कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śivakoṣa

शिवकोष Śivakoṣa

587 verses · 4,629 words tagged · 786 marked doubtful (dashed)

नान्ताः · नपं

किष्कुपर्वा पुमानिक्षौ वेणौ पोटगलेऽपि च ।कुञ्जराशनशब्दस्तु शल्लक्यामपि पिप्पले ॥ २८२ ॥
16.3.282 · p. 26
अनुष्टुप्
तिक्तपर्वा जलब्रह्मीगुडूचीमधुयष्टिषु ।पीतचन्दनमुद्दिष्टं कालीयकहरिद्रयोः ॥ २८३ ॥
16.3.283 · p. 26
अनुष्टुप्
वरचन्दनमाख्यातं कालीये देवदारुणि ।वरवर्णिनी तु लाक्षाफलिनीरोचनानिशि ॥ २८४ ॥
16.3.284 · p. 26
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्णि (wrong syllable)
महारजनमुद्दिष्टं शातकुम्भकुसुम्भयोः ।स्याद्रक्तचन्दनं रक्तकाष्टे लोहितचन्दने ॥ २८५ ॥
16.3.285 · p. 26
अनुष्टुप्
शकुलादनी तु तिक्ता मांसीचिञ्चुलिकञ्चटे ।शिरीषेऽथ श्वेतधामा घनसाराब्धिफेनयोः ॥ २८६ ॥
16.3.286 · p. 26
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 द (wrong syllable)
हरिचन्दनमस्त्री स्यात्त्रिदशानां महीरुहे ।क्लीबं कुङ्कुमगोशीर्षकञ्जधूलिरणप्रिये ॥ २८७ ॥
16.3.287 · p. 26
अनुष्टुप्