All kośas › Kalpadrukośa
कल्पद्रुकोशः Kalpadrukośa
4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)
भूमिस्कन्धः · वैश्यादिप्रकाण्डः (3/6)
अस्त्रियामोदनः कूरो भक्तो दग्धे तु भिःसटा ।दग्धिका चाथ मण्डोऽस्त्री भक्तमण्डे स्रवः पुमान् ॥ २४१ ॥
1.7.241 · p. 159
अनुष्टुप्
स्राम आचमनिः स्राममसाराः प्रस्नवः पुनः ।युक्त्या संसाधिते सूदैः शिम्ब्यन्ने प्रहितोऽस्त्रियाम् ॥ २४२ ॥
1.7.242 · p. 159
अनुष्टुप्
दालिः स्त्रियां पुंसि सूपो दाली स्याल्लवणान्विते ।शूकशिंविभवैर्द्धान्यैः सम्मिश्रो मिश्रितौदनः ॥ २४३ ॥
1.7.243 · p. 159
अनुष्टुप्
खिच्ची खिच्चे उभे स्त्रीत्वे सुसिद्धा षड्गुणाम्भसि ।स्त्रियां यवागूर्विरलद्रवाथ कृशरोऽस्त्रियाम् ॥ २४४ ॥
1.7.244 · p. 159
अनुष्टुप्
तिलतण्डुलमाषाणां या सा संयोगसम्भवा ।भूतौदनो दधिनिशा सक्तुलाजतिलान्वितः ॥ २४५ ॥
1.7.245 · p. 160
अनुष्टुप्
बाह्योदनो यावकः स्याद्यवैः स्विन्नैश्च निस्तुषैः ।दलितैर्यवगोधूमैः स्थूला सा समिता स्त्रियाम् ॥ २४६ ॥
1.7.246 · p. 160
अनुष्टुप्
वाटः पुमांस्तत्र गुडसम्मिश्रे कृसरः पुमान् ।तृसरस्तण्डुलैः सिद्धैः सगुडैः सोप्यथापरः ॥ २४७ ॥
1.7.247 · p. 160
अनुष्टुप्
तप्ते घृते विनिक्षिप्य समितां भर्जितां मनाक् ।ततस्तत्र विनिक्षिप्य खण्डं तेन समं पचेत् ॥ २४८ ॥
1.7.248 · p. 160
अनुष्टुप्
कृसरं तं कसारं च कंसारमिति केचन ।षोडशांशमिते दुग्धे तण्डुलानां पले शनैः ॥ २४९ ॥
1.7.249 · p. 160
अनुष्टुप्
सम्यक् संसाधिते क्लीबे परमान्नं ततस्त्रियाम् ।क्षीरेयी पायसः पुंसि क्लीबे दुग्धार्थतश्चरु ॥ २५० ॥
1.7.250 · p. 160
अनुष्टुप्
विलेपी घनसिक्या स्त्री स्विन्ना तोये चतुर्गुणा ।पेया सिक्थयुता पथ्या चतुर्दशगुणेऽम्भसि ॥ २५१ ॥
1.7.251 · p. 160
अनुष्टुप्
अष्टादशगुणे तोये श्रितो यूषस्तु शिम्बिजैः ।एवं मांसरसो मांसैर्मासयूषस्तु सस्मृतः ॥ २५२ ॥
1.7.252 · p. 160
अनुष्टुप्
सस्यात्कृताख्यो लवणकटुस्नेहादिनायुतः ।अकृतः स्यात्तद्रहितोप्यथ काम्बलिकः खलः ॥ २५३ ॥
1.7.253 · p. 160
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्त (wrong syllable)
फलमूलसमांशो यः कट्वम्लो विमलो रसः ।घृतेन मर्दितां तोयैः समितां मृदु मर्दयेत् ॥ २५४ ॥
