All kośas › Nānārthārṇavasaṃkṣepa
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa
5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)
द्व्यक्षरकाण्डः · नानालिङ्गाध्यायः (8/14)
त्रि तु तद्वति खल्वाटे द्वे त्वोतौ नकुलेऽपि च ।बभ्रूः कपिलगव्यां स्त्री वन्धुर्ना स्वजने स्वरे ॥ ८४१ ॥
2.5.841 · p. 114
अनुष्टुप्
लग्नाच्चतुर्थराशौ च बन्धुं सांवत्सरा विदुः ।भेद्यलिङ्गं त्वधिक्षेप्ये बन्धुनीति तु सूत्रकृत् ॥ ८४२ ॥
2.5.842 · p. 115
अनुष्टुप्
शब्दस्वरूपनिष्ठत्वे प्राहेत्योहुर्बहुस्तु ना ।व्रतान्तहोमवह्नौ स्याद् भेद्यालिङ्गं तु वाच्ययोः ॥ ८४३ ॥
2.5.843 · p. 115
अनुष्टुप्
त्रित्वादिसङ्ख्यासङ्ख्येये महार्थेऽप्यत्र च स्त्रियाम् ।यदा वृत्तिस्तदा बह्वी बहुरित्यपि वा द्वयम् ॥ ८४४ ॥
2.5.844 · p. 115
अनुष्टुप्
ब्रह्मा रुद्रहृषीकेशविरिञ्चार्केन्दुवह्निषु ।यज्ञे विप्रे च भृग्वादिष्वृत्विग्भेदे च पुंस्ययम् ॥ ८४५ ॥
2.5.845 · p. 115
अनुष्टुप्
क्लीबं तु वेदे मन्त्रेऽन्ने खेऽध्यात्मात्मतपःसु च ।मोक्षे जपे धने चाथ बलभद्रे व(ले?ली) पुमान् ॥ ८४६ ॥
2.5.846 · p. 115
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कारवेल्लविशेषे च बृहत्कर्कोटकाह्वये ।शोणाम्लाने नालिकेरे माषधान्ये च मज्ज्ञि च ॥ ८४७ ॥
2.5.847 · p. 115
अनुष्टुप्
षष्ठे शरीरधातूनां बलयुक्ते(पु?तु) स त्रिषु ।बर्हिस्तु क्ली कुशे यज्ञे जल व्योम्नि महत्यपि ॥ ८४८ ॥
2.5.848 · p. 115
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
ना त्वग्नौ बाणशब्दस्तु बलिपुत्रासुरे पुमान् ।इक्ष्वाकोश्च प्रपौत्रे स्यात् तथैवानोकहान्तरे ॥ ८४९ ॥
2.5.849 · p. 115
अनुष्टुप्
ककुभाख्ये नृशण्डस्तु शरतद्भेदयोरथ ।वाणा नृस्त्री नीलझिण्ट्यां बालस्तु शिशुमूर्खयोः ॥ ८५० ॥
2.5.850 · p. 115
अनुष्टुप्
त्रिर्ना तु नालिकेरेऽथ पञ्चवर्षगजे द्वयोः ।बाला तु मल्लिकाभेदे हरिद्रायां च सा स्त्रियाम् ॥ ८५१ ॥
2.5.851 · p. 115
अनुष्टुप्
ब्राह्मं त्रिर्ब्रह्मसम्बन्धे स्त्री तु सप्तसु मातृषु ।एकस्यां दिशि चोर्ध्वायां ब्रह्मरीत्माख्यलोहके ॥ ८५२ ॥
2.5.852 · p. 115
अनुष्टुप्
मत्स्याक्ष्याख्यतृणस्तम्बे वाचि ब्राह्मी पुमान् पुनः ।रात्रेः स्यात् पश्चिमे यामे पुमांस्त्वश्रुणि वाष्पवाक् ॥ ८५३ ॥
2.5.853 · p. 115
अनुष्टुप्
