All kośas › Nānārthārṇavasaṃkṣepa
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa
5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)
नानालिङ्गाध्यायः (6/18)
मिश्रवर्णविशेषे च पाण्डरश्यामले त्रि तु ।तद्युक्ते कौशिकस्त्विन्द्रे गुग्गुलौ ना द्वयोः पुनः ॥ ६०१ ॥
4.601 · p. 99
अनुष्टुप्
उलूके कुशिकापत्ये व्यालग्राहे च नप् पुनः ।कौशिकं मजवातौ स्यात् कौशिकी तु स्त्रियामियम् ॥ ६०२ ॥
4.602 · p. 99
अनुष्टुप्
पार्वत्यां निम्नगाभेदे कौमुदी तु स्त्रियामियम् ।कार्तिक्यां पौर्णमास्यां स्याच्चन्द्रिकायां च ना पुनः ॥ ६०३ ॥
4.603 · p. 99
अनुष्टुप्
कार्तिकीयुक्तमासेऽथ त्रिः स्यात् कुमुदयोगिनि ।कौणपो नरके पुंसि राक्षसे तु द्वयोरयम् ॥ ६०४ ॥
4.604 · p. 99
अनुष्टुप्
कौक्कुटं क्लीबमायासे त्रि तु कुक्कुटयोगिनि ।कौसला तु स्त्र्ययोध्यायां त्रिस्तु कोसलयोगिनि ॥ ६०५ ॥
4.605 · p. 99
अनुष्टुप्
खर्जूरो ना परूषाख्यपादपे सा पुनः स्त्रियाम् ।तज्जातिभेदेऽल्पतरे खर्जूरे क्लीबके पुनः ॥ ६०६ ॥
4.606 · p. 99
अनुष्टुप्
रजते हरिताले च प्रसवेऽत्रोक्तभूरुहोः ।वृश्चिकाख्ये पुनर्दीर्घकीटे द्वे रभसः पुनः ॥ ६०७ ॥
4.607 · p. 99
अनुष्टुप्
भेद्यलिङ्गं खले प्राह शब्दवित् खदिरः पुनः ।गायत्रीसंज्ञके वृक्ष ऋषिभेदे द्वयोः पुनः ॥ ६०८ ॥
4.608 · p. 99
अनुष्टुप्
दुश्चिकित्सविषे वृश्चिकान्तरे स्यात् स्त्रियां पुनः ।नमस्कारीसमाख्यायां क्षुद्रवल्ल्यां तथैव सा ॥ ६०९ ॥
4.609 · p. 100
अनुष्टुप्
शमीफलासमाल्ये च जलशाकलतान्तरे ।खशयस्तु द्वयोर्भेके त्रिस्तु खे शयितर्यसौ ॥ ६१० ॥
4.610 · p. 100
अनुष्टुप्
खराङ्गस्तु द्वयोर्भेके कर्कशाङ्गे तु भेद्यवत् ।खण्डिका तु स्त्रियां प्रावृड्रात्रौ शकलिते पुनः ॥ ६११ ॥
4.611 · p. 100
अनुष्टुप्
त्रिः स्याद्विरहिते तस्य वाक्ये च स्त्री तु खण्डना ।वैधव्यलक्षणोपेता या कन्या शास्त्रदर्शिता ॥ ६१२ ॥
4.612 · p. 100
अनुष्टुप्
अविवाह्यासु कन्यासु तस्यां स्त्रीशण्डयोः पुनः ।खण्डनं खण्डना चेति धातोः खण्डयतेः कृतौ ॥ ६१३ ॥
4.613 · p. 100
अनुष्टुप्
खपुरो ना पूगवृक्षे पूगपट्टे च शाखिनाम् ।निर्यासे भद्रमुस्ते च रभसः प्रोक्तवानमुम् ॥ ६१४ ॥
4.614 · p. 100
अनुष्टुप्