1.7.254 · p. 161
अनुष्टुप्
मातुलुङ्गत्वचा खण्डपक्वमार्द्रकपूरितम् ।विधाय पूपकं वृत्तं गन्धाढ्यं केसरान्वितम् ॥ २५५ ॥
1.7.255 · p. 161
अनुष्टुप्
पक्त्वा सर्पिषि खण्डेवगाहितो मधुशीर्षकः ।समितां मधुदुग्धेन मोदयित्वा सुशोभनाम् ॥ २५६ ॥
1.7.256 · p. 161
अनुष्टुप्
पचेद्घृतोत्तरे खण्डे न्यसेत्पक्वे नवे घटे ।ततो मरिचपक्वैलाखण्डचूर्णावचूर्णितम् ॥ २५७ ॥
1.7.257 · p. 161
अनुष्टुप्
कुर्यात् कर्पूरसंयुक्तं संयावमथ शष्कुली ।शालूकमध्यसंयुक्तैः शालिकोद्रवतण्डुलैः ॥ २५८ ॥
1.7.258 · p. 161
अनुष्टुप्
संपिष्टैस्तिलसंयुक्तैः लोहभ्रष्टैस्ततः परम् ।स्थाली खर्परसच्छिद्रखर्परायसखर्परैः ॥ २५९ ॥
1.7.259 · p. 161
अनुष्टुप्
अङ्गारैरपि पिष्टान्नपाकः स्यादथ भास्करी ।चन्द्रिका रोटिकावृत्ता पिष्टखर्परसम्भवा ॥ २६० ॥
1.7.260 · p. 161
अनुष्टुप्
महान्तो विस्तृताः सूक्ष्माः कर्परादिषु पाचिताः ।स्युर्मण्डका मण्डलिनः स्थूलाः पूपलिका स्त्रियाम् ॥ २६१ ॥
1.7.261 · p. 161
अनुष्टुप्
अथाङ्गारेषु संपक्वः सूक्ष्मः सोङ्गारमण्डकः ।अङ्गारकर्कटी स्थूलाऽथाप्यपक्वे तु पोलिका ॥ २६२ ॥
1.7.262 · p. 161
अनुष्टुप्
पिष्टवर्तिस्तु चमसी सूचिका सेविका पुनः ।पक्वेऽपूपः पिष्टकः स्यात्पूपिका पूलिका स्त्रियाम् ॥ २६३ ॥
1.7.263 · p. 162
अनुष्टुप्
पूपली चर्पटा पोली पूलिकावद्विपाचिते ।पूपो घृतप्लुते पिष्टे समिता गुडवारिणा ॥ २६४ ॥
1.7.264 · p. 162
अनुष्टुप्
घृते वाप्यथवा तैले चक्राकारा सुपिष्टिका ।भर्जिता वटको नास्या दवसेकिम इत्यपि ॥ २६५ ॥
1.7.265 · p. 162
अनुष्टुप्
मिश्रा मण्डलिका पक्वा सम्यगायसखर्परे ।घृतप्लुते पूरकः स्यादेवं मुद्गादिपिष्टजः ॥ २६६ ॥
1.7.266 · p. 162
अनुष्टुप्
माषादि पिष्टका सिद्धः सूर्णकः पुंनपुंसकः ।पिट्यां तु स्वेदपक्वायां मिण्डूरं स्याद्द्वयोरथ ॥ २६७ ॥
1.7.267 · p. 162
अनुष्टुप्
भ्रष्टा तुल्ये घृते तप्ते समिता तुल्यशर्करे ।अत्युष्णैरम्बुभिः पक्वा त्रिसरा लप्सिका च सा ॥ २६८ ॥
1.7.268 · p. 162
अनुष्टुप्
घृताक्तसमिता पूपं घृते तप्ते मनाक् शृतम् ।लघुदीप्ता खरतरा घृतपक्वादधिष्टरः ॥ २६९ ॥
1.7.269 · p. 162
अनुष्टुप्
