All kośas › Koṣakalpataru
कोषकल्पतरु Koṣakalpataru
6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)
अव्ययकाण्डः · अव्ययवर्गः (1/2)
॥ इति लिङ्गवर्गः ॥
अथाव्यया अस्ति भावेऽथाभावे न हि नो अनञ् ।नकीं माकीं तु माकिं च नकिः पृथगलं हलम् ॥अन्तरेणान्तरान्यत्र हिरुक्पृथगृते विना ।नेदथौ खलु नाना च वारणेऽङ्गीकृतौ पुनः ॥ओमामेवमुरर्यूरी स्यादुरी उररी तथा ।परमं चाथ सत्यं स्यादर्धस्वीकारवाचकम् ॥ ३ ॥
5.1.3 · p. 119
अनुष्टुप्
अकामात्स्वीकृतौ कामं भवत्वस्तु हुमीर्ष्य[237a]या ।अहो अद्धा अद्भुतार्थे ****** शुभे ॥ ४ ॥
5.1.4 · p. 120
metre not recognised
दिष्ट्या समुपजोषं त्वसंतोषे हन्त चेरितम् ।अथाथो च शुभं खेदे हाहाहोबतहाहहाः ॥ ५ ॥
5.1.3 · p. 120
अनुष्टुप्
पूजायामत्यहौ शुः सुः कुवित्कूपत्सुसुष्ठवः ।प्रशंसायां सम्यगर्धे पशु स्यादन्यथा पुनः ॥ ६ ॥
5.1.6 · p. 120
अनुष्टुप्
अस्वीकारेऽन्यथाकारं पुनः सिद्धाप्रयोजने ।प्रकर्षे तु प्रकामं स्यात्तथैव बलवत्सुकम् ।सुसुष्ठ्वतीव किमुत भूयोऽत्यन्तं भृशं परम् ॥ ७ ॥
5.1.7 · p. 120
अनुष्टुप्
अतिप्रकर्षे नितरां सुतरां च प्रकीर्तितम् ।वरं किंचित्प्रकर्षेऽल्पे त्वा नञ् किंचिच्च किंचन ।मनाङ् नीचैरीषदुच्चैस्तूच्चकैश्च महत्यपि ॥ ८ ॥
5.1.8 · p. 120
अनुष्टुप्metre not read in every line
बहुधा प्रायशः प्रायः प्रादुराविः प्रकाशने ।प्राकाश्ये नाम हेद्वा स्यादुपांश्वप्रकटोदिते ॥ ९ ॥
5.1.9 · p. 120
अनुष्टुप्
मौने तूष्णीं च तूष्णीकां जोषं समुपजोषकम् ।ऋधग्यथातथं सत्येऽनृते मिथ्या मृषा तथा ॥ १० ॥
5.1.10 · p. 120
अनुष्टुप्
अतीते प्राक्[237b] पुरा स्माथ वापि किंच तु वा तथा ।समुच्चयेऽधिरैश्वर्ये लक्षणे प्रतिपर्यनु ॥ ११ ॥
5.1.11 · p. 120
अनुष्टुप्metre not read in every line
श्रत् श्रद्धायामहं शार्वेतीप्सिते( ? )तु मनः कणे ।दुर्बलस्य बलाधानेऽन्वाजे चोपाज ईरितौ ॥ १२ ॥
5.1.12 · p. 120
अनुष्टुप्
सप्तम्यर्थेऽनुपश्लेषे मनस्युरसि वा कृञि ।मध्ये पदे [निवचने कृञ्] नित्यं दारकर्मणि ॥ १३ ॥
5.1.13 · p. 120
अनुष्टुप्
हस्ते पाणौ जीविकोपनिषदावुपमाविधौ ।अवस्बहिसिमौ बाह्येऽथान्तर्धौ सनुतस्तिरः ।मध्येऽन्तरेणान्तरान्तरन्तरेऽन्तरमित्यपि ॥ ११ ॥
5.1.11 · p. 121
अनुष्टुप्metre not read in every line
भेदे स्यात्तूपधा भिन्ने पृथगर्धे तु सामि च ।प्रबाहुकमुपर्यूर्ध्वमुपरिष्टात्समार्थकम् ॥ १२ ॥
5.1.12 · p. 121
अनुष्टुप्
