सर्वनामन्
sarvanāmanIn 3 kośas: 0 synonym verses, 5 as a meaning of another word.
सर्वनामन् as a meaning in nānārtha verses
- धरणिकोश यद्युरह्नि त्रिदिवेऽपि स्याज्ज्या स्यान्मौर्वी वसुंधरा । द्योशब्दो गगने स्वर्गे यः सर्वनाम्नि योऽनिले ॥ Dharaṇikośa 25.1.1
- कोषकल्पतरु ककः स्याद्विधा[247a]तर्यनलेऽनिलेऽर्के सख्यौ तथा चात्मनि धर्मराजे । दक्षे मयूरे नरि कं तु मौलौ नीरे सुखेऽथ त्रिषु सर्वनामा ॥ २ ॥ Koṣakalpataru 6.1.2
- कोषकल्पतरु समस्याद्गुग्गुलुश्चाथ सिमस्तु सर्व- शक्तावबद्धेषु तथावधौ च । स्यात्सर्वनामापि समोऽखिलार्थः साधौ सदृक्षे च विशेष्यवत्स्यात् ॥ ७६ ॥ Koṣakalpataru 6.25.76
- कोषकल्पतरु ययः सर्वनामानिलदण्डभृत्सु स्त्रियां तु लक्ष्म्यां जननीधरित्र्योः । द्युरह्नि वह्नौ त्रिदिवे पुमान्स्याद्- द्यौस्तु स्त्रियां स्वर्गसुराध्वनोश्च ॥ १ ॥ Koṣakalpataru 6.26.1
- नानार्थार्णवसंक्षेप भवत्स्वामिधारकयोर्ना तु पाणिग्राहे भवत् पुनः । सर्वनाम त्रि पूज्ये स्यात् स्त्र्यर्थे तत्र भवत्यसौ ॥ ८८९ ॥ Nānārthārṇavasaṃkṣepa 2.5.889