कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vaijayantī

वैजयन्ती Vaijayantī

3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)

त्र्यक्षरकाण्डः · नानालिङ्गाध्यायः

इति भगवता यादवप्रकाशेन विरचितायां वैजयन्त्यां त्र्यक्षरकाण्डे अर्थवल्लिङ्गाध्यायः

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः

गुणाद्यर्थेऽर्थलिङ्गत्वमिहाप्यूह्यं स्वयं क्व चित् ।अन्तरः परिधानीये बाह्ये स्वीयेऽन्तरात्मनि ॥ १ ॥
7.5.1 · p. 257
अनुष्टुप्
क्ली तु मध्येऽवकाशे च तादर्थ्येऽवसरेऽवधौ ।विशेषविवरान्तर्धिष्ववसानविनार्थयोः ॥ २ ॥
7.5.2 · p. 257
अनुष्टुप्
अक्षरोऽसौ हरौ धातर्यक्षरं प्रणवे विधौ ।धर्मे वर्णे तपःक्रत्वोः खे मोक्षे मूलकारणे ॥ ३ ॥
7.5.3 · p. 257
अनुष्टुप्
अनन्तो नागराड्विष्णुरनन्तं खनिरन्तयोः ।अनन्ता पूर्णिमा दूर्वा यवाषः शारिबा मही ॥ ४ ॥
7.5.4 · p. 257
अनुष्टुप्
अर्जुनः पाण्डवे पाण्डौ मातुरेकसुते द्रुमे ।नेत्ररोगे चार्जुनं तु तृणे हेम्न्यर्जुनी गवि ॥ ५ ॥
7.5.5 · p. 257
अनुष्टुप्
विषारुणारुणं ताम्रमरुणः सूर्यसारथौ ।अव्यक्तरागे शशिजे सन्ध्याभ्रे लोहिते रवौ ॥ ६ ॥
7.5.6 · p. 257
अनुष्टुप्
अमृतं व्योम्नि देवान्ने यज्ञशेषे रसायने ।अयाचिते जले जग्धौ मोक्षेऽन्ने हेम्नि गोरसे ॥ ७ ॥
7.5.7 · p. 257
अनुष्टुप्
क्लीबो ना त्वमरे स्त्री तु गुलूच्यां मद्यभिक्षयोः ।आमलक्यां हरीतक्यां त्रिषु तु स्वादुनित्ययोः ॥ ८ ॥
7.5.8 · p. 257
अनुष्टुप्
अरिष्टो वायसे निंबे गोरसे निरुपद्रवे ।क्ली तु वर्ण्ये मृत्युचिह्ने मद्ये ताम्रे शुभेऽशुभे ॥ ९ ॥
7.5.9 · p. 257
अनुष्टुप्
अंगजो ना सुतेऽनंगे क्ली रोगे रुधिरेऽपि च ।न ना कवाटे क्ली लोहे सोमे स्यादररः पुमान् ॥ १० ॥
7.5.10 · p. 257
अनुष्टुप्
लाजेष्वभ्योषमभ्योषाः साज्यांभःपेयसक्तवः ।कृकलासेंऽडजो मत्स्ये खगे कस्तूरिकाण्डजा ॥ ११ ॥
7.5.11 · p. 257
अनुष्टुप्
अविषो निर्विषेंऽभोधावविषी दिवि पुंसि वा ।अपानो देहजो वायुरपानं वृषणे गुदे ॥ १२ ॥
7.5.12 · p. 257
अनुष्टुप्
प्रधानेऽव्यक्तमव्यक्तो ब्रह्मण्यस्पष्टमूर्खयोः ।अमरेन्द्रपुरी स्थूणा गुडूची चामराः सुराः ॥ १३ ॥
7.5.13 · p. 258
अनुष्टुप्
क्ल्यक्षतं तण्डुले धान्ये न ना लाजेषु ना यवे ।अजिरं जर्जरे कामे विषयांकणयोर्द्रुते ॥ १४ ॥
7.5.14 · p. 258
अनुष्टुप्
