भास्त्रा
bhāstrāस्त्री · fem.In 1 kośa: 1 synonym verse.
अण् । अञ् । य । यत् । यु । ठक् । यक् । वुञ्च । एते प्रत्ययाः भावे कर्मणि वा यदि स्युस्तदा तदन्तानामेतेषां नपुंसकत्वं जानी[नि]हि । यथा "हायनान्तयुवा[पुरोहिता]दिभ्योऽण्" । द्विहायनस्य भावः कर्म वा द्वैहायनम् । यूनो भावः कर्म वा यौवनम् । "न घृत" इति नलोपे प्राप्ते इत्यण् पठ्यत इति प्रकृतिभावः । स्थावरं यजमानम् । इगन्तत्वे "नलघूपध" इत्यण् । मृदोर्भावः कर्म वा मार्दवम् । पाटवः लाघवम् । आर्जवम् । "अञप्राणिजातिभिर्जातिवयोवचनो गोत्रादिभ्योऽञ्" । अश्वस्य भावः कर्म वा आश्वम् । गार्दभम् । वयोवचनात्कौमारम् । शैशवम् । उद्गात्रादेः । इदमौद्गात्रम् । "सख्युर्य" इति यः । सख्युर्भावः कर्म वा सख्यम् । "स्तेयन्नलोपश्चे"ति यत्प्रत्ययः । स्तेयस्य भावः कर्म वा स्तैन्यम् । "होत्रादिभ्यो युः" । होतुर्भावः कर्म वा होत्रीयम् । पोत्रीयं अङ्गात्रीयं दुहित्रीयम् । ठक् । कपेर्भावः कर्म वा कापेयम् । रोहितादिभ्यो यक् । बृहस्पतेर्भावः कर्म वा बार्हस्पत्यम् । सैन्यापत्यम् । वुञ् । "योपधाद्गुरूपोत्तमाद्वुञ्" । रमणीयस्य भावः कर्म वा रामणीयकम् । अहोरूपमित्यादिके द्रष्टव्यम् ।व्रजशूलौ पुंसि नपुंसके च मृधम् ।कम्बलतोमरमुकुलकन्दुकाः पुंसि भास्त्रा स्त्री ॥ ८८ ॥
metre not recognised
genderस्त्रीfem.doubtful