All kośas › Koṣakalpataru
कोषकल्पतरु Koṣakalpataru
6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)
नानार्थस्कन्धः · मान्ताः
॥ इति भान्ताः ॥
एकमाः ।
द्विमाः ।
किं प्रश्ने क्षिपि निन्दने निगदितं तर्के प्रकारेऽपि च ।दण्डे स्याद्दमथे दमश्च दमयन्तीभ्रातरि स्यादथा-पर्यालोचितवर्त्मनीह च गमो द्यूतप्रभेदे गतौ ॥ ५५ ॥
6.25.55 · p. 279
शार्दूलविक्रीडितम्
प्रोक्तः किंपुरुषेश्वरे विटपिनि स्यात्पारिजाते द्रुमःकुण्डे वारिविनिर्गमे भ्र[30b]म इति स्यान्मोहवाची द्वयोः ।रामो दाशरथौ बले भृगुपतौ पश्वन्तरे वाच्यवत्त्वेष श्वेतमनोज्ञमेचकगतोऽन्त्ये वास्तुके कुष्टके ॥ ५६ ॥
6.25.56 · p. 279
शार्दूलविक्रीडितम्metre not read in every line
योषाहिङ्गुलिनीषु योषिति मतः कामः स्मरेऽस्त्रीप्सितेक्लीबं शुक्रनिकामयोरथ रमः कान्ते स्त्रियां तु श्रियि ।तद्वत्सु त्रिषु पुंसि तु स्मरगतो रक्तेऽप्यशोकद्रुमेन स्त्री स्यान्मलयोद्भवे च शिशिरे तद्वत्तुषारे हिमम् ॥ ५७ ॥
6.25.57 · p. 279
शार्दूलविक्रीडितम्
ध्वाङ्क्षे दण्डधरे यमोऽपि यमजे स्यात्संयमे तादृशः ।शारीरेऽपि च नित्यकर्मणि भवेत्स्यादानुपूर्व्यां क्रमः ।शक्तौ कल्पपदक्षिपो(?)रथ भवेत्क्षौमं दुकूलेऽस्त्रिया-मट्टे स्यादतसीकृते च वसने क्षेमं पुनर्न स्त्रियाम् ॥ ५८ ॥
6.25.58 · p. 279
शार्दूलविक्रीडितम्
भद्रे लब्धकरक्षणे निगदितं स्याच्चौरकेऽथ स्त्रियांगौर्यां स्याद्गणहासके च, नगरे तूमं तथा घट्टके ।सूर्ये यष्टरि पुंसि, शुष्ममुदितं तेजस्यशीतद्युतौना स्यूमस्तु मयूखसूत्रगुणयोर्दक्षे क्षमः क्षन्तरि ॥ ५९ ॥
6.25.59 · p. 280
शार्दूलविक्रीडितम्
स्त्री तु क्षा[31a]न्तिभुवोर्गदे गदभिदि स्यादाममस्त्री त्रये-ऽपक्वेऽथ प्रहरे च संयमगतो यामोऽथ वामो हरे ।चेतोजे जलदे धने तु चरमे, सव्ये प्रतीपेऽवरेत्रय्यां, योषिति रासभीषु करभीष्वश्वाशृगाल्योः स्त्रियाम् ॥ ६० ॥
6.25.60 · p. 280
शार्दूलविक्रीडितम्metre not read in every line
श्यामः प्रयागस्य वटेऽम्बुदे चपिके हरि-चकवल्लरीषु ।क्लीबं मरीचे लवणे च कृष्णेस्त्रियां निशासोमलताकणासु ॥ ६१ ॥
6.25.61 · p. 280
उपजातिःmetre not read in every linenearly उपजातिः: pāda 2, syllable 4 रि (wrong syllable)
गुन्द्राप्रसूतप्रमदाप्रियङ्गु-नीलीत्रिभण्डाङ्गुलिकेशिकासु ।कालिन्दिकायां त्रिषु तद्वति स्यात्स्तोमोऽध्वरस्तोत्रसमूहवाची ॥ ६२ ॥
6.25.62 · p. 280
इन्द्रवज्रा
ध्यामं गन्धतृणे पुमान्[द]मनके धूम्रे पुनर्वाच्यवत्गुल्मो [थो]बलरक्षणे च जठरग्रन्थौ प्रकाण्डे बले ।घट्टे स्त्र्यामलकीतडित्पटगृहे जाल्मस्तु रौद्रे जडेभेद्याभोऽप्यसमीक्ष्यकारिणि भवेद्ग्रामः स्वराणां ग्रहे ॥ ६३ ॥
6.25.63 · p. 280
शार्दूलविक्रीडितम्
तद्वत्संवसथे समूह उदितः शब्दादितश्