चणचूर्णाष्टांशयुता सा पूरी तण्डुलोद्भवैः ।पिष्टैर्घृतघनीभूतैर्गोलके समिताभवे ॥ २७० ॥
1.7.270 · p. 162
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ष्टां (wrong syllable)
वेष्टिते स्थूलपूपाभे घृतपक्वे तु खाद्यकः ।चन्द्रबिम्बाकृति तद्वत्फेणिकं तु फणिज्जकम् ॥ २७१ ॥
1.7.271 · p. 162
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
अशोकवर्त्तिकापि स्यादथ पिष्टभवा भिदः ।चणकप्रभवा पिष्टी पिष्टिका माषसम्भवा ॥ २७२ ॥
1.7.272 · p. 163
अनुष्टुप्
यवानीहिङ्गुलवणैः संयुक्ता गर्भसंस्थिता ।पूरिकेव विधातव्या शमिका वेठिका तु सा ॥ २७३ ॥
1.7.273 · p. 163
अनुष्टुप्
कचूटिकाथ समिता घृताक्ता द्राक्षया युता ।एलालवङ्गकर्पूरमरिचैः परिवारिताम् ॥ २७४ ॥
1.7.274 · p. 163
अनुष्टुप्
क्षिप्त्वा तु समितां लम्बपुटे वेष्ट्य घृते पचेत् ।ततः खण्डे न्यसेत् पक्वे गुह्यकः सोपि चास्त्रियाम् ॥ २७५ ॥
1.7.275 · p. 163
अनुष्टुप्
सुशुद्धसमिताप्रस्थं विमर्द्य पयसा सह ।यावत्तदम्लतां याति तावत्स्थाप्यं घटान्तरा ॥ २७६ ॥
1.7.276 · p. 163
अनुष्टुप्
सच्छिद्रोदञ्चने न्यस्तं तप्ते घृतकटाहके ।परिभ्राम्य परिभ्राम्य पातयेत् कुण्डलाकृतिम् ॥ २७७ ॥
1.7.277 · p. 163
अनुष्टुप्
परिपक्वां सितालेहनिर्वापितकदुष्णकाम् ।सा कङ्कणी कुण्डली स्यान्मोदको गोलकः पुनः ॥ २७८ ॥
1.7.278 · p. 163
अनुष्टुप्
लड्डुकोपि च तद्भेयाः समितां परिशोधिताम् ।घृते विपक्वामापाकं शीतलां सुसितान्विताम् ॥ २७९ ॥
1.7.279 · p. 163
अनुष्टुप्
सघृतां गोलकीभूतां सघृष्टश्चमसीभवः ।घृतेन मर्दितां तोयैः सम्बद्धां विपचेद्घृते ॥ २८० ॥
1.7.280 · p. 163
अनुष्टुप्
यथाकथंचित्समितां सुपक्वां परिचूर्णयेत् ।सिताघृताभ्यां संयुक्ते दलजो दलमोदकः ॥ २८१ ॥
1.7.281 · p. 164
अनुष्टुप्
घृतमर्दिततोयार्द्रसमितां चमसीघृते ।पक्वां घृते सिता मिश्रा चमसी संभवाभिधाम् ॥ २८२ ॥
1.7.282 · p. 164
अनुष्टुप्
अपूपचूर्णे सगुडे चूरीमोदक इत्ययम् ।पिष्टे घृतगुडोन्मिश्रे लोपकोथ पुनर्घृते ॥ २८३ ॥
1.7.283 · p. 164
अनुष्टुप्
गुडेनैकरसीभूते समितां तत्र पाचयेत् ।गुडपर्पटकः स स्यात्पिष्टीं माषादिसम्भवाम् ॥ २८४ ॥
1.7.284 · p. 164
अनुष्टुप्