मुखतोयादिसंभूते धूमाभासे च वस्तुनि ।शाकभेदे च बाष्पी तु स्त्रीलिङ्गा भेषजान्तरे ॥ ८५४ ॥
2.5.854 · p. 116
अनुष्टुप्
हिङ्गुपत्राह्वये बाधा न क्ली दुःखनिषेधयोः ।ना तु क्षुद्रफले पूगे बले चाथ प्रवाहणे ॥ ८५५ ॥
2.5.855 · p. 116
अनुष्टुप्
बाहा नृस्त्री स्त्रिया बाहौ बाह्यं तु त्रिर्बहिर्भवे ।क्ली तु स्वकल्पिते नृत्ते बाढं तु स्याद्भृशे त्रिषु ॥ ८५६ ॥
2.5.856 · p. 116
अनुष्टुप्
क्लीबं त्वनुमतौ च स्यात् प्रतिज्ञाया च धिक् पुनः ।अवश्यमर्थे देवानांप्रियः प्राह हलायुधः ॥ ८५७ ॥
2.5.857 · p. 116
अनुष्टुप्
बाहुः पुरुषभेदे ना क्वचिंन्नृस्त्री पुनर्भुजे ।प्रमाणभेदे षट्त्रिंशदङ्गुलेऽप्यब्रवीन्मुनिः ॥ ८५८ ॥
2.5.858 · p. 116
अनुष्टुप्
गृहादिद्वारपार्श्वस्थयाज्ञिकख्यातदारुषु ।बिम्बोऽस्त्री मण्डलसमप्रतिमामुखलक्ष्मसु ॥ ८५९ ॥
2.5.859 · p. 116
अनुष्टुप्
प्रतिबिम्बे तत्प्रकृतौ समानत्वोपधानयेाः ।आदर्शे स्त्री तु बिम्बी स्यादोष्ठीसंज्ञलतान्तरे ॥ ८६० ॥
2.5.860 · p. 116
अनुष्टुप्metre not read in every lineimpossible sign sequence: नत्वोपधानयेाः ।
क्ली तु तस्याः फले द्वे तु कृकलासान्तरे विदुः ।यो नानावर्णभाक् तस्मिन्नथ बिल्वः पुमान् द्रुगे ॥ ८६१ ॥
2.5.861 · p. 116
अनुष्टुप्
श्रीफलाख्ये फले त्वस्य क्ली मानेऽपि पलाह्वये ।बिन्दुर्ना विप्रुषि पशुशरीरस्थपृपत्सु च ॥ ८६२ ॥
2.5.862 · p. 116
अनुष्टुप्
लवेऽन्योऽवयवेऽप्यन्यो वैजयन्त्यां तु दृश्यते ।नश्यत्प्रसूतियोषायां स्त्रीलिङ्गो दृश्यते पुनः ॥ ८६३ ॥
2.5.863 · p. 116
अनुष्टुप्
पुल्लिङ्गोऽमरकोशस्य शेपे सारस्वतोदिते ।बीजो ना यावशूकाख्ये यवक्षारान्तरे तथा ॥ ८६४ ॥
2.5.864 · p. 116
अनुष्टुप्
धान्ये स्याद्वंशजे तु त्रिर्बीजी बीजवति त्रिषु ।ताते तु पुंसि बुद्धो ना सुगते त्रि तु पण्डिते ॥ ८६५ ॥
2.5.865 · p. 116
अनुष्टुप्
ज्ञातरि ज्ञायमाने च फुल्ले च क्ली तु बोधने ।विद्वद्बोद्ध्रोस्त्रिषु बुधो ना तु चान्द्रमसायनौ ॥ ८६६ ॥
2.5.866 · p. 117
अनुष्टुप्
अजयस्तु सुरेऽप्याह तत्र न्यायाद्द्वयोर्भवेत् ।बुधा तु धिषणायां स्त्री वृद्धिसंज्ञे च भेषजे ॥ ८६७ ॥
2.5.867 · p. 117
अनुष्टुप्
मुण्डीसंज्ञतृणस्तम्बे बुसं त्वस्त्री कडङ्गरे ।मलनिष्पूतधान्यस्य कडङ्गर इति स्मृतम् ॥ ८६८ ॥
2.5.868 · p. 117
अनुष्टुप्
गोकरीषेन्धने तु स्त्री बुसा क्लीबं तु वारिणि ।बुस्तः प्रहसने पुंसि धनुष्कोटौ नपुंसकम् ॥ ८६९ ॥
