चन्दन
candanaपुंक्ली · m. n.In 20 kośas: 20 synonym verses, 5 as a nānārtha head word, 43 as a meaning of another word.
genderपुंक्लीm. n.
चन्दनं स्यान्मलयजं श्रीखण्डं रोहणद्रुमः ।मृगनाभिर्मृगमदः प्रोक्ता कस्तूरिका बुधैः ॥ ५४४ ॥
अनुष्टुप्
genderक्लीneut.
पीतचन्दनमश्रेष्ठं गोशीर्षं हरिचन्दनम् ।चन्दनः स्यान्मलयजो …भ्रश्री रोहिणीदुमः ।श्रीखण्डो गन्धसारश्च शुक्लागरुजलालयम् ॥ २८५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
गोशीर्षं चापि मङ्गल्यं तिलपर्णं महार्हकम् ।सुगन्धं चावनं चास्त्री शीतगन्धोऽपि चन्दनः ॥ ३७० ॥
अनुष्टुप्
genderपुंक्लीm. n.
अन्धसौधौषधानां च राजादनवितानयोः ।शिश्नचन्दनमौनानां गन्धमादनपीनयोः ॥ १६३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
नागः श्रीवल्लभः स्वक्षो मेचकः खद्युरो मुनिः ।चन्दनोऽस्त्री मलयजं भद्रश्रीर्गन्धसारकः ।जाकुटश्च पटीरश्च श्रीखण्डो रोहिणद्रुमः ॥ ८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
गन्धमादनपिधानचन्दन-द्वीपिनाशनवितानयौवनम् ।वर्धमानशतमानहायन-स्तेनवस्नशयनानि गृञ्जनम् ॥ ५१ ॥
रथोद्धता
genderपुंक्लीm. n.
मल्लिगन्धेऽत्र मङ्गल्या कृष्णे तु काकतुण्डकः ।श्रीखण्डे स्यान्मलयजं चन्दनं श्वेतचन्दनम् ॥ २२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
genderक्लीneut.
श्राद्धौषधकबन्धानि गन्धमादनचन्दनौ ।प्रस्फोटनपिधाने च लग्नराजादनाशनाः ॥ १४३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
तत्खड्गश्चन्दनः प्रोक्तस्तत्पाशाः स्युर्मनोजवाः ।तत्पट्टणे सुखाभूमिस्तद्वाहे मकरः स्मृतः ॥ ९९ ॥
अनुष्टुप्
genderपुंmasc.
सिताभ्रो घनसारश्च कर्पूरे हिमवालुका ।चन्दने तु श्रीविशालो भद्रश्रीश्चन्दनोऽपि च ॥ १८६ ॥
अनुष्टुप्
genderपुंmasc.
पाटीरं मलयोद्भूतं चन्दनं शिशिरद्रवम् ।माहिषं रक्तपाटीरं लोहितं रक्तचन्दनम् ॥ १८४ ॥
अनुष्टुप्
genderक्लीneut.
कुङ्कुमं घुसृणं वर्ण्यं रक्तं काश्मीरजन्म च ।श्रीखण्डो मलयजश्च गोशीर्षं चन्दनं स्मृतम् ॥ ६३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 य (wrong syllable)
genderक्लीneut.
हीरकं मौक्तिकं स्वर्णं रजतं चर्म चन्दनम् ।शङ्खो वस्त्रं च नामानि विशेषरत्नकानि वै ॥ १८४१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष (wrong syllable)
genderक्लीneut.
दीपकं लोहितञ्चाग्रसौरभं चापि चन्दनम् ।लाक्षा राक्षा जतु क्लीबे जतुकं यावयावकौ ॥
अनुष्टुप्
genderक्लीneut.
सिताभ्रोऽपि शीताभ्रः सिताभो हिमावालुका ।घनसारश्चन्द्रभस्मवेधकौ रेणुसारकः ।चन्दनोऽस्त्री मलयजः पटीरो वर्णकोऽस्त्रियाम् ॥
अनुष्टुप्metre not read in every line
genderपुंक्लीm. n.
रोहिणो गन्धसारश्च गन्धश्चन्दनमस्त्रियाम् ।द्राक्षा तु गोस्तनी स्वाद्वी मृद्वीका कालमेषिका ॥ ५२७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
हीरकं मौक्तिकं स्वर्णं रजतं चन्दनानि च ।शङ्खश्च चर्म च वस्त्रं चेत्यष्टौ रत्नस्य जातयः ॥ १७३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
व्रतदिनमासवर्षदलवल्कलकोटरषण्डचामराः ।चन्दनपद्मधर्मकोलाहलकिसलयदेहदोहदाः ॥ १० ॥
metre not recognised
genderपुंक्लीm. n.
