व्रज
vrajaपुं · masc.In 17 kośas: 27 synonym verses, 7 as a nānārtha head word, 17 as a meaning of another word.
गवां सर्वं गव्यं व्रजे गोकुलं गोधनं धनम् ॥ १२७३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
संघाते प्रकरौघवारनिकरव्यूहाः समूहश्चयःसंदोहः समुदायराशिविसरव्राताः कलापो व्रजः ।कूटं मण्डलचक्रवालपटलस्तोमा गणः पेटकंवृन्दं चक्रकदम्बके समुदयः पुञ्जोत्करौ संहतिः ॥ १४११ ॥समवायो निकुरम्बं जालं निवहसंचयौ ।जातं तिरश्चां तद्यूथं संघसार्थौ तु देहिनाम् ॥ १४१२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 कु (wrong syllable)
genderपुंmasc.
समूहे निवहव्यूहसंदोहविसरव्रजाः ।स्तोमौघनिकरव्रातवारसङ्घातसञ्चयाः ॥ ३९ ॥समुदायः समुदयः समवायश्चयो गणः ।स्त्रियां तु संहतिर्वृन्दं निकुरम्बं कदम्बकम् ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.
व्रजः स्याद्गोकुलं गोष्ठं गोवृन्दं गोधनं धनम् ।गोमान् गोमी च गोस्वामी गोविन्दोऽधिकृतो गवाम् ॥ २६२ ॥
अनुष्टुप्
genderपुंmasc.
निकरनिकायनिवहविसरव्रजपुञ्जसमूहसञ्चयाः,समुदयसार्थयूथनिकुरम्बकदम्बकपूगराशयः ।चयसमवायवृन्दसन्दोहसमाजवितानसंहति-प्रकरघनौघसंघसंघातव्रातकुलोत्कराः स्मृताः ॥ ६८६ ॥
metre not recognised
genderपुंmasc.
आभीरपल्ली घोषः स्याद्ध्रजोनीशोवनान्तरा ।वाटोल्पके तु पल्ली स्त्री पल्लिरप्यथ न स्त्रियाम् ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.doubtful
कवचार्द्धर्चयोः पुच्छकच्छाच्छानां व्रजस्य च ।निकुञ्जोटजकुञ्जानां तथैवापुञ्जभूर्जयोः ॥ १५३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
समूहो निवहो व्यूहः संदोहः प्रकरो गणः ।ओघ-व्रज-व्रात-वार-विसर-व्रज-संचयाः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
गोमहिष्यादिकं पादबन्धनं पादवन्धनम् ।गोधनं गोकुलं पुंसि व्रजश्च विनिगद्यते ॥ २७ ॥
अनुष्टुप्
genderपुंmasc.
कच्छो निकुञ्जो रज-भूर्ज-कुञ्ज-व्रजाङ्गजाः शङ्खगतस्तथाब्जः ।ध्वजो नटः कर्वटकुक्कुटाट्टाःकुटारकूटावपि कालकूटः ॥ ४१ ॥
उपजातिः
genderपुंक्लीm. n.
