तोमर
tomaraपुंक्ली · m. n.In 13 kośas: 17 synonym verses, 5 as a meaning of another word.
सर्वला तोमरे शल्यं शङ्कौ शूले त्रिशीर्षकम् ।
अनुष्टुप्
genderपुंmasc.
वा पुंसि शल्यं शङ्कुर्ना सर्वला तोमरोऽस्त्रियाम् ।
अनुष्टुप्
genderपुंक्लीm. n.
अस्त्रियां तोमरोथ स्यात्परिघः परिपालनः ।सर्वलोहमयं त्र्यग्रं त्रिशूलं तु त्रिशीर्षकम् ॥ ३२१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
धनुः खड्गो गदाचक्रवज्रखट्वाङ्गतोमराः ।यमदंष्ट्रा क्षुरीमूलं कर्तरी मुद्गरो हलम् ॥ ३२२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
अपि वासरकासारविहाराणां तथापि च ।स्यात्कान्तारतोमरयोर्वप्रकेसरयोस्ततः ॥ १८१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र (wrong syllable)
genderपुंक्लीm. n.
तोमरोऽस्त्री सर्वला स्त्री परिघः परिघातनः ।शूलिः स्त्री शूलमस्त्री*[स्यात् ] क्षिपणिः क्षिपका स्त्रियाम् ॥अरि क्लीबे चक्रमस्त्री गदादीनि पृथक्पृथक् ।शल्यं न स्त्री ध्रुवः शङ्कुः शम्बकः कीलकश्च सः ॥अस्रः पुंसि तथा कोणः स्त्रियः पाल्यश्रि-कोटयः ॥ ३७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
अवार-पार-कुञ्जराः पवित्र-मन्त्र-पञ्जराः ।अलिञ्जरो युगंधरो दुरोदरः स तोमरः ॥ ५९ ॥
पञ्चचामरम्
genderपुंक्लीm. n.
अण् । अञ् । य । यत् । यु । ठक् । यक् । वुञ्च । एते प्रत्ययाः भावे कर्मणि वा यदि स्युस्तदा तदन्तानामेतेषां नपुंसकत्वं जानी[नि]हि । यथा "हायनान्तयुवा[पुरोहिता]दिभ्योऽण्" । द्विहायनस्य भावः कर्म वा द्वैहायनम् । यूनो भावः कर्म वा यौवनम् । "न घृत" इति नलोपे प्राप्ते इत्यण् पठ्यत इति प्रकृतिभावः । स्थावरं यजमानम् । इगन्तत्वे "नलघूपध" इत्यण् । मृदोर्भावः कर्म वा मार्दवम् । पाटवः लाघवम् । आर्जवम् । "अञप्राणिजातिभिर्जातिवयोवचनो गोत्रादिभ्योऽञ्" । अश्वस्य भावः कर्म वा आश्वम् । गार्दभम् । वयोवचनात्कौमारम् । शैशवम् । उद्गात्रादेः । इदमौद्गात्रम् । "सख्युर्य" इति यः । सख्युर्भावः कर्म वा सख्यम् । "स्तेयन्नलोपश्चे"ति यत्प्रत्ययः । स्तेयस्य भावः कर्म वा स्तैन्यम् । "होत्रादिभ्यो युः" । होतुर्भावः कर्म वा होत्रीयम् । पोत्रीयं अङ्गात्रीयं दुहित्रीयम् । ठक् । कपेर्भावः कर्म वा कापेयम् । रोहितादिभ्यो यक् । बृहस्पतेर्भावः कर्म वा बार्हस्पत्यम् । सैन्यापत्यम् । वुञ् । "योपधाद्गुरूपोत्तमाद्वुञ्" । रमणीयस्य भावः कर्म वा रामणीयकम् । अहोरूपमित्यादिके द्रष्टव्यम् ।व्रजशूलौ पुंसि नपुंसके च मृधम् ।कम्बलतोमरमुकुलकन्दुकाः पुंसि भास्त्रा स्त्री ॥ ८८ ॥
metre not recognised
genderपुंmasc.
शिलीमुखः शरो बाणो मार्गणो रोपणः कणः ।इषुः काण्डं क्षुरप्रं च नाराचं तोमरं खगः ॥ ७८ ॥
अनुष्टुप्
genderक्लीneut.
परश्वधः कुठारोऽपि पर्शुः स्वधितिपर्श्वधौ ।शूले त्रिशीर्षकं प्रोक्तं तोमरे सर्वला मता ॥ ३९१ ॥
अनुष्टुप्
genderपुंmasc.
कर्पूरजठरौ तक्रशरीरे शरतोमरे ।आलवालं पलं भालं प्रवालकवले मलम् ॥ १५७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
वारबाणः कण्टककः कवचो वर्मकञ्चुकः ।खड्गस्वसा लोहदंष्ट्रा तोमरं नागयोधनम् ॥ २२८ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable)
genderक्लीneut.
त्रिशरश्चैकलोहश्च तीरीबाणो निगद्यते ।दण्डासनो उर्द्धनाराचो तोमरो गरुडस्तथा ॥ १२७९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
तोमरोऽस्त्री शर्वला च सर्वला सर्वलीत्यपि ।कुन्तो दीर्घायुधः प्रासप्राशौ च शल इत्यपि ॥
अनुष्टुप्
genderपुंक्लीm. n.
भिण्डिपालसृगौ तुल्यौ सर्वला तोमरोऽस्त्रियाम् ।बराहकर्णकोऽन्वर्थः कणयो लोहमात्रकः ॥ १३४२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
भिण्डिपालः क्षेपणीयः सृगो दीर्घे महाफले ।तोमरोऽस्त्री लोहहुलदण्डे कासूश्च सर्वला ॥ १६६ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 लो (wrong syllable)
genderपुंक्लीm. n.
तोमर as a meaning in nānārtha verses
- कोषकल्पतरु विशिखस्याद्गोमुखं तोमरबाणयोस्तु कोशप्रवीणैर्विशिखः प्रदिष्टः । रथ्याखनित्रीनलिकासु तु स्त्री मयूखमर्च्चिःकरभासु चाहुः ॥ ८३ ॥ Koṣakalpataru 6.2.83
- कोषकल्पतरु शल्यशरे च वंशादिकवंशिकायां क्ष्वेडेऽन्तिमे तोमरवाचकश्च । छिद्रेऽवधौ मद्रपतौ तु पुंसि गालद्रुमे श्वाविधि तद्वदुक्तः ॥ २९ ॥ Koṣakalpataru 6.26.29
- नानार्थार्णवसंक्षेप यष्टिगृहस्थदण्डे त्वाहान्यस्तोमराख्यायुधान्तरे । तरवारिसमाख्येऽन्ये खड्गादन्यत्र चायुधे ॥ १०५१ ॥ Nānārthārṇavasaṃkṣepa 2.5.1051
- शब्दरत्नावली विशिखमयूखः किरणज्वालाशोभासु तीक्ष्णतेजसि । विशिखः तोमरे बाणे खनित्रीरथ्ययोः स्त्रियाम् ॥ Śabdaratnāvalī 7.2.12
- शब्दरत्नावली शल्यशल्यं क्ष्वेडे तोमरे च मदनश्वाविदोः पुमान् । विषायुधभिदोः क्लीबं दुःसहे दुर्वचस्यपि ॥ Śabdaratnāvalī 7.26.32