घृतपक्वां शर्कराढ्यां स तु माषादिमोदकः ।जलेनालोडितं शालिपिष्टं खण्डविमिश्रितम् ॥ २८५ ॥
1.7.285 · p. 164
अनुष्टुप्
धारापूपकवत् पाच्यं वर्वरं चाथ चिक्कणम् ।मसृणं कर्कशं स्निग्धं पिच्छिलं विजिलं पुनः ॥ २८६ ॥
1.7.286 · p. 164
अनुष्टुप्
विज्जलं स्याद्विजिविलमथ सम्मृष्टशोधिते ।भावितं वासितं चापि धूपिते वस्तुनि त्रिषु ॥ २८७ ॥
1.7.287 · p. 164
अनुष्टुप्
मसृणाद्यं तथोदश्विदौदश्वित्कमतोपि च ।उदश्वितं स्याद्वटके त्ववसेकिममस्त्रियाम् ॥ २८८ ॥
1.7.288 · p. 164
अनुष्टुप्
निक्वाथो रसकस्तुल्यावथ स्याद्वेसवारकः ।शुण्ठीमरिचवैदेहीधान्यकाजाजिदाडिमः ॥ २८९ ॥
1.7.289 · p. 164
अनुष्टुप्
हिङ्गुसामुद्रसंयुक्त इत्येकोथापरः पुनः ।स्विन्नमुद्गादिजः कल्कः सोन्यः स्याद्वेसवारकः ॥ २९० ॥
1.7.290 · p. 165
अनुष्टुप्
मांसं निरस्थि सुस्विन्नं पुनर्दृषदि चूर्णितम् ।पिप्पलीशुण्ठिमरिचगुडसर्पिःसमन्वितम् ॥ २९१ ॥
1.7.291 · p. 165
अनुष्टुप्
ऐकध्यं पाचितं सम्यग्वेसवारोथ सौरकः ।सौरावो मांसजरसः पक्वः सद्रवचन्दनः ॥ २९२ ॥
1.7.292 · p. 165
अनुष्टुप्
स वेसवारसंयुक्तः खानिष्को मांसजो रसः ।वल्लूरं परिशुष्कं स्याच्छुष्के मांसप्रदिग्धकम् ॥ २९३ ॥
1.7.293 · p. 165
अनुष्टुप्
सस्नेहोथाग्निना भ्रष्टे पुनर्भूतिर्भटित्रकम् ।तथा भरुटकं चाथ शूल्यं शूलाकृतं च तत् ॥ २९४ ॥
1.7.294 · p. 165
अनुष्टुप्
पैठरं पिठरे पक्वमौष्यं स्यादुषया शृतम् ।लवणोदकसंसिद्धस्वल्पमांसादिसंस्कृतः ॥ २९५ ॥
1.7.295 · p. 165
अनुष्टुप्
बहुद्रवः स च रसो दकलावणिकस्त्रिषु ।दाधिकं चापि सार्पिष्कं सौपिकं तैलिकं क्रमात् ॥ २९६ ॥
1.7.296 · p. 165
अनुष्टुप्
दधिसर्पिःसूपतिलसंस्कृते वस्तुनि त्रिषु ।रागश्च खाडवो भिन्न एकोक्त्या राग खाडवः ॥ २९७ ॥
1.7.297 · p. 165
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सू (wrong syllable)
सितारुचकसिन्धूत्थैः सवृक्षाम्लपरूषकैः ।जम्बूफलरसैर्युक्तो रागो राजिकया युतः ॥ २९८ ॥
1.7.298 · p. 165
अनुष्टुप्
फलैरीषत्स्वादुरसैः कपित्थाद्यैः समन्वितः ।स्वादुप्रायोम्ललवणः सराग इति केचन ॥ २९९ ॥
1.7.299 · p. 166
अनुष्टुप्
स्पष्टाम्ललवणः स्पष्टः कषायलवणोषणम् ।अतिक्तः खाण्डवः कौलः कपित्थाद्युपबृंहितः ॥ ३०० ॥
1.7.300 · p. 166
