कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मृध

mṛdhaक्ली · neut.

In 17 kośas: 16 synonym verses, 4 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.606 · p. 32
प्राणः स्थाम तरः पराक्रमबलद्युम्नानि शौर्यौजसीशुष्मं शुष्म च शक्तिरूर्जसहसी युद्धं तु संख्यं कलिः ।संग्रामाहवसंप्रहारसमरा जन्यं युदायोधनंसंस्फोटः कलहो मृधं प्रहरणं संयद्रणो विग्रहः ॥ ७९६ ॥द्वन्द्वं समाघातसमाह्वयाभिसंपातसम्मर्दसमित्प्रघाताः ।आस्कन्दनाजिप्रधनान्यनीकमभ्यागमश्च प्रविदारणं च ॥ ७९७ ॥समुदायः समुदयो राटिः समितिसंगरौ ।अभ्यामर्दः संपरायः समीकं सांपरायिकम् ॥ ७९८ ॥आक्रन्दः संयुगश्चाथ नियुद्धं तद्भुजोद्भवम् ।
शार्दूलविक्रीडितम्
प्राणपुंस्थामन्क्लीतरस्क्लीपराक्रमपुंबलक्लीद्युम्नक्लीशौर्यक्लीओजस्क्लीशुष्मक्लीशुष्मन्क्लीशक्तिस्त्रीऊर्जस्क्लीसहस्क्लीयुद्धक्लीसंख्यक्लीकलिपुंसंग्रामपुंआहवपुंसंप्रहारपुंसमरपुंजन्यक्लीयुध्स्त्रीआयोधनक्लीसंस्फोटपुंकलहपुंमृधक्लीप्रहरणक्लीसंयत्स्त्रीरणपुंविग्रहपुंद्वन्द्वक्लीसमाघातपुंसमाह्वयपुंअभिसंपातपुंसंमर्दपुंसमित्स्त्रीप्रघातपुंआस्कन्दनक्लीआजिस्त्रीप्रधनक्लीअनीकक्लीअभ्यागमपुंप्रविदारणक्लीसमुदायपुंसमुदयपुंराटिस्त्रीसमितिस्त्रीसंगरपुंअभ्यामर्दपुंसंपरायपुंसमीकक्लीसांपरायिकक्लीआक्रन्दपुंसंयुगक्लीनियुद्धक्ली
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.175
वीरपानं तु यत्पानं वृत्ते भाविनि वारणे ।युद्धमायोधनं जन्यं प्रधनं प्रविदारणम् ॥ १०३ ॥मृधमास्कन्दनं संख्यं समीकं सांपरायिकम् ।अस्त्रियां समरानीकरणाः कलहविग्रहौ ॥ १०४ ॥सम्प्रहाराभिसम्पात कलिसंस्फोट संयुगाः ।अभ्यामर्द समाघात संग्रामाभ्यागमाहवाः ॥ १०५ ॥समुदायः स्त्रियः संयत्समित्याजिसमिद्युधः ।
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.453 · p. 52
सङ्ग्रामः समितिः समिच्च समरं संख्यं समीकं रणं,युद्धं युत्प्रधनं मृधं समुदयः संयत्कलिः संयुगम् ।द्वन्द्वायोधनसम्प्रहारकलहाक्रन्दाहवाभ्यागमाः,संस्फोटप्रविदारणप्रहरणानीकाजयः सङ्गरः ॥ ४५३ ॥
शार्दूलविक्रीडितम्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.346 · p. 127
मृधमास्कन्दनं संख्यं समीकं साम्परायिकम् ।जन्यं पुमान् सम्प्रहारो नदनुः कलहो रणः ॥ ३४६ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.348 · p. 127
द्वयोराजिश्च समितिः संयद्राढिः समित्पुनः ।अस्त्रियां समरं चापि जन्यमाहरणं मृधम् ॥ ३४८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.57 · p. 268
युद्धास्कन्दन-सांपरायिक-मृधं द्वंद्वं समीकं तथाजन्यं च प्रविदारणं प्रधनवच्चायोधनं भण्डनम् ।आडम्बरोऽस्त्री पटहो चङ्गलः सूरयो रणः ।ग्राममद्गुरिका ग्राम[123b]युद्धं दोर्भ्यां तु तन्मिथः ॥ ५७ ॥
शार्दूलविक्रीडितम्two metres in one verse
genderक्लीneut.
अण् । अञ् । य । यत् । यु । ठक् । यक् । वुञ्च । एते प्रत्ययाः भावे कर्मणि वा यदि स्युस्तदा तदन्तानामेतेषां नपुंसकत्वं जानी[नि]हि । यथा "हायनान्तयुवा[पुरोहिता]दिभ्योऽण्" । द्विहायनस्य भावः कर्म वा द्वैहायनम् । यूनो भावः कर्म वा यौवनम् । "न घृत" इति नलोपे प्राप्ते इत्यण् पठ्यत इति प्रकृतिभावः । स्थावरं यजमानम् । इगन्तत्वे "नलघूपध" इत्यण् । मृदोर्भावः कर्म वा मार्दवम् । पाटवः लाघवम् । आर्जवम् । "अञप्राणिजातिभिर्जातिवयोवचनो गोत्रादिभ्योऽञ्" । अश्वस्य भावः कर्म वा आश्वम् । गार्दभम् । वयोवचनात्कौमारम् । शैशवम् । उद्गात्रादेः । इदमौद्गात्रम् । "सख्युर्य" इति यः । सख्युर्भावः कर्म वा सख्यम् । "स्तेयन्नलोपश्चे"ति यत्प्रत्ययः । स्तेयस्य भावः कर्म वा स्तैन्यम् । "होत्रादिभ्यो युः" । होतुर्भावः कर्म वा होत्रीयम् । पोत्रीयं अङ्गात्रीयं दुहित्रीयम् । ठक् । कपेर्भावः कर्म वा कापेयम् । रोहितादिभ्यो यक् । बृहस्पतेर्भावः कर्म वा बार्हस्पत्यम् । सैन्यापत्यम् । वुञ् । "योपधाद्गुरूपोत्तमाद्वुञ्" । रमणीयस्य भावः कर्म वा रामणीयकम् । अहोरूपमित्यादिके द्रष्टव्यम् ।व्रजशूलौ पुंसि नपुंसके च मृधम् ।कम्बलतोमरमुकुलकन्दुकाः पुंसि भास्त्रा स्त्री ॥ ८८ ॥
metre not recognised
genderक्लीneut.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.201 · p. 33
मृध आस्कन्दनं युद्धं समिदायोधनं रणम् ।स्वक्षेत्रे सुकृतिकाङ्क्षी वीराङ्को वीरदर्शनः ॥ २०१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.396 · p. 151
संगरः समिति राटिः समुदायो विदारणम् ।अभ्यामर्दः समीकं च सम्परायो मृधं च युत् ॥ ३९६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.384 · p. 74
युद्धे युद्धं सायुधं युदाजिः संपात इत्यपि ।जन्यं संख्यं मृधं कल्पं कलिरास्कन्दनं तथा ॥ ३८४ ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.230 · p. 16
दारुका वह्निचूर्णाख्या सुरङ्गा दुर्गसर्पिणी ।समरः प्रधनं युद्धं जन्यमायोधनं मृधम् ॥ २३० ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति राजवर्गः Śāradīyākhyanāmamālā 3.2.34 · p. 37
संयत्समितिराजिर्युध् द्वंद्वमास्कन्दनं मृधम् ।राटिः समीकं संस्फोटो विग्रहः कलहः कलिः ॥ ३४ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1324 · p. 208
संङ्गरः संयुगं संयत् समितिः साम्परायिकम् ।समुदायः समाघातः समुदयः समित् मृधम् ॥ १३२४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.374 · p. 135
युद्धमास्कन्दनं जन्यं प्रधनं साम्परायिकम् ।मृधमायोधनं संख्यं समीकं प्रविदारणम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1375 · p. 167
शस्त्रक्षते तु प्रहृतः स्यात् त्रिष्वनुचरादयः ।युद्धायोधनजन्यप्रविदारणसांपरायिकमृधानि ॥ १३७५ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.203 · p. 120
नासीरोऽस्त्र्यग्रयानं स्यादवस्कन्दस्तु सौप्तिकः ।मृधमास्कन्दनं युद्धं समिकं सांपरायिकम् ॥ २०३ ॥
अनुष्टुप्
genderक्लीneut.

मृध as a meaning in nānārtha verses

  • धरणिकोश अनीकआनकः पटहे भेर्यां सायकः शरखड्गयोः । अनूकं च कुले शीले अनीकं मृधसैन्ययोः ॥ Dharaṇikośa 1.1.6
  • कोषकल्पतरु समितिसाम्ये सभायां समिती मृधेऽपि स्यात्संगमेऽथादितिरत्र भू[297a]मौ । द्युसज्जनन्यामथ पक्षतिः स्यात् पक्षस्य मूले प्रतिपत्तिथौ च । तार्क्ष्यस्त्रियां तून्नतिरुद्गतौ च वृद्धौ प्रसूतिस्तु सुतोद्भवादौ । पुत्र्यां च वल्ल्यां प्रततिस्ततौ च ॥ ३५ ॥ Koṣakalpataru 6.16.35
  • कोषकल्पतरु आयोधनअन्तर्हितौ चाथ वधे मृधे स्या- दायोधनं मध्यवहावलग्नम् । लग्नेऽन्यवच्चाभिजनस्तु वंशे कुलध्वजे ख्यातिजनुर्भुवोश्च ॥ ४ ॥ Koṣakalpataru 6.21.4
  • नानार्थार्णवसंक्षेप नदनुनदनुस्तु मृधे मेघे नाथातस्तु प्रजापतौ । आहारे चाथ निगमो नगरे च वणिक्पथे ॥ १०२ ॥ Nānārthārṇavasaṃkṣepa 3.2.102