अवागधोऽप्यधस्तात्स्थाद्द्यावाभूम्योस्तु रोदसी ।अन्तरिक्षे भुवरिति भुवि भूः खे विहायसा ॥ १३ ॥
5.1.13 · p. 121
अनुष्टुप्
आनुकूल्ये प्राध्वमथ प्रसह्यार्यहलं हठे ।निःषमं दुःषमं दुष्ठु दुर्दुरोऽपष्ठु निन्दिते ।क्व धिगादह हुं कु अवकीक्र(?)च कुत्सन[238a]वाचिनः ।रुषोक्तौ कुं मुं च रोषे त्वा आं स्यात्तुंकृतौ तु तुम् ।चटु चाटु प्रिये ********** ।तु-पुनर्वैवमेवाद्धा षण्निर्द्धारणवाचकाः ।शङ्के मन्ये तु कं हुं स्वित्किं किमूतापि च ध्रुवम् ।आहो उताहो आहोस्वित्किमुतोत तथा किमु ॥ १७ ॥
5.1.17 · p. 121
अनुष्टुप्metre not read in every line
नूनं किल खलु द्वै त्वै पृच्छादौ तु कथं कुतः ।किं ततो हूमपि ननु किंनु स्विन्नु तथापि हुम् ॥ १८ ॥
5.1.18 · p. 121
अनुष्टुप्
कच्चित्कामपरिप्रश्ने न्याय्ये स्थाने च सांप्रतम् ।आनुपूर्व्ये त्वानुषक् स्यादनुमानेऽनुषग्भवेत् ॥ १९ ॥
5.1.19 · p. 121
अनुष्टुप्
यत्रैवानवक्लृप्तौ स्तो यदि चेत्त्वन्यपक्षके ।तत्त्वे त्वद्धाञ्जसा चान्यतरस्यां च विभाषिते ॥ २० ॥
5.1.20 · p. 121
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व (wrong syllable)
आभिमुख्ये त्वच्छ( ? )शंवह प्रातिलोम्ये पराध च (?) ।विषु नाना अनेकस्मिन्व्यर्थे तु स्याद्वृथा मुधा ॥ २१ ॥
5.1.21 · p. 121
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अस्तं त्वदर्शने नित्ये सनाच्छश्वत्सना सनत् ।स्यादन्ततः परिणामेऽथाहम[238b]र्थेऽस्मि सम्मतम् ॥ २१ ॥
5.1.21 · p. 122
अनुष्टुप्metre not read in every line
वेलायां स्यादवसरे मात्रायामवधारणे ।आह तु स्यादुवाचार्थे बभूवार्थे तथास च ।युवामर्थे च वां ते मे[त्वत्त्वौ]स्तस्त्वन्यदर्थकौ ॥ २२ ॥
5.1.22 · p. 122
अनुष्टुप्
मिथु द्व्यवर्थे(?)ऽथ प्रोक्ते अन्योन्यार्थे मिथो मिथः ।असाकल्ये चिच्चन स्तः प्रत्यारम्भे नह स्मृतम् ।यावत्तावत्किंच मताः साकल्यार्थाः कृतं त्वलम् ॥ २३ ॥
5.1.23 · p. 122
अनुष्टुप्
किं भवत्वस्तु पर्याप्तौ तादर्थ्ये तु कृते इति ।यतस्ततो येन तेन हेतौ तद्यद्धि सर्वथा ॥ २४ ॥
5.1.24 · p. 122
अनुष्टुप्
हीं दुःखहेतौ ग्लानौ तु प्रतामात इतः समौ ।ततः प्रभृतयः पञ्चम्यर्थे प्रायः प्रकीर्तितः ॥ २५ ॥
5.1.25 · p. 122
अनुष्टुप्
सप्तम्यर्थे क्वकुत्राद्याः परितस्तु समन्ततः ।सर्वतो विषुविष्वक्संसमन्ताच्च समार्थकाः ॥ २६ ॥
5.1.26 · p. 122
अनुष्टुप्
साकं सार्धं समा सत्रा समं सह समाभिधाः ।प्रशान्समत्वे विस्तारे प्रतान्मान्द्ये पुनः[239a]शनैः ॥ २८ ॥
5.1.28 · p. 122
