कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वर्षाभ्वी

varṣābhvīस्त्री · fem.

In 10 kośas: 12 synonym verses, 1 as a nānārtha head word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वारिवर्गः Amarakośa 1.10.24
शिली गण्डूपदी भेकी वर्षाभ्वी कमठी डुलिः ॥ २४ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.121 · p. 357
व्यङ्गः प्लवः शिली भेकी वर्षाभ्वी च डुलिर्डुली ।हरिनेत्रः कुलीरः स्यात् कलीरः कर्ककर्कटौ ॥ १२१ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वारिवर्गः Koṣakalpataru 1.7.4 · p. 110
व्यङ्गको नर्दकश्चाथ वर्षाभूः प्लवगी प्लवी ।वर्षाभ्वी वाथ मण्डूकापत्ये माण्डूकिरीरितः ॥ ४ ॥
अनुष्टुप्
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1638 · p. 190
वन्दना तु न ना स्तुत्यामभिवादन एव च ।वर्षाभूस्तु द्वयोर्भेके वर्षाभ्वीति यदा तदा ॥ १६३८ ॥
अनुष्टुप्
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट पाताललोकसर्गः Paryāyaśabdaratna 3.64 · p. 131
तत्पत्न्यां स्यात्तु मण्डूकी शिली च कमठी डुली(लिः?) ।प्लवी गण्डूपदी भेकी वर्षाभ्वी रटनप्रिया ॥ ६४ ॥
अनुष्टुप्
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त जलभानुः Pañcatattvaprakāśa 3.301 · p. 21
आसेचनं सेकपात्रमरित्रं केनिपातनम् ।क्षुद्रतीरः प्रकूः कोलो वर्षाभ्वी कमठी डुलिः ॥ ३०१ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.98 · p. 43
भेकस्य भार्या भेकी स्याद् वर्षाभ्वीति च कथ्यते ।कैश्चिदल्पविवक्षायां स्त्रियामिति निगद्यते ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.273 · p. 77
वर्षाभूरपि वर्षाभ्वी शोथघ्नी च पुनर्नवा ।वितुन्नं सुनिषणरञ्च वितुन्नक निषण्णकम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 षण (syllable split)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.372 · p. 249
शालस्तथैव भेक्यां तु वर्षाभूरिति कथ्यते ।वर्षाभ्व्युद्भिदि चोद्भिज्जमुद्भिदं चोद्भिजं तथा ॥ ३७२ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.338 · p. 45
मण्डूके भेकवर्षाभूशालूरप्लवदर्दुराः ।मण्डूकी दर्दुरी भेकी वर्षाभ्वी कमठी दुलिः ॥ ३३८ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.597 · p. 77
दासी षडश्रा शार्ङ्गाष्ठा काकजङ्घा विलोमिका ।पुनर्नवा तु शोफघ्नी वर्षाभ्वी जीवबोधिनी ॥ ५९७ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.145 · p. 57
मण्डूकपर्ण्यां भण्डीरी भाण्डी योजनवल्ल्यपि ।शोफघ्न्यां पूरणा पूरी वर्षाभ्वी जीवबोधिनी ॥ १४५ ॥
अनुष्टुप्
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1639 · p. 190
वृत्तिः स्याद्योनिमत्यर्थे तथा गण्डूपदेऽपि च ।भेकोक्तन्यायभावः स्यात् परेषां तु मतं विदुः ॥ १६३९ ॥
अनुष्टुप्
doubtful