वृकधूपोंऽगुलालस्तु महिषाक्षः पलंकषः ।चन्दनोऽस्त्री मलयजो भद्रश्री रोहणद्रुमः ॥ ११२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
पटीर आद्ये तु कपिप्रभेदेगन्धोलिकायां तु नपुंसकं स्यात् ।स्त्रियां नदीभिद्यथ जीवकद्रौपुंस्त्वेऽसनं क्षेपणवाचि षण्ढे ॥ ८ ॥
उपजातिः
doubtful
चन्दना स्त्री नदीभेदे न स्त्रियां मलयोद्भवे ।चन्द्रकस्तु पुमान् पक्षभेदे मेचकसज्ञिते ॥ ७१० ॥
अनुष्टुप्
meaningsमलयोद्भव
चन्दनोऽस्त्री मलयजे सारिवायां तु चन्दना ।छर्दनो मदनो निम्बे बिम्बालम्बुषयोरपि ॥ २५१ ॥
अनुष्टुप्
meaningsमलयज
चन्दन as a meaning in nānārtha verses
- धरणिकोश वर्णकवर्णकश्चन्दने ख्यातश्चारणे च विलेपने । दर्शकः स्यात्प्रतीहारे दर्शयितरि च त्रिषु ॥ Dharaṇikośa 1.2.24
- धरणिकोश तैलपर्णीतैलपर्णी तु श्रीवासे तथा भवति चन्दने । पुष्करिण्यो जलाधाराः सरस्यश्च प्रकीर्तिताः ॥ Dharaṇikośa 14.2.34
- धरणिकोश हिमहि[68]मं चन्दनमाख्यातं हिमं शीततुषारयोः । क्षेमं शुभे च गोरक्षे गन्धे लब्धानुरक्षणे ॥ Dharaṇikośa 24.2.2
- धरणिकोश मलयचैत्यमायतनं विद्याच्चैत्यमुद्देशपादपः । मलयो देश आरामे चन्दने पर्वतान्तरे ॥ Dharaṇikośa 25.2.19
- धरणिकोश भद्रश्रीवासरो नागभेदेऽपि चागुरुः शिंशपापि च । भद्रश्रीश्चन्दनेऽपि स्यादासुरी राजिकापि च ॥ Dharaṇikośa 26.1.18
- कोषकल्पतरु वर्णकचारणे वर्ण[को] वर्णकं चन्दने कुङ्कुमे लेपनेऽथार्भको भेद्यवत् । बालके[निर्ध]ने[स्यात्]कृशे भ्रूणको वेत्रधारे त्रये दर्शकः शिक्षके ॥ ८३ ॥ Koṣakalpataru 6.1.83
- कोषकल्पतरु परागआशुग इषौ च बाणे [वायावर्के] प्रसूनरेणौ च । स्नानीये च परागो गिरिभेदे चन्दने ग्रहणे ॥ १३ ॥ Koṣakalpataru 6.3.13
- कोषकल्पतरु मोचाटधौताञ्जन्यां त्र्यङ्कटं शिक्यभेदे प्रोक्तः पङ्के संकरे कर्दटोऽपि । मोचाटः स्वाच्चन्दने कृष्णजीरे मोचास्थ्नीभस्तुन्दयोः स्यात्कृपीटम् ॥ २९ ॥ Koṣakalpataru 6.10.29
- कोषकल्पतरु पटीरचन्दनकन्दुककामे भवति पटीरः क्वचिन्न स्त्री । जघनप्रदेशदर्योः कटीरमन्त्येऽथ पाटीरः ॥ ६० ॥ Koṣakalpataru 6.27.60
- कोषकल्पतरु पीतसारवङ्गे च लोहे मलयाचले च कोषप्रवीणा गिरिसारमाहुः । गोमेदके स्यादपि पीतसारः प्रोक्तं प्रवीणैरपि चन्दने च ॥ १३ ॥ Koṣakalpataru 6.27.13
- नानार्थार्णवसंक्षेप गन्धशिशावपत्ये शुक्रे च समूहे सारबीजयोः । गन्धस्तु गन्धवद्द्रव्ये चन्दनादौ महीगुणे ॥ ४० ॥ Nānārthārṇavasaṃkṣepa 2.2.40
- नानार्थार्णवसंक्षेप योग्ययूषा स्त्रीपुंसयोस्तु स्याद्धिंसायां योग्यवाक् पुनः । अपूपे चन्दने क्षीरे वाहने च नपुंसकम् ॥ १०७१ ॥ Nānārthārṇavasaṃkṣepa 2.5.1071