अनुष्टुप्metre not read in every line
चिराय चिररात्राय चिरस्य च चिराच्चिरम् ।चिरेण ज्योक्चिरार्थाः स्युरेकवारे पुनः सकृत् ॥ २९ ॥
5.1.29 · p. 122
अनुष्टुप्
असकृन्मुहुराभीक्ष्णमभीक्ष्णं च पुनः पुनः ॥ ३० ॥
5.1.30 · p. 122
स्युः सदा सर्वदाजस्रं नित्यदा नित्यमित्यपि ।बहौ तु बहुदा कस्मिन्कदा क(य?)स्मिन्यदेति च ॥ ३१ ॥
5.1.31 · p. 123
अनुष्टुप्
तदा तदानीमधुनाद्यत्वे एतर्हि संप्रति ।इदानीं सांप्रतं चास्मिन्कालेऽनद्यतने तु च ॥ ३२ ॥
5.1.32 · p. 123
अनुष्टुप्
कर्हि यर्हि चेतर्हि (?) स्युः पुरा प्राक्च समार्थकौ ।उषा निशान्ते जातु कदाचित्कथंचिच्च कर्हिचित् ॥ ३३ ॥
5.1.33 · p. 123
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 चे (wrong syllable)
अकस्मात्सहसा सद्यः सपद्येकपदे तथा ।तत्क्षणे युगपत्तु स्यादेकंदा चैककालगे ॥ ३१ ॥
5.1.31 · p. 123
अनुष्टुप्
अञ्जसा तरसा मङ्क्षु अमम्नस्ताजगाशु च ।शुकमह्नाय झगिति द्राक्स्राग्झटिति सत्वरे ॥ ३२ ॥
5.1.32 · p. 123
अनुष्टुप्
हिरुङ् म[239b]र्या च समया निकषारादुपान्तिके ।आराद्दूरे तिर्यगर्थे उभे साचि तिरोऽपि च ॥ ३३ ॥
5.1.33 · p. 123
metre not recognised
पादपूर्तौ चापि तथा तु हि च स्महवैद्यकम् ।यथा कथा च रै एतदनादरसमार्थकम् ॥ ३४ ॥
5.1.34 · p. 123
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 चा (wrong syllable)
यथा तथा हि दृष्टान्ते सादृश्ये तु यथा तथा ।व वा इव च दम्भं च स्थान एवं सहेति च ॥ ३५ ॥
5.1.35 · p. 123
अनुष्टुप्
रै दाने देवताभ्यस्तु हविषः प्रतिपादने ।श्रौषड्वौषड्वषट्स्वाहा पितृभ्यस्तु स्वधा मतम् ॥ ३६ ॥
5.1.36 · p. 123
अनुष्टुप्
तैलंपाता स्वधार्थे स्यात्स्त्रियां नामायमिष्यते ।चैत्ययज्ञे नमोऽथ स्युर् ए ऐ ओ औ अ ई इ ऊ ।उ हे है भो पाडयेप्याडेते संबोधनार्थकाः ॥ ३७ ॥
5.1.37 · p. 123
अनुष्टुप्metre not read in every line
इष्टसंबोधनेऽङ्गेति हे है जाल्माभिमन्त्रणे ।हं हो अरे रे नीचानां कोमलामन्त्रणेत्यपि ॥ ३८ ॥
5.1.38 · p. 123
अनुष्टुप्
आत्मनावत्स्वयं प्रोक्तं यथास्वे तु यथायथम् ।पश्चात्प्रतीच्यामवरे त्वर्वाक् क्षान्तौ पुनः क्षमा ॥ ३९ ॥
5.1.39 · p. 124
अनुष्टुप्
प्रेत्यामुत्रान्यसंसारेऽथास्ता[240a]नेर्विषये परै (?) ।प्रागुदक्प्रत्यगाद्याः स्युः पुरस्तात्तु पुरोऽग्रतः ॥ ४० ॥
5.1.40 · p. 124
अनुष्टुप्metre not read in every line
पुरतोऽथोत्तरादुत्तरतोऽथो पञ्चमीं विना ।अदूरे चोत्तरेण स्यादुत्तरात्तूत्तराहि च ॥ ४२ ॥
