All kośas › Vaijayantī
वैजयन्ती Vaijayantī
3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)
भूमिकाण्डः · वनाध्यायः (2/2)
तीक्ष्णे तीक्ष्णार्जको गौरी भूतघ्नी देवदुंदुभिः ।अल्पमात्रे तु वैकुण्ठो विल्वगन्धो वचाच्छदः ॥ १२१ ॥
3.3.121 · p. 55
अनुष्टुप्
कालपर्ण्यां तु सुरभिः करालः कालमालकः ।मालो ब्रह्मजटायां तु सलज्जं दानवांजनम् ॥ १२२ ॥
3.3.122 · p. 55
अनुष्टुप्
पुण्डरीकं दमनकं कान्तं दान्तं मुनिः पुमान् ।विष्णुक्रान्ता तु सुमुखी गवसी स्यान्महारसा ॥ १२३ ॥
3.3.123 · p. 55
अनुष्टुप्
ऋषणी द्रोणिका छत्रा चक्षुष्या द्रोणपुष्पिका ।सूर्यावर्ते पर्णिकायां मोरटा मूलपुष्पिका ॥ १२४ ॥
3.3.124 · p. 55
अनुष्टुप्
मुण्ड्यां मुण्डितिका मुण्डा श्रमणी श्रामणी बुधा ।रोदन्यां कच्छुरानन्ता ताम्रमूला दुरालभा ॥ १२५ ॥
3.3.125 · p. 55
अनुष्टुप्
यासो यवासो दुस्स्पर्शो धन्वयासः कुनाशकः ।वृश्चिकाल्यामुष्ट्रधूम्रपुच्छिका नागवृन्तिका ॥ १२६ ॥
3.3.126 · p. 55
अनुष्टुप्
सर्पदंष्ट्र्यमरा काली विषघ्नी वृश्चिकच्छदा ।वाट्यपुष्प्यां बला वाट्या सम्मासा चान्नसंज्ञिका ॥ १२७ ॥
3.3.127 · p. 55
अनुष्टुप्
वाट्यालोऽतिबलायां तु पुष्पवीर्या जनी सहा ।अश्वकन्दस्त्वश्वगन्धी तिक्ते तु कटुपर्पटौ ॥ १२८ ॥
3.3.128 · p. 55
अनुष्टुप्
ऋषभी त्वजहाध्यण्डा कण्डूरा प्रावृषायणी ।कपिकच्छूः शूकशिंबिरात्मगुप्ता च कच्छुरा ॥ १२९ ॥
3.3.129 · p. 55
अनुष्टुप्
अस्थिमांस्त्वस्थिसंघातोऽप्यस्थिसन्नहनोऽपि च ।एकाष्ठीला पापचेली स्थापनी वनतिक्तिका ॥ १३० ॥
3.3.130 · p. 55
अनुष्टुप्
पाठांबष्ठा विद्धकर्णी प्राचीना श्रेयसी रसा ।गुडूच्यां कुण्डली धीरा छन्ना च्छिन्नरुहा धरा ॥ १३१ ॥
3.3.131 · p. 55
अनुष्टुप्
वत्सादनी सोमवल्ली विशल्या चक्रलक्षणा ।जीवन्ती खरुहा देवी विषघ्न्यमृतवल्लिका ॥ १३२ ॥
3.3.132 · p. 56
अनुष्टुप्
दीर्घवल्यां वेत्रवन्यौ कुरुवेत्रश्च भूरदः ।गवाक्ष्यां किणिही जैत्री प्रत्यक्छ्रेण्यपराजिता ॥ १३३ ॥
3.3.133 · p. 56
अनुष्टुप्
विष्णुक्रान्ता परास्फोताश्वखुरी शीतलात्र तु ।श्वेतायां चारिणी सूर्या गिरिकर्णी गवादिनी ॥ १३४ ॥
3.3.134 · p. 56
अनुष्टुप्
नीलायां तु महाश्वेता निष्ट्यांता स्थूलपुष्पिका ।जिंग्यां समंगा विकसा मंजिष्ठांजनवल्लिका ॥ १३५ ॥
3.3.135 · p. 56
अनुष्टुप्
पृश्निपर्ण्यां पृथक्पर्णी लांगूली पदपर्णिका ।गुहा कलशिधावन्यौ दीर्घा सा चित्रपर्णिका ॥ १३६ ॥
