कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

शूल

śūlaक्ली · neut.

In 13 kośas: 15 synonym verses, 6 as a nānārtha head word, 5 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.589 · p. 32
सर्वला तोमरे शल्यं शङ्कौ शूले त्रिशीर्षकम् ।
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.102 · p. 391
शूलोऽस्त्रियां पिनाकोऽपि त्रिशूलं त्रिशिखं च षण् ।अजगावं चाजगवमजकावं तदिष्यते ॥ १०२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 चा (wrong syllable)
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.8 · p. 406
विष्कम्भः प्रीतिरायुष्मान्सौभाग्यश्चापि शोभनः ।अतिगण्डः सुकर्मा च धृतिः शूलं ततः पुनः ॥ ८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.74 · p. 15
शूलं तु त्रिशिखं पारिषद्याः स्युः प्रमथा गणाः ।कुष्माण्डकः केलिकिलो नन्दितं… ॥ ७४ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.37 · p. 265
तोमरोऽस्त्री सर्वला स्त्री परिघः परिघातनः ।शूलिः स्त्री शूलमस्त्री*[स्यात् ] क्षिपणिः क्षिपका स्त्रियाम् ॥अरि क्लीबे चक्रमस्त्री गदादीनि पृथक्पृथक् ।शल्यं न स्त्री ध्रुवः शङ्कुः शम्बकः कीलकश्च सः ॥अस्रः पुंसि तथा कोणः स्त्रियः पाल्यश्रि-कोटयः ॥ ३७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.34 · p. 309
विष्टब्धाख्यं तदनिलदुर्गत्योः शूलमस्त्रियाम् ।आध्मा आध्मानमानाह उदरापूर इत्यपि ॥ ३४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.65 · p. 115
छेदने[लूः] पिप्पलः कम्बलः शम्बलःशील-शैलोपलाः शूलतूलाङ्गुलाः ।वल्कलं पल्वलं धूमलं खण्डलंकुण्डलं कुड्मलं मूलवन्मङ्गलम् ॥ ६५ ॥
स्रग्विणीmetre not read in every linenearly स्रग्विणी
genderपुंक्लीm. n.
अण् । अञ् । य । यत् । यु । ठक् । यक् । वुञ्च । एते प्रत्ययाः भावे कर्मणि वा यदि स्युस्तदा तदन्तानामेतेषां नपुंसकत्वं जानी[नि]हि । यथा "हायनान्तयुवा[पुरोहिता]दिभ्योऽण्" । द्विहायनस्य भावः कर्म वा द्वैहायनम् । यूनो भावः कर्म वा यौवनम् । "न घृत" इति नलोपे प्राप्ते इत्यण् पठ्यत इति प्रकृतिभावः । स्थावरं यजमानम् । इगन्तत्वे "नलघूपध" इत्यण् । मृदोर्भावः कर्म वा मार्दवम् । पाटवः लाघवम् । आर्जवम् । "अञप्राणिजातिभिर्जातिवयोवचनो गोत्रादिभ्योऽञ्" । अश्वस्य भावः कर्म वा आश्वम् । गार्दभम् । वयोवचनात्कौमारम् । शैशवम् । उद्गात्रादेः । इदमौद्गात्रम् । "सख्युर्य" इति यः । सख्युर्भावः कर्म वा सख्यम् । "स्तेयन्नलोपश्चे"ति यत्प्रत्ययः । स्तेयस्य भावः कर्म वा स्तैन्यम् । "होत्रादिभ्यो युः" । होतुर्भावः कर्म वा होत्रीयम् । पोत्रीयं अङ्गात्रीयं दुहित्रीयम् । ठक् । कपेर्भावः कर्म वा कापेयम् । रोहितादिभ्यो यक् । बृहस्पतेर्भावः कर्म वा बार्हस्पत्यम् । सैन्यापत्यम् । वुञ् । "योपधाद्गुरूपोत्तमाद्वुञ्" । रमणीयस्य भावः कर्म वा रामणीयकम् । अहोरूपमित्यादिके द्रष्टव्यम् ।व्रजशूलौ पुंसि नपुंसके च मृधम् ।कम्बलतोमरमुकुलकन्दुकाः पुंसि भास्त्रा स्त्री ॥ ८८ ॥
metre not recognised
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.391 · p. 150
परश्वधः कुठारोऽपि पर्शुः स्वधितिपर्श्वधौ ।शूले त्रिशीर्षकं प्रोक्तं तोमरे सर्वला मता ॥ ३९१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.158 · p. 230
genderपुंक्लीm. n.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1298 · p. 204
त्रिशीर्षकं तथा शूलं त्रिशूलं मन्यते जनैः ॥ १२९८ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.349 · p. 134
पुंनपुंसकयोः शल्यं पुंसि शङ्कुविषाक्षरौ ।शूलं समीकं समिकं त्रिशूलन्तु त्रिजालकम् ॥
अनुष्टुप्
genderक्लीneut.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मातृकानिघण्टु Tantrābhidhāna 5.36 · p. 38
सत्योऽत्री(शसः श्री)शो ह्लादिनी च वामगुल्फगतस्तथा ।शूलः कुबेरो दाता च द-कारो धादिमः स्मृतः ॥ ३६ ॥
अनुष्टुप्
genderपुंmasc.
धाता च धादिमः सत्यः कुबेरो ह्लादिनी ततः ।अत्रीशो वरदः शूलो वामगुल्फो द-कारकः ॥ ३६ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव क्षत्त्रियवर्गः Trikāṇḍaśeṣa 2.8.56 · p. 70
शूलोऽस्त्री सीसकं लग्नाः प्रातर्गेयाः स्तुतिव्रताः ।भोगावली वन्दिपाठो वसुकीटस्तु याचकः ॥ ५६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.197
मलोऽस्त्री पापविट्किट्टान्यस्त्री शूलं रुगायुधम् ॥ १९७ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास लश्लोकः Dharaṇikośa 27.3.11 · p. 200
शूलं प्रहरणे योगे शूलो व्याधिसुतीक्ष्णयोः ।शूलौ मृत्युध्वजौ चायःकीलः शूलास्तु दारिकाः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ लान्ताः Koṣakalpataru 6.28.70 · p. 341
शूलं च न स्त्री मतमायुधार्त्यो-र्योगे च मृत्यावपि केतने च ।स्त्रियां तु पण्यप्रमदार्थके स्या-त्कीले तथा दुष्टवधार्थकेऽपि ॥ ७० ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1403 · p. 162
रुग्भेदे शस्त्रभेदे च शूद्रवाक् तु द्वयोरियम् ।तुर्यवर्णे सङ्करजेऽप्येतयोः पुनरर्थयोः ॥ १४०३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स (wrong syllable)
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश लान्ताः Śabdaratnāvalī 7.28.37 · p. 279
शूलमस्त्रे गदे शस्त्रे मृत्यौ योगे निकेतने ।शूला पण्यस्त्रियां स्त्री तु शैलः पर्वततार्क्ष्ययोः ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 6.5.92 · p. 237
शुभ्रिर्नार्केऽर्थवत्सौम्ये शूरौ विक्रान्तकुक्कुटौ ।शूलोऽस्त्री रुजि शस्त्रे च श्वेतं धवलरूप्ययोः ॥ ९२ ॥
अनुष्टुप्

शूल as a meaning in nānārtha verses