2.5.869 · p. 117
अनुष्टुप्
मूषायां तु बुका स्त्री स्याच्छिवमल्ल्यां तु ना बुकः ।बृहत् त्वारण्यके साम्नि त्वामिद्धीत्यृक्समुद्भवे ॥ ८७० ॥
2.5.870 · p. 117
अनुष्टुप्
क्ली त्रिर्महति तत्रापि स्त्र्यर्थे स्याद्बृहतीत्यथ ।प्रसहासंज्ञवार्ताक्यामिति केचिदथापरे ॥ ८७१ ॥
2.5.871 · p. 117
अनुष्टुप्
सर्वेऽपि क्षुद्रवार्ताक्यां छन्दोभेदेषु केषुचित् ।षट्त्रिंशदक्षराद्येषु गन्धर्वाधिपतेरपि ॥ ८७२ ॥
2.5.872 · p. 117
अनुष्टुप्
विश्वावसोः स्त्री वीणायां बृहती पठति त्विमाम् ।अजयो वा(पि?चि) च क्लीबं पुनर्बोलमिति ध्वनिः ॥ ८७३ ॥
2.5.873 · p. 117
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 वा (syllables merged)
साज्ये मधुनि तक्कोले ना तु स्यादम्भसां भ्रमे ।जायौ गन्धरसाभिख्ये मषौ लेखनिकोद्धृते ॥ ८७४ ॥
2.5.874 · p. 117
अनुष्टुप्
बोधिस्त्वर्थे स्त्रियां सम्यग्ज्ञाने च द्वे तु कुक्कुटे ।अश्वत्थे तु पुमान् बुद्धे त्वप्यमुं सज्जनोऽपठीत् ॥ ८७५ ॥
2.5.875 · p. 117
अनुष्टुप्
भगः पुनः स्मृतो यत्ने यशोवीर्यार्कभूतिषु ।कान्तीच्छाज्ञानवैराग्यधर्मैश्वर्यतपः सु च ॥ ८७६ ॥
2.5.876 · p. 117
अनुष्टुप्
धैर्यसौभाग्यमाहात्म्यधनशुक्रश्रुतेषु च ।बुद्धौ चादित्यभेदानामेकस्मिन्नपि नाथ नप् ॥ ८७७ ॥
2.5.877 · p. 117
अनुष्टुप्
योनौ केचित् त्वभेदेन मन्यन्ते पुन्नपुंसकम् ।सूर्यतद्भेदयोस्त्वेष पुमानेव न संशयः ॥ ८७८ ॥
2.5.878 · p. 118
अनुष्टुप्
भङ्गस्तु ना तरङ्गे स्याद् भञ्जने च स्त्रियां पुनः ।मातुलान्याह्वये धान्ये भङ्गा भद्रस्तु नोक्षणि ॥ ८७९ ॥
2.5.879 · p. 118
अनुष्टुप्
गजभेदे द्वयोः क्ली तु सामभेदे शुभे सुखे ।एतयोस्त्वर्थयोरेकयुक्ते बृहति च त्रिषु ॥ ८८० ॥
2.5.880 · p. 118
अनुष्टुप्
साधौ च स्त्री तु भद्रा स्याद् दूर्वाशारिबयोस्तथा ।रास्नायां चाथ पक्षस्य त्रयः स्युस्तिथिपञ्चकाः ॥ ८८१ ॥
2.5.881 · p. 118
अनुष्टुप्
तेषां द्वितीयतिथिषु भवस्तु प्राप्तिसत्तयोः ।शम्भौ जन्मनि संसारे शुभेऽप्याह तु सज्जनः ॥ ८८२ ॥
2.5.882 · p. 118
अनुष्टुप्
कोपेऽथ भवितर्येष त्रि भण्डं तु नपुंसकम् ।कोशस्थेऽर्थे धनवतां हास्यकारिणि तु त्रिषु ॥ ८८३ ॥
2.5.883 · p. 118
अनुष्टुप्
भण्डी मण्डूकपर्णाख्यतृणस्तम्बे स्त्रियामियम् ।परिहासे तु भण्डा स्त्रीपुंसयोर्भक्तवाक् पुनः ॥ ८८४ ॥
2.5.884 · p. 118
अनुष्टुप्