गन्धद्रव्यविशेषे च बालसंज्ञेऽजयः पुनः ।अत्रार्थे शण्डमाचष्टे क्ली तु पूगफले स्मृतम् ॥ ६१५ ॥
4.615 · p. 100
अनुष्टुप्
अस्त्री तु खण्डलं खण्डे चीरवस्त्रेऽप्यथ द्वयोः ।खञ्जनः खञ्जरीटे क्ली पुनः खञ्जनकर्मणि ॥ ६१६ ॥
4.616 · p. 100
अनुष्टुप्
खजकस्तु पुमान् मन्थदण्डे द्वे रसपाचके ।खजाकस्तु पुमान् मन्थदण्डे क्ली तु विहायसि ॥ ६१७ ॥
4.617 · p. 100
अनुष्टुप्
शरीरे च खजाका तु स्त्री दर्व्यामसतीस्त्रियाम् ।खनको मूषिके द्वे स्यान्मर्त्यजात्यन्तरे तथा ॥ ६१८ ॥
4.618 · p. 100
अनुष्टुप्
राज्ञीमागधयोर्जाते त्रि तु स्यादवदारके ।तथा स्याद्भूमिवित्तज्ञे खनित्रं तु नपुंसकम् ॥ ६१९ ॥
4.619 · p. 100
अनुष्टुप्
कुद्दाले स्यात् खनित्री तु दण्डभेदे तपस्विनाम् ।विशाखिकासमाख्ये स्यात् खचितं त्वभिधेयवत् ॥ ६२० ॥
4.620 · p. 100
अनुष्टुप्
विद्यान्मणौ लोहविद्ध उद्धृतस्नेह एव च ।घृतहीने तु दध्नि क्लीत्याह हर्षः स्त्रियां पुनः ॥ ६२१ ॥
4.621 · p. 101
अनुष्टुप्
ज्ञेया कृष्णविषाणायां यजमानम्य खर्जनी ।खर्जनं तु नपि ज्ञेयं क्रियायां खर्जतेरथ ॥ ६२२ ॥
4.622 · p. 101
अनुष्टुप्
खलीनोऽस्त्री तुरङ्गाणां मुखसंयमने त्रि तु ।छिद्राकाशादिलीने स्यात् (ख?खि)दिरस्तु पुमान् भये ॥ ६२३ ॥
4.623 · p. 101
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
इन्द्रे च तस्करे तु त्रिः खिङ्खारस्तु पुमानयम् ।किखीरके च खट्वाङ्गे क्रोष्टौ तु द्वेऽजयः पुनः ॥ ६२४ ॥
4.624 · p. 101
अनुष्टुप्
शिवाभेद इति ब्रूते रभसाद्यास्तु मन्वते ।खिङ्खिरो ना वारिवाहे खट्वाङ्गे च द्वयोः पुनः ॥ ६२५ ॥
4.625 · p. 101
अनुष्टुप्
शिवाभेदे खिङ्खिरा तु बन्धहृत्त्वे स्त्रियामिति ।खुण्डकस्तु पुमान् ह्रस्वनालिकर इतीरितम् ॥ ६२६ ॥
4.626 · p. 101
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 2 लि (wrong syllable)
वैजयन्त्यां त्रि तु ह्रस्वमात्रेऽल्पेऽन्येऽथ खेचरः ।विद्याधरे दुश्चिकित्सविषे द्वे वृश्चिकान्तरे ॥ ६२७ ॥
4.627 · p. 101
अनुष्टुप्
पक्षयुक्ते त्रिषु पुनर्व्योमचारिण्यथो नपि ।खेटकं फलके ग्रामधा(ने?न्ये) त्वन्ये त्रिषु त्वदः ॥ ६२८ ॥
4.628 · p. 101
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
उत्त्रासके खोलकस्तु पूगकोशशिरस्त्रयोः ।वल्मीके पाकभेदे च पुमान् स्यात् खोलिका पुनः ॥ ६२९ ॥
