All kośas › Śabdaratnāvalī
शब्दरत्नावली Śabdaratnāvalī
4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)
नानार्थवर्गप्रकाशः · वान्ताः
इति लान्तवर्गः ॥
वकारः पवने वाहौ वरुणे मन्त्रणेऽपि च ।कल्याणे बलवत्यश्वे वसतौ वरुणालये ।वो गन्धने गतौ वाले तन्त्रवायकुविन्दयोः ॥
7.29.1 · p. 285
अनुष्टुप्
स्वः पुमानात्मनि ज्ञातौ त्रिष्वात्मीपेऽस्त्रियां धने ।
7.29.2 · p. 285
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अविः कम्बलशैलार्कमेषा धहकिषु (?) ना ।अश्वस्तुरङ्गे पुरुषजातिभेदे भवेत्पुमान् ॥
7.29.3 · p. 285
अनुष्टुप्metre not read in every line
ऊर्द्धः स्यादुच्छिते तुङ्गे तथा पर्य्युत्थितेऽपि च ।क्षवः क्षुते राजिकायां भवेत्काशेऽपि च क्वचित् ॥
7.29.4 · p. 285
अनुष्टुप्
कविः स्त्री कविकायां ना काव्यकृच्छुक्रसूरिषु ।कण्वो मुनिविशेषे ना भवेत्पापे नपुंसकम् ॥
7.29.5 · p. 285
अनुष्टुप्
चार्वी धनदभार्यायां स्त्री ज्योत्स्नाबुद्धिदीप्तिषु ।जवो वेगे वेगवति स्यादोड्रकुसुमे जवा ॥
7.29.6 · p. 285
अनुष्टुप्
जीवोऽस्त्री जीविते ना तु वृत्तिप्राणिगुरुद्रुमे ।जीवा मौर्व्वी वचा भूमिजीवन्तीष्वपि च स्त्रियाम् ॥
7.29.7 · p. 285
अनुष्टुप्
तत्त्वं विलम्बिते नृत्ये परमात्मस्वरूपयोः ।द्रवः प्रद्रावरसयोः स्यान्नर्मतरसोरपि ।दवो दावो वन्यवह्न्यावरण्ये च भवेद्वयम् ॥
7.29.8 · p. 285
अनुष्टुप्metre not read in every line
समासे तु भवेत्पुंसि रोगभेदे च कुत्रचित् ।दार्वी दारुहरिद्रायां स्त्रियां गोजिह्विकौषधौ ॥
7.29.10 · p. 285
अनुष्टुप्
देवं स्यादिन्द्रिये मेघे सुरे नरपतौ पुमान् ।देवी कृताभिषेकायां तेजनीपृक्कयोरपि ॥
7.29.11 · p. 285
अनुष्टुप्
द्यौः स्त्रियां स्वर्गनभसोर्दिवञ्चापि नपुंसकम् ।ध्रुवो धूर्ते वृक्षभेदे पतिमानुषयोरपि ।ध्रुवः शङ्कौ हरे विष्णौ भर्भदे वटयोगयोः ॥
7.29.12 · p. 285
अनुष्टुप्
तर्कनिश्चितयोः क्लीबं नित्यनिश्चलयोस्त्रिषु ।स्त्रियान्तु शालपर्ण्यां स्यात्तथा साध्वी स्त्रियामपि ॥गीतभेदे च स्रुग्भेदे त्रिलिङ्ग्यामाह माधवः ।नवस्त्रिषु नूतने स्यात्स्तुतिमात्रे पुमानयम् ॥नीवी परिपणे स्त्री तु स्त्रीकट्यंशुकबन्धने ।पक्वं विनाशाभिमुखे तथा परिणते त्रिषु ॥प्लवो ना विहगे भेके निषादे भेलके कपौ ।शलके प्रेरणे शत्रौ श्वपचे प्लवनेऽपि च ॥
7.29.13 · p. 286
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 च (wrong syllable); pāda 3, syllable 4 षु (wrong syllable)
