कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कच्चित्

kaccitअ · indecl.

In 9 kośas: 7 synonym verses, 4 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य अव्ययवर्गः Abhidhānacintāmaṇi 7.1540 · p. 58
कच्चिदिष्टपरिप्रश्नेऽवश्यं नूनं च निश्चये ॥ १५४० ॥
अनुष्टुप्
genderअindecl.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह अव्ययवर्गः Amarakośa 3.4.25
ननुच स्याद्विरोधोक्तौ कच्चित्कामप्रवेदने ।
अनुष्टुप्
genderअindecl.
कल्पद्रुकोशः Kalpadrukośa · केशव अव्ययप्रकाण्डः Kalpadrukośa 3.4.18 · p. 459
अकामानुमतौ काममसूयोपगमेऽस्तु च ।निःसमं दुःषमं गर्ह्ये कच्चित्कामप्रवेदने ॥ १८ ॥
अनुष्टुप्
genderअindecl.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ अव्ययवर्गः Koṣakalpataru 5.1.19 · p. 121
कच्चित्कामपरिप्रश्ने न्याय्ये स्थाने च सांप्रतम् ।आनुपूर्व्ये त्वानुषक् स्यादनुमानेऽनुषग्भवेत् ॥ १९ ॥
अनुष्टुप्
genderअindecl.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि अव्ययप्रकरणम् Suśīlanāmamālā 8.2805 · p. 457
कच्चिदिष्टपरिप्रश्ने कथ्यते कोविदैः किल ।अवश्यमथ नूनं च निश्चये हि निगद्यते ॥ २८०५ ॥
अनुष्टुप्
genderअindecl.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश एकार्थवर्गः Śabdaratnāvalī 8.2.13 · p. 306
ओमभ्युपगमे प्रोक्तं परमं परमित्यपि ।कच्चिदिच्छासमाख्याने प्रागतीतार्थकं भवेत् ॥
अनुष्टुप्
genderअindecl.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अव्ययाध्यायः Śabdaratnākara 6.2286 · p. 277
परमे मत ओमेवं कच्चित् कामप्रवेदने ।वितथे तु मृषा मिथ्या तत्त्वे त्वद्धाञ्जसापि च ॥ २२८६ ॥
अनुष्टुप्
genderअindecl.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.879 · p. 100
समयानिकषाशब्दौ सामीप्ये कीर्तितौ बुधैः ।तर्कनिश्चययोर्नूनं कच्चित्स्यात्प्रश्नकामयोः ॥ ८७९ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नानार्थवर्गः Śabdaratnāvalī 8.1.28 · p. 301
आराद्दूरे समीपे च तथाभ्यन्तरगाढयोः ।स्यात्कच्चिन्मङ्गले प्रश्ने हर्षे कामप्रवेदने ॥पश्चात्प्रतीच्याञ्चरमे त्वधिकारे च दृश्यते ।यदुत्प्रश्ने वितर्के च प्रकारार्थोपमानयोः ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अव्ययद्व्यक्षराध्यायः Śabdaratnākara 5.2.2266 · p. 275
इवेत्थमर्थयोरेवमेव निर्धारणेऽपि च ।कच्चित्प्रश्ने कामवादे वार्तासंभाव्ययोः किल ॥ २२६६ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश अनेकार्थाव्ययाध्यायः Vaijayantī 8.7.19 · p. 285
पादपूरणकृच्चायमेवं साम्याभ्यनुज्ञयोः ।कच्चित् प्रश्ने कामवादे वार्तासंभाव्ययोः किल ॥ १९ ॥
अनुष्टुप्