अनुष्टुप्
सट्टकः सोमजोपि स्यात्प्रमोदो वर्द्धमानकः ।विस्यन्दनोपि च स्त्री स्यात्पानकः पञ्चसारकः ॥ ३०१ ॥
1.7.301 · p. 166
अनुष्टुप्
वाटिकापर्पटाद्याः स्युः कर्चर्याद्याः प्रभक्षकाः ।अशनाया बुभुक्षा क्षुत् क्षुधा स्याद्रुचिरित्यपि ॥ ३०२ ॥
1.7.302 · p. 166
अनुष्टुप्
अस्त्रियां रोचकश्चापि तत्र लेपस्तु भोजनम् ।जेमनं स्वादनं जग्धिर्वल्लनं चापि जक्षणम् ॥ ३०३ ॥
1.7.303 · p. 166
अनुष्टुप्
स्वजनं भक्षणं भुक्तिरशनं विघसो घसिः ।प्रत्यवसानमाहारः क्षुधापर्यायनाशनम् ॥ ३०४ ॥
1.7.304 · p. 166
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
लेहोदनं च तद्वत्स्यादभ्यवहार इत्यपि ।आदष्काणोप्यवष्काणो निष्काणश्चाथ चर्वणम् ॥ ३०५ ॥
1.7.305 · p. 166
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
वस्तुनश्चूर्णनं दन्तैर्जिह्वास्वादस्तु लेहनम् ।दद्वयापारयुतं चोष्यं तद्धीनं पेयकं त्रिषु ॥ ३०६ ॥
1.7.306 · p. 166
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
ग्रासो गुडेरकः पिण्डो द्वयोर्गण्डोलको गुडः ।क्लीबे स्याद्गिरणं गीर्णिगीर्णी तुल्ये गिरिर्गिटी ॥ ३०७ ॥
1.7.307 · p. 166
अनुष्टुप्
पृथगुक्त्यैकयोक्त्या च कशिपुः स्यान्न च स्त्रियाम् ।भुक्त्याच्छादनयोरेवमथान्नेच्छाविवर्जिते ॥ ३०८ ॥
1.7.308 · p. 167
अनुष्टुप्
तृप्तस्तु सुहिता घस्ताशितास्तृप्तिस्तु तर्पणम् ।स्वादाघ्राणं च सौहित्यमथ पिण्डोलिका स्त्रियाम् ॥ ३०९ ॥
1.7.309 · p. 167
अनुष्टुप्
फेला फेली भुक्तशेषे विघसोनर्यथेन्दुकः ।सजग्धिश्च ससग्धिश्च तुल्यानां सहभोजने ॥ ३१० ॥
1.7.310 · p. 167
अनुष्टुप्
सधर्मिणां तु संभूय भोजनं गणचक्रकम् ।तुल्यपाने सपीतिः स्त्री तर्षे तातृट् तृषे स्त्रियौ ॥ ३११ ॥
1.7.311 · p. 167
अनुष्टुप्
तृष्णोदन्या पिपासा स्यादम्बुपर्यायतः स्पृहा ।वैकालिकं रात्रिभोज्ये स्वल्पके न द्वयोरथ ॥ ३१२ ॥
1.7.312 · p. 167
अनुष्टुप्
भुक्तस्योपरि यद्भुक्तं तदध्यशनमित्यपि ।श्रीरामणं कल्यवर्त्तः प्रातर्भोज्येल्पके पुमान् ॥ ३१३ ॥
1.7.313 · p. 167
अनुष्टुप्
गुल्यस्तु मधुरो मिष्टः स्वादुज्येष्ठो मधूलकः ।व्याप्नुवल्लिम्पतीवास्यं सचेक्ष्वादावथाम्लकः ॥ ३१४ ॥
1.7.314 · p. 167
