गाण्डिव
gāṇḍivaपुंक्ली · m. n.In 12 kośas: 14 synonym verses, 5 as a nānārtha head word.
अर्जुनः फाल्गुनः पार्थः सव्यसाची धनंजयः ॥ ७०८ ॥राधावेधी किरिट्यैन्द्रिर्जिष्णुः श्वेतहयो नरः ।बृहन्नलो गुडाकेशः सुभद्रेशः कपिध्वजः ॥ ७०९ ॥बीभत्सः कर्णजित्तस्य गाण्डीवं गाण्डिवं धनुः ।
अनुष्टुप्
genderक्लीneut.
धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम् ।इष्वासोऽप्यथ कर्णस्य कालपृष्ठं शरासनम् ॥ ८३ ॥कपिध्वजस्य गाण्डीवगाण्डिवौ पुन्नपुंसकौ ।
अनुष्टुप्
genderपुंक्लीm. n.
नन्दिघोषो धनुरपि गाण्डीवो गाण्डिवोऽस्त्रियाम् ।गाञ्जीवो गाञ्जिवोऽप्यस्त्री नकुलस्त्वश्वशास्त्रवित् ॥ ४४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
स्यादस्त्रियां धनुः षान्तं धनुः पुंसि धनूः स्त्रियाम् ।तृणता त्रिणता चापो न स्त्री गाण्डीवगाण्डिवौ ॥ २६१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
गाण्डीवगाण्डिवोल्वानां पार्श्वत्रिदिवयोरपि ।भावारावपारशवशरावाणां शवस्य च ॥ १८७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 व (wrong syllable)
genderपुंक्लीm. n.
गाण्डीवं गाण्डिवं न स्त्री धनुस्तस्य रथः पुनः ।नन्दिघोषोऽथ शङ्खोऽस्य देवदत्तः प्रकीर्त्तितः ॥भीमस्य पौण्ड्रः शङ्खः स्यान्नकुलस्तन्त्रिपालकः ।ग्रन्थिकः सहदेवः स्यान्माद्रेयौ द्वाविमौ यमौ ॥ १९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
गरलं मुसलं सालं तथा गाण्डीव-गाण्डिवौ ।पूर्व *** प्रग्रीवपार्श्वः पारशवोऽपि च ॥ ६९ ॥
अनुष्टुप्metre not read in every line
genderपुंक्लीm. n.
अनादिसम्प्रदायस्तु गाण्डीवो न स्त्रियामयम् ।पार्थचापे चापमात्रेऽप्यथैकोऽप्याह गाण्डिवम् ॥ ६६४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
किरीट्यैन्द्रिः सुभद्रेशश्चापे गाण्डीवगाण्डिवे ।पाञ्चाली याज्ञसेनी च द्रौपदी नित्ययौवना ॥ ३३९ ॥
अनुष्टुप्
genderक्लीneut.
पुनस्तस्य रथो नन्दिघोषनाम निगद्यते ।धनुस्तु गाण्डिवं चैव गाण्डीवमर्जुनस्य हि ॥ ११५४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
genderक्लीneut.
अथ कालं कालपृष्ठं भवेत् कर्णस्य कार्मुके ।अर्जुनस्य च गाण्डीव-गाण्डिवौ न स्त्रियां द्वयम् ॥
अनुष्टुप्
genderपुंक्लीm. n.
पाण्डवायनाश्चाऽर्जुनधनौ गाण्डीव-गाण्डिवौ ।धनुर्मात्रेऽप्यमू, हाले वाहनः सात-सालतः ॥ २४४ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कपिकेतनकोदण्डे गाण्डीवो गाण्डिवश्च वा क्लीबे ।कर्णस्य कालपृष्ठं मिश्रकमनिलात्मसंभवस्य धनुः ॥ १३२८ ॥
गीतिः
genderपुंक्लीm. n.
गोतमं रथायुधकं कोसलं गाण्डिवोऽस्त्रियाम् ।पातनं मार्गणं चेति द्विगुणानि यथोत्तरम् ॥ १७४ ॥
अनुष्टुप्metre not read in every line
genderपुंक्लीm. n.
अभावः स्यादसत्तायामभावो निधनार्थकः ।गाण्डीवं गाण्डिवं चैव धनुष्यर्जुनधन्वनि ॥
अनुष्टुप्
meanings
पद्मेऽन्त्येऽप्यथ कर्णवैरिधनुषि स्याद्गाण्डिवं न[79b]स्त्रियांगाण्डीवं च धनुष्यथो किल शरेऽक्षीवं भवेद्बान्तवत् ।अन्यस्मिन्मदवर्जितेऽथ नृपतौ स्यात्पार्थिवो वाच्यवत्पृथ्व्युत्पातविकारयोर्जनकजागौर्योर्भवेद्योषिति ॥ २९ ॥
शार्दूलविक्रीडितम्metre not read in every line
meaningsकर्णवैरिधनुस्
पार्थचापे च चापे च न स्त्रीत्येके व्यवस्थिताः ।असाधुमेनमाचष्टे दोषज्ञो भागवृत्तिकृत् ॥ ६६५ ॥
अनुष्टुप्
doubtful
कुटुम्बोऽस्त्री जनज्ञातिबान्धवेषु च सन्ततौ ।कैरवं कुमुदे धूर्ते चन्द्रिकायान्तु कैरवी ॥गाण्डीवगाण्डिवौ चापे पार्थचापेऽपि न स्त्रियौ ।गालवो मुनिभेदे स्यात्तथा लोध्रमहीरुहे ॥ताण्डवोऽस्त्री तृणभिदि ख्याते नृत्ये समुद्धते ।त्रिदिवा तु नदीभेदे स्वर्लोके तु भवेत्पुमान् ॥
अनुष्टुप्
meanings
पार्थचापे चापमात्रे गाण्डीवो गाण्डिवोऽस्त्रियौ ।कशेरुहेम्नोर्गांगेयं गांगेयो गुहभीष्मयोः ॥ ३५ ॥
अनुष्टुप्
meanings