4.629 · p. 101
अनुष्टुप्
गीतसत्यां च काञ्च्यां च स्त्रीत्येवमजयोऽपठीत् ।बहुवेदी गभीरं तु त्रिर्निम्ने वाचि तु स्त्रियाम् ॥ ६३० ॥
4.630 · p. 101
अनुष्टुप्
गभीरा द्यावापृथिव्योर्गभीरे इति नप् पुनः ।जलेऽथ त्रिषु गम्भीरं निम्ने हर्षस्तु बुद्धिमान् ॥ ६३१ ॥
4.631 · p. 102
अनुष्टुप्
ब्रूते दुरवगाहे तद् गम्भीरा तु स्त्रियामियम् ।वाचि द्यावापृथिव्योश्च गम्भीरे इति ना पुनः ॥ ६३२ ॥
4.632 · p. 102
अनुष्टुप्
समुद्रे चान्धकारे च मन्मथे च द्रुमान्तरे ।जम्बीरसंज्ञे क्लीबं तु तत्फले सलिलेऽपि च ॥ ६३३ ॥
4.633 · p. 102
अनुष्टुप्
गहनं क्ली जलेऽरण्ये दुःखगह्वरयोस्त्रि तु ।दुष्प्रवेशे गह्वरं तु क्ली गुहादम्भवारिषु ॥ ६३४ ॥
4.634 · p. 102
अनुष्टुप्
रहस्यप्युक्तवानेतच्छब्दवेदी धनञ्जयः ।निकुञ्जे तु पुमानुक्तो रभसेनाथ भेद्यवत् ॥ ६३५ ॥
4.635 · p. 102
अनुष्टुप्
(ग्री?भी)ष्मे च दुष्प्रवेशे च गर्गरी तु स्त्रियामियम् ।दधिमन्थनपात्रे च क्षेत्रपल्ल्यां द्वयोः पुनः ॥ ६३६ ॥
4.636 · p. 102
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
उग्रीवैदेहजे मर्त्यजातिभेदे झषेऽपि च ।गर्वरः पुंस्यहङ्कारे महिषे तु द्वयोरथ ॥ ६३७ ॥
4.637 · p. 102
अनुष्टुप्
सन्ध्यायां गर्वरी स्त्री स्याद् गन्धर्वस्तु द्वयोर्हये ।मृगभेदे गोलपुससमाख्ये दिव्यगायने ॥ ६३८ ॥
4.638 · p. 102
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 गो (wrong syllable)
आह गायनमात्रे च रभसः शब्दवित्तमः ।अन्तराभवसत्त्वे च वास्तुदेवान्तरे तु ना ॥ ६३९ ॥
4.639 · p. 102
अनुष्टुप्
कोष्ठपङ्क्तौ दक्षिणस्यां प्रोक्तं षष्ठपदे स्थिते ।पुंस्कोकिले च रभसः प्रोक्तवानथ गन्धना ॥ ६४० ॥
4.640 · p. 102
अनुष्टुप्
न ना प्रकाशने चापि हिंसायै सूचनेऽपि च ।परस्योत्साहने चापि कथिता पूर्वसूरिभिः ॥ ६४१ ॥
4.641 · p. 102
अनुष्टुप्
गर्मुदस्तु द्वयोर्मर्त्यजातिभेदे निषादतः ।श्वपाक्यां जनिते स्त्री तु गर्मुदी गर्मुदाह्वये ॥ ६४२ ॥
4.642 · p. 103
अनुष्टुप्
तृणधान्यविशेषे च गण्डूषा मुखपूरणे ।द्रवप्रपञ्च आस्येन निरोध्ये शाकटायनः ॥ ६४३ ॥
4.643 · p. 103
अनुष्टुप्
गजस्य पुष्करेऽन्ये तु प्रसृतान्मितवस्तुनि ।अन्ये तु प्रसृते लिङ्गत्रयेऽसौ कीर्तितो बुधैः ॥ ६४४ ॥
4.644 · p. 103