अनुष्टुप्
खट्वरः पावनः खट्टो दन्तपर्यायतः शठः ।अम्लः समुखगः स्रावं स्वेदनं च विबोधनम् ॥ ३१५ ॥
1.7.315 · p. 167
अनुष्टुप्
दन्तानां हर्षणं दाहं विधत्ते मुखकण्ठयोः ।स च जम्बीरनिम्ब्वादावथ सर्वरसः पटुः ॥ ३१६ ॥
1.7.316 · p. 167
अनुष्टुप्
क्षारोपि लवणः सोपि प्रलिम्पन्विदहन्मुखम् ।विष्यन्दयन्लाघवयन् क्लेदयन्सैन्धवादिषु ॥ ३१७ ॥
1.7.317 · p. 168
अनुष्टुप्
संदृश्यतेथ कटुको मुखपर्यायभेद्यपि ।संवेजयद्यो रसनां निपाते तुदतीव च ॥ ३१८ ॥
1.7.318 · p. 168
अनुष्टुप्
विदहन्मुखनासाक्षि संस्रावी मरिचादिषु ।दृश्यतेथापि तिक्तस्तु मुखपर्यायभेद्यपि ॥ ३१९ ॥
1.7.319 · p. 168
अनुष्टुप्
प्रतिहन्ति निपाते यो रसनं स्वदते न च ।स चायं मुखवैशद्यशोषप्रह्लादकारकः ॥ ३२० ॥
1.7.320 · p. 168
अनुष्टुप्
बिम्बादौ दृश्यते सोथ तूवरो रसनाशठः ।तुवरोपि कषायः स्यादस्त्रियां स्यात्स चोत्तरः ॥ ३२१ ॥
1.7.321 · p. 168
अनुष्टुप्
वैशद्यस्तम्भजाड्यैर्यो रसनं योजयेद्रसः ।बध्नातीव च यः कण्ठं स दृश्यस्तिन्दुकादिषु ॥ ३२२ ॥
1.7.322 · p. 168
अनुष्टुप्
अमीषां त्रिषु वस्तूनि भेदा एषामनुक्रमात् ।मधुराम्लक्षारकटुतिक्ता एकैकमूनिताः ॥ ३२३ ॥
1.7.323 · p. 168
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क्षा (wrong syllable)
द्विकाः पञ्चदशैव स्युर्दशषट्त्र्येकसम्मिताः ।मधुरोम्लश्च लवणः कटुकश्चेति ते त्रिकाः ॥ ३२४ ॥
1.7.324 · p. 168
अनुष्टुप्
विंशतिर्मधुराम्लाह्वलवणेभ्यः कटुः पुनः ।तिक्तः कषायो गुल्याम्ललवणेभ्यः प्रयोजितः ॥ ३२५ ॥
1.7.325 · p. 168
अनुष्टुप्
तिक्तः कषायो मधुरकटुतिक्तेभ्य इत्ययम् ।कषायो गुल्यलवणकटुकेभ्यश्च तिक्तकः ॥ ३२६ ॥
1.7.326 · p. 169
अनुष्टुप्
कषायो गुल्यलवणतिक्तेभ्योऽपि कषायकः ।गुल्यक्षारकटुभ्योऽपि कषायश्च ततः पुनः ॥ ३२७ ॥
1.7.327 · p. 169
अनुष्टुप्
अम्लक्षारकटुभ्यः स्यात्तिक्तस्तुवरकस्ततः ।स्यादम्लक्षारतिक्तेभ्यः कषायोम्लकटूत्तरः ॥ ३२८ ॥
1.7.328 · p. 169
अनुष्टुप्
तिक्तः कषायो लवणकटुतिक्तकषायकः ।स्यात् क्षारकटुतिक्तेभ्यः कषायः स्युश्चतुष्ककाः ॥ ३२९ ॥
1.7.329 · p. 169
अनुष्टुप्
एते पञ्चदशैव स्युरतः षट्पञ्चकाः परे ।मधुराम्लक्षारकटुतिक्तास्तिक्तकषायकौ ॥ ३३० ॥
