कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

गाण्डीव

gāṇḍīvaपुंक्ली · m. n.

In 13 kośas: 14 synonym verses, 5 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.481 · p. 30
अर्जुनः फाल्गुनः पार्थः सव्यसाची धनंजयः ॥ ७०८ ॥राधावेधी किरिट्यैन्द्रिर्जिष्णुः श्वेतहयो नरः ।बृहन्नलो गुडाकेशः सुभद्रेशः कपिध्वजः ॥ ७०९ ॥बीभत्सः कर्णजित्तस्य गाण्डीवं गाण्डिवं धनुः ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.141
धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम् ।इष्वासोऽप्यथ कर्णस्य कालपृष्ठं शरासनम् ॥ ८३ ॥कपिध्वजस्य गाण्डीवगाण्डिवौ पुन्नपुंसकौ ।
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.44 · p. 93
नन्दिघोषो धनुरपि गाण्डीवो गाण्डिवोऽस्त्रियाम् ।गाञ्जीवो गाञ्जिवोऽप्यस्त्री नकुलस्त्वश्वशास्त्रवित् ॥ ४४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.261 · p. 117
स्यादस्त्रियां धनुः षान्तं धनुः पुंसि धनूः स्त्रियाम् ।तृणता त्रिणता चापो न स्त्री गाण्डीवगाण्डिवौ ॥ २६१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.187 · p. 482
गाण्डीवगाण्डिवोल्वानां पार्श्वत्रिदिवयोरपि ।भावारावपारशवशरावाणां शवस्य च ॥ १८७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 व (wrong syllable)
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.19 · p. 246
गाण्डीवं गाण्डिवं न स्त्री धनुस्तस्य रथः पुनः ।नन्दिघोषोऽथ शङ्खोऽस्य देवदत्तः प्रकीर्त्तितः ॥भीमस्य पौण्ड्रः शङ्खः स्यान्नकुलस्तन्त्रिपालकः ।ग्रन्थिकः सहदेवः स्यान्माद्रेयौ द्वाविमौ यमौ ॥ १९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.69 · p. 115
गरलं मुसलं सालं तथा गाण्डीव-गाण्डिवौ ।पूर्व *** प्रग्रीवपार्श्वः पारशवोऽपि च ॥ ६९ ॥
अनुष्टुप्metre not read in every line
genderपुंक्लीm. n.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.339 · p. 143
किरीट्यैन्द्रिः सुभद्रेशश्चापे गाण्डीवगाण्डिवे ।पाञ्चाली याज्ञसेनी च द्रौपदी नित्ययौवना ॥ ३३९ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.160 · p. 230
genderपुंक्लीm. n.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1154 · p. 179
पुनस्तस्य रथो नन्दिघोषनाम निगद्यते ।धनुस्तु गाण्डिवं चैव गाण्डीवमर्जुनस्य हि ॥ ११५४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.325 · p. 132
अथ कालं कालपृष्ठं भवेत् कर्णस्य कार्मुके ।अर्जुनस्य च गाण्डीव-गाण्डिवौ न स्त्रियां द्वयम् ॥
अनुष्टुप्
genderपुंक्लीm. n.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.244 · p. 208
पाण्डवायनाश्चाऽर्जुनधनौ गाण्डीव-गाण्डिवौ ।धनुर्मात्रेऽप्यमू, हाले वाहनः सात-सालतः ॥ २४४ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1328 · p. 161
कपिकेतनकोदण्डे गाण्डीवो गाण्डिवश्च वा क्लीबे ।कर्णस्य कालपृष्ठं मिश्रकमनिलात्मसंभवस्य धनुः ॥ १३२८ ॥
गीतिः
genderपुंक्लीm. n.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव लिङ्गादिसंग्रहः Trikāṇḍaśeṣa 4.14 · p. 278
वल्मीकवृषणद्रोणगाण्डीवनिगडानि च ।मुकुलादि च विज्ञेयं शिष्टसन्दर्भतोपरम् ॥ १४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
धरणिकोश Dharaṇikośa · धरणिदास वार्धश्लोकः Dharaṇikośa 28.2.18 · p. 207
अभावः स्यादसत्तायामभावो निधनार्थकः ।गाण्डीवं गाण्डिवं चैव धनुष्यर्जुनधन्वनि ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वान्ताः Koṣakalpataru 6.29.29 · p. 363
पद्मेऽन्त्येऽप्यथ कर्णवैरिधनुषि स्याद्गाण्डिवं न[79b]स्त्रियांगाण्डीवं च धनुष्यथो किल शरेऽक्षीवं भवेद्बान्तवत् ।अन्यस्मिन्मदवर्जितेऽथ नृपतौ स्यात्पार्थिवो वाच्यवत्पृथ्व्युत्पातविकारयोर्जनकजागौर्योर्भवेद्योषिति ॥ २९ ॥
शार्दूलविक्रीडितम्metre not read in every line
meanings
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.664 · p. 104
अनादिसम्प्रदायस्तु गाण्डीवो न स्त्रियामयम् ।पार्थचापे चापमात्रेऽप्यथैकोऽप्याह गाण्डिवम् ॥ ६६४ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वान्ताः Śabdaratnāvalī 7.29.29 · p. 287
कुटुम्बोऽस्त्री जनज्ञातिबान्धवेषु च सन्ततौ ।कैरवं कुमुदे धूर्ते चन्द्रिकायान्तु कैरवी ॥गाण्डीवगाण्डिवौ चापे पार्थचापेऽपि न स्त्रियौ ।गालवो मुनिभेदे स्यात्तथा लोध्रमहीरुहे ॥ताण्डवोऽस्त्री तृणभिदि ख्याते नृत्ये समुद्धते ।त्रिदिवा तु नदीभेदे स्वर्लोके तु भवेत्पुमान् ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 7.5.35 · p. 259
पार्थचापे चापमात्रे गाण्डीवो गाण्डिवोऽस्त्रियौ ।कशेरुहेम्नोर्गांगेयं गांगेयो गुहभीष्मयोः ॥ ३५ ॥
अनुष्टुप्