अनुष्टुप्
प्रसृते तु द्रवाधारे गण्डूष इति यादवः ।गण्डोलस्तु पुमान् पिण्डे गजस्य मुखपार्श्वयोः ॥ ६४५ ॥
4.645 · p. 103
अनुष्टुप्
उपरिप्रदेशयोश्च क्रिमिभेदे तु स द्वयोः ।गण्डीरस्तु पुमान् कन्दजातिभेदे समष्ठिला ॥ ६४६ ॥
4.646 · p. 103
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 प्र (wrong syllable)
इति संज्ञान्तरं यस्य बहुभेषजसाधिते ।उपयोग्यद्रवद्रव्ये क्ली तु स्यात् तण्डुलीयके ॥ ६४७ ॥
4.647 · p. 103
अनुष्टुप्
चव्ये च स्त्री तु गण्डीरी विपत्रायां स्नुहि स्मृता ।गण्डकस्तु द्वयोः खड्गमृगे ना शिशुभूषणे ॥ ६४८ ॥
4.648 · p. 103
अनुष्टुप्
नदीविशेषे विख्याते स्त्रीलिङ्गा गण्डकी स्मृता ।गर्दभः पशुभेदे द्वे रासभाख्ये नपि त्वदः ॥ ६४९ ॥
4.649 · p. 103
अनुष्टुप्
कुमुदे रभसस्त्वाह श्वेते कुमुद इत्यदः ।रूप्ये च गरलं तु क्ली विषे पुंसि तु पादपे ॥ ६५० ॥
4.650 · p. 103
अनुष्टुप्
मदनाख्येऽथ गवलं विषाणे महिषस्य नप् ।द्वयोस्त्वरण्यमहिषे गर्जितस्तु पुमानयम् ॥ ६५१ ॥
4.651 · p. 103
अनुष्टुप्
मत्तहस्तिनि तन्नादे पुनः क्ली स्तनितेऽपि च ।अम्बुदस्याथ पुंसि स्याद् गर्जनो गृञ्जनाह्वये ॥ ६५२ ॥
4.652 · p. 103
अनुष्टुप्
पलाण्डुजातिभेदेऽथ क्रियायां गर्जतेर्नपि ।ग्रन्थिकं तु नपि ज्ञेयं पिप्पलीमूलसंज्ञके ॥ ६५३ ॥
4.653 · p. 103
अनुष्टुप्
भेषजे ग्रन्थिपर्णाख्यभेषजे च पुमान् पुनः ।माद्रेये भेद्यलिङ्गं तु ग्रन्थो यत्रास्ति तत्र वै ॥ ६५४ ॥
4.654 · p. 104
अनुष्टुप्
ग्रन्थिलस्तु पुमाञ्ज्ञेयः करीरद्रौ विकङ्कते ।भेद्यवद्ग्रन्थिसहिते रभसेनेदमीरितम् ॥ ६५५ ॥
4.655 · p. 104
अनुष्टुप्
गडेरस्तु प्रस्रवणशीले त्रिष्वेष पुंसि तु ।स्यात् प्रस्रवणभूमौ हि गरुडस्तु पुमानयम् ॥ ६५६ ॥
4.656 · p. 104
अनुष्टुप्
वैनतेये द्वे तु पक्षिजातिभेदे स्त्रियां पुनः ।जटायां गरुडा ना तु गवाक्षो वातवर्त्मनि ॥ ६५७ ॥
4.657 · p. 104
अनुष्टुप्
वातायनाख्ये सुग्रीवसचिवे वानरान्तरे ।गवाक्षी तु स्त्रियामेषा गोदुम्बाख्यलतान्तरे ॥ ६५८ ॥
4.658 · p. 104
अनुष्टुप्
गिरिकर्ण्याख्यवल्ल्यां च मल्लिकायामपि त्रि तु ।गणकः स्याज्ज्योतिषिके तथा गणयितर्यपि ॥ ६५९ ॥
4.659 · p. 104
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ज्ज्यो (wrong syllable)
