कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthārṇavasaṃkṣepa

नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa

5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)

पञ्चाक्षरकाण्डः (2/2)

त्रिस्तु नृत्तप्रियेऽथ द्वे वर्ण्यते नखरायुधः ।मार्जारे भेद्यवत् तु स्याद् यस्य स्यान्नखमायुधम् ॥ ६० ॥
7.60 · p. 98
अनुष्टुप्
नक्षत्रनेमिस्तु स्त्री स्याद् रेवत्यां नेन्दुशार्ङ्गिणोः ।स्त्रीनपुंसकयोर्दाने ज्ञापने प्रतिपादना ॥ ६१ ॥
7.61 · p. 98
अनुष्टुप्
वधे विकीर्णीकरणे स्त्रीनपोः प्रविसारणा ।स्त्रीनपुंसकयोर्भेदे युद्धे क्ली प्रविदारणा ॥ ६२ ॥
7.62 · p. 98
अनुष्टुप्
अथ पञ्चसुगन्धं क्ली समाहारद्विगौ कृते ।पूगकर्पूरतक्कोलजातीफललवङ्गके ॥ ६३ ॥
7.63 · p. 98
अनुष्टुप्
यस्य पञ्च सुगन्धाः स्युस्तत्र स्याद्वाच्यलिङ्गकम् ।परिचारकशब्दोऽयं दासे द्वे भेद्यवत् पुनः ॥ ६४ ॥
7.64 · p. 98
अनुष्टुप्
शुश्रूषकजनेऽथ स्त्री नियुक्तायां नृपस्त्रियाम् ।स्रग्भूषणादिष्वर्थेषु विज्ञेया परिचारिका ॥ ६५ ॥
7.65 · p. 98
अनुष्टुप्
परित्यागे वधे च स्त्रीनपोः स्यात् परिवर्जना ।शत्रौ ना प्रत्यवस्थानः परिस्पर्धिजने त्रिषु ॥ ६६ ॥
7.66 · p. 98
अनुष्टुप्
(उपान)हि स्त्रियां पादरक्षणी क्ल्यङ्घ्रिरक्षणे ।स्री तु मङ्गलवाद्यस्य निर्घोषे प्रियवादिका ॥ ६७ ॥
7.67 · p. 99
अनुष्टुप्metre not read in every line
प्रियस्य वक्तरि त्रि स्यादथ स्त्री पीततण्डुला ।कङ्गुधान्ये त्रिषु पुनः पीतो यस्यास्ति तण्डुलः ॥ ६८ ॥
7.68 · p. 99
अनुष्टुप्
पुष्टिवर्धनशब्दोऽयं चाषाख्यविहगे द्वयोः ।त्रि तु (वर्धन)के पुष्टेरन्यच्चेदृशमुह्यताम् ॥ ६९ ॥
7.69 · p. 99
अनुष्टुप्metre not read in every line
पुरुषव्याघ्रशब्दोऽयं गृध्राख्यविहगे द्वयोः ।पुमांस्तु पुरुषश्रेष्ठे पुमांस्तु पृथिवीपतिः ॥ ७० ॥
7.70 · p. 99
अनुष्टुप्
यमे भौमे त्रि तु क्ष्मापे तालीसंज्ञे तु पादपे ।स्त्रियां स्यात् फलपाकान्ता त्रि तु व्रीहियवादिषु ॥ ७१ ॥
7.71 · p. 99
अनुष्टुप्
मुद्गमाषतिलाद्येषु फलपाकविनाशिषु ।अथ चापप्रभेदे स्यान्नब्लिङ्गं बिम्बिसारकम् ॥ ७२ ॥
7.72 · p. 99
अनुष्टुप्
बाणभेदे तु विज्ञेयो ना द्वापञ्चाशदङ्गुले ।नाट्योक्तौ युवराजे स्यात् पुल्लिँङ्गो भर्तृदारकः ॥ ७३ ॥
7.73 · p. 99
अनुष्टुप्
राजपुत्र्यां तु नाट्योक्तौ स्त्रीलिङ्गा भर्तृदारिका ।टुण्डुवृक्षे तु मण्डूकपर्णः पुंसि स्त्रियां पुनः ॥ ७४ ॥
7.74 · p. 99
अनुष्टुप्
मण्डूकपर्णी भण्डीरीसंज्ञवल्ल्यां द्वयोः पुनः ।महाशकुन उलूके महत्यपि विहङ्गमे ॥ ७५ ॥
7.75 · p. 99
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 उ (wrong syllable)
अजोपचारकुशले पुंसि स्यान्मलहारकः ।मलस्य हर्तरि त्रि स्थादथ ना मधुरस्वनः ॥ ७६ ॥
7.76 · p. 99
अनुष्टुप्
शङ्खे त्रिषु तु यस्यास्ति तत्रार्थे मधुरः स्वनः ।निर्यूहेऽपाश्रये च क्ली मत्तवारणमित्यदः ॥ ७७ ॥