अलसौ पादरुङ्मन्दावण्डीरौ शक्तपूरुषौ ।विद्युत्पव्योरक्ल्यशनिरनीकोऽस्त्री चमूयुधोः ॥ १५ ॥
7.5.15 · p. 258
अनुष्टुप्
अधरोऽनूर्ध्वहीनोष्ठेष्वनृतं वितथे कृषौ ।आश्रमोऽस्त्री मुनिस्थाने ब्रह्मचर्यादिके मठे ॥ १६ ॥
7.5.16 · p. 258
अनुष्टुप्
कोट्टारे कृपणे जीर्णे स्थानेऽभिप्राय आशयः ।शर्करायां दृषत्पुत्रे स्त्र्यस्त्र्यश्मन्युपलो मणौ ॥ १७ ॥
7.5.17 · p. 258
अनुष्टुप्
उत्तरं प्रतिवाक्ये स्यादुदीच्ये प्रवरोर्ध्वयोः ।स्त्रीलिङ्गत्वे धनुर्लक्ष्म्यां पुरुषे पावके च ना ॥ १८ ॥
7.5.18 · p. 258
अनुष्टुप्
करीरो ना घटे न स्त्री पादपे वैणवांकुरे ।करेणुस्तु करिण्यां स्त्री कर्णिकारे गजे च ना ॥ १९ ॥
7.5.19 · p. 258
अनुष्टुप्
भिक्षापात्रे तु कमठं कमठौ खर्वकच्छपौ ।अस्त्री कशिपु शय्यायां वस्त्रेऽन्ने तद्द्वयेऽपि च ॥ २० ॥
7.5.20 · p. 258
अनुष्टुप्
करटो दुर्दुरूटे स्याद्बिल्वे काकेभगण्डयोः ।कल्याणी क्ष्मोमयोः क्ली तु मंगलेऽक्षयरुक्मयोः ॥ २१ ॥
7.5.21 · p. 258
अनुष्टुप्
रागे क्वाथे कषायोऽस्त्री निर्यासे सौरभे रसे ।कान्तार इक्षुभेदे ना न स्त्री व्यध्वे महावने ॥ २२ ॥
7.5.22 · p. 258
अनुष्टुप्
कीनाशो रक्षसि यमे कदर्ये कर्षकेऽर्थवत् ।कुहनो मूषिके सेर्ष्ये कुहना दंभशीलता ॥ २३ ॥
7.5.23 · p. 258
अनुष्टुप्
कुशलं निपुणे पुण्ये पर्याप्तौ मंगले क्षमे ।कुकूलं शंकुभिः कीर्णे श्वभ्रे ना तु तुषानले ॥ २४ ॥
7.5.24 · p. 258
अनुष्टुप्
कुण्डली चित्रलमृगे सर्पे कुण्डलवत्यपि ।कुंकुमे महारजने कुसुंभं ना कमण्डलौ ॥ २५ ॥
7.5.25 · p. 259
अनुष्टुप्metre not read in every line
केवलं निश्चिते क्लीबे वाच्यवत्त्वेककृत्स्नयोः ।कमलं छुरिकादीनां हेमाद्यैश्चित्रिताजिने ॥ २६ ॥
7.5.26 · p. 259
अनुष्टुप्
रक्ताब्जेऽब्जेऽप्सु च श्रीस्तु कमला कमलो मृगः ।अक्ली कोल्यां क्रोष्टुकोल्यां कर्कन्धूः स्त्री तु संयुगे ॥ २७ ॥
7.5.27 · p. 259
अनुष्टुप्
तथा मध्वाज्यसंसिक्तयवलाजजतर्पणे ।कुमारः स्याद्गुहे बाले वरणेऽश्वानुचारके ॥ २८ ॥
7.5.28 · p. 259
अनुष्टुप्
युवराजे च ना क्ली तु द्वीपे पुंस्त्री मृगोमयोःकुतपो भागिनेयेऽर्के विप्रेऽग्नावतिथौ गवि ॥ २९ ॥
7.5.29 · p. 259
अनुष्टुप्
अस्त्री त्वह्नोऽष्टमे भागे तिलेषु छागकंबले ।दर्भे च केसरस्त्वस्त्री सिंहकेशाश्वकेशयोः ॥ ३० ॥
7.5.30 · p. 259
अनुष्टुप्