गणिका तु स्त्रियामेषा वेश्यायां किञ्च भूपतेः ।अनूढायां कलाज्ञायां प्रियायां पुंस्त्रियोः पुनः ॥ ६६० ॥
4.660 · p. 104
अनुष्टुप्
रश्मौ गभस्तिर्बाहौ तु ना गणेरुः पुनः स्त्रियाम् ।वशायामपि वेश्यायां कर्णिकारे पुनः पुमान् ॥ ६६१ ॥
4.661 · p. 104
अनुष्टुप्
एवं रभसनिर्दिष्टं स्याद्गरुत्मांस्तु पुंस्ययम् ।गरुडे विहगे तु द्वे गन्धवत् तु त्रिषु स्मृतम् ॥ ६६२ ॥
4.662 · p. 104
अनुष्टुप्
गन्धयुक्ते गन्धवती पुनः पृथ्व्यां स्त्रियामियम् ।पुर्यां योजनगन्धायां सुरायां रभसेरिता ॥ ६६३ ॥
4.663 · p. 104
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ग (wrong syllable)
अनादिसम्प्रदायस्तु गाण्डीवो न स्त्रियामयम् ।पार्थचापे चापमात्रेऽप्यथैकोऽप्याह गाण्डिवम् ॥ ६६४ ॥
4.664 · p. 104
अनुष्टुप्
पार्थचापे च चापे च न स्त्रीत्येके व्यवस्थिताः ।असाधुमेनमाचष्टे दोषज्ञो भागवृत्तिकृत् ॥ ६६५ ॥
4.665 · p. 104
अनुष्टुप्
गाङ्गेयस्तु पुमान् स्कन्दे भीष्मे चाथाभिधेयवत् ।अपत्यमात्रे गङ्गायाः क्ली तु हेमकशेरुणोः ॥ ६६६ ॥
4.666 · p. 105
अनुष्टुप्
रागप्रभेदे गान्धारः पुंसि क्ली नागसम्भवे ।गान्धर्वस्तु द्वयोरेव गन्धर्वे खे तु नप्यदः ॥ ६६७ ॥
4.667 · p. 105
अनुष्टुप्
गीतभेदेऽथ वाचि स्त्री गान्धर्वी गारडं पुनः ।विषशास्त्रप्रभेदे क्ली रत्ने मरतकाह्वये ॥ ६६८ ॥
4.668 · p. 105
अनुष्टुप्
स्वर्णे च त्रिस्तु गरुडसम्बन्धिन्यथ गार्भिणम् ।सीमन्तोन्नयनाभिख्ये स्त्रीणां संस्कारकर्मणि ॥ ६६९ ॥
4.669 · p. 105
अनुष्टुप्
गर्भिणीनां समूहेऽथ गर्भिणीयोगिनि त्रिषु ।ग्राहकस्तु त्रिषु ज्ञेयो ग्रहीतरि पुमान् पुनः ॥ ६७० ॥
4.670 · p. 105
अनुष्टुप्
पक्षिणा येन गृह्यन्ते पक्षिणोऽन्येऽत्र लुब्धकैः ।गारित्रस्तु पुमानुक्त आचार्ये गहने तु नप् ॥ ६७१ ॥
4.671 · p. 105
अनुष्टुप्
ग्रामीणा नीलिकानाम्न्यामोषधौ स्त्र्यथ भेद्यवत् ।ग्राम्ये स्त्रियां तु गायत्री खदिराख्यद्रुमे स्त्रियाम् ॥ ६७२ ॥
4.672 · p. 105
अनुष्टुप्
स्त्रीनपोस्तु चतुर्विंशत्यक्षरप्रभृतिष्वसौ ।आर्षादिषु स्याच्छन्दःसु गायत्रस्तु पुमानयम् ॥ ६७३ ॥
4.673 · p. 105
अनुष्टुप्
ब्रह्मचारिविशेषे स्यादुपकुर्वाणसंज्ञके ।प्रगाथेषु च तेषु स्याद् येषामादेरृचो भवेत् ॥ ६७४ ॥
4.674 · p. 105
अनुष्टुप्