3.3.136 · p. 56
अनुष्टुप्
सिंहपुच्छी फेरुविन्ना चित्रांघ्रिः क्रोष्टुमेखला ।नागर्यां केशिका त्र्यश्रा त्रिपुटा त्रिपुटी त्रिवृत् ॥ १३७ ॥
3.3.137 · p. 56
अनुष्टुप्
रेचनी महती श्वासा माया कुठरुणात्र तु ।कृष्णायां रोचनी श्यामा काला चित्रा सुषेण्यपि ॥ १३८ ॥
3.3.138 · p. 56
अनुष्टुप्
गोपा तु शारिवा भद्रा नागजिह्वा सुगन्धिका ।ज्योतिष्मत्यां पीतरसा लगणा कटभींगुदी ॥ १३९ ॥
3.3.139 · p. 56
अनुष्टुप्
पारावतपदी पिण्या जीवन्ती स्फुटवल्कली ।नागवल्ली तु तांबूली तथा तांबूलवल्लिका ॥ १४० ॥
3.3.140 · p. 56
अनुष्टुप्
क्षुरे तु कण्टकिफलस्त्रिगोभ्यां कण्टकः परः ।गोक्षुरः स्थलशृंगाट इक्षुगन्धा पलंकषा ॥ १४१ ॥
3.3.141 · p. 56
अनुष्टुप्
श्वदंष्ट्रा भीरुपर्ण्यां तु शतमूली शतावरी ।इन्दीवरी बहुसुताप्यहेरुः पीवरीति च ॥ १४२ ॥
3.3.142 · p. 56
अनुष्टुप्
सुदर्शनायां चक्रांका दध्याली वृषपर्ण्यपि ।जीवन्त्यां जीवनी जीवा जीवनीया मधुश्च सा ॥ १४३ ॥
3.3.143 · p. 56
अनुष्टुप्
चर्मपर्ण्यां तु शार्ङ्गाष्ठा सुताह्वायामुपोदका ।ब्रह्म्यां सत्यवती ब्राह्मी मत्स्याक्षी सोमवल्लरी ॥ १४४ ॥
3.3.144 · p. 57
अनुष्टुप्
मण्डूकपर्ण्यां भण्डीरी भाण्डी योजनवल्ल्यपि ।शोफघ्न्यां पूरणा पूरी वर्षाभ्वी जीवबोधिनी ॥ १४५ ॥
3.3.145 · p. 57
अनुष्टुप्
पुनर्नवा च रक्तायां तस्यां योग्या कटिल्लका ।श्वेतायां वृश्चिकोऽल्पायां दीर्घपत्री विटाटिका ॥ १४६ ॥
3.3.146 · p. 57
अनुष्टुप्
अस्या जात्यंतरे स्वल्पे पूरणी हस्तिपूरणी ।तुण्डिकेर्यां रक्तफला बिंबोष्ठी पीलुपर्ण्यपि ॥ १४७ ॥
3.3.147 · p. 57
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र (wrong syllable)
लज्जालुस्तु नमस्कारी बदर्यञ्जलिकारिका ।गण्डकाली खदर्यां तु लज्जालुः स्याच्छमीफला ॥ १४८ ॥
3.3.148 · p. 57
अनुष्टुप्
कलंब्यां शतपर्वा स्यात् कलंबूर्वायसी वधा ।पटुञ्चिकायां तु शिवः शान्तः स्वस्तिककुक्कुटौ ॥ १४९ ॥
3.3.149 · p. 57
अनुष्टुप्
निद्रालुः करुणो मानी वनालुः सुनिषण्णकः ।मारिषे जीवशाकः स्यादत्राल्पे तण्डुलीयकः ॥ १५० ॥
3.3.150 · p. 57
अनुष्टुप्
मेघनादो विगण्डीरमथ स्युर्देवमारिषे ।विभाजनो रसोत्सृष्टौ काणमारिष ओलकः ॥ १५१ ॥
3.3.151 · p. 57
अनुष्टुप्
लतामारिषतुवरौ वरशाकोलताटिकाः ।जलजोऽसौ चञ्चटकः कुकुण्डे कवकोऽस्त्रियाम् ॥ १५२ ॥
3.3.152 · p. 57
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 रि (wrong syllable); pāda 3, syllable 5 च (wrong syllable)
