कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पूरी

pūrīस्त्री · fem.

In 3 kośas: 4 synonym verses, 1 as a nānārtha head word.

कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.270 · p. 162
चणचूर्णाष्टांशयुता सा पूरी तण्डुलोद्भवैः ।पिष्टैर्घृतघनीभूतैर्गोलके समिताभवे ॥ २७० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ष्टां (wrong syllable)
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.800 · p. 111
पूजनीयेऽथ पूरो ना नद्याः सलिलबृंहणे ।पुनर्नवायां नृस्त्री तु पूर्तौ पूरी तु सा स्त्रियाम् ॥ ८०० ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.145 · p. 57
मण्डूकपर्ण्यां भण्डीरी भाण्डी योजनवल्ल्यपि ।शोफघ्न्यां पूरणा पूरी वर्षाभ्वी जीवबोधिनी ॥ १४५ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.125 · p. 146
वंशे तु वंशिका पूरी मुरली वेणुका च सा ।शृंगवाद्ये खरमुखं स्यादाघट्टलिकेति च ॥ १२५ ॥
अनुष्टुप्
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.801 · p. 111
वंशवाद्येऽथ पूर्तं क्ली खातादौ पुण्यकर्मणि ।त्रि तु पूर्णे रक्षिते च पूर्णं तु सलिले नपि ॥ ८०१ ॥
अनुष्टुप्