अण् । अञ् । य । यत् । यु । ठक् । यक् । वुञ्च । एते प्रत्ययाः भावे कर्मणि वा यदि स्युस्तदा तदन्तानामेतेषां नपुंसकत्वं जानी[नि]हि । यथा "हायनान्तयुवा[पुरोहिता]दिभ्योऽण्" । द्विहायनस्य भावः कर्म वा द्वैहायनम् । यूनो भावः कर्म वा यौवनम् । "न घृत" इति नलोपे प्राप्ते इत्यण् पठ्यत इति प्रकृतिभावः । स्थावरं यजमानम् । इगन्तत्वे "नलघूपध" इत्यण् । मृदोर्भावः कर्म वा मार्दवम् । पाटवः लाघवम् । आर्जवम् । "अञप्राणिजातिभिर्जातिवयोवचनो गोत्रादिभ्योऽञ्" । अश्वस्य भावः कर्म वा आश्वम् । गार्दभम् । वयोवचनात्कौमारम् । शैशवम् । उद्गात्रादेः । इदमौद्गात्रम् । "सख्युर्य" इति यः । सख्युर्भावः कर्म वा सख्यम् । "स्तेयन्नलोपश्चे"ति यत्प्रत्ययः । स्तेयस्य भावः कर्म वा स्तैन्यम् । "होत्रादिभ्यो युः" । होतुर्भावः कर्म वा होत्रीयम् । पोत्रीयं अङ्गात्रीयं दुहित्रीयम् । ठक् । कपेर्भावः कर्म वा कापेयम् । रोहितादिभ्यो यक् । बृहस्पतेर्भावः कर्म वा बार्हस्पत्यम् । सैन्यापत्यम् । वुञ् । "योपधाद्गुरूपोत्तमाद्वुञ्" । रमणीयस्य भावः कर्म वा रामणीयकम् । अहोरूपमित्यादिके द्रष्टव्यम् ।व्रजशूलौ पुंसि नपुंसके च मृधम् ।कम्बलतोमरमुकुलकन्दुकाः पुंसि भास्त्रा स्त्री ॥ ८८ ॥
metre not recognised
genderपुंmasc.
गुणो वराटो रज्जुः स्त्री नना शुल्बा वटी त्रयम् ।ग्रन्थिर्बन्धो व्रजो गोष्ठं गोष्ठीनं तु पुराव्रजः ॥ २४८ ॥
अनुष्टुप्
genderपुंmasc.
व्रातः पूगः समाजश्च समूहः सन्ततिर्व्रजः ।व्यूहो निकायो निकुरो निकुरम्बं कदम्बकम् ॥ १३९ ॥
अनुष्टुप्
genderपुंmasc.
ओघः समुदयः सङ्घः सङ्घातः समितिस्ततिः ।निचयः प्रकरः पङ्क्तिः पशूनां समजो व्रजः ॥ १४० ॥
अनुष्टुप्
genderपुंmasc.
वर्त्माऽध्वा सरणिः पन्था मार्गः प्रचरसञ्चरौ ।त्रिमार्गनामगा गङ्गा घोषो गोमण्डलं व्रजः ॥ १६२ ॥
अनुष्टुप्
genderपुंmasc.
करीषच्छगणे तुल्ये व्रजो गोकुलगोधने ।छगच्छागावजो बस्तश्छगलश्च स्तभः पशुः ॥ १८० ॥
अनुष्टुप्
genderपुंmasc.
समूहः प्रकरः संघो निकरौघव्रजा अपि ।संघातो मण्डलं चक्रवालं वृन्दकदम्बके ॥ ३०३ ॥
अनुष्टुप्
genderपुंmasc.
अर्धर्चः कवचः कच्छपुच्छोञ्छास्तु व्रजोटजौ ।[9] कुञ्जो मलयजो भूर्जध्वजाम्बुजसमास्तथा ॥ १३४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
गोकुलं तु व्रजो घोषो गोष्ठं गोपास्तु बल्लवाः ।दुग्धं पयोऽमृतं क्षीरं गोरसः क्षीरजं दधि ॥ ५० ॥
अनुष्टुप्
genderपुंmasc.
ओघः संघो व्रजो व्रातो निकरः प्रकरश्चयः ।संदोहः संहतिः स्तोमो वारः समुदयो गणः ॥ ८५ ॥
अनुष्टुप्
genderपुंmasc.
गव्यं स्याद्वै गवां सर्वं दुग्धं दधि घृतादिकम् ।व्रजो भवति गोस्थानं गोकुलं गोधनं धनम् ॥ २२९८ ॥
अनुष्टुप्
genderपुंmasc.
चक्रवालश्चयश्चक्रं जातं जालं च मण्डलम् ।निवहो विसरो चारो व्रातो वृन्दं तथा व्रजेः ॥ २५६४ ॥
अनुष्टुप्
genderपुंmasc.