5.1.42 · p. 124
अनुष्टुप्
दक्षिणा दक्षिणाहि स्याद्दौर्येऽवधिमताऽवधेः ।अधोऽधरादधस्तात्स्याददूरे त्वधरेण च ॥ ४३ ॥
5.1.43 · p. 124
अनुष्टुप्
परस्तात्परतोऽथावोऽवस्तादवरतोऽपि च ।अवरस्तादपादूरेऽवरेणैवं समुन्नयेत् ॥ ४४ ॥
5.1.44 · p. 124
अनुष्टुप्
अन्यदान्यत्र काले स्याद्वीप्सायामेकशो द्विशः ।कार्त्स्न्येनाभूततद्भावे अग्निसात्प्रमुखा मताः ॥ ४५ ॥
5.1.45 · p. 124
अनुष्टुप्
ब्राह्मणत्रा ब्राह्मणसात्संपत्कृभ्व स्तियोगके ।देये च तदधीनोक्तौ बहुलं त्रान्तमन्यतः ॥ ४६ ॥
5.1.46 · p. 124
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ब्रा (wrong syllable)
अथ द्वितीयासप्तम्योर्बहुत्रा जीवतो मतः ।पञ्चकृत्वः पञ्चवारे तद्वद्द्विस्त्रिश्चतुर्मताः ॥ ४७ ॥
5.1.47 · p. 124
अनुष्टुप्
एजन्तः कृच्छन्दसि स्याज्जीवसे जीवितुं यथा ।तोसुन्कसुन्विरामं स्यादुदेतोर्विसृ[240b]पो यथा ॥ ४८ ॥
5.1.48 · p. 124
metre not recognised
पूर्वकाले तु धात्वर्थे भुक्त्वा[या]त्येककर्तरि ।भोजं भोजं भवेत्क्त्वार्थेऽथाग्रे भुक्त्वैवमर्थके ॥ ४९ ॥
5.1.49 · p. 124
अनुष्टुप्
अग्रेभोजं पूर्वभोजं प्रथमाद्भोजमित्यपि ।चोरंकारं तु चोरोऽसि त्वमित्याक्रोशने मतम् ॥ ५० ॥
5.1.50 · p. 125
अनुष्टुप्
स्वादुं कृत्वा स्वादुंकारं स्वार्थे तद्वल्लवणंकारम् ।एवंकारं त्वित्थंकारं नार्हे वक्तुं वैयर्थ्येन ॥ ५१ ॥
5.1.51 · p. 125
metre not recognised
एवमेवान्यथाकारं कथंकारमपि स्मृतम् ।यथाकारं तथाकारमहं भोक्ष्येऽत्र किं तव ॥ ५२ ॥
5.1.52 · p. 125
अनुष्टुप्
इति सिद्धाप्रयोगे स्याद्गम्ये सासूयमुत्तरे ।साकल्ये विप्रदर्शं च बुधवेदं च यच्छति ॥ ५३ ॥
5.1.53 · p. 125
अनुष्टुप्
यावद्वेदं यावल्लाभं यावज्जीवं त्वाजीवं स्यात् ।चैलक्नोपं वस्त्रक्नोपं चैलं वस्त्रं चार्द्रीकृत्य ॥ ५४ ॥
5.1.54 · p. 125
metre not recognised
कर्मण्युदरपूरं च चर्मपूरं च कीर्तितम् ।सीतापूरं तु सीताप्रं वर्षेयत्तावबोधने ॥ ५५ ॥
5.1.55 · p. 125
अनुष्टुप्
भवेत्समूलकाषं तु समूलकषणार्थकम् ।एवं निमूलकाषं स्यान्निमू[241a]लकषणार्थकः ।शुष्कं चूर्णं च रूक्षं च पिनष्ट्यर्थे क्रमात्परे ॥ ५६ ॥
5.1.56 · p. 125
अनुष्टुप्metre not read in every line
शुष्कपेषं चूर्णपेषं रूक्षपेषं पिनष्टि दिक् ।समूलघातं हन्ति स्यात्समूलहननार्थकम् ॥ ५७ ॥
5.1.57 · p. 125
अनुष्टुप्
जीवं गृह्णात्येतदर्थे जीवग्राहं प्रकीर्तितम् ।भवेदकृतकारं च करोत्यकृतमर्थके ॥ ५८ ॥