सेवायामोदने क्ली त्रिः सेविते भक्तिमत्यपि ।भटस्तु योधे ना मर्त्यजातिभेदे तु स द्वयोः ॥ ८८५ ॥
2.5.885 · p. 118
अनुष्टुप्
नटीविप्रोद्भवे भव्यः पुनर्ना पादपान्तरे ।कर्मरङ्गाह्वये क्ली तु फले तस्य धने तथा ॥ ८८६ ॥
2.5.886 · p. 118
अनुष्टुप्
कल्याणाख्यगुणे च स्याद् भेद्यलिङ्गं तु तद्वति ।योग्ये भवितरि प्राप्ये भवितव्ये तु तन्नपि ॥ ८८७ ॥
2.5.887 · p. 118
अनुष्टुप्
भ्रमिः स्त्री भ्रमणे धात्वोर्भ्रमतौ भ्राम्यतौ च ना ।भरुस्तु भर्तरि त्रिर्ना वर्णे भर्तृ त्रि पोष्टरि ॥ ८८८ ॥
2.5.888 · p. 118
अनुष्टुप्
स्वामिधारकयोर्ना तु पाणिग्राहे भवत् पुनः ।सर्वनाम त्रि पूज्ये स्यात् स्त्र्यर्थे तत्र भवत्यसौ ॥ ८८९ ॥
2.5.889 · p. 118
अनुष्टुप्
त्रि त्वेव जायमाने च विद्यमाने च तत्र च ।स्त्र्यर्थत्वे स्याद्भवन्तीति ना तु गोत्रस्य कर्तरि ॥ ८९० ॥
2.5.890 · p. 119
अनुष्टुप्
ऋषिभेदे भवन्ती तु स्त्रीलिङ्गा लट्श्रुतौ स्मृता ।भसत् तु स्त्री दकारान्ता विष्ठायां गुह्यकोष्ठयोः ॥ ८९१ ॥
2.5.891 · p. 119
अनुष्टुप्
आस्ये तु क्लीबमाचार्याः केचिदेनं प्रचक्षते ।भावो लीलाक्रियाचेष्टाभूत्यभिप्रायजन्तुषु ॥ ८९२ ॥
2.5.892 · p. 119
अनुष्टुप्
पदार्थमात्रे सत्तायामात्मयोनिस्वभावयोः ।केचित् त्वात्मनि योनौ च प्राप्तिसंस्कारजन्मसु ॥ ८९३ ॥
2.5.893 · p. 119
अनुष्टुप्
शृङ्गारादे रसस्यापि कारणे चान्तरात्मनि ।नाट्योक्तिविषये प्राज्ञे पुंसि त्रिषु तु मानिनि ॥ ८९४ ॥
2.5.894 · p. 119
अनुष्टुप्
भवसम्बन्धिनि बुधे भवितर्यपि ना पुनः ।भागो भाग्ये तुरीयांशे रूपकार्धेऽशमात्रके ॥ ८९५ ॥
2.5.895 · p. 119
अनुष्टुप्
भगसम्बन्धिनि पुनस्त्रि क्ली सामान्तरेऽथ नप् ।भाग्यं जन्मान्तरकृते शुभे कर्मणि चाशुभे ॥ ८९६ ॥
2.5.896 · p. 119
अनुष्टुप्
अशुभे च शुभे चापि कर्ममात्रे परे विदुः ।भक्तव्ये तु त्रि वृद्ध्यायलाभशुल्कोपदात्मना ॥ ८९७ ॥
2.5.897 · p. 119
अनुष्टुप्
दीयते यत्र भागोऽसौ तत्र तत्रापि साधुनि ।भार्या स्त्री सहधर्मिण्यां ना त्वादिक्षत्त्रियान्तरे ॥ ८९८ ॥
2.5.898 · p. 119
अनुष्टुप्
भारसाध्वादिके तु त्रिर्भासस्तु द्वे खगान्तरे ।शकुन्ताख्ये नृस्त्रियोस्तु दीप्तौ सामान्तरे तु नप् ॥ ८९९ ॥
2.5.899 · p. 119
अनुष्टुप्
भामस्तु क्रुधि ना स्त्री तु भामा योषित सा त्रि तु ।ईर्ष्यावत्यथ भार्त्रं क्ली पोपे त्रिषु तु यो नरः ॥ ९०० ॥