समूहे निवह-स्तोम-संघात-मण्डलव्रजाः ।सन्दोहविसर-व्रात-व्यूह-विस्तर-सञ्चयाः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
genderपुंmasc.
शाद्वलः शादसंछन्ने कुमुद्वान् कुमुदोत्तरे ।त्रिष्वनूपादयो गोष्ठं गोस्थानं पुंसि तु व्रजः ॥ ३९३ ॥
अनुष्टुप्
genderपुंmasc.
व्रजपुञ्जौ निकुरुम्बं जालं पटलं कदम्बकं चक्रम् ।वितानं मण्डलं चक्रवालं च वलयं कुलम् ॥ ८२८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
ग्रन्थिर्बन्धो व्रजो गोष्ठो गौष्ठीनं तु पुरा व्रजः ।मन्थस्तु मन्था मन्थानो वैशाखः खजकोऽपि च ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
पूगप्रकरसंघातविसरव्रातसंचयाः ।वारस्कन्धगणस्तोमसमवायचयव्रजाः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
व्रज as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् घोषव्याजसंख्याशरव्येषु लक्षं घोषौ रवव्रजौ । Amarakośa 3.3.436
- धरणिकोश गोष्ठश्रेष्ठः कुबेरवरयोः कुष्ठं व्याधिसुगन्धयोः । गोष्ठं व्रजः सभा गोष्ठी शठो धुस्तूरधूर्तयोः ॥ Dharaṇikośa 11.1.1
- कोषकल्पतरु वार्द्धकस्यात्कारकं कर्तरि वाच्यलिङ्गं कर्मादिषूक्तं द्वितयोनमेतत् । स्याद्वार्द्धकं कर्मणि च व्रजे च भावे च वृद्धस्य जघन्यलिङ्गम् ॥ ४८ ॥ Koṣakalpataru 6.1.48
- कोषकल्पतरु वरण्डशूरक्रूरसुदुर्वहेषु नरि तु स्यादश्वमारे सिते पश्वङ्गेऽप्युदरे पिचण्डमथ न स्त्री स्यात्तरण्डस्तथा । वृद्धेऽन्तर्बडिशे च दारुणि तथा स्याद्भेलकेऽथान्तरा- वेद्यां वक्त्रगदे वरण्ड उदितो धीमद्भिरेष व्रजे ॥ ८३ ॥ Koṣakalpataru 6.12.83
- कोषकल्पतरु प्रकृतिस्यान्मूलमायापरमात्मशील- स्वाम्यादिपौरव्रजकारणेषु । पुंस्त्वादिलिङ्गे प्रकृतिस्तथैव स्यात्प्रत्ययस्यापि पुरोगभागे ॥ ३७ ॥ Koṣakalpataru 6.16.37
- कोषकल्पतरु स्कन्धआमोदलेलीतकलेशगर्व- संबन्धहिंसास्वपि पुंसि गन्धः । स्कन्धः प्र[8a]काण्डव्रजबाहुमूल- भूपालकायप्रधनांशकेषु ॥ ५७ ॥ Koṣakalpataru 6.20.57
- कोषकल्पतरु निकाय्यआहुः पुंसि निकायमप्यथ गृहे पद्मे निकाय्यो व्रजे तार्क्ष्ये किं च परात्मनीह कथितोऽथ क्षेत्रियः सम्मतः । क्षेत्रोद्भूततृणेऽन्यदारनिरते साध्येतरस्मिन्गदे निर्यासे तु विलेपने च तुवरेऽप्यस्त्री कषायोऽपि च ॥ ६३ ॥ Koṣakalpataru 6.26.63