पर्कटीप्लुतगत्योश्च कैवर्त्ती मुस्तके प्लवम् ।पार्श्वं कक्षाधरे चक्रोपान्ते पशुगुणेऽपि च ॥
7.29.14 · p. 286
अनुष्टुप्
प्राध्वोऽतिप्रणते प्रज्ञे बन्धने दूरवर्त्मणि ।पृथ्वी स्त्री हिङ्गुपत्रीभूचन्द्रेलाकृष्णजीरके ॥
7.29.15 · p. 286
अनुष्टुप्
भवः प्राप्तौ हरे क्षेमसत्तासंसारजन्मसु ।भावोऽभिप्रायचेष्टात्मसत्तास्वभावजन्मसु ॥
7.29.16 · p. 286
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्व (wrong syllable)
पदार्थाभिनयभिदोर्माल्यजन्तुविभूतिषु ।रेवा रतौ नदीभेदे तथा नील्योषधौ स्त्रियाम् ॥
7.29.17 · p. 286
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 भि (wrong syllable)
लघ्वी स्यन्दनभेदे स्यात्तथा लाघवविस्तृतौ ।विश्वं जगत्यना शुण्ठ्यां देवे वा निखिले त्रिषु ॥
7.29.19 · p. 286
अनुष्टुप्
विश्वा त्वतिविषायाञ्च स्त्रियां सिन्धुनदीभिदि ।शवं जलेऽस्त्री कुणये शिविर्भूर्जे भूपान्तरे ॥
7.29.20 · p. 286
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 भू (wrong syllable)
शिवः स्वरे हरे योगे कीलके ग्रहवालयोः ।मोक्षगुग्गुलयोः पुंसि शिवं भद्रसुखाप्सु च ॥
7.29.21 · p. 286
अनुष्टुप्
शिवाभयामलक्याञ्च दुर्गाक्रोष्टीशमीषु च ।सत्त्वं बले गुणे द्रव्ये पिशाचादिस्वभावयोः ।व्यवसायधनप्राणात्मतास्वस्त्री तु जन्तुषु ॥
7.29.22 · p. 286
अनुष्टुप्
सवो यज्ञे च सन्ताने सान्त्वं साम्नि च दक्षिणे ।स्रुवा तु मूर्वा शल्लक्यां यज्ञपात्रे स्नुवः पुमान् ॥
7.29.23 · p. 286
अनुष्टुप्
अक्षीवमप्रमत्ते स्यादशिवाभावमृत्युषु ॥आर्त्तवं स्त्रीरजःपुष्पे आहवो युद्धयज्ञयोः ।आश्रवोऽङ्गीकृतौ क्लेशे पुमान् वाक्यस्थिते त्रिषु ॥
7.29.25 · p. 286
अनुष्टुप्
उद्धवः पुंसि यज्ञे स्यादयादवोत्सवयोरपि ।उत्सवो महकोपेच्छाप्रसवेषु पुमानयम् ॥
7.29.26 · p. 287
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अभावो मरणेऽसत्त्वे कैतवं द्यूतमिथ्ययोः ।कारवी मधुरादीप्यत्वक्पत्रीकृष्णजीरके ॥
7.29.27 · p. 287
अनुष्टुप्
कितवो वञ्चके मत्ते खले च कनकाह्वये ।केशवः कृष्णपुन्नागप्रशस्तकेशवत्स्वपि ॥
7.29.28 · p. 287
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्त (wrong syllable)
कुटुम्बोऽस्त्री जनज्ञातिबान्धवेषु च सन्ततौ ।कैरवं कुमुदे धूर्ते चन्द्रिकायान्तु कैरवी ॥गाण्डीवगाण्डिवौ चापे पार्थचापेऽपि न स्त्रियौ ।गालवो मुनिभेदे स्यात्तथा लोध्रमहीरुहे ॥ताण्डवोऽस्त्री तृणभिदि ख्याते नृत्ये समुद्धते ।त्रिदिवा तु नदीभेदे स्वर्लोके तु भवेत्पुमान् ॥
7.29.29 · p. 287
अनुष्टुप्