1.7.330 · p. 169
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क्षा (wrong syllable)
मधुराम्लक्षारतिक्तकषाया मधुरः पटुः ।कटुतिक्तकषायोऽपि मध्वम्लकटुतिक्तकः ॥ ३३१ ॥
1.7.331 · p. 169
अनुष्टुप्
कषायोथाम्ललवणमधुतिक्तेभ्य इत्ययम् ।षट्क एको रसाः षट् ते पुंस्येते स्युस्त्रिषष्टिकाः ॥ ३३२ ॥
1.7.332 · p. 169
अनुष्टुप्
रसभेदा दोषभेदा उन्नेया एवमेव तु ।उद्वेगः क्रमुकः पूगश्चिक्का स्त्री चिक्कणी न ना ॥ ३३३ ॥
1.7.333 · p. 169
अनुष्टुप्
स्यात्खेचरी तु मधुरा क्लीबे गौल्वं तु तैल्वलम् ।गुहागरगथो घोण्टा कठिनाप्यथ वैटिलम् ॥ ३३४ ॥
1.7.334 · p. 169
अनुष्टुप्
पूगीफलं वल्लगुणं होसं पत्तनजं च तत् ।नागपर्यायवल्ल्यर्था ताम्बूली भक्षपत्रिका ॥ ३३५ ॥
1.7.335 · p. 170
अनुष्टुप्
सैव सप्तशिरा पर्णलता स्यादथ तद्भिदः ।श्रीवाटी चाम्लवाटी च पत्रसी च गुहागरी ॥ ३३६ ॥
1.7.336 · p. 170
अनुष्टुप्
अम्लसारा मालवोत्था मागधी होसणीति च ।स्यादन्द्रपुष्कलीचाथ चूर्णमम्लं सुधार्थकम् ॥ ३३७ ॥
1.7.337 · p. 170
अनुष्टुप्
कुटार्जुनकरञ्जार्कशिलास्फटिकशुक्तिजम् ।स्यात्खादिरस्तु खदिरसारः क्षोदोऽपि रङ्गदः॥ ३३८ ॥
1.7.338 · p. 170
अनुष्टुप्
अथ क्वाथस्तु खदिररसोरङ्गः कषायकः ।वाच्यलिङ्गस्तु सुरभि रामोदी मुखवासनः ॥ ३३९ ॥
1.7.339 · p. 170
अनुष्टुप्
शुभवासनश्चापि पुनर्गुरुवासन इत्यपि ।ताम्बूलं मिलितैरेभिर्वीटकं त्रिष्वथापरम् ॥ ३४० ॥
1.7.340 · p. 170
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
फलकन्दकरीरादिलवणेन विमिश्रितम् ।हरिद्राराजिका कल्ककटुतैलसमन्वितम् ॥ ३४१ ॥
1.7.341 · p. 170
अनुष्टुप्
तत्संधितं तु सन्धानमास्थानं वस्तुनि त्रिषु ।शलाटुभिः फलैः शुष्कैर्मिश्रितैर्मधुरादिभिः ॥ ३४२ ॥
1.7.342 · p. 170
अनुष्टुप्
प्रयुक्तं स्यादिदमपि सन्धानमुपदंशकम् ।कटुबीजा च वैदेही कोला दन्तफलोषणा ॥ ३४३ ॥
1.7.343 · p. 170
अनुष्टुप्
कृष्णोपकुल्या कारञ्जी स्पृतिः स्यान्मागधी कणा ।पिप्पली पिप्पलिस्तुल्ये ऊषणा चपलापि च ॥ ३४४ ॥
1.7.344 · p. 171
अनुष्टुप्
शौण्डी च तैजसी स्थूलसूक्ष्मभेदादियं द्विधा ।गजार्थात् पिप्पली छिद्रपिप्पली श्रेयसी च सा ॥ ३४५ ॥
1.7.345 · p. 171