भूवल्लूरमहिच्छत्रं भूस्फोटं भूमिकन्दरम् ।छत्राकश्च सिलिन्ध्रश्च मुकुलेऽस्मिन् पलाण्डुकम् ॥ १५३ ॥
3.3.153 · p. 57
अनुष्टुप्
सृगालवास्तुके त्वारुर्वास्तुके क्षारपत्रकः ।प्रवालो वीरशाकश्च श्रूषायां कासमर्दकः ॥ १५४ ॥
3.3.154 · p. 57
अनुष्टुप्
हरिपर्णे मूलकोऽस्त्री सेकिमं बुस्तिका न षण् ।नीलकण्ठोऽथ मरुजे शिवं चाणक्यमूलकम् ॥ १५५ ॥
3.3.155 · p. 57
अनुष्टुप्
मत्स्याक्ष्यां शालशालीनौ पत्तूरो लोहमारकः ।अगस्त्ये मुनिमार्जारावगस्तिर्वंगसेनकः ॥ १५६ ॥
3.3.156 · p. 58
अनुष्टुप्
शुकनासोऽप्यथो पश्चात्सुन्दरो ग्रीष्मसुन्दरः ।कपित्थपत्र्यधःपुष्पी व्रणघ्नी झरसी झरा ॥ १५७ ॥
3.3.157 · p. 58
अनुष्टुप्
प्रपुन्नाटे त्वेडगजो दद्रुघ्नश्चक्रमर्दनः ।घोषे कोशफला घण्टा घण्टाला फलिनी फली ॥ १५८ ॥
3.3.158 · p. 58
अनुष्टुप्
जाली पटोली झण्डाली कोशातक्यपि चात्र तु ।पृथौ महाकोशातकी मृदंगः कृतवेधनः ॥ १५९ ॥
3.3.159 · p. 58
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 शा (wrong syllable)
ज्योत्स्न्यां स्वल्पफला ग्राम्या मृदंगः कृतवेधनः ।अथ जिंगी दीर्घफला मागधी मलनोत्तमा ॥ १६० ॥
3.3.160 · p. 58
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दी (wrong syllable)
बहुजाल्यां कोशफला वन्या तिक्तपटोलिका ।कर्कोटक्यां कोशफला राजकोशातकी फला ॥ १६१ ॥
3.3.161 · p. 58
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 को (wrong syllable)
महाजाली पीतघोषा क्षोडो धामार्गवोऽपि च ।हस्तिघोषे तरंगोऽल्पे त्वादाली देवदाल्यपि ॥ १६२ ॥
3.3.162 · p. 58
अनुष्टुप्
चांगेर्यां चुक्रिका दन्तशठांबष्ठाम्ललोण्यपि ।सुषव्यां तिक्तच्छदनः कारवेल्लः कटिल्लकः ॥ १६३ ॥
3.3.163 · p. 58
अनुष्टुप्
राजवल्ल्युरुवल्ल्यंबुवल्ली रञ्जनवल्ल्यपि ।सुगन्धके तु कर्कोटः किलासघ्नः पटुच्छदः ॥ १६४ ॥
3.3.164 · p. 58
अनुष्टुप्
बृहत्कर्कोटके त्वैहो हस्तिकर्कोटको बली ।पटोलके तु राजीवान् रवणः कर्कशः पटुः ॥ १६५ ॥
3.3.165 · p. 58
अनुष्टुप्
राजी राजामृतापाण्डुभूतेभ्यश्च फलः परः ।तिक्ते राजपटोलश्च भीरुस्त्विर्वारुकर्कटी ॥ १६६ ॥
3.3.166 · p. 58
अनुष्टुप्
चोदन्युर्वारुवालुक्योऽप्यल्पा सा राजकर्कटिः ।तुंब्यां पिण्डफलालाबूः कटुतुंब्यां नृपात्मजा ॥ १६७ ॥
3.3.167 · p. 58
अनुष्टुप्
इक्ष्वाकुर्वासनीं निम्ना वृन्ततुंब्यां तु तुंबुका ।अल्पतुंब्यां कुक्कुटाक्षो वृन्ते कर्कारुचित्रलौ ॥ १६८ ॥