2.5.900 · p. 119
अनुष्टुप्
भृतिं गृहीत्वा वसति तत्र भर्तुश्च योगिनि ।भाण्डं क्लीबममत्रेऽश्वभूषणे भूषणे तथा ॥ ९०१ ॥
2.5.901 · p. 119
अनुष्टुप्
वणिङ्मूलधनेऽन्ये तु पण्ये केचिदुपस्करे ।भाण्डी तु स्त्री शिरीषद्रौ भण्डसम्बन्धिनि त्रिषु ॥ ९०२ ॥
2.5.902 · p. 120
अनुष्टुप्
भ्राजो ना श्लोकभेदेषु क्वचित् सामान्तरे तु नप् ।भाष्यं तु क्ली विवरणग्रन्थजात्यन्तरे यथा ॥ ९०३ ॥
2.5.903 · p. 120
अनुष्टुप्
महाभाष्यादि तत्र स्याद् भाषणीये तु भेद्यवत् ।भानुर्ना भास्करे घस्रे नृस्त्रियोस्तु गभस्तिषु ॥ ९०४ ॥
2.5.904 · p. 120
अनुष्टुप्
भास्वानिन्दौ रवौ पुंसि भेद्यलिङ्गं तु भास्वरे ।भास्वतीति स्त्रियां नद्यामुपस्यप्यथ भिल्लवाक् ॥ ९०५ ॥
2.5.905 · p. 120
अनुष्टुप्
नृजातिभेदे शबरान्निष्ट्यपूर्वान्ध्रिकासुते ।द्वयोः स्यात् सज्जनस्त्वाह पुल्लिँङ्गं पक्कणे त्रि तु ॥ ९०६ ॥
2.5.906 · p. 120
अनुष्टुप्
भिन्द्रं स्याददृढे क्ली तु व(स्त्रे ? ज्रे)ऽन्यो दरणेऽवदत् ।भिक्षुः पुंसि परिव्राजि त्रि तु भिक्षणशीलके ॥ ९०७ ॥
2.5.907 · p. 120
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
चतुर्थकालाशिनि च भिदुस्तु नरि मन्मथे ।वज्रे च घुणसंज्ञे तु क्रिमौ द्वे ना तु भीमवाक् ॥ ९०८ ॥
2.5.908 · p. 120
अनुष्टुप्
शम्भौ च भीमसेने च त्रि तु क्रूरे भयानके ।भीष्मः शान्तनवे पुंसि भेद्यलिङ्गं भयानके ॥ ९०९ ॥
2.5.909 · p. 120
अनुष्टुप्
भीरुः पुंसीङ्गुदतरौ स्त्रियां चोर्वारुयोषितोः ।योषिद्भेदे परे त्रिस्तु कातरेऽथ भुजः पुमान् ॥ ९१० ॥
2.5.910 · p. 120
अनुष्टुप्
भूर्जसंज्ञद्रुमे नृस्त्री बाहौ भूमानगोचरे ।पदार्थभेदे च भुरिक् पुनः स्त्री बाहुकन्दयोः ॥ ९११ ॥
2.5.911 · p. 120
अनुष्टुप्
उक्ताद्युत्कृतिपर्यन्तच्छन्दः स्वेकाक्षराधिके ।छन्दोभेदे वसायां च कश्चित् तु भुवि चावदत् ॥ ९१२ ॥
2.5.912 · p. 120
अनुष्टुप्
अन्यस्तु राजनि पुमानित्याह क्ली तु भूतवाक् ।महाभूतेषु भवनक्रियायां प्राप्तिसत्ययोः ॥ ९१३ ॥
2.5.913 · p. 121
अनुष्टुप्
न्याय्ये प्राणिनि चान्यस्तु वाच्ययोरेतयोस्त्रिषु ।अतीततुल्यलब्धेषु देवयोन्यन्तरे पुनः ॥ ९१४ ॥
2.5.914 · p. 121
अनुष्टुप्
नृशण्डो मातरि त्वस्य भूता स्त्री भूरिवाक् पुनः ।प्रचुरे त्रिषु हेम्न्यस्त्री भूर्णिस्तु स्त्री भृतौ तथा ॥ ९१५ ॥
2.5.915 · p. 121
अनुष्टुप्