- नानार्थार्णवसंक्षेप हिमस्त्री तु हाली कनिष्ठायां पत्न्यां स्वसरि सा पुनः । हाला सुरायामथ नप् चन्दने तुहिने हिमम् ॥ १५९२ ॥ Nānārthārṇavasaṃkṣepa 2.5.1592
- नानार्थार्णवसंक्षेप पटीरअस्त्रयन्त्रे पर्वतस्तु मुनिभेदे गिरावपि । मेधेऽप्यथ पटीरः स्यात् कन्दर्पे चापि चन्दने ॥ १५३ ॥ Nānārthārṇavasaṃkṣepa 3.2.153
- नानार्थार्णवसंक्षेप गोशीर्षमुस्ताभेदे च कैवर्तिमुस्तकाख्येऽथ गोरुतम् । गवां रुते च गव्यूतौ गोशीर्षं त्वपि चन्दने ॥ ३१ ॥ Nānārthārṇavasaṃkṣepa 3.3.31
- नानार्थार्णवसंक्षेप फलकीभवेच्चित्रफलीसंज्ञे तथा स्याच्चन्दनेऽपि च । क्षुमासंज्ञे तु ना धान्ये फल्गुनी तु स्त्रियामियम् ॥ १२२० ॥ Nānārthārṇavasaṃkṣepa 4.1220
- नानार्थार्णवसंक्षेप वर्णकवर्णकोऽस्त्री प्रकारे स्याच्चन्दनेऽङ्गविलेपने । प्रकारे तु स्त्रियां चाह वर्णिकां शाकटायनः ॥ १५८४ ॥ Nānārthārṇavasaṃkṣepa 4.1584
- नानार्थार्णवसंक्षेप तैलपर्णीश्रीवेष्टे तैलपर्णी स्याद् धवलेऽपि च चन्दने । गौरीदिशोर्दक्षकन्या दीर्घवल्ली तु वेत्रके ॥ २९ ॥ Nānārthārṇavasaṃkṣepa 6.29
- नानार्थार्णवसंक्षेप पीतदारुदूर्वायां तुण्डिकेर्यां च समासाद्यत्र पूर्ववत् । पीतदारु पुनः क्लीबं देवदारुणि चन्दने ॥ ३९१ ॥ Nānārthārṇavasaṃkṣepa 6.391
- नानार्थार्णवसंक्षेप वरचन्दनवरचन्दनमस्त्री स्याद् देवदारुमहीरुहे । कालेये चन्दने चापि वरेऽथो वामलोचना ॥ ९० ॥ Nānārthārṇavasaṃkṣepa 7.90
- नानार्थार्णवसंक्षेप शितिचन्दनगन्धद्रव्ये तु कस्तूर्यामस्त्री स्याच्छितिचन्दनम् । शितौ च चन्दने शूलनाशकं तु नपुंसकम् ॥ ९४ ॥ Nānārthārṇavasaṃkṣepa 7.94
- नानार्थार्णवसंक्षेप हरिचन्दनहरिचन्दनमस्त्री स्याद् देवानां पादपान्तरे । चन्दने ताम्रसारे च पीतचन्दनसंज्ञके ॥ १११ ॥ Nānārthārṇavasaṃkṣepa 7.111
- नानार्थार्णवसंक्षेप लोहितचन्दनकुङ्कुमे तु विजानीयात् क्लीबे लोहितचन्दनम् । अस्त्री तु लोहिते विद्याच्चन्दनेऽथ स्त्रियां भवेत् ॥ २० ॥ Nānārthārṇavasaṃkṣepa 8.20
- परमानन्दीयनाममाला वेरवज्रं हीरे पवौ वेरं शरीरे चन्दने जले । वामी तु रासभी प्रोक्ता शृ[31]गाली करभी तथा ॥ ३५० ॥ Paramānandīyanāmamālā 5.24.350
- शिवकोष शलाटुचन्दने कदलीगर्भे शलाटुः शिवबिल्वयोः । शार्ङ्गष्टा काकणन्त्यां च काकमाचीकरञ्जयोः ॥ १३६ ॥ Śivakoṣa 8.2.136
- शिवकोष रोहणरोहणश्चन्दने कूटशाल्मलौ गोमयप्रिये । विषाणी मेदुरकूर्चपर्ण्योः कुष्टे तु न द्वयोः ॥ १६२ ॥ Śivakoṣa 11.2.162
- शिवकोष तिलपर्णीतिलपर्णी तु कुन्तल्यां बर्बरे चन्दनेऽपि च । तैलपर्णी मलयजे सिल्हश्रीवासयोरपि ॥ १६८ ॥ Śivakoṣa 11.3.168
- शिवकोष हस्तिकर्णीसूर्यपर्णी मुद्गपर्ण्यां माषपर्ण्यामपि स्त्रियाम् । हस्तिकर्णो ब्रह्मवृक्षे हस्तिकर्णी तु चन्दने ॥ १७३ ॥ Śivakoṣa 11.3.173