3.3.168 · p. 59
अनुष्टुप्
कालिंगोऽल्पेऽत्र चेल्लाणचेन्नालौ क्रोष्टुकर्कटिः ।कालिंग्या छत्रकः सोमः कर्कारुर्घनवासकः ॥ १६९ ॥
3.3.169 · p. 59
अनुष्टुप्
कूश्माण्डकः पुष्यफलः पीतपुष्पो नृपात्मजः ।महाफला शाकफला सुभद्रा शंकुलापि च ॥ १७० ॥
3.3.170 · p. 59
अनुष्टुप्
सुखवासे शीर्णवृन्त उग्रगन्धः सुवासकः ।त्रिलिंगे त्रपुषे तालुश्छर्दनी हस्तिपर्णिनी ॥ १७१ ॥
3.3.171 · p. 59
अनुष्टुप्
चिद्भिटे पुनरुर्वारुर्मृगाद्यां गजचिद्भिटा ।विटंकोऽतिमृगेर्वारुर्विशालैन्द्रीन्द्रवारुणी ॥ १७२ ॥
3.3.172 · p. 59
अनुष्टुप्
अथो गवाक्ष्यां गोडुंबा चित्रा च कदले पुनः ।वृषा वारबुसा रंभा काष्ठीलानंशुमत्फला ॥ १७३ ॥
3.3.173 · p. 59
अनुष्टुप्
कदली दीर्घपर्णी च रंभा सा गौरपर्णिका ।कृष्णा तु लंपा कदली माहेन्द्री तु बृहत्फला ॥ १७४ ॥
3.3.174 · p. 59
अनुष्टुप्
सुगन्ध्यल्पफला मोचा साष्ठी काष्ठी कदल्यसौ ।विभीतकस्त्रिलिंगः स्यात्कलिस्तिष्यः कलिद्रुमः ॥ १७५ ॥
3.3.175 · p. 59
अनुष्टुप्
विभीदकः कर्षफलो भूतवासो बहेटकः ।दैत्यः पापस्तुषः कल्पः कालेयस्तुमुलाक्षकः ॥ १७६ ॥
3.3.176 · p. 59
अनुष्टुप्
संवर्तश्च षडश्रायां त्रिलिंग्यामलकी शिवा ।धात्री कर्षफला तिष्या सेव्याध्यण्डा झटा दृढा ॥ १७७ ॥
3.3.177 · p. 59
अनुष्टुप्
हरीतक्यां शुक्रसृष्टा नन्दिनी साधिकाभया ।अव्यथा चेतकी पथ्या धारणी कालकूणिका ॥ १७८ ॥
3.3.178 · p. 59
अनुष्टुप्
गुंजायां कृष्णला ताम्रा शार्ङ्गाष्ठा रक्तिका वरा ।चूडामणिः कपिक्रोडा कालावृन्ती परा नव ॥ १७९ ॥
3.3.179 · p. 59
अनुष्टुप्
काकशब्दात् पीलुपीथ्यौ चिंचाणन्त्यदनी नखी ।जंघा तिक्ता च दक्षा च सा शुक्ला चेन्मधुस्रवा ॥ १८० ॥
3.3.180 · p. 60
अनुष्टुप्
द्राक्षायां कृष्णिका स्वाद्वी प्रियाला कालमेषिका ।हारभूरा दारुफला मृद्वीका गोस्तनी रसा ॥ १८१ ॥
3.3.181 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दा (wrong syllable)
मालत्यां रेवती जातिर्यूथिकायां मनोज्वला ।मानवी चात्र पीतायां वासन्ती हेमपुष्पिका ॥ १८२ ॥
3.3.182 · p. 60
अनुष्टुप्
मल्लिकायां विचकिलो भूपदी मुक्तबन्धना ।शतभीरुर्मदयन्ती गवाक्षी तृणशून्यकम् ॥ १८३ ॥
3.3.183 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 द (wrong syllable)
देवमाल्यां वरारोहा गोधामाल्यां तु सेवनी ।सुरूपायां तृणं वेश्यं काकमाल्यां वनोद्भवा ॥ १८४ ॥