कलिलं गहने बृन्दे सैन्येऽपि कटकोऽस्त्रियाम् ।किञ्जल्कः केसरे खे क्ली कृषकौ फालकर्षकौ ॥ ३१ ॥
7.5.31 · p. 259
अनुष्टुप्
कातरः पण्डके त्रस्नौ क्षेत्रज्ञावात्मशिक्षितौ ।कुसीदमृणवृद्धौ क्ली वाच्यवद्वृद्धिजीविनि ॥ ३२ ॥
7.5.32 · p. 259
अनुष्टुप्
कलिङ्गं तु यवे ना तु देशपक्षिविशेषयोः ।खनको भूमिवित्तज्ञे मूषिकेऽप्यवदारके ॥ ३३ ॥
7.5.33 · p. 259
अनुष्टुप्
गर्जितो मत्तमातङ्गे क्ली तन्नादेंऽबुदध्वनौ ।गण्डूषोऽस्त्री गण्डपूर्तौ प्रसृते गजपुष्करे ॥ ३४ ॥
7.5.34 · p. 259
अनुष्टुप्
पार्थचापे चापमात्रे गाण्डीवो गाण्डिवोऽस्त्रियौ ।कशेरुहेम्नोर्गांगेयं गांगेयो गुहभीष्मयोः ॥ ३५ ॥
7.5.35 · p. 259
अनुष्टुप्
ग्रामणीः स्वामिनि श्रेष्ठे ग्रामेशे नापिते तु ना ।गोमुखोऽस्त्री वाद्यभेदे नक्रे नाले वने नपुम् ॥ ३६ ॥
7.5.36 · p. 259
अनुष्टुप्
गोष्पदं गोखुरश्वभ्रे मानगोगम्ययोरपि ।वृत्तैकभक्ते चरणे चरणा बह्वृचादयः ॥ ३७ ॥
7.5.37 · p. 259
अनुष्टुप्
स्थण्डिले प्रांगणे च क्ली चत्वरं ना चतुष्पथे ।चातुरः शकटे चक्रगण्डे नयनगोचरे ॥ ३८ ॥
7.5.38 · p. 260
अनुष्टुप्
चपलः पारदे शीघ्रे दुर्विनीते चले कपौ ।चले केशे च चिकुरो जराय्वस्त्र्यंबुजेऽपि च ॥ ३९ ॥
7.5.39 · p. 260
अनुष्टुप्
जृंभितं जृंभणोत्फुल्लविवृद्धेषु विचेष्टिते ।जीवकः प्रवरे जन्तौ श्रमणे वृद्धिजीविनि ॥ ४० ॥
7.5.40 · p. 260
अनुष्टुप्
जर्जरस्त्रिषु जीर्णे स्यात् पुमानिन्द्रध्वजे पिके ।टगरष्टंगनक्षारे नाकेकरदृशि त्रिषु ॥ ४१ ॥
7.5.41 · p. 260
अनुष्टुप्
स्त्री नौनद्योर्व्रजस्तंभे तरणिर्नार्णवे रवौ ।भुवीन्द्रपुत्र्यां तविषी ताविष्यब्धिदिवोर्नरौ ॥ ४२ ॥
7.5.42 · p. 260
अनुष्टुप्
तमिस्रा स्त्री ध्वान्तनिशि निश्यन्धतमसे न ना ।तातगुः शूद्रताते ना ताताय तु हिते त्रिषु ॥ ४३ ॥
7.5.43 · p. 260
अनुष्टुप्
तातलो लोहकूटे ना त्रिषु तप्ते मनोजवे ।तरलो भास्वरे हारे चञ्चलेऽप्यथ तारका ॥ ४४ ॥
7.5.44 · p. 260
अनुष्टुप्
न नाक्षिमध्ये नक्षत्रे द्विजिह्वौ सूचकोरगौ ।दुर्वर्णं दुष्प्रभे रूप्ये देयभेदे तु दक्षिणा ॥ ४५ ॥
7.5.45 · p. 260
अनुष्टुप्
त्रिष्ववाक्सरलावामेष्वन्यच्छन्दानुवर्तिनि ।कनिष्ठपत्न्यामरतौ पुनर्भूपरिविन्नयोः ॥ ४६ ॥
7.5.46 · p. 260
अनुष्टुप्
स्त्री पुनर्भ्वास्तु पत्यौ ना दिधिषुर्दिधिषूरपि ।स्याद्दीपकमलंकारे स्वरूपे दीप्तिमत्यपि ॥ ४७ ॥