- शिवकोष शिशिरशिलीन्ध्रं कवके क्लीबं कदल्याः कुसुमेऽपि च । शिशिरं चन्दने चन्द्रे सङ्गरस्तु हलाहले ॥ ४१५ ॥ Śivakoṣa 22.3.415
- शब्दरत्नावली वर्णकद्वयोर्नील्यादिषु क्लीबे चन्दने च विलेपने । वर्तको ना खुरेऽश्वस्य विहङ्गे वर्तिका द्वयोः ॥ Śabdaratnāvalī 7.1.137
- शब्दरत्नावली परागपरागः पुष्परेणौ तु धूलिसानीयचूर्णयोः । चन्दने गिरिभेदे च स्वच्छन्दगमनेऽपि च ॥ Śabdaratnāvalī 7.3.40
- शब्दरत्नावली सुवर्णसारणी स्वल्पनद्यान्तु प्रसारण्यामपि स्त्रियाम् । सुषेणः कपिवैद्ये स्यात्करमर्दे च केशवे ॥ सुवर्णः स्वर्णकर्षे स्यात्सुष्ठुवर्णे च वाच्यवत् । रुक्मचन्दनयोः क्लीबे स्त्रियां कृष्णागुरुण्यपि ॥ Śabdaratnāvalī 7.15.67
- शब्दरत्नावली तैलपर्णीतैलपर्णी सिह्लके स्याच्श्रीवासे चन्दनेऽपि च ॥ Śabdaratnāvalī 7.15.79
- शब्दरत्नावली लोहितक्लीबन्तु रक्तगोशीर्षे कुङ्कुमे चैव चन्दने । वर्द्धितं न द्वयोश्छिन्ने प्रसृते पूरितेऽपि च ॥ Śabdaratnāvalī 7.16.131
- शब्दरत्नावली याम्ययाम्याभरण्यवाच्योश्च याम्योऽगस्त्ये च चन्दने । रम्यं त्रिषु मनोज्ञे स्याद्रात्रौ स्त्री चम्पके पुमान् ॥ Śabdaratnāvalī 7.26.28
- शब्दरत्नावली पटीरपदारः स्यात्पादधूल्यां पादालिन्दे च पुंस्ययम् । पटीरं तितउतुङ्गमूलके दारवारिदे ॥ वेणुसारे वातिके च चन्दनेऽपि निगद्यते । पार्परः पुंसि कीनाशे राजलक्षणि सिक्थके ॥ Śabdaratnāvalī 7.27.86
- शब्दरत्नावली शीतलशाल्मली तरुभेदे स्याद् द्वीपभेदे च पुंस्ययम् । श्रीफलः पुंसि बिल्वे स्याद्धात्रीनीलिकयोः स्त्रियाम् ॥ शीतलं चन्दने शैत्ये शैलजे ना द्रुमान्तरे । शीवलं शैवले क्लीबं शैलेयेऽपि निगद्यते ॥ Śabdaratnāvalī 7.28.97
- शब्दरत्नाकर फलकिन्फलकी चन्दनश्चर्मी बर्बरो भङ्गुरेऽधमे । बहुलोऽग्निः कृष्णपक्षो बहुलैलार्जुनी मही ॥ २१३८ ॥ Śabdaratnākara 4.1.2138
- तन्त्राभिधान चदयितश्च द्विनेत्रश्च लक्ष्मीस्त्रितयलोचनः । चन्दनं चन्द्रमा दैवश्चेतना वृश्चिको बुधः ॥ ७४ ॥ Tantrābhidhāna 2.23.74
- वैजयन्ती योग्ययोग्यं यन्त्रक्षमापूपयानोपायिषु चन्दने । योग्याभ्यासः क्षमापुण्ये रोको रश्मौ बिले नपुम् ॥ ६७ ॥ Vaijayantī 6.5.67
- वैजयन्ती फलकीफलकी चन्दने स्त्री न स्त्री दार्वासनचर्मणोः । फेनिलं बदरे फेनयुक्तेऽथ ब्राह्मणो द्विजे ॥ ६० ॥ Vaijayantī 7.5.60
- वैजयन्ती वर्णकवर्णकोऽस्त्री प्रकारे स्याच्चन्दने स्त्र्यङ्गलेपने । दुःखे विलक्षे व्यलीकमप्रियाकार्ययोस्तु ना ॥ ७९ ॥ Vaijayantī 7.5.79
- वैजयन्ती हरिचन्दनमूर्धाभिषिक्तो ना राज्ञि क्षत्रिये चार्थवत् प्रभौ । हरिचन्दनमस्त्री स्याच्चन्दने देवपादपे ॥ २७ ॥ Vaijayantī 8.5.27