गायत्रीसंज्ञकच्छन्दो ग्रामणीस्तु पुमानयम् ।नापिते भोगितेऽप्याह रभसस्त्रिस्तु नायके ॥ ६७५ ॥
4.675 · p. 105
अनुष्टुप्
उत्तमेऽपि भवत्येष गिरीशस्तु पुमानयम् ।महादेवे गिरेस्त्वीशे त्रिषु स्याद्गिरिजा पुनः ॥ ६७६ ॥
4.676 · p. 105
अनुष्टुप्
पार्वत्यां निम्नगायां च मातुलुङ्ग्यां च सा स्त्रियाम् ।रभसस्तु क्लीबमाह शिलाजतुनि चार्जके ॥ ६७७ ॥
4.677 · p. 106
अनुष्टुप्
भेद्यलिङ्गस्तु स ज्ञेयो धरणीधरसम्भवे ।गुणना तु न नाभ्यासे शून्याङ्के चाथ गुन्दिलः ॥ ६७८ ॥
4.678 · p. 106
अनुष्टुप्
ना मद्दलध्वनौ क्ली तु वनेऽथो गृञ्जनः पुमान् ।मधुशिग्रुसमाख्ये स्याच्छिग्रुवृक्षान्तरे तथा ॥ ६७९ ॥
4.679 · p. 106
अनुष्टुप्
पलाण्डुजातिभेदानां दशानामपि कुत्रचित् ।भेदेऽर्थे त्वत्र मन्यन्ते क्लीबं केचन सूरयः ॥ ६८० ॥
4.680 · p. 106
अनुष्टुप्
विषदिग्धपशोस्तु क्ली मांसे ना तु गृहस्थवाक् ।द्वितीयाश्रमिणि त्रिस्तु मन्दिरस्थेऽथ पुंस्ययम् ॥ ६८१ ॥
4.681 · p. 106
अनुष्टुप्
गैरेयः शैलजाते स्यात् पूगवृक्षेऽथ नप्यदः ।शिलाजतुन्यथ क्लीबं गोष्पदं गोखुरावटे ॥ ६८२ ॥
4.682 · p. 106
अनुष्टुप्
गोभिश्च सेविते देशे केचित् त्वर्थेऽत्र भेद्यवत् ।गोस्तनो ना चतुर्यष्टिहारभेदे गवां स्तने ॥ ६८३ ॥
4.683 · p. 106
अनुष्टुप्
गोस्तनी तु स्त्रियां द्राक्षाभेदेऽथो पुंन्नपुंसकम् ।गोमुखो वाद्यभेदेऽथ क्लीबं स्यादुपलेपने ॥ ६८४ ॥
4.684 · p. 106
अनुष्टुप्
ब्रूते तु कुटिलागारे रभसः शब्दवित्तमः ।द्वयोस्तु नक्रेऽथ पुमान् गोकर्णोऽनामया सह ॥ ६८५ ॥
4.685 · p. 106
अनुष्टुप्
अङ्गुष्ठे वितते मानं यत् तत्र श्रवणे च गोः ।ईश्वरस्थानभेदे च मृगभेदे पुनर्द्वयोः ॥ ६८६ ॥
4.686 · p. 106
अनुष्टुप्
परम्पर इति ख्याते भुजगे च स्त्रियां पुनः ।दूर्वासंज्ञौषधौ ज्ञेया गोकर्णी स्याद्द्वयोः पुनः ॥ ६८७ ॥
4.687 · p. 106
अनुष्टुप्
गोनासः स्यात् तिलित्साख्यसर्पजातौ स्त्रियां पुनः ।गोर्नासिकायां गोनासा गोपुच्छस्तु द्वियष्टिके ॥ ६८८ ॥
4.688 · p. 107
अनुष्टुप्
हारभेदे पुमान् गोस्तु लाङ्गूले पुन्नपुंसकम् ।गोरक्षो नागरङ्गे ना गवां तु त्रातरि त्रिषु ॥ ६८९ ॥
4.689 · p. 107
अनुष्टुप्
गोपालस्तु पुमान् राज्ञि त्रि तु गोः पातरि त्रि तु ।गोसङ्ख्य इति गोपे स्याद् गोसङ्ख्या तु स्त्रियां गवाम् ॥ ६९० ॥