कश्चित् तु धरणौ ब्रूते त्रि तु भ्रमणशीलके ।द्वयोस्तु भृङ्गो धूम्याटे भ्रमरे च पुमान् पुनः ॥ ९१६ ॥
2.5.916 · p. 121
अनुष्टुप्
भृङ्गराजे परस्त्वाह भृङ्गारेऽन्यो लवङ्गके ।अन्ये तु वर्णभेदे त्रिः पुनस्तद्वति नप् पुनः ॥ ९१७ ॥
2.5.917 · p. 121
अनुष्टुप्
त्वक्पत्रसंज्ञभैषज्ये भृत्यो दासे द्वयोः स्त्रियाम् ।भृत्या स्याद्वेतनेऽथो ना (भू ? भृ)मिर्वायौ जलेऽपि च ॥ ९१८ ॥
2.5.918 · p. 121
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
द्वयोस्तु हस्तिनि त्रिस्तु भेरवाक् कातरेऽथ सः ।स्त्रियां स्याद्दुन्दुभौ भेरी भे(लु ? ल)}स्तु त्रिषु कातरे ॥ ९१९ ॥
2.5.919 · p. 121
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पूज्याप्राज्यप्रहीणेषु पुमांस्त्वृष्यन्तरे क्वचित् ।चिकित्साग्रन्थकारे स्यादुडुपेऽप्यथ भेकवाक् ॥ ९२० ॥
2.5.920 · p. 121
अनुष्टुप्
मेघे ना द्वे तु मण्डूके मर्त्यजात्यन्तरेऽपि च ।निषादब्राह्मणीजाते कातरे तु त्रिषु स्मृतः ॥ ९२१ ॥
2.5.921 · p. 121
अनुष्टुप्
उदीच्यनीवृद्भेदे तु भोलाः पुंभूम्न्यथ द्वयोः ।द्वीपिसंज्ञकशार्दूलभेदे भोजः पुनर्द्वयोः ॥ ९२२ ॥
2.5.922 · p. 121
अनुष्टुप्
राजन्यमात्रे भोजाख्यनीवृद्भेदेऽस्य राजनि ।मर्त्यजात्यन्तरे चापि ज्ञेयः क्षत्त्रियगोलके ॥ ९२३ ॥
2.5.923 · p. 121
अनुष्टुप्
पुंभूमनि तु विन्ध्याद्रिपार्श्वस्थे नीवृदन्तरे ।भोगी तु सर्पे द्वे स्त्री तु भोगिनी नृपयोषिति ॥ ९२४ ॥
2.5.924 · p. 122
अनुष्टुप्
अन्या कृताभिषेकाया या तस्यां भेद्यवत् पुनः ।भोगवत्यजयस्त्वाह वैयावृत्त्यकरे तथा ॥ ९२५ ॥
2.5.925 · p. 122
अनुष्टुप्
भूपालेऽप्यथ भौमो ना पृथिवीतनयग्रहे ।भूमिसम्बन्धिनि त्रि स्याद् मद्रं तु क्ली सुखे तथा ॥ ९२६ ॥
2.5.926 · p. 122
अनुष्टुप्
सज्जनस्तु शुभे प्राह त्रि तु तद्वति भाषितः ।पुंभूम्नि नीवृद्भेदेऽथ मन्द्रो ना सामवर्तिनाम् ॥ ९२७ ॥
2.5.927 · p. 122
अनुष्टुप्
स्वराणामपि सप्तानां स्वरे षष्ठेऽथ स त्रिषु ।गम्भीरशब्दे मन्द्रा तु वाचि स्त्री मन्दवाक् तु ना ॥ ९२८ ॥
2.5.928 · p. 122
अनुष्टुप्
शनैश्चरे त्रि तु स्वल्पे तथाज्ञापटुरोगिषु ।निर्भाग्ये च कनिष्ठे च दधिभेदे तु नप्यदः ॥ ९२९ ॥
2.5.929 · p. 122
अनुष्टुप्
मन्दजाते द्वयोस्त्वेष गजभेदे मदस्तु ना ।गजदानजलेऽन्ये तु तद्यन्मेढ्रात् प्रवर्तते ॥ ९३० ॥
2.5.930 · p. 122
अनुष्टुप्