7.5.47 · p. 260
अनुष्टुप्
दुन्दुभिः पुंसि भेर्यां स्त्री त्वक्षबिन्दुत्रिकद्वये ।धर्षणं सुरते धार्ष्ट्ये कुलटायां तु धर्षणी ॥ ४८ ॥
7.5.48 · p. 260
अनुष्टुप्
चारौ श्रेष्ठे वृषे श्वेते धवलो धवली गवि ।धौतांचले रजक्याञ्च धावनी धावनं गतिः ॥ ४९ ॥
7.5.49 · p. 260
अनुष्टुप्
धिषणा स्त्री धियां गौर्यां स्त्रीचिह्ने ना तु गीष्पतौ ।नागरं पुरजे चुक्रे शुण्ठीराजकशेरुणोः ॥ ५० ॥
7.5.50 · p. 261
अनुष्टुप्
निधनोऽस्त्री कुले नाशे निस्त्रिंशः क्रूरखड्गयोः ।नालीकमब्जे बाणे ना निशान्तं गृहशान्तयोः ॥ ५१ ॥
7.5.51 · p. 261
अनुष्टुप्
केशादिशौक्ल्ये पलितं शैलेये ना तु कर्दमे ।पटलं दृग्रुक्छदिषोः क्ली न ना पिटके गणे ॥ ५२ ॥
7.5.52 · p. 261
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ग्रु (wrong syllable)
पर्याप्तं स्याद्यथाकामे तृप्तौ शक्तौ निवारणे ।प्रवणो दक्षिणे प्रह्वे क्रमनिम्ने चतुष्पथे ॥ ५३ ॥
7.5.53 · p. 261
अनुष्टुप्
प्रकाशोऽर्चिषि दीधित्यां ना तुल्यस्फुटयोस्त्रिषु ।मुखे प्रतीकस्त्रिषु तु प्रतिकूलानुरूपयोः ॥ ५४ ॥
7.5.54 · p. 261
अनुष्टुप्
वीणादण्डे प्रवालोऽस्त्री विद्रुमे नवपल्लवे ।प्रसूनमर्थवज्जाते पुष्पे क्ली सारथौ पुमान् ॥ ५५ ॥
7.5.55 · p. 261
अनुष्टुप्
प्रग्रीवमस्त्री कलशे ग्रीवाप्रासादयोरपि ।पाटला गवि पाटल्यामाशुव्रीहिस्तु पाटलः ॥ ५६ ॥
7.5.56 · p. 261
अनुष्टुप्
पिनाकोऽस्त्री रजोवर्षे शूले शंकरधन्वनि ।त्रिषूर्ध्वबाहुपुंमात्रे क्ली पुंसो भावकर्मणोः ॥ ५७ ॥
7.5.57 · p. 261
अनुष्टुप्
पौरुषं पल्लवं त्वस्त्री प्रकोष्ठेऽप्यतिविस्तृतौ ।पवित्रोऽग्नौ हरौ पूते क्ली तु ताम्रेऽप्सु गोमये ॥ ५८ ॥
7.5.58 · p. 261
अनुष्टुप्
मन्त्रे दघ्नि ब्रह्मसूत्रे हेम्न्यर्थे कलशे कुशे ।पुलस्त्यवंश्ये पुरुषे पौलस्त्यः क्ली तु संयुगे ॥ ५९ ॥
7.5.59 · p. 261
अनुष्टुप्
फलकी चन्दने स्त्री न स्त्री दार्वासनचर्मणोः ।फेनिलं बदरे फेनयुक्तेऽथ ब्राह्मणो द्विजे ॥ ६० ॥
7.5.60 · p. 261
अनुष्टुप्
आत्मज्ञे क्ली तु विधिवद्वेदभागतदंशयोः ।बहुलः कृष्णपक्षेऽग्नौ पुमांस्त्रिष्वसिते बहौ ॥ ६१ ॥
7.5.61 · p. 261
अनुष्टुप्
स्त्री स्यात्पृथिव्यामुस्रायामेलायां कृत्तिकासु च ।भविलं भवने भव्ये भ्रमरः कामुकेऽलिनि ॥ ६२ ॥
7.5.62 · p. 261
अनुष्टुप्