दीदिविः पुंसि गीर्वाणगुरौ भक्ते समुच्छिते ।निष्पावः सूर्पपवने राजमाषे कडङ्गरे ॥निह्नवः स्यादविश्वासे तथा गुप्तावलापयोः ।पल्लवो विटपे षिङ्गे विस्तारे वलयेऽपि च ॥शृङ्गोरेऽलक्तरागे च चापलेऽपि च न स्त्रियाम् ।प्रभवो जन्महेतौ स्यात्स्थले चाद्योपलब्धये ॥प्रसेवः स्यूतवीणाङ्गे प्रभावः शक्तितेजसोः ॥
7.29.30 · p. 287
अनुष्टुप्
प्रसवोऽस्त्री फलेऽपत्ये कुसुमे गर्भमोचने ।पार्थिवो भूपतौ पुंसि पार्थिवी तुत्थसीतयोः ॥
7.29.31 · p. 287
अनुष्टुप्
पृथिवी विकृतौ वाच्यलिङ्ग एव निगद्यते ।पुङ्गवस्तु वलीवर्दे पुमानौषधभिद्यपि ॥
7.29.32 · p. 287
अनुष्टुप्
अथोत्तरपदस्थोऽपि श्रेष्ठवाची भवेदयम् ।फेरवो जम्बुके धूर्ते हिंस्रे च क्षणदाचरे ॥माधवो यादवे विष्णौ मधुवैशाखयोरपि ।माधवी स्यान्मधुरिकावासन्तीशर्करासु च ॥राजीवं कमले क्लीबं स्यात्पुंसि मृगनीलयोः ।राघवो रघुनाथे स्याबृहन्मत्स्यविशेषके ॥रौरवाश्चञ्चले धूर्ते घोरे च नरकान्तरे ।वडवा कुम्भदास्यश्वाब्राह्मणकामिनीषु च ॥
7.29.33 · p. 287
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ण (wrong syllable)
वाडवं तु हयव्यूहे क्लीबं स्त्रीकरणेऽस्त्रियाम् ।पाताले ना वाडवाग्नौ ब्राह्मणे दुर्जनेऽपि च ॥
7.29.34 · p. 287
अनुष्टुप्
विभवो मोक्षसम्पत्त्योर्विद्रवो द्रुतिनिन्दयोः ।विभावः स्यात्परिचये मन्मथोद्दीपनादिषु ॥
7.29.35 · p. 288
अनुष्टुप्
शात्रवः पुंसि शत्रौ स्यात्क्लीबं तद्भावनन्दयोः ।षाडवो गालभेदे स्याद्रसभेदे भवेत्पुमान् ॥सम्भवो मेलके हेतौ जन्मन्यांधेयधारणे ।सुग्रीवो विष्णुतुरगे सुन्दरे च कपीश्वरे ॥
7.29.36 · p. 288
अनुष्टुप्
अनुभावः प्रभावे च निश्चये भावबोधके ।भवेदभिषवः स्नाने मद्यसन्धानयज्ञयोः ॥उपप्लवः स्यादुत्पाते विप्लवे च विधुन्तुदे ।जलबिल्वः पञ्चगुप्ते कर्कटे जलचत्वरे ॥
7.29.37 · p. 288
अनुष्टुप्
परिप्लवस्तिरस्कारे विलासाकुलयोरपि ।पारशवः शस्त्रभेदे द्विजाच्छुद्रासुतेऽपि च ॥
7.29.39 · p. 288
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 श (wrong syllable)
परस्त्रीतनये चापि तथा मागेधभिद्यपि ।पुटग्रीवस्ताम्रकुम्भे गर्गर्यां न नपुंसकम् ॥बलदेवः समीरे स्याद्बलरामे च पुंस्ययम् ।रन्तिदेवो नृपभिदि स्मरे च गरुडध्वजे ॥
7.29.40 · p. 288
अनुष्टुप्
रोहिताश्वश्चित्रभावौ हरिश्चन्द्रनृपात्मजे ।भवेच्छीतशिवः शम्यां क्लीबे शैलेयसैन्धवे ॥
7.29.41 · p. 288
अनुष्टुप्
सहदेवः पाण्डवे स्यात्सर्पाक्ष्यां सहदेव्यपि ।सहदेवा बलानन्तापलदण्डोत्पलेषु च ॥
7.29.42 · p. 288
अनुष्टुप्