3.3.184 · p. 60
अनुष्टुप्
आस्फोता चैकपटलमाल्यां बालाथ रक्तकः ।बन्धूको बन्धुजीवश्च सप्तलायां विभावनी ॥ १८५ ॥
3.3.185 · p. 60
अनुष्टुप्
सुगन्धा ग्रैष्मिकाताना मालिका नवमालिका ।शेफालिका तु निर्गुण्डी नीलिका निवहात्र तु ॥ १८६ ॥
3.3.186 · p. 60
अनुष्टुप्
सितायां श्वेतसुरसा वासन्त्यां माधवी लता ।निस्संगजा कान्तनाला प्रहसन्ती कुटुंबिका ॥ १८७ ॥
3.3.187 · p. 60
अनुष्टुप्
अतिमुक्तश्च कन्यायां कुमारी तरुणी सहा ।महासहायामम्लानः पीताम्लाने कुरण्डकः ॥ १८८ ॥
3.3.188 · p. 60
अनुष्टुप्
शोणे बली कुरवको झाटेऽस्मिन् कलशोदकः ।किंकिराते किंकिराटः प्रलोभी चापि लातकः ॥ १८९ ॥
3.3.189 · p. 60
अनुष्टुप्
सैरेयके तु झिण्टी स्त्री तस्मिन् कुरवकोऽरुणे ।दासी सहाऽप्यार्तगलः कुरण्डश्च सनीलकः ॥ १९० ॥
3.3.190 · p. 60
अनुष्टुप्
पीतेऽव्यथः कुरवकः सहा स्त्री सहचर्यषण् ।कुन्दे माध्यः शुक्लपुष्पो वासोऽथ करवीरकः ॥ १९१ ॥
3.3.191 · p. 60
अनुष्टुप्
प्रतिहासः शतप्रासः शितिकुंभोऽश्वमारकः ।चंडातोऽश्वरिपुः श्वेते मरालोऽत्रातिलोहिते ॥ १९२ ॥
3.3.192 · p. 61
अनुष्टुप्
भुज उग्रविषः काकनासायां शिवमल्लिका ।बकपुष्पस्तूलपुष्पः काकशीर्षः शिवप्रियः ॥ १९३ ॥
3.3.193 · p. 61
अनुष्टुप्
वसुभट्टः पाशुपत एकाष्ठीलोंऽबुको वसुः ।नन्द्यावर्ते तु तगरस्तारावटनभोंऽगणौ ॥ १९४ ॥
3.3.194 · p. 61
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पा (wrong syllable)
जपायां रुद्रपुष्पं स्यादत्र पद्मादयोऽपि च ।विदार्यां भूमिकूश्माण्डः सा तु कृष्णा पलाशिका ॥ १९५ ॥
3.3.195 · p. 61
अनुष्टुप्
कोष्ट्रिका क्षीरशुक्लेक्षुगन्धिकेक्षुविदारिका ।श्वेता क्षीरविदारी सा महाश्वेतर्क्षगान्धिका ॥ १९६ ॥
3.3.196 · p. 61
अनुष्टुप्
शारद्यां लांगली तोयपिप्पली शकुलादनी ।गोलोम्यां जटिलोग्रोग्रगन्धा तीक्ष्णा जया वचा ॥ १९७ ॥
3.3.197 · p. 61
अनुष्टुप्
मंगल्या चाथ शुक्ला सा षड्ग्रन्था जललंबिका ।श्यामा तु सा घुणाभीष्टा काश्मीरी देवदुन्दुभिः ॥ १९८ ॥
3.3.198 · p. 61
अनुष्टुप्
कैवर्ती मुस्तकेत्वासौ गुन्द्रायां भद्रमुस्तकः ।महोदरी वरारोहा नादेयी वलयो वरम् ॥ १९९ ॥
3.3.199 · p. 61
अनुष्टुप्
मुस्तायां मुस्तकं न स्त्री सुगन्धः कर्णपूरकः ।शकुलाक्षः श्वेतमध्यो हंसः पीठरदुन्दुभे ॥ २०० ॥
3.3.200 · p. 61
अनुष्टुप्
जलमुस्ते तु प्लवनं गोदर्भं परिपेलवम् ।कुटन्नटं दशपुरं गोपुरं वर्तकं प्लवम् ॥ २०१ ॥
3.3.201 · p. 61