तत्रैवेत्यब्रुवन् हर्षे गर्वे गन्धे च रेतसि ।मदी तु मत्तावस्थायां स्त्री मध्यं तु नपुंसकम् ॥ ९३१ ॥
2.5.931 · p. 122
अनुष्टुप्
वस्तुद्वयस्यान्तराले सङ्ख्याभेदेऽपि कुत्रचित् ।समुद्रसंज्ञसङ्ख्याया यः स्याद्दशगुणोत्तरः ॥ ९३२ ॥
2.5.932 · p. 122
अनुष्टुप्
छन्दसामुक्तपूर्वाणां तृतीये छन्दसि त्रि तु ।न्याय्ये वलग्नसंज्ञे तु शरीराङ्गे नृशण्डयोः ॥ ९३३ ॥
2.5.933 · p. 122
अनुष्टुप्
हिमोत्सर्गाय सवितू रश्मयः स्युः शतत्रयम् ।तत्रैकत्र शते ह्वादिन्याख्येषु रविरश्मिषु ॥ ९३४ ॥
2.5.934 · p. 122
अनुष्टुप्
स्त्रियो मध्या अथो मत्यं क्ली समीकृतिसाधने ।क्षेत्रस्य कृष्टस्य मतिमतसाधौ तु स त्रिषु ॥ ९३५ ॥
2.5.935 · p. 122
अनुष्टुप्
मत्स्यस्तु मीने द्वे नीवृद्भेदे तु नरि भूमनि ।तद्राजे तु पुमान् मीनराशौ चाथो मघं धने ॥ ९३६ ॥
2.5.936 · p. 123
अनुष्टुप्
क्ली स्त्रीभूम्नि मघा अग्निनक्षत्रे कालमात्रके ।तद्युक्तेऽथ मयः पुंसि दैत्यतक्षणि हिंसने ॥ ९३७ ॥
2.5.937 · p. 123
अनुष्टुप्
प्रक्षेपणे च द्वे तूष्ट्रे तथाश्वेऽथो मलोऽस्त्रियाम् ।स्यात् पापकिट्टविष्ठासु वातादिषु च नप् पुनः ॥ ९३८ ॥
2.5.938 · p. 123
अनुष्टुप्
कांस्याख्यलोहे स्यात् त्वेष मर्त्यजात्यन्तरे द्वयोः ।मालुकीशूद्रेजेऽथोक्तो मल्लो योधे परैः पुमान् ॥ ९३९ ॥
2.5.939 · p. 123
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्रे (wrong syllable)
बलीयःपुरुषे त्वन्यैः पात्रभेदे तु नृस्त्रियोः ।मल्लो मल्ली च मल्ली तु मल्लिकापीठयोः स्त्रियाम् ॥ ९४० ॥
2.5.940 · p. 123
अनुष्टुप्
नृस्त्रियोर्धारणे मल्ल मल्ला चेति द्वयोः पुनः ।व्रात्यपूर्वक्षत्त्रियाजे व्रात्याज्जात्यन्तरे नृणाम् ॥ ९४१ ॥
2.5.941 · p. 123
अनुष्टुप्
महः पुंम्युत्सवे स्त्री तु मही वाचि गवि क्षितौ ।सज्जनस्तु नदीभेदेऽप्याह द्विवचनेन तु ॥ ९४२ ॥
2.5.942 · p. 123
अनुष्टुप्
द्यावापृथिव्योराम्नासीद् मङ्खस्त्वार्योपजीविनि ।त्रिर्मङ्गलस्य पठितर्येके मङ्खा तु मङ्गले ॥ ९४३ ॥
2.5.943 · p. 123
अनुष्टुप्
स्त्री मङ्गं त्वस्त्रियां नावः शिरस्यक्ली तु मङ्गने ।मङ्गनं गमनं विद्यादथ सर्वरसाग्रके ॥ ९४४ ॥
2.5.944 · p. 123
अनुष्टुप्
मण्डमस्त्री स्त्रियां मण्डी यागुल्यां मण्डने पुनः ।नृस्त्री मण्डाऽथ ना रश्मौ क्ली तून्मानान्तरे भवेत् ॥ ९४५ ॥
2.5.945 · p. 123
अनुष्टुप्