7.77 · p. 99
अनुष्टुप्
ना तु मत्तगजे ना तु चतुष्कीसंज्ञके कृते ।वाससा विद्धि मशकहरीं मशककुन्धये ॥ ७८ ॥
7.78 · p. 99
अनुष्टुप्
मशकं क्षिपतेऽन्यो यस्तत्र त्रि स्यादथ त्रिषु ।तत्र मन्दविसर्पी स्याद् यः शनैः सृप्तिशीलकः ॥ ७९ ॥
7.79 · p. 100
अनुष्टुप्
(शिरः)क्रिमौ तु यूकाख्ये स्त्रियां मन्दविसर्पिणी ।स्त्रियां तु मलवद्वासा उदक्यायां त्रिषु त्वसौ ॥ ८० ॥
7.80 · p. 100
अनुष्टुप्metre not read in every line
मलिनं यस्य वस्त्रं स्यात् तत्र तत्पुरुषे तु नप् ।ना तु मातुलपुत्रः स्याद् धुर्धूरस्य फले तथा ॥ ८१ ॥
7.81 · p. 100
अनुष्टुप्
मातुलस्य त्वपत्ये द्वे ना तु स्यान्मुनिसेवितः ।नीवारे यस्तु मुनिभिः सेवितस्तत्र स त्रिषु ॥ ८२ ॥
7.82 · p. 100
अनुष्टुप्
मुखमण्डनशब्दोऽयं तिलकाख्यतरौ पुमान् ।मुखस्य भूषणे क्लीबं वर्ण्यते येन वस्तुना ॥ ८३ ॥
7.83 · p. 100
अनुष्टुप्
मुखं तत्र त्रिषु स्त्री तु विज्ञेया मुक्तबन्धना ।मल्लिकायां बहुव्रीहौ त्वेतत् स्याद्भेद्यलिङ्गकम् ॥ ८४ ॥
7.84 · p. 100
अनुष्टुप्
मुर्धाभिषिक्तो ना राज्ञि क्षत्त्रिये तु द्वयोस्त्रि तु ।प्रधाने वैजयन्त्यां तु प्रभाविति समीरितम् ॥ ८५ ॥
7.85 · p. 100
अनुष्टुप्
मूर्धावसिक्तो द्वे विप्रात् क्षत्त्रियाजे त्रिषु त्वयम् ।योऽवसिक्तो भवेन्मूर्ध्नि तत्राथ मृदुकण्टकः ॥ ८६ ॥
7.86 · p. 100
अनुष्टुप्
मत्स्ये पाठीनसंज्ञे द्वे त्रि तु यस्यास्ति कण्टकः ।मृदुस्तत्राथ रुद्रस्य नाट्ये ना भूमिकां गते ॥ ८७ ॥
7.87 · p. 100
अनुष्टुप्
रङ्गावतारी त्रिषु तु नटेऽथो रात्रिजागरः ।शुनि द्वे त्रि तु जागर्ति रात्रौ योऽत्राथ न स्त्रियाम् ॥ ८८ ॥
7.88 · p. 100
अनुष्टुप्
अर्वत्या वदने क्लीबलिङ्गं तु स्याद्रसातले ।वडवामुखशब्दोऽयं पुल्लिँङ्गस्त्वौर्वपावके ॥ ८९ ॥
7.89 · p. 100
अनुष्टुप्
वरचन्दनमस्त्री स्याद् देवदारुमहीरुहे ।कालेये चन्दने चापि वरेऽथो वामलोचना ॥ ९० ॥
7.90 · p. 100
अनुष्टुप्
स्त्री स्त्रीभेदे त्रि तु बहुव्रीहौ क्ली कर्मधारये ।विलेपनीया स्त्रीलिङ्गा चारुभूषणयोषिति ॥ ९१ ॥
7.91 · p. 101
अनुष्टुप्
क्ली तु (दा?धा)तावथो वृद्धदारकः पुंसि भेषजे ।छगलान्त्रीसमाख्ये त्रिः पुनर्वृद्धस्य भेदके ॥ ९२ ॥
7.92 · p. 101
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
जीर्णभार्येऽप्यथो वृद्धावस्कन्दी ना पुरन्दरे ।यस्तु वृद्धानवस्कन्देत् तच्छीलस्तत्र स त्रिषु ॥ ९३ ॥
7.93 · p. 101
अनुष्टुप्
गन्धद्रव्ये तु कस्तूर्यामस्त्री स्याच्छितिचन्दनम् ।शितौ च चन्दने शूलनाशकं तु नपुंसकम् ॥ ९४ ॥
7.94 · p. 101
अनुष्टुप्
सौवर्चलाख्यलवणे त्रि तु शूलस्य नाशके ।षष्टिहायनशब्दोऽयं गजे स्याद्द्वे स्त्रियां पुनः ॥ ९५ ॥
7.95 · p. 101
अनुष्टुप्
समाहारद्विगौ षष्टिहायनी भेद्यवत् पुनः ।बहुव्रीहौ ह्रि तत्रापि स्त्रियां ङीप् षष्टिहायनी ॥ ९६ ॥