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तु (wrong syllable)
पालं तु पिंगलं वज्रं श्रीबेरं दीर्घरोमकम् ।चामरं चमकं ज्येष्ठं बर्हिष्ठं जटिलं जटा ॥ २०२ ॥
3.3.202 · p. 61
अनुष्टुप्
शैलमूलं तु कच्चोरं पलाशो हिमजा जटी ।अर्शोघ्न्यां मुसली ताली तालमूली फलिन्यपि ॥ २०३ ॥
3.3.203 · p. 61
अनुष्टुप्
खञ्जेऽरिष्टो गृहोछिष्टो रसोनो गृंजनः कटुः ।कायांगं लशुनं दिव्यं महाकन्दामृतोद्भवे ॥ २०४ ॥
3.3.204 · p. 62
अनुष्टुप्
जीर्णकं च पलाण्डुस्तु श्वेतकन्दो मुकुन्दकः ।हरितेऽस्मिन् लतार्कः स्यात् फरुण्डो दुद्रुमो रसः ॥ २०५ ॥
3.3.205 · p. 62
अनुष्टुप्
स्वल्पकन्दे हरिद्रक्ते गृञ्जनो गर्जनो गुजः ।लशुनं दीर्घपत्रं च पिच्छनद्धो महौषधः ॥ २०६ ॥
3.3.206 · p. 62
अनुष्टुप्
फरुण्डश्च पलाण्डुश्च लतार्कश्च परारिका ।गृञ्जनो यवनेष्टश्च पलाण्डोर्देश जातयः ॥ २०७ ॥
3.3.207 · p. 62
अनुष्टुप्
कन्दं त्वस्त्री चित्रदण्ड उल्लुः कण्डूरसूरणौ ।अर्शोघ्नो दैत्यमदनः कचूस्तु दलकूर्चिका ॥ २०८ ॥
3.3.208 · p. 62
अनुष्टुप्
शकटश्चाथ कालाची नूतनं वेष्टितं दलं ।शोथशत्रौ महापद्मो मोहो माणो बृहच्छदः ॥ २०९ ॥
3.3.209 · p. 62
अनुष्टुप्
वराहकन्दे वाराही चक्रोष्ट्र्यां मालुवा स्त्रियाम् ।मध्वालुको मधुरसः कन्दलः कन्दली समौ ॥ २१० ॥
3.3.210 · p. 62
अनुष्टुप्
गौर्यां हरिद्रा रात्र्याख्या हेमघ्नी काञ्चनी परा ।रोचनी रञ्जनी पीता पिञ्जा पिण्डा मनः शिला ॥ २११ ॥
3.3.211 · p. 62
अनुष्टुप्
तोषण वर्णिनी बाला विटकान्ता तरंगिणी ।दार्व्यां दारुहरिद्रा स्यात् पीतदारुश्च पर्जनी ॥ २१२ ॥
3.3.212 · p. 62
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ण (wrong syllable)
पचंपचा कर्कटिनी पर्परा पर्पटी वरा ।कटंकटेरी कालेयः प्रकोट्यां तु कटूत्कटम् ॥ २१३ ॥
3.3.213 · p. 62
अनुष्टुप्
कटुभंगं शृंगिबेरमार्द्रमार्द्रकमस्त्रियौ ।वेणौ तु वंशकर्मारौ मृत्युपुष्पस्तृणध्वजः ॥ २१४ ॥
3.3.214 · p. 62
अनुष्टुप्
त्वचिसारो यवफलःखेलस्तेजनमस्करौ ।चपश्च तेषु पवनोद्धूतध्वनिषु कीचकाः ॥ २१५ ॥
3.3.215 · p. 62
अनुष्टुप्
निस्सुषौ विषमो वेणौ क्षुद्रे लगुडवंशिका ।तृणराजे तलस्तालो महापत्रः फलेरुहः ॥ २१६ ॥
3.3.216 · p. 63
अनुष्टुप्
क्रमुके वाटिका घोण्टा गुवाकः क्रूर आसवः ।कषायो रागवान् पूगः फले पर्कटमस्य तत् ॥ २१७ ॥
3.3.217 · p. 63
अनुष्टुप्
पक्वं जोडं खरं शुष्कं चिक्कणे चक्कचक्कणे ।दीर्घवृन्ते रामपूगो लतापूगे तु योजनः ॥ २१८ ॥