पञ्चमाषे मतं तु क्ली स्यादाकृतेच्छयोस्तथा ।ज्ञाने च वाञ्छिते तु त्रिर्ज्ञायमानेऽथ मत्तवाक् ॥ ९४६ ॥
2.5.946 · p. 123
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 कृ (wrong syllable)
त्रि(तु?षु) क्षीबे च हृष्टे च क्लीबं तु मदकर्मणि ।मर्त्तस्त्वृप्यन्तरे पुंसि मर्त्यलोकेऽप्यथ द्वयोः ॥ ९४७ ॥
2.5.947 · p. 124
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 त्रि (syllables merged)
मनुष्ये मर्कशब्दस्तु देवदारुतरौ पुमान् ।मनोविरिञ्चयोंर्वायौ कश्चित् त्वाहाभ्रचन्द्रयोः ॥ ९४८ ॥
2.5.948 · p. 124
अनुष्टुप्
आदित्येऽप्यथ सर्पे द्वे त्रि तु विघ्नस्य कर्तरि ।मणिः स्त्रीपुंसयो रत्ने मणिबन्धेऽप्यलिञ्जरे ॥ ९४९ ॥
2.5.949 · p. 124
अनुष्टुप्
अजादिकण्ठप्रभवे स्तनाकारे च वस्तुनि ।काष्ठलोहादिनिष्पाद्यगुलिकायामथाजयः ॥ ९५० ॥
2.5.950 · p. 124
अनुष्टुप्
गोलमात्रे परे त्वेनं गुह्यमध्यगुले विदुः ।मेहनावयवे त्वन्ये शेफाग्रं स च मन्यताम् ॥ ९५१ ॥
2.5.951 · p. 124
अनुष्टुप्
कश्चित् प्रायुङ्क्त घण्टायां धातौ तु मणतौ पुमान् ।मल्लिस्तु मत्स्यभेदे स्त्री स्यात् कपालकरङ्कयोः ॥ ९५२ ॥
2.5.952 · p. 124
अनुष्टुप्
इत्येवमजयः स्माह धातौ तु नरि मल्लतौ ।मसिस्तु शस्त्र्यां कृपणतृष्णायामिति कश्चन ॥ ९५३ ॥
2.5.953 · p. 124
अनुष्टुप्
स्त्रियां पुंसि त्वविश्वास्यो वाक्पतिः पठति स्म तम् ।धातौ तु मस्यतौ पुंसि महिस्तु धरणौ स्त्रियाम् ॥ ९५४ ॥
2.5.954 · p. 124
अनुष्टुप्
उदाहृतो ह्यसौ भागवृत्तिकारेण वाक्तिनः ।इत्यत्र कृदिकारान्तो महति त्वेष भेद्यवत् ॥ ९५५ ॥
2.5.955 · p. 124
अनुष्टुप्
मधुस्तु ना चैत्रमासे वसन्ते दानवान्तरे ।पूर्वक्षत्त्रियभेदे च विप्रभेदे च कुत्रचित् ॥ ९५६ ॥
2.5.956 · p. 124
अनुष्टुप्
मधूकद्रौ कुरवके मद्यभेदे च कुत्रचित् ।मध्वासवाख्ये मधुररसे मिश्ररसे तथा ॥ ९५७ ॥
2.5.957 · p. 124
अनुष्टुप्
वैजयन्त्याह कटुकस्वादुतिक्तत्रयात्मके ।एतद्रसद्वयवति पुनस्त्रिः क्ली तु वारिणि ॥ ९५८ ॥
2.5.958 · p. 124
अनुष्टुप्
क्षीरे पुष्परसे मद्ये मन्त्रभेदेषु केषुचित् ।शाकवल्लयां तु जीवन्तीसंज्ञायां स्त्री नृनप् पुनः ॥ ९५९ ॥
2.5.959 · p. 125
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
क्षौद्रपौत्तिकपूर्वेषु मधुभेदेषु तत्सुरे ।मनुस्तु पुंसि मन्त्रे स्यात् पूर्वे च क्षत्त्रियान्तरे ॥ ९६० ॥
2.5.960 · p. 125
अनुष्टुप्