5.1.58 · p. 125
अनुष्टुप्
पदाहतौ पादघातं पेषणादौ तु तेन च ।उदपेषं हस्तवर्तं हस्तग्राहं प्रकीर्तितम् ॥ ५९ ॥
5.1.59 · p. 125
अनुष्टुप्
स्वपोषं चापि रैपोषं पितृपोषं च सम्मतम् ।कूटबन्धं तत्र वेधे क्रौञ्चबन्धं तु नामनि ॥ ६० ॥
5.1.60 · p. 125
अनुष्टुप्
भवेत्पुरुषवाहं च जीवनाशं च कर्तरि ।ऊर्ध्वशोषं चोर्ध्वपूरं कर्मण्युपमितौ भवेत् ॥ ६१ ॥
5.1.61 · p. 126
अनुष्टुप्
अजनाशं तथा रत्ननिधायं च प्रकीर्तितम् ।णमुल्प्रकृतिको धातुर्द्विः प्रयोज्यः कषादिषु ॥ ६२ ॥
5.1.62 · p. 126
अनुष्टुप्
दण्डोपघातं दण्डेनोपघातं तुल्यकर्मणि ।हिंसार्थानां तृतीयायां समासस्तु विभाषया ॥ ६३ ॥
5.1.63 · p. 126
अनुष्टुप्
तृतीयान्ते च सप्तम्यन्ते चोपपद[241b]के भवेत् ।स्तनोपपीडं स्तनयोरुपपीडयतीति च ॥ ६४ ॥
5.1.64 · p. 126
अनुष्टुप्metre not read in every line
व्रजोपरोधं हस्तोपकर्षमेवं समुन्नयेत् ।केशग्राहं समासत्तौ द्व्यङ्गुलोत्कर्षमायतौ ॥ ६५ ॥
5.1.67 · p. 126
अनुष्टुप्
अपादाने परीप्सायां शय्योत्थायं विधावति ।यष्टिग्राहं च युध्यन्ते भ्रूविक्षेपं वदत्यसौ ॥ ६६ ॥
5.1.66 · p. 126
अनुष्टुप्
स्याद्वक्षःप्रतिपेषं च ध्रुवस्वाङ्गस्य बाधने ।द्वितीयायां व्याप्यमाना सेव्यमानार्थबोधने ॥ ६७ ॥
5.1.67 · p. 126
अनुष्टुप्
आस्ते गेहानुप्रवेशवाक्ये द्रव्यस्य च द्विता ।व्यापनेऽथ क्रियायाः स्याद् द्वित्वमासेवनार्थके ॥ ६८ ॥
5.1.68 · p. 126
अनुष्टुप्
एवं गृहानुप्रयातं गृहावस्कन्दमित्यपि ।तथा गेहानुप्रपादं द्व्यहात्यासं क्रियान्तरे ॥ ६९ ॥
5.1.69 · p. 126
अनुष्टुप्
द्व्यहतर्षं पाययति गा इत्यादि समुन्नयेत् ।नामादेशं तथा नामग्राहमाह्वयति प्रियाम् ॥ ७० ॥
5.1.70 · p. 126
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पा (wrong syllable)
उच्चैःकारं तूच्चैःकृत्याप्युच्चैः कृत्वानिष्टं ब्रूते ।नीचैः कृत्वा नीचैःकारं नीचैःकृत्य क्षेमं ब्रूषे ॥ ७१ ॥
5.1.71 · p. 126
metre not recognised
तिर्यक्कारं समाप्तौ[स्यात् ]तिर्यक्कृत्य गतो गृहम् ।मुखतः कृत्य मुखतोभूय तद्वत्समार्थकाः[242a] ॥ ७२ ॥
5.1.72 · p. 127
अनुष्टुप्
मुखतः कृत्वा मुखतो भूत्वा मुखतःकारं मुखतोभावम् ।नानाकारं नानाभावं द्वैधंकारं द्वैधंभावम् ॥ ७३ ॥
5.1.73 · p. 127
metre not recognised
तूष्णींभावं तूष्णींभूत्वा तूष्णींभूयाप्येकार्थानि ।अन्वग्भावं त्वन्वग्भूत्वा त्वन्वग्भूय स्यादप्रातीप्ये ॥ ७४ ॥
5.1.74 · p. 127
metre not recognised