अनुष्टुप्
दीर्घग्रन्थिर्वर्तुली च क्लीबे चव्यफलं पुनः ।सैंहली सर्पदण्डी च लम्बतन्ता च पार्वती ॥ ३४६ ॥
1.7.346 · p. 171
अनुष्टुप्
प्रलम्बबीजा सर्पाङ्गी तीवनेत्रा च जीवला ।उत्कटा कुरवीचापि क्षुद्रसूक्ष्मवनार्थतः ॥ ३४७ ॥
1.7.347 · p. 171
अनुष्टुप्
पिप्पल्यर्था तदुत्थाथ मूलं तु चटिका शिरः ।ग्रन्थिकं पिप्पलीमूलं कटुमूलं च शोषजम् ॥ ३४८ ॥
1.7.348 · p. 171
अनुष्टुप्
कोलमूलं कटुग्रन्थिः सर्वग्रन्थिः कटूषणम् ।सुगन्धिकं च पत्राढ्यं विरूषं ग्रन्थिलं पुनः ॥ ३४९ ॥
1.7.349 · p. 171
अनुष्टुप्
दीप्योऽस्त्रियां दीपकोऽपि यवसाग्रो यवाग्रजः ।यवजः पुंसि वातारिर्भूकदम्बश्च शूलहा ॥ ३५० ॥
1.7.350 · p. 171
अनुष्टुप्
स्त्र्युग्रगन्धा दीपनी च यवानी चाथ चव्यकम् ।कोलं स्त्रियां कटिकणा चविका गन्धनाकुली ॥ ३५१ ॥
1.7.351 · p. 171
अनुष्टुप्
वल्ली च कोलवल्ली स्याद्वशिरः कृकरः पुमान् ।तीक्ष्णोथ पालका पाठी ज्योतिष्कः शूरदारुणौ ॥ ३५२ ॥
1.7.352 · p. 171
अनुष्टुप्
अग्निव्याघ्राभिधश्चापि चित्रकः शंवरः कुटः ।कृष्णे व्यालः कालमूलो मार्जारोप्यतिदीप्यकः ॥ ३५३ ॥
1.7.353 · p. 172
अनुष्टुप्
रक्ते रुद्रो गुणाढ्यः स्यान्महाङ्गश्चाथ गह्वरा ।कपाली कैरवी मोघा कृमिघ्नी चित्रतण्डुला ॥ ३५४ ॥
1.7.354 · p. 172
अनुष्टुप्
वातारिस्तण्डुली चापि सैवोक्ता मृगगामिनी ।तण्डुलीया विडङ्गापि त्रिष्वथोग्रा तु मङ्गला ॥ ३५५ ॥
1.7.355 · p. 172
अनुष्टुप्
यचोग्रगन्धा गोलोमी जटिला लोमशा च सा ।रक्षोघ्नी विजया भद्राथ श्वेता विजया च सा ॥ ३५६ ॥
1.7.356 · p. 172
अनुष्टुप्
तीक्ष्णगन्धा हैमवती मङ्गला दीर्घपत्रका ।षड्ग्रन्थापि च मेध्याथ कुलञ्जस्तु कुलञ्जनः ॥ ३५७ ॥
1.7.357 · p. 172
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 है (wrong syllable)
गन्धमूलस्तीक्ष्णमूलोऽथैला तु लवली हिमा ।निःकुटी निःकुटिरपि द्राविड्यल्पा त्रुटी त्रुटिः ॥ ३५८ ॥
1.7.358 · p. 172
अनुष्टुप्
कपोतपर्णी बहलगन्धा चैवोपकुञ्चिका ।कायस्था चन्द्रिका चापि गोरङ्गी महती तु सा ॥ ३५९ ॥
1.7.359 · p. 172
अनुष्टुप्
कपिस्था गोपुरा कान्ता घृताची गर्भसम्भवा ।सुरभित्वग्दिव्यगन्धा महैला त्रिदिवोद्भवा ॥ ३६० ॥
1.7.360 · p. 172
अनुष्टुप्