कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पार्थचाप

pārthacāpa

In 3 kośas: 0 synonym verses, 4 as a meaning of another word.

पार्थचाप as a meaning in nānārtha verses

  • नानार्थार्णवसंक्षेप गाण्डीवअनादिसम्प्रदायस्तु गाण्डीवो न स्त्रियामयम् । पार्थचापे चापमात्रेऽप्यथैकोऽप्याह गाण्डिवम् ॥ ६६४ ॥ Nānārthārṇavasaṃkṣepa 4.664
  • नानार्थार्णवसंक्षेप गाण्डिवपार्थचापे च चापे च न स्त्रीत्येके व्यवस्थिताः । असाधुमेनमाचष्टे दोषज्ञो भागवृत्तिकृत् ॥ ६६५ ॥ Nānārthārṇavasaṃkṣepa 4.665
  • शब्दरत्नावली गाण्डीवकुटुम्बोऽस्त्री जनज्ञातिबान्धवेषु च सन्ततौ । कैरवं कुमुदे धूर्ते चन्द्रिकायान्तु कैरवी ॥ गाण्डीवगाण्डिवौ चापे पार्थचापेऽपि न स्त्रियौ । गालवो मुनिभेदे स्यात्तथा लोध्रमहीरुहे ॥ ताण्डवोऽस्त्री तृणभिदि ख्याते नृत्ये समुद्धते । त्रिदिवा तु नदीभेदे स्वर्लोके तु भवेत्पुमान् ॥ Śabdaratnāvalī 7.29.29
  • वैजयन्ती गाण्डीवपार्थचापे चापमात्रे गाण्डीवो गाण्डिवोऽस्त्रियौ । कशेरुहेम्नोर्गांगेयं गांगेयो गुहभीष्मयोः ॥ ३५ ॥ Vaijayantī 7.5.35