7.96 · p. 101
अनुष्टुप्
वयस्येवात्र ङीवुक्तः शालादौ षष्टिहायना ।स्त्री सर्वमङ्गला शैलतनयायां त्रिषु त्वियम् ॥ ९७ ॥
7.97 · p. 101
अनुष्टुप्
बहुव्रीहौ तत्पुरुषे परवल्लिङ्गता स्मृता ।अथ ना सर्वतोभद्रो गृहविच्छन्दकान्तरे ॥ ९८ ॥
7.98 · p. 101
अनुष्टुप्
निम्बवृक्षे च विषमकाव्यालङ्कारभेदके ।स्त्रियां तु सर्वतोभद्रा काश्मर्याभिख्यपादपे ॥ ९९ ॥
7.99 · p. 101
अनुष्टुप्
यत् तु सर्वप्रकारे स्याद् भद्रं तत्र त्रिषु स्मृतम् ।सर्वतोमुखशब्दस्तु क्रतुभेदे विरिञ्चने ॥ १०० ॥
7.100 · p. 101
अनुष्टुप्
ना नीरे क्ली त्रिषु पुनर्यस्य स्यात् सर्वतो मुखम् ।अथो सहस्रवीर्या स्त्री दूर्वायामपरः पुनः ॥ १०१ ॥
7.101 · p. 101
अनुष्टुप्
आचष्टे श्वेतदूर्वायां स वै नाम भिषग्धरः ।आहोर्ध्वकण्टका + + + + + + + + त्रिषु ॥ १०२ ॥
7.102 · p. 101
अनुष्टुप्metre not read in every line
बहुव्रीहावथान्यत्र समासे पूर्ववत् स्मरेत् ।रास्नासंज्ञे तु भैषज्ये स्त्रियां स्यात् सर्पलोचना ॥ १०३ ॥
7.103 · p. 102
अनुष्टुप्
यथासमासमन्यत्र लिङ्गार्थाववधारयेत् ।सहस्रपत्रं कमले क्ली समासान्तरेषु तु ॥ १०४ ॥
7.104 · p. 102
अनुष्टुप्
प्रतीयात् पूर्ववल्लिङ्गमथ पुंस्यम्लवेतसे ।सहस्रवेधी क्लीबं तु हिङ्गुनि क्ली तु संयुगे ॥ १०५ ॥
7.105 · p. 102
अनुष्टुप्
+ + + + + + + + पुल्लिँङ्गस्तु रथे त्रिषु ।सिंहविक्रम इत्येष द्वे विज्ञेयस्तुरङ्गमे ॥ १०६ ॥
7.106 · p. 102
अनुष्टुप्metre not read in every line
समासभेदेष्वन्येषु लिङ्गाद्यर्थोऽत्र पूर्ववत् ।सिंहकेसरशब्दोऽयं वकुले नाथ पुन्नपोः ॥ १०७ ॥
7.107 · p. 102
अनुष्टुप्
सटे सिंहस्य पुल्लिँङ्गः पुनः स्यात् सितकुञ्जरः ।शक्रे समासभेदेषु त्वर्थो लिङ्गं च पूर्ववत् ॥ १०८ ॥
7.108 · p. 102
अनुष्टुप्
सुरवल्लभ इत्येष पुन्नागाख्यद्रुमे पुमान् ।त्रि तु देवप्रियेऽथो ना सुरभिच्छद इत्ययम् ॥ १०९ ॥
7.109 · p. 102
अनुष्टुप्
कपित्थे राजजम्ब्वाख्यजम्बूभेदे च स स्मृतः ।वाच्यलिङ्गं तु तत्र स्याद् यस्यास्ति सुरभिश्छदः ॥ ११० ॥
7.110 · p. 102
अनुष्टुप्
हरिचन्दनमस्त्री स्याद् देवानां पादपान्तरे ।चन्दने ताम्रसारे च पीतचन्दनसंज्ञके ॥ १११ ॥
7.111 · p. 102
अनुष्टुप्
हरिमन्थज इत्येष ना धान्ये चणकाह्वये ।पठितोऽमरसिंहेन वैजयन्त्यां त्वपाठि सः ॥ ११२ ॥
7.112 · p. 102
अनुष्टुप्
कृष्णमुद्गे त्रिषु त्वेष हरिमन्थसमुद्भवे ।हरिलोचन इत्येष उलूके स्याद्द्वयोरथ ॥ ११३ ॥
7.113 · p. 102
अनुष्टुप्
सम्भवत्सु समासेषु लिङ्गमर्थश्च पूर्ववत् ।बाधित्वा परवल्लिङ्गं गङ्गायां हरशेखरा ॥ ११४ ॥
7.114 · p. 102
अनुष्टुप्
स्त्रियां हरस्य त्वस्त्री स्याच्छेखरेऽथ स्त्रियामियम् ।हिरण्यवर्णा नद्यां स्याद् बहुव्रीहौ तु भेद्यवत् ॥ ११५ ॥
7.115 · p. 103
अनुष्टुप्
लिङ्गं समासेऽप्यन्यत्र लिङ्गार्थौ पूर्ववत् स्मरेत् ॥ ११५-१/२ ॥
7.177 · p. 103