क्रियार्थायां क्रियायां स्यात्तुमुन्भोक्तुं प्रयात्ययम् ।अथ क्लीबान्यव्ययानि हरावित्यर्थवाचकम् ॥ ७५ ॥
5.1.75 · p. 127
अनुष्टुप्
अधिहर्युपकृष्णं स्यादुपकृष्णेन तादृशम् ।उपकृष्णे [तु]कृष्णस्य समीपमिति वाचकम् ॥ ७६ ॥
5.1.76 · p. 127
अनुष्टुप्
सुमद्रं मद्रऋद्धिः स्याद्व्यृद्धौ दुर्यवनं तथा ।मूढाभावे तु निर्मूढमतिशीतं हिमात्यये ॥ ७७ ॥
5.1.77 · p. 127
अनुष्टुप्
निद्रा संप्रति नार्हैवमतिनिद्रं प्रकीर्तितम् ।हरिशब्दप्रकाशे तु बुधैरितिहरीरितम् ॥ ७८ ॥
5.1.78 · p. 127
अनुष्टुप्
विष्णोः पश्चाच्चानुविष्णु प्रत्यर्थं त्वर्थवीप्सने ।अनुरूपं तु रूपार्हं सादृश्ये तु हरेर्भवेत् ॥ ७९ ॥
5.1.79 · p. 127
अनुष्टुप्
सहर्यथानतिक्रम्य कुलमर्थे यथाकुलम् ।ज्येष्ठानुपूर्व्यनुज्येष्ठं सख्या तु सदृशे मतम् ॥ ८० ॥
5.1.80 · p. 127
अनुष्टुप्
सस[242b]ख्यथ सचक्रं स्याच्चक्रेण युगपत्समे ।सक्षत्रं क्षत्रसंपत्तौ साकल्ये सतृणं मतम् ॥ ८१ ॥
5.1.81 · p. 127
अनुष्टुप्metre not read in every line
यावच्छ्लोकं तन्नियमे तल्लेशे तु घृतप्रति ।प्रत्यग्व्यत्यस्याभिमुखे भुवनं तु वनीतिकम् ॥ ८३ ॥
5.1.83 · p. 127
अनुष्टुप्
अनुगङ्गं तु काशी स्याद्गङ्गायामोपलक्षिता ।विपरीतं वृत्तमक्षैरित्यर्थेऽक्षपरि स्मृतम् ॥ ८४ ॥
5.1.84 · p. 128
अनुष्टुप्
एवं शलाकापरि[स्यात् ] तथैकपरि च स्मृतम् ।अयं समासः कितवव्यवहारपराजये ॥ ८५ ॥
5.1.85 · p. 128
अनुष्टुप्
पारेगङ्गं तु गङ्गायाः पारमर्थे विभाषया ।मध्येगङ्गं तथा वै स्यात् त्र्यादयो यस्य वाचकम् ॥ ८६ ॥
5.1.86 · p. 128
अनुष्टुप्
त्रिमुनि द्विमुनि प्रोक्तं सप्तगङ्गं समाहृतौ ।उन्मत्तगङ्गं संज्ञायां बहुव्रीहेश्च गोचरे ॥ ८७ ॥
5.1.87 · p. 128
अनुष्टुप्
नवरं केवले प्रोक्तं वरं युक्तं दरं पुनः ।स्तोकेऽथ सारं श्रेष्ठे स्याद्विभक्तिप्रतिरूपकम् ॥ ८८ ॥
5.1.88 · p. 128
अनुष्टुप्
इति लक्ष्यादव्ययानि नानार्थानि प्रचक्ष्महे ॥ ७५ ॥
5.1.75 · p. 128
अ स्वल्पाभाववाचि स्यादाङ् मर्यादेषदर्थयोः ।अभिव्याप्तौ क्रियायोगे स त्वङित्स्मृतिवाक्ययोः ॥ ७६ ॥
5.1.76 · p. 128
अनुष्टुप्
आस्ताप-कोपयोरां[243a]तु स्मृति निश्चयार्थकम् ।इ संबुद्धावमर्षोक्तौ विषादे च प्रकीर्तितम् ॥ ७७ ॥
5.1.77 · p. 128
अनुष्टुप्metre not read in every line
ई दुःख-चिन्ता-कोपेषु उ संबुद्धौ रुषोदिते ।वाक्यारम्भे रुषोक्तावू ऋ वाक्ये कुत्सनेऽपि च ॥ ७९ ॥
5.1.79 · p. 128
अनुष्टुप्
लृ मङ्गलेऽथो ए ऐस्तः स्मृत्यामन्त्रण-हूतिषु ।संबुद्ध्याह्वानयोरो औ कुस्तु वारणकुत्सयोः ॥ ७९ ॥