4.690 · p. 107
अनुष्टुप्
सङ्ख्यायामथ गोयुद्धे गोसङ्ख्यं पुन्नपुमकम् ।गोविन्दो वासुदेवे ना गोषु त्वधिकृते त्रिषु ॥ ६९१ ॥
4.691 · p. 107
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 पु (wrong syllable)
गोमतं तु नपि ज्ञेयं गव्यूतिरिति विश्रुते ।क्रोशद्वयात्मके ह्यध्वमानेऽपि मनने गवाम् ॥ ६९२ ॥
4.692 · p. 107
अनुष्टुप्
गोनर्दस्तु पुमान् देशविशेषे द्वे तु पक्षिणि ।सारसाख्ये नपि त्वेतज्जलमुस्तेऽपरः पुनः ॥ ६९३ ॥
4.693 · p. 107
अनुष्टुप्
कैवर्ते मुस्तकेऽधीते गोलकस्तु द्वयोरयम् ।जारजे भर्तरि मृते ना तु पिण्डेऽपि कम्बले ॥ ६९४ ॥
4.694 · p. 107
अनुष्टुप्
मणिके चाजयस्त्वस्य वाच्यत्वेनापठद्द्वयम् ।गुडं गोलं च तदसत् प्राणिभेदे तु सा स्त्रियाम् ॥ ६९५ ॥
4.695 · p. 107
अनुष्टुप्
गोलिका वेष्टनद्रव्ये गोस्वामी तु पुमानयम् ।नाट्योक्तिविषये राजपुत्रे स्यात् त्रि तु गोमति ॥ ६९६ ॥
4.696 · p. 107
अनुष्टुप्
गोतमं तु धनुर्भदे क्ली (जडे तु त्रि) ना पुनः ।ऋषिभेदे शाक्यमुनौ गौतमो गौतमी पुनः ॥ ६९७ ॥
4.697 · p. 107
metre not recognised
स्त्रियां मृडान्यां रोचन्यां मेदोधातौ तु नप्यदः ।कुञ्जरे तु द्वयोराह शब्दवेदी धनञ्जयः ॥ ६९८ ॥
4.698 · p. 107
अनुष्टुप्
गौरिलस्तु न, ना लोहचूर्णे पुंसि तु भाषितः ।गौरसर्षप इत्येव रभसेनातिधीमता ॥ ६९९ ॥
4.699 · p. 108
अनुष्टुप्
गौरवं तु गुरुत्वे च कुङ्कुमे च नपुंसकम् ।सम्माने च त्रिषु पुनर्गुरुसम्बन्धिमात्रके ॥ ७०० ॥
4.700 · p. 108
अनुष्टुप्
घट्टनं तु हिमे क्लीबं द्वे तुरङ्गोपजीविनि ।अना संवरणे चापि चलने चापि घट्टना ॥ ७०१ ॥
4.701 · p. 108
अनुष्टुप्
घर्घरः पुनरट्टादेरधोद्वारकवाटके ।न स्त्री वाद्यविशेषे तु वादित्रलगुडेऽपि च ॥ ७०२ ॥
4.702 · p. 108
अनुष्टुप्
घर्घरी स्त्री द्वयोस्तु स्यान्मर्त्यजात्यन्तरे विशः ।रन्ध्या जातेऽथ घृतवद् घृतयुक्ते त्रिषु स्त्रियाम् ॥ ७०३ ॥
4.703 · p. 108
अनुष्टुप्
रोदस्यौ घृतवत्यौ स्तो घोषयुक्ते तु घोषवान् ।त्रिषु घोषवती तु स्त्री वीणायामथ न स्त्रियाम् ॥ ७०४ ॥
4.704 · p. 108
अनुष्टुप्
चरणः प्राणिनां पादे वृक्षमूले च ना पुनः ।बह्वृचादौ नपि त्वेतदाचारे गतिभक्षयोः ॥ ७०५ ॥
4.705 · p. 108
अनुष्टुप्
