All kośas › Vaijayantī
वैजयन्ती Vaijayantī
3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)
भूमिकाण्डः · शूद्राध्यायः (2/2)
परिवादो वादनार्थ उपनाहस्तु बन्धनम् ।तन्त्रीष्वंगुष्ठसंस्पर्शः कलस्तासां तु ताडनम् ॥ १२१ ॥
3.9.121 · p. 145
अनुष्टुप्
निष्कोटितोऽस्त्री सव्येन तलस्त्वन्येन पाणिना ।लयस्तु साम्यं दशभिश्छन्दोऽक्षरपदैः सह ॥ १२२ ॥
3.9.122 · p. 145
अनुष्टुप्
विलंबितं द्रुतं मध्यं तत्त्वमोघो घनं क्रमात् ।तालः कालक्रियामानं क्रियांगुलिकरोद्भवा ॥ १२३ ॥
3.9.123 · p. 146
अनुष्टुप्
ताली त्रयी कांस्यताली विताली तालपत्रिका ।झिंकिल्लस्तु पयोऽथ स्याद्दर्दरः कलशीमुखः ॥ १२४ ॥
3.9.124 · p. 146
अनुष्टुप्
वंशे तु वंशिका पूरी मुरली वेणुका च सा ।शृंगवाद्ये खरमुखं स्यादाघट्टलिकेति च ॥ १२५ ॥
3.9.125 · p. 146
अनुष्टुप्
तोट्टभी चाथ पिच्छोला पाली तु जतुकाहला ।काहला तु कहाला स्याच्चण्डकोलाहलेति च ॥ १२६ ॥
3.9.126 · p. 146
अनुष्टुप्
नालिका सुषिरच्छेदे मुरली पुष्पिकेति च ।चाण्डालिका तु कण्डोलवीणा चण्डालवल्लकी ॥ १२७ ॥
3.9.127 · p. 146
अनुष्टुप्
काण्डवीणा कुवीणा च ढक्कारी किन्नरीति च ।सारिका कुंखुणी चाथ यो दण्डोऽल्पकलस्वनः ॥ १२८ ॥
3.9.128 · p. 146
अनुष्टुप्
दण्डिका कारवी सृष्टा किंखिरो जर्जरश्च सः ।मुरजास्तु मृदंगास्ते त्वङ्क्यालिंग्योर्ध्वकास्त्रयः ॥ १२९ ॥
3.9.129 · p. 146
अनुष्टुप्
पूर्वः पूर्वो महानेषामेतत्पुष्करमण्डले ।व्यापारस्त्वङ्गुलीनां यो मार्जना सा त्रिधा त्वियम् ॥ १३० ॥
3.9.130 · p. 146
अनुष्टुप्
मायूरी चार्धमायूरी तथा कर्मारवीति च ।घर्घरी स्याद्घर्घरिका वादने मूर्च्छना न ना ॥ १३१ ॥
3.9.131 · p. 146
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्घ (wrong syllable)
स्युः षड्जर्षभगान्धारमध्यमाः पञ्चमस्तथा ।धैवतश्च निषादश्च तन्त्रीकण्ठोद्भवाः स्वराः ॥ १३२ ॥
3.9.132 · p. 146
अनुष्टुप्
ते केकिचातकाजक्रुङ्पिकभेकगजस्वराः ।दुंदुभिस्त्वानको भेरी भंभा नासूश्च नान्द्यपि ॥ १३३ ॥
3.9.133 · p. 146
अनुष्टुप्
स्याद्यशःपटहों ढक्का पटहस्त्वानकोऽस्त्रियौ ।हुडुक्कस्तु हढक्कोऽस्त्री समौ पणवमर्द्दलौ ॥ १३४ ॥
3.9.134 · p. 146
अनुष्टुप्
वाद्यप्रभेदा डमरुमड्डुडिंडिमझर्झराः ।तिमिलाटट्टरीवेध्यालुंबिकाकुंजिकादयः ॥ १३५ ॥
3.9.135 · p. 147
अनुष्टुप्
वादित्रलगुडे कोणा न नपुं शारिका स्त्रियाम् ।तूर्योऽस्त्री वाद्यनिर्घोषे वादित्रं वादनं च तत् ॥ १३६ ॥
3.9.136 · p. 147
अनुष्टुप्
तूरकामध्वजौ चाथ सायंतूर्येऽक्षताडनम् ।संवेशने तु भ्रुकुटः प्रकटः प्रतिबोधने ॥ १३७ ॥
3.9.137 · p. 147
अनुष्टुप्
पटहाडंबरौ युद्धे मंगले प्रियवादिका ।देवतार्चनतूर्ये तु धूमलोऽस्त्री बलिर्न षण् ॥ १३८ ॥
3.9.138 · p. 147
अनुष्टुप्
क्षुण्णकं मृतयात्रायामर्धतूरो रणोद्यमे ।नटोत्साहनमंके स्यात् पूर्वरंगास्त्वतः परे ॥ १३९ ॥
3.9.139 · p. 147
अनुष्टुप्
प्रत्याहारोऽत्र कुतपविन्यासे कुतपः पुनः ।वाद्यवादकसामग्र्यामारंभो गीत्युपक्रमे ॥ १४० ॥
3.9.140 · p. 147
अनुष्टुप्
निवेशने गायिकानां न पुमानवतारणम् ।लोकपालार्चने दिक्षु करणीपरिवर्तनम् ॥ १४१ ॥
3.9.141 · p. 147
अनुष्टुप्
नन्दी चारी महाचारी कथा सूत्रं प्ररोचना ॥ १४१.५ ॥
3.9.142 · p. 147