5.1.79 · p. 128
अनुष्टुप्
ईषदर्थे दुष्कृते च मनाङ्मन्देषदर्थयोः ।धिग्भर्त्सने च निन्दायामृधक् शीघ्र-समीपयोः ॥ ८० ॥
5.1.80 · p. 128
अनुष्टुप्
वियोगे लाघवे सत्ये ज्योक् प्रश्ने [च] द्रुतेऽपि च ।संप्रत्यर्थे चिरार्थेऽथ पुनरर्थेऽग*समम् ॥ ८१ ॥
5.1.81 · p. 128
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
घ हिंसाप्रातिलोम्याङ्घ्रि[पू]रणेषु प्रकीर्तितम् ।तिर्यक् तिरोऽर्थे वक्रे च सम्यग्बाढ-प्रशंसयोः ॥ ८२ ॥
5.1.82 · p. 129
अनुष्टुप्
प्राक् प्रभाते व्यतीतेऽग्रे पूर्वार्थेऽवान्तरेऽपि च ।किं चारम्भे हिरुङ्मध्ये ननु च प्रश्नदुर्गिरोः ॥ ८३ ॥
5.1.83 · p. 129
अनुष्टुप्
समुच्चयान्वाचयनिश्चयान्यो-न्ययोगपक्षान्तरसंग्रहेषु ।स्यात्पादपूर्तौ च समाहृतौ चःस्यात्तुल्ययोगे विनियुक्तिहेत्वोः ॥ ८४ ॥
5.1.84 · p. 129
उपजातिः
तद्विरोधे तदल्पत्वे तदन्यत्वे च [243b] तत्समे ।अप्राशस्त्येऽप्यभावे च नञ् न च स्यात्तथाविधः ॥ ८५ ॥
5.1.85 · p. 129
अनुष्टुप्metre not read in every line
शम्बट् वित्तेऽथ सुष्ठु स्यात्पूजात्यर्थप्रशंसने ।अपष्ठु निन्द्येऽभव्ये च दुष्ठु निन्दित-निन्दयोः ॥ ८६ ॥
5.1.86 · p. 129
अनुष्टुप्
अन्तरेण विना मध्ये तु चार्थे निश्चये भिदि ।अभ्यनुज्ञान-पीडेर्ष्यास्वस्तु स्वित्प्रश्नतर्कयोः ॥ ८७ ॥
5.1.87 · p. 129
अनुष्टुप्
पुनःसहार्थयोर्नित्ये शश्वद्भूम्नि तथा क्वचित् ।प्रश्नेऽपि कूपत् साक्षात्तु भवेत्प्रत्यक्षतुल्ययोः ॥ ८८ ॥
5.1.88 · p. 129
अनुष्टुप्
प्रतीच्यां चरमे पश्चात् नेत् विचारे समुच्चये ।शङ्कायां प्रतिषेधेऽथ सहार्थेऽपि सकृत्स्मृतम् ॥ ८१ ॥
5.1.81 · p. 129
अनुष्टुप्
यावत्तावत्सीम्नि माने साकल्ये चावधारणे ।वाक्यालंकरणेऽपि स्तोऽथोताप्यर्थविकल्पयोः ॥ ९० ॥
5.1.90 · p. 129
अनुष्टुप्
प्राच्यां पुरोऽर्थे प्रथमे पुरस्तादग्रतोर्थके ।स्वस्ति मङ्गलपुण्याशीःसुखाङ्गीकरणार्थकम् ॥ ९१ ॥
5.1.91 · p. 129
अनुष्टुप्
संतोषसंबोधनविस्मयानु-कम्पाविषादेषु च तत्प्रदिष्टम् ।हन्त प्रदाने प्रमदे दयायांखेदे तथा[244a]वाक्यमुखे वदन्ति ॥ ९२ ॥
5.1.92 · p. 130
इन्द्रवज्राmetre not read in every line
अहो बतामन्त्रणविस्मयेषुकष्टे दयायामपि चाभिमुख्ये ।ततो यतः स्तो नियमे विभागेऽ-थातिः प्रशंसापचितिप्रकर्षे ।अतिक्रमासंप्रतिवाचकः स्या-दारात्तु दूरान्तिकवाचकश्च ॥ ९४ ॥
5.1.94 · p. 130
उपजातिः
