कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वरचन्दन

varacandana

In 3 kośas: 0 synonym verses, 4 as a nānārtha head word.

नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पञ्चाक्षरकाण्डः Nānārthārṇavasaṃkṣepa 7.19 · p. 92
वेधके वकुले नागपुष्पेऽथ वरचन्दनम् ।देवदारुणि कालेयेऽप्यथो (या)तिभयप्रदा ॥ १९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पञ्चाक्षरकाण्डः Nānārthārṇavasaṃkṣepa 7.90 · p. 100
वरचन्दनमस्त्री स्याद् देवदारुमहीरुहे ।कालेये चन्दने चापि वरेऽथो वामलोचना ॥ ९० ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र नपं Śivakoṣa 16.3.284 · p. 26
वरचन्दनमाख्यातं कालीये देवदारुणि ।वरवर्णिनी तु लाक्षाफलिनीरोचनानिशि ॥ २८४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्णि (wrong syllable)
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.134 · p. 247
अमेरुद्रुमभिदो(?)र्ना जम्बुमाली निगद्यते ।स्यात्क्लीबं दन्तशुद्धौ ना खदिरे दन्तधावनः ॥केतुग्रहे हुताशे च स्यात्पुमान् धूमकेतनः ।शिवे सुते च पक्षान्ते मित्रे ना नन्दिवर्द्धनः ॥दाने च प्रतिपत्तौ च बोधने प्रतिपादनम् ।भुजङ्गे च मयूरे च प्रचलाकी भवेत्पुमान् ॥धनदे भास्करे विष्णौ विधौ च पद्मलाञ्छनः ।वाग्देवतायां तारायां पद्मायां पद्मलाञ्छना ॥कालीयके हरिद्रायां न द्वयोः पीतचन्दनम् ।भीमे षेष्ठे च महिष पृष्ठशृङ्गी भवेत्पुमान् ॥देवदारुणि कालीये न द्वयोर्वरचन्दनम् ।स्त्रीरत्नरोचनालाक्षाहरिद्राफलिनीषु च ॥साध्व्यां गौरीसरस्वत्योः पद्यायां वरवर्णिनी ।वासुदेवे मधुकरे स्यात्पुंसि मधुसूदनः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 भि (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)