3.3.218 · p. 63
अनुष्टुप्
भूपूगे लघुकः क्षुद्रफले पाथोवकापि च ।पूगे गैरेयकः शैलजातेऽथ स्याल्लतांकुरः ॥ २१९ ॥
3.3.219 · p. 63
अनुष्टुप्
हिन्तालस्तृणराजश्च नालिकेरे तु लांगली ।दाक्षिणात्योऽप्फलोऽबालः सुतंगः कूर्चकेसरः ॥ २२० ॥
3.3.220 · p. 63
अनुष्टुप्
सदाफलो बली चास्मिन् ह्रस्वे स्यात् खुडुकोऽत्र तु ।रक्ते स्वर्णोऽग्निकश्चाथ परिक्रोणास्य पट्टके ॥ २२१ ॥
3.3.221 · p. 63
अनुष्टुप्
खपुरः पुगपट्टोऽथ मधुक्षीरो महारसः ।परुषः पाण्डुखर्जूरौ तस्मिन् खर्जूरिकाल्पके ॥ २२२ ॥
3.3.222 · p. 63
अनुष्टुप्
हलीमे केतकी न क्ली दीनो व्यञ्जनजंबुलौ ।स्त्रीभूषणो रजःपुष्पो गुप्तरागो वलीनकः ॥ २२३ ॥
3.3.223 · p. 63
अनुष्टुप्
ताल्यां दृढदला ताडी पत्रताली वरांगना ।पत्रला फलपाकान्ता तालाद्याः स्युस्तृणद्रुमाः ॥ २२४ ॥
3.3.224 · p. 63
अनुष्टुप्
सवेणवस्ते त्वक्सारास्तृणानीक्षुथवादयः ।इक्षुर्वृष्यो मधुतृणो मृत्युपुष्पो महारसः ॥ २२५ ॥
3.3.225 · p. 63
अनुष्टुप्
खड्गपत्रोऽप्यथानिक्षुर्वायसालीक्षुपालिका ।इक्षुभेदास्तु कान्तारवंशपुंड्रादयो नरि ॥ २२६ ॥
3.3.226 · p. 63
अनुष्टुप्
दर्भोऽश्ववालः काशिर्ना काशोऽस्त्री स्त्रीक्षुगन्धिका ।कुशे मुनिः कुथो दर्भो वीनाहो यज्ञजागरः ॥ २२७ ॥
3.3.227 · p. 63
अनुष्टुप्
लताकुशे तु शीरी स्त्री धमने सुषिरो नलः ।शरो मुञ्जो भद्रमुञ्जो गुन्द्रस्तेजनकः खरः ॥ २२८ ॥
3.3.228 · p. 64
अनुष्टुप्
मुञ्जस्तु यज्ञियो मेध्यो मृदुत्वक् ब्रह्ममेखलः ।उल्लूकस्तूलपो दर्भ ऊर्ध्वमूलः खरच्छदः ॥ २२९ ॥
3.3.229 · p. 64
अनुष्टुप्
वालकेश्यां दृढदला जूर्णा कृकणपत्रिका ।पुंभूम्नि बल्बुजा वाट्यान्तूत्कटः स्यात् पराशकः ॥ २३० ॥
3.3.230 · p. 64
अनुष्टुप्
स्याद्वीरणं वीरतृणं मूलेऽस्योशीरमस्त्रियाम् ।सेव्या मृणालनलदलमज्जानि जलाशयम् ॥ २३१ ॥
3.3.231 · p. 64
अनुष्टुप्
नियुतस्तंबजदृढदैत्यगौरकुदानवम् ।अभयं चावदाहं च दूर्वा तु हरितालिका ॥ २३२ ॥
3.3.232 · p. 64
अनुष्टुप्
वरा सहस्रवीर्या च भार्गवी चाथ सा सिता ।गोलोमी शतवीर्या च गोऽर्गलस्त्वेरका तृणम् ॥ २३३ ॥
3.3.233 · p. 64
अनुष्टुप्
सौगन्धिकं देवजग्धं ध्यामकं कत्तृणं पुरम् ।छत्रातिछत्रपालघ्नौ मालातृणकभूस्तृणे ॥ २३४ ॥
3.3.234 · p. 64
अनुष्टुप्
पुञ्जीलस्तु तृणस्तंब इषीका तूलिका समे ।शष्पं बालतृणं शादः सर्वं तु तृणमर्जुनम् ॥ २३५ ॥
3.3.235 · p. 64
अनुष्टुप्