इति प्रकारादिसमाप्तिहेतु-प्रकाशदृष्टान्तविनिर्णयेषु ।स्वरूपसांनिध्यपरानुकर्षेतथैवमर्थेऽपि समामनन्ति ॥ ९५ ॥
5.1.95 · p. 130
उपेन्द्रवज्रा
इत्थंभूताख्याने प्रतिनिधिवीप्साप्रयाणेषु ।प्रतिदाने लक्षणके सांमुख्ये च प्रतिः ** ॥ ९६ ॥
5.1.96 · p. 130
metre not recognised
अथो अथानन्तरमङ्गलोप-क्रमप्रतिज्ञासकलत्ववाचि ।प्रश्नेऽधिकारेऽपि च संशये चयथा पदार्थानतिवृत्तिवाचि ।स्वीकारसादृश्यविनिर्णयेषुसमुच्चये प्रश्नविधावपिः स्यात् ॥ ९८ ॥
5.1.98 · p. 130
उपेन्द्रवज्राtwo metres in one verse
निष्कारणे स्याद्विधिवर्जिते चवृथान्यथा स्यात्परमार्थकेऽपि ।स्यात्सर्वथा कारणबाढकार्थेमिथो रहोर्थेऽपि मिथस्तथैव ॥ ९९ ॥
5.1.99 · p. 130
उपजातिः
उत्स्यात्प्रकाशप्रबलत्वशक्ति[244b]वियोगसामर्थ्यविलङ्घनेषु ।अद्धा स्फुटे स्यान्नियमेऽथ नु स्या-त्प्रश्ने वितर्केऽनुनयेऽप्यतीते ॥ १०० ॥
5.1.100 · p. 131
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 2, syllable 1 वि (wrong syllable)
आक्षेपे प्रत्युक्तौ वाक्यारम्भेऽप्यनुज्ञाने ।इष्टप्रश्ने नियमे सानु[न]यामन्त्रणे च ननु ॥ १ ॥
5.1.1 · p. 131
उपगीतिःmetre not read in every line
किंनु वितर्के प्रश्ने नानानेकोभयार्थेऽपि ।सादृश्येऽप्यौचित्ये हेत्वर्थे चोदितं स्थाने ॥ २ ॥
5.1.2 · p. 131
उपगीतिः
लक्षण इत्थंभूताख्याने ***सहार्थे च ।आयामे सादृश्ये पश्चादर्थे च भागेऽनुः ॥ ३ ॥
5.1.3 · p. 131
metre not recognised
निःक्षेपे नियमे निवेशभ(भृ?)शयोर्दानेऽन्तिके दर्शने-न्तर्भावोपरमाश्रयाम्बुषु तयोधा(?)भावविन्यासके ।हर्षे चौर्यनिकृष्टवर्जनविपर्यासप्रमोदेष्वपस्याद्विश्लेषविकारयोरुप पुनर्हीनेऽधिके चान्तिके ॥ ४ ॥
5.1.4 · p. 131
शार्दूलविक्रीडितम्
दाक्षिण्यात्ययदोषवादनमृतिव्याप्त्यंहतिप्रक्रमेपूजाचार्यविधानशक्तिषु भवेदुद्योगत( ? )द्योगयोः ।गर्हाप्रश्नसमुच्चयेष्वपि भवेत्संभावने शङ्कनेवीप्सेत्थंभवसंभवेषु गदितं विद्वद्भिरभ्यव्ययम् ॥ ५ ॥
5.1.5 · p. 131
शार्दूलविक्रीडितम्
कं कल्याणशिरोम्बुरुक्पुनरु[245a]रीकारानुयोगार्थयोःपृच्छा-गर्हणयोस्तु किं स्म तु गते कालेऽङ्घ्रिपूर्तावपि ।स्वाच्छन्द्येऽनुमतौ च काममुदितं स्यात्सामि निन्दा-र्धयो-र्नूनं निश्चित-तर्कयोरनुनय-क्रोधोक्तितर्केषु हूम् ॥ ६ ॥
5.1.6 · p. 131
शार्दूलविक्रीडितम्metre not read in every line
प्रबाहुकं स्यात्समकाल ऊर्द्ध्वेप्रकारसादृश्यसमार्थमेवम् ।जोषं तु तूष्णींभवने सुखे[स्या]-दमा सहार्थे निकटार्थके च ॥ ७ ॥
5.1.7 · p. 132
उपजातिः