syllable)
दोषा नक्तं रजन्यां स्यादहनीत्यर्थे भवेद्दिवा ।हं हो रे रेऽङ्ग पाट्प्याट् हे है भोः सम्बोधवाचकाः ॥
8.2.9 · p. 305
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 दह (syllable split)
तिरः साचि तिर्यगर्थेऽभीक्ष्यां शश्वन्निरन्तरे ।सामीप्ये चैव मध्यार्थे समया निकषा हि रुक् ॥
8.2.10 · p. 305
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 चि (wrong syllable)
अकस्मात्सहसा चेतिद्वयमेतदर्किते ।पुरः पुराग्रे पुरतोऽग्रताद्यसमक्षयोः ॥
8.2.11 · p. 305
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 ग्रे (syllables merged)
स्वाहा स्वधा वषट् वौषट् श्रोषट् दावे दिवौकसाम् ।मनाक् किञ्चिदीषदल्पे स्यादहो ही च विस्मये ॥जन्मान्तरेऽपि च प्रेत्यामुत्र चेति द्वयं भवेत् ।साम्ये यथा तथा चैवं वद्वा स्यादेव चेत्यपि ॥स्थाने च साम्प्रतं युक्ते सद्यः सपदि तत्क्षणे ।शं जोषमुपजोषञ्च शुभं दिष्ट्याभिनन्दने ॥भवेन्मध्ये च त्रितयं अन्तरेणान्तरान्तरे ।प्रसह्य तु बलात्कारे भवेत्पक्षान्तरे यदि ॥निषेधे मास्म मालं स्यादभावे नह्यनो नना ।अद्धाऽञ्जसा च सत्ये स्यात्प्रासाद्धवाचिः (?) प्रकाशिते ॥
8.2.12 · p. 306
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ञ्चि (wrong syllable)nearly अनुष्टुप्
ओमभ्युपगमे प्रोक्तं परमं परमित्यपि ।कच्चिदिच्छासमाख्याने प्रागतीतार्थकं भवेत् ॥
8.2.13 · p. 306
अनुष्टुप्
असत्ये तु मृषा मिथ्या यथार्थन्तु यथायथम् ।दुःषमं निःषमं गर्ह्ये अवश्यं न्यूनन्तु निश्चिते ।पुनरेव तु वै वो च षट्कं स्यादवधारणे ॥
8.2.14 · p. 306
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
आत्मनार्थे स्वयं …संवसेऽर्वागधरेऽपि च ।आमेवं स्यादवगतौ नीचैरल्पेऽद्रुते शनैः ।प्रायो भूम्नि महत्युच्चैरहे वीर्येऽपि सान्त्वने ॥
8.2.15 · p. 306
अनुष्टुप्metre not read in every line
उं प्रश्ने च रोषोक्तावूं सदा नित्ये नतौ नमः ।हूं तर्के विद्यमावेऽस्ति स्मातीते विकषान्तिके ॥
8.2.16 · p. 306
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रो (wrong syllable)
पुनरर्थेऽङ्गरात्र्यन्ते स्यादुषांस्तमदर्शने ।सायं साये प्रशंसायां सुष्ठु स्यात् दुष्ठु निन्दिते ॥
8.2.17 · p. 306
अनुष्टुप्
प्रगे प्रातः प्रभाते स्यात् त्वन्मदर्थेऽसि चास्मि च ।पूर्वे वर्षे परुत् पूर्वतरे वर्षे परारि च ॥
8.2.18 · p. 306
अनुष्टुप्
अस्मिन् वर्षे ऐषमः स्यादस्मिन्नहनि अद्यवैः ।एवं पूर्वेह्नि पूर्वेद्युरुत्तरेद्युस्तथोत्तरे ॥
8.2.19 · p. 306
अनुष्टुप्
अपरस्मिन्नपरेद्युरधरेद्युश्च तादृशः ।अन्यस्मिन्नह्नि चान्येद्युरेवमन्यतरेद्यवि ॥तथाचान्यतरेद्युः स्यादितरेद्युश्च तादृशः ।उभयद्युश्चोभयेद्युः परेऽहनि परेद्यवि ॥अतीते हयो भाविनि श्वः परश्वः श्वः परेदिने ॥
8.2.20 · p. 306
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 प (wrong syllable)
इत्थमेतर्हि युगपत्कथं सम्प्रति साम्प्रतम् ।इदानीमधुना क्वेह कदा सर्वत्र सर्वदा ॥
8.2.21 · p. 306
अनुष्टुप्
सदा तदा तदानीञ्च किन्तरां किन्तमामिति ।पूर्वादौ प्रागुदक्प्रत्यक् ज्ञेया दिग्वेशकालतः ॥
8.2.22 · p. 307
अनुष्टुप्
प्रथमा सप्तमी पञ्चभ्यन्तादिलोपतः… ।तथाच पूर्वाधरयोस्तातौ च पुराधावपि ॥
8.2.23 · p. 307
metre not recognised
स्यात्पुरस्तादधस्ताच्च रिष्टातिरूर्द्धशब्दतः ।एतस्मिन्नुपभावे स्याद् उपरिष्टादुदाहृतम् ॥
8.2.24 · p. 307
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ति (wrong syllable)
भवेदपितु किन्वर्थेऽणहात्युच्चैरिति स्मृतम् ।अरे विकारसम्बोधे अररे त्वरयान्विते ॥
8.2.25 · p. 307
अनुष्टुप्
अथ किं स्यादनुमतौ स्नेहेतु वापु-वापुरे ।अले पिशाचीभाषायाम् अलेले अललेऽपि ॥
8.2.26 · p. 307
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
विभाषान्यतरस्यां वा विकल्पे तु विभाषया ।कटरे पूतने स्नेहे नववीकव(?)चनार्थकम् ॥
8.2.27 · p. 307
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 नव (syllable split)