उद्याने मलयं ना तु गिर्यंशगिरिभेदयोः ।मत्सरोऽन्योदयद्वेषे तद्वत्कृपणयोस्त्रिषु ॥ ६३ ॥
7.5.63 · p. 262
अनुष्टुप्
मन्थरः सूचके कोपे मन्थाने मन्दगामिनि ।मार्गणं मृगणायां स्यान्मार्गणो याचके शरे ॥ ६४ ॥
7.5.64 · p. 262
अनुष्टुप्
दूर्वायां स्त्रीक्षुमूले क्ली गोरसेऽपि च मोरटम् ।त्रिलिङ्गं मण्डलं बृन्दे ग्रामौघप्रतिबिंबयोः ॥ ६५ ॥
7.5.65 · p. 262
अनुष्टुप्
उपसूर्ये कुष्ठरोगे देशे द्वादशराजके ।मुचिरौ धर्मदातारौ मोदकौ खाद्यहर्षकौ ॥ ६६ ॥
7.5.66 · p. 262
अनुष्टुप्
पित्रादेः कन्ययाप्तेऽर्थे क्ली स्वीये त्रिषु यौतकम् ।युतकं युगले युक्ते यौतके वसनाञ्चले ॥ ६७ ॥
7.5.67 · p. 262
अनुष्टुप्
संश्रयेऽग्रे च शूर्पस्य वस्त्रभेदे च योषितः ।रसनं क्ली कषायेऽन्ने द्रवे स्नेहे विषे फले ॥ ६८ ॥
7.5.68 · p. 262
अनुष्टुप्
निर्यासे हेम्नि रूप्ये च जिह्वास्वादनयोर्न ना ।रेवटं दक्षिणावर्तशंखे रेणौ तु रेवटः ॥ ६९ ॥
7.5.69 · p. 262
अनुष्टुप्
वातूले विषवैद्येऽथ रजतं शोणिते ह्रदे ।श्वेते हारेऽप्यथोष्ट्रेऽलौ रवणः शब्दनेऽर्थवत् ॥ ७० ॥
7.5.70 · p. 262
अनुष्टुप्
रोषाणो रोषणे स्वर्णघर्षणग्राव्णि पारदे ।रौहिषं रक्तकत्तृणे मत्स्यभेदे मृगे च ना ॥ ७१ ॥
7.5.71 · p. 262
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 त्तृ (wrong syllable)
लालसा तु न नौत्सुक्ये दौहृदाद्यभिलाषयोः ।ललामोऽस्त्री ललामापि प्रभावे पौरुषे ध्वजे ॥ ७२ ॥
7.5.72 · p. 262
अनुष्टुप्
श्रेष्ठे भूषापुण्ट्रशृंगपुच्छचिह्नाश्वलिंगिषु ।लोचको मांसपिण्डे स्यान्नीलिन्यां चर्मणि भ्रुवि ॥ ७३ ॥
7.5.73 · p. 262
अनुष्टुप्
रक्तांशुके दुष्टबुद्धौ क्रोष्टुधूर्तौ तु वञ्चकौ ।विनीतस्त्रिष्वपि प्राप्ते निभृते विजितेन्द्रिये ॥ ७४ ॥
7.5.74 · p. 262
अनुष्टुप्
विनयं ग्राहिते चैष सुखवाहिहये पुमान् ।विषयी राज्ञि कन्दर्पे विषयस्थजने च ना ॥ ७५ ॥
7.5.75 · p. 263
अनुष्टुप्
अर्थवद्विषयोपेत इन्द्रिये तु नपुंसकम् ।अस्त्री वितानमुल्लोचे विस्ताराध्वरयोः क्षणे ॥ ७६ ॥
7.5.76 · p. 263
अनुष्टुप्
त्रिषु शून्ये च मन्दे च विषाण्युक्षेभशृंगिषु ।भेक्यां पुनर्नवायां स्त्री वर्षाभूर्दर्दुरे न षण् ॥ ७७ ॥
7.5.77 · p. 263
अनुष्टुप्
वयः स्थामलकीपथ्याब्राह्मीषु तरुणे त्रिषु ।वलजा वरनार्यां च क्षेत्रे द्वारि च सा न ना ॥ ७८ ॥
7.5.78 · p. 263