चपलस्तु त्रिषु ज्ञेयश्चञ्चलेऽप्यनवस्थिते ।दुर्विनीते च शीघ्रे च पारते तु पुमानयम् ॥ ७०६ ॥
4.706 · p. 108
अनुष्टुप्
तुरुष्काख्ये च निर्यासे मर्कटे तु द्वयोरथ ।पिप्पलीविद्युतोस्तु स्त्री लक्ष्म्यां तु रभसेरिता ॥ ७०७ ॥
4.707 · p. 108
अनुष्टुप्
तेनैव करिपिप्पल्यां चपलाथ त्रि चञ्चलः ।चले विद्युति तु स्त्री स्याल्लक्ष्म्यां च पवने तु ना ॥ ७०८ ॥
4.708 · p. 108
अनुष्टुप्
खञ्जरीटखगे तु द्वे चञ्चत्कस्तु पुमान् मणौ ।अतीव भास्वरे तु द्वे खद्योते दर्दरेऽपि च ॥ ७०९ ॥
4.709 · p. 108
अनुष्टुप्
चन्दना स्त्री नदीभेदे न स्त्रियां मलयोद्भवे ।चन्द्रकस्तु पुमान् पक्षभेदे मेचकसज्ञिते ॥ ७१० ॥
4.710 · p. 109
अनुष्टुप्
चन्द्रिका तु स्त्रियां ज्योत्स्नासंज्ञे चन्द्रातपे तथा ।चन्द्रभागाख्यनद्यां च चन्दिरं तु जले नपि ॥ ७११ ॥
4.711 · p. 109
अनुष्टुप्
ना तु चन्द्रे हस्तिनि तु द्वयोः पुंसि तु चङ्कुरः ।रथे भगाङ्कुरे च द्वे पुनर्दैत्येऽथ चङ्क्रमः ॥ ७१२ ॥
4.712 · p. 109
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ह (wrong syllable)
ना संक्रमे पुंस्त्रियोस्तु चङ्क्रमश्चक्रमापि च ।भवेच्चङ्क्रमणे तच्चाप्यल्पेऽध्वनि गतागतम् ॥ ७१३ ॥
4.713 · p. 109
अनुष्टुप्
चण्डिलस्तुः पुमान् शाकविशेषे वास्तुकाह्वये ।नापितेऽथ शुनि द्वे स्यात् कोपने तु त्रिषु स्मृतः ॥ ७१४ ॥
4.714 · p. 109
अनुष्टुप्
चषकोऽस्त्री पानपात्रे रभसस्त्वत्र भाषते ।पाने मधुप्रभेदे च चषकः सरके(?) इति ॥ ७१५ ॥
4.715 · p. 109
अनुष्टुप्
चण्डातः करवीराख्यपुष्पगुल्मे पुमान्नपि ।प्रसवेऽस्य वरस्त्रीणामप्यर्धोरुकवाससि ॥ ७१६ ॥
4.716 · p. 109
अनुष्टुप्
चक्षुष्यः सुभगे त्रिः स्यात् तथा स्याच्चक्षुषो हिते ।ना पुनः पीतमुद्गे च सक्तुष्वपि तथापरे ॥ ७१७ ॥
4.717 · p. 109
अनुष्टुप्
रभसः पुण्डरीकाख्यतरौ कतकपादपे ।कुलाल्याख्ये तु भैषज्ये द्रोणपु(ष्पा?ष्प्या)ख्यझाटके ॥ ७१८ ॥
4.718 · p. 109
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
चक्षुष्या स्त्री पुमांस्तु स्याच्च्यवनो मुनिपुङ्गवे ।क्लीबं तु प्रच्युतौ ना तु चलनोऽङ्घ्रौ त्रिषु त्वयम् ॥ ७१९ ॥
4.719 · p. 109
अनुष्टुप्
भवेच्चलनशीले क्ली पुनर्भूषणकम्पयोः ।गमने वस्त्रभेदे च चलना तु स्त्रियामियम् ॥ ७२० ॥
4.720 · p. 110
अनुष्टुप्