- नानार्थार्णवसंक्षेप गणघ्राणस्य विषये लेशे तथा सम्ब(न्धि?न्ध)मात्रके । गणो बहुत्वसङ्ख्यायां गणने प्रमथे व्रजे ॥ ४१ ॥ Nānārthārṇavasaṃkṣepa 2.2.41
- नानार्थार्णवसंक्षेप ग्रामसङ्घाते च जवे चाथ ग्रामो गीतिस्वरान्तरे । शब्दभूतादिपूर्वस्तु व्रजे संवसथे तथा ॥ ४६ ॥ Nānārthārṇavasaṃkṣepa 2.2.46
- नानार्थार्णवसंक्षेप व्यूहधान्यमात्रे षष्टिकादिधान्यभेदेऽप्यथ व्रजे । विन्यासे च व्यूहशब्दो विन्यस्तेऽपीति कश्चन ॥ ११२ ॥ Nānārthārṇavasaṃkṣepa 2.2.112
- नानार्थार्णवसंक्षेप ह्रदिनीव्रजे तटिति चेत्येव त्र्यच्स्त्र्यध्यायं समाप्तवान् ॥ १०८-१/२ ॥ Nānārthārṇavasaṃkṣepa 3.1.109
- शब्दरत्नावली चक्रत्रिलिङ्गं दुर्जरेत्यर्थे महत्यलघुनीत्यपि । गोत्रं कुलास्ययोर्गोत्रः शैले कुगव्ययोः स्त्रियाम् ॥ सम्भावनीयबोधे च विपिनच्छत्रवर्त्मसु । गौरं श्वेतेऽरुणे पीते विशुद्धेऽप्यभिधेयवत् ॥ क्लीबं पद्मकेशरे स्याच्चन्द्रसर्षपयोः पुमान् । गौरीभवानीवसुधाप्रियङ्गुरोचनासु च ॥ असञ्जातरजः कन्या वरुणाणी नदीषु च । घोरो भीमे महेशे च घस्त्रो दिवसहिंस्रयोः ॥ चरश्चारे द्यूतभेदे भौमे च जङ्गमे गमे । चन्द्रः सुधांशुकाम्पिल्लकर्पूरे काञ्चने जले ॥ चक्रमस्त्रे व्रजे सैन्ये रथाङ्गे राष्ट्रदम्भयोः ॥ Śabdaratnāvalī 7.27.10
- शब्दरत्नावली विसरविदारी रोगभेदे स्याच्छालपर्णीक्षुगन्धयोः । विवरं दूषणे गर्ते विसरः प्रसरे व्रजे ॥ विहारी भमणे स्कन्धे सुगतालमलीलयोः । शल्वरः(?) शङ्करम्लेच्छविशेषखलभित्सु च ॥ Śabdaratnāvalī 7.27.101
- शब्दरत्नावली पक्षप्लक्षोऽश्वत्थे गर्दभाण्डे जटीद्वीपविशेषयोः । पक्षः सहाये सुहृदि पार्श्वे मासार्द्धराजयोः ॥ विहगे वलये साध्ये विरोधे गृहशुद्धयोः । चुल्लीरन्ध्रे हस्तिपार्श्वे केशादिपरती व्रजे ॥ प्रेक्षा नृत्ये क्षणे वुद्धौ शिक्षायामपि च स्त्रियाम् । प्रैषः क्लेशे मर्दने च प्रेषणोन्मादयोरपि ॥ Śabdaratnāvalī 7.31.10
- त्रिकाण्डशेष चक्रचक्रः कोके व्रजे पुंसि क्लीबे सैन्यरथाङ्गयोः । ग्रामजाले कुम्भकारभाण्डे राष्ट्रे च दृश्यते ॥ ३५१ ॥ Trikāṇḍaśeṣa 3.3.351
- त्रिकाण्डशेष कपालकफोणिघाते ज्वाले च कीलावत्कील इष्यते । शिरसोऽस्थ्नि कपालोऽस्त्री घटादेः शकले व्रजे ॥ ३८४ ॥ Trikāṇḍaśeṣa 3.3.384
- वैजयन्ती तरणिस्त्री नौनद्योर्व्रजस्तंभे तरणिर्नार्णवे रवौ । भुवीन्द्रपुत्र्यां तविषी ताविष्यब्धिदिवोर्नरौ ॥ ४२ ॥ Vaijayantī 7.5.42