अनुष्टुप्
वर्णकोऽस्त्री प्रकारे स्याच्चन्दने स्त्र्यङ्गलेपने ।दुःखे विलक्षे व्यलीकमप्रियाकार्ययोस्तु ना ॥ ७९ ॥
7.5.79 · p. 263
अनुष्टुप्
वातूलो वातसंघाते वातले मरुतोऽसहे ।विहायाः पुंनपुं व्योम्नि पुमानेव पतत्रिणि ॥ ८० ॥
7.5.80 · p. 263
अनुष्टुप्
विशिखा तु खनित्री च क्ली चित्ते ना त्वसौ शरे ।विमानोऽस्त्री देवयाने सप्तभूमे च सद्मनि ॥ ८१ ॥
7.5.81 · p. 263
अनुष्टुप्
विटपोऽस्त्री द्रुविस्तारे पल्लवे स्तंबशाखयोः ।विषाणस्त्रिषु लिङ्गेषु पश्वङ्गगजदन्तयोः ॥ ८२ ॥
7.5.82 · p. 263
अनुष्टुप्
वेदना दुःखानुभवे ज्ञाने च स्त्रीनपुंसकम् ।स्कन्दे विशाख ऋक्षे स्त्री विहासः स्फुटहासयोः ॥ ८३ ॥
7.5.83 · p. 263
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 खा (wrong syllable)
पापेऽपि वृजिनं केशे पुमानिन्दुस्तु शर्वरः ।स्त्री रात्रिसन्ध्याशर्वर्यो र्दैत्ये ना शंबरोऽप्सु षण् ॥ ८४ ॥
7.5.84 · p. 263
अनुष्टुप्
शयथुस्त्रिषु निद्रालौ मृत्याविजगरे च ना ।शय्यायां शयनं न स्त्री निद्रासुरतयोर्नपुम् ॥ ८५ ॥
7.5.85 · p. 263
अनुष्टुप्
शरत्पक्वादिशालीनौ प्रत्यग्रोऽब्जञ्च शारदः ।गंभार्यां कट्फले श्रीपर्ण्यग्निमन्थाब्जयोर्नपुम् ॥ ८६ ॥
7.5.86 · p. 263
अनुष्टुप्
यमेऽपि शमनो ध्वान्ते क्ली हिंस्त्रे त्रिषु शार्वरः ।करञ्जभेदे षट्ग्रन्थः षट्ग्रन्था ग्रन्थिकं वचा ॥ ८७ ॥
7.5.87 · p. 263
अनुष्टुप्
समानः प्राणभेदे ना त्रिष्वेकसमसाधुषु ।संस्कारे ना संस्कृतिः स्त्री संकल्पप्रतियत्नयोः ॥ ८८ ॥
7.5.88 · p. 264
अनुष्टुप्
स्पर्शनः पवमाने स्यात् स्पर्शनं स्पृष्टिदानयोः ।सारंगः शबलो वर्णश्चातकः षट्पदो मृगः ॥ ८९ ॥
7.5.89 · p. 264
अनुष्टुप्
छिद्रे छिद्रान्विते वाद्ये सुषिरं सुषिरो नडः ।सुमनाः पुष्पमालत्योः स्त्री देवबुधयोः पुमान् ॥ ९० ॥
7.5.90 · p. 264
अनुष्टुप्
सैन्धवोऽश्वेऽश्वभेदे ना न स्त्री तु लवणोत्तमे ।बदरेऽपि च सौवीरं ना नीवृद्गोपघोण्टयोः ॥ ९१ ॥
7.5.91 · p. 264
अनुष्टुप्
संगरो ना क्रियाकारे प्रतिज्ञाविपदोर्युधि ।शमीफले तु षण्डोऽथ संबाधौ योनिसंकटौ ॥ ९२ ॥
7.5.92 · p. 264
अनुष्टुप्
सुरभिर्वाच्यवत् सौम्ये सुगन्धौ स्त्री त्वसौ गवि ।पुमांश्चैत्रे वसन्ते च सेवकौ स्यूतभाजकौ ॥ ९३ ॥
7.5.93 · p. 264
अनुष्टुप्
सुकृतं शोभने धर्मे हर्षुलो मृगकामिनोः ।
7.5.94 · p. 264