कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मुकुल

mukulaपुंक्ली · m. n.

In 16 kośas: 22 synonym verses, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.23 · p. 44
कुड्मले मुकुलं गुञ्छे गुच्छस्तबकगुत्सकाः ।गुलुञ्छोऽथ रजः पौष्पं परागोऽथ रसो मधु ॥ ११२६ ॥मकरन्दो मरन्दश्च वृन्तं प्रसवबन्धनम् ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.16
स्याद्गुच्छकस्तु स्तबकः कुङ्मलो मुकुलोऽस्त्रियाम् ॥ १६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.186 · p. 23
पुष्पं प्रसवः कुसुमं प्रसूनकं सुमनसः समाख्याताः ।कोरकजालककलिकाकुड्मलमुकुलानि तुल्यानि ॥ १८६ ॥
आर्या
genderक्लीneut.
बालप्रबोधिका Bālaprabodhikā · नत्कीर द्वादशोपदेशः Bālaprabodhikā 12.203 · p. 84
छदस्तु छदनं पत्रं पलाशं छदनादलम् ।पर्णं बर्हं च पत्रं च कोशिका मुकुलोऽपि च ॥ २०३ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर द्वादशोपदेशः Bālaprabodhikā 12.234 · p. 87
भूवल्लूरं महिच्छत्रं भूस्फुटं भूमिकन्दकम् ।चन्द्राके सिन्धुरी धूश्च मुकुले तु फलोण्डुकः ॥ २३४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.31 · p. 252
गुच्छो गुलुच्छो लुच्छः स्याद्गुच्छकः स्तबकोऽपि च ।गुलुच्छो ग्लुच्छको गुच्छः कुद्मलो मुकुलो न ना ॥ ३१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.33 · p. 252
प्रसवे च सुमं सूनं कुद्मलो मुकुलोऽस्त्रियाम् ।स्फुटः स्मेरो विकसितः स्मितः फुल्लो विजृम्भितः ॥ ३३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.183 · p. 481
पलालमूलमुकुलचषालानां नानस्य च ।विशालतैलतूलानां स्यात्कुद्मलतमालयोः ॥ १८३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ना (wrong syllable)
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.37 · p. 136
मुकुलो मकुलश्च स्यात्कुट्मलः कुड्मलोऽस्त्रियः ।गुच्छो गुञ्छो गुत्स[क]श्च गुलुच्छो ग्लप्स इत्यपि ॥स्तबकोऽस्त्री स्त्रियां लुम्बिः कोषविद्भिर्निगद्यते ।स्त्रियः सुमनसः प्रायो भूम्नि स्युः प्रसवः पुमान् ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.42 · p. 171
विशोधनी शोणघण्टा[नु] कुलैरण्डफला चा सा ।घुणप्रिया मुकु[49b]लेऽपि द्रवन्ती त्वाखुनामिका ॥ ४२ ॥
metre not recognised
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.42 · p. 257
तद्भेदा मुकुलं शुक्तिः संघः स्यादवलीढकः ।शतपादी पादुका च पादुकार्धमिति स्मृताः ॥ ४२ ॥
अनुष्टुप्
genderक्लीneut.
अण् । अञ् । य । यत् । यु । ठक् । यक् । वुञ्च । एते प्रत्ययाः भावे कर्मणि वा यदि स्युस्तदा तदन्तानामेतेषां नपुंसकत्वं जानी[नि]हि । यथा "हायनान्तयुवा[पुरोहिता]दिभ्योऽण्" । द्विहायनस्य भावः कर्म वा द्वैहायनम् । यूनो भावः कर्म वा यौवनम् । "न घृत" इति नलोपे प्राप्ते इत्यण् पठ्यत इति प्रकृतिभावः । स्थावरं यजमानम् । इगन्तत्वे "नलघूपध" इत्यण् । मृदोर्भावः कर्म वा मार्दवम् । पाटवः लाघवम् । आर्जवम् । "अञप्राणिजातिभिर्जातिवयोवचनो गोत्रादिभ्योऽञ्" । अश्वस्य भावः कर्म वा आश्वम् । गार्दभम् । वयोवचनात्कौमारम् । शैशवम् । उद्गात्रादेः । इदमौद्गात्रम् । "सख्युर्य" इति यः । सख्युर्भावः कर्म वा सख्यम् । "स्तेयन्नलोपश्चे"ति यत्प्रत्ययः । स्तेयस्य भावः कर्म वा स्तैन्यम् । "होत्रादिभ्यो युः" । होतुर्भावः कर्म वा होत्रीयम् । पोत्रीयं अङ्गात्रीयं दुहित्रीयम् । ठक् । कपेर्भावः कर्म वा कापेयम् । रोहितादिभ्यो यक् । बृहस्पतेर्भावः कर्म वा बार्हस्पत्यम् । सैन्यापत्यम् । वुञ् । "योपधाद्गुरूपोत्तमाद्वुञ्" । रमणीयस्य भावः कर्म वा रामणीयकम् । अहोरूपमित्यादिके द्रष्टव्यम् ।व्रजशूलौ पुंसि नपुंसके च मृधम् ।कम्बलतोमरमुकुलकन्दुकाः पुंसि भास्त्रा स्त्री ॥ ८८ ॥
metre not recognised
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.38 · p. 56
मुकुलं कुड्मलं ज्ञेयं गुलुञ्छो गुच्छगुत्सकौ ।स्तबकोऽथ रजः पौष्पं परागोऽप्यथ तद्रसः ॥ ३८ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.159 · p. 230
genderपुंक्लीm. n.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त वृक्षलतौषधिमरीचिः Pañcatattvaprakāśa 1.4.153 · p. 11
मुकुलः कुलमानाग्रो गुच्छस्तबकगुच्छलौ ।प्रसूनं कुसुमं पुष्पं वृन्तं प्रसवबन्धनम् ॥ १५३ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.1978 · p. 326
कलिका कोरकं स्याच्च कुसुमकलिकार्थकः ।कुड्मलं मुकुलञ्चैतदऽर्धस्फुटितकोरके ॥ १९७८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 सु (wrong syllable)
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.32 · p. 59
मुकुलो मकुलोऽप्यस्त्री कुड्मलः प्रौडकोरके ॥
genderपुंक्लीm. n.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.126 · p. 66
वरलब्धः सिधुगन्धो मुकुरो मुकुलोऽपि च ।वञ्जुलोऽशोक-कङ्काल्लि-नट-कान्ताङ्घ्रिदोहदाः ।दाडिमः पिण्डपुष्पोऽपि दाडिम्बः शुकवल्लभः ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.134 · p. 229
कुड्मले कुद्मलं तद्वत् कुष्मलं कुमलं तथा ।मुकुलं मकुरं प्रोक्तं मुकुरं बकुलद्रुमे ॥ १३४ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.450 · p. 59
मुकुलोऽस्त्री कुड्मलोऽस्त्री वल्लरी मञ्जरी स्त्रियौ ।गुलुच्छगुच्छस्तबकाः पुष्पं तु कुसुमं सुमम् ॥ ४५० ॥
अनुष्टुप्
genderपुंक्लीm. n.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव लिङ्गादिसंग्रहः Trikāṇḍaśeṣa 4.14 · p. 278
वल्मीकवृषणद्रोणगाण्डीवनिगडानि च ।मुकुलादि च विज्ञेयं शिष्टसन्दर्भतोपरम् ॥ १४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.19 · p. 46
मकरन्दो मरन्दोऽस्य रसे जालं तु जालकम् ।कलिका कोरकश्चाथ कुट्मलो मुकुलोऽस्त्रियौ ॥ १९ ॥
अनुष्टुप्
genderपुंक्लीm. n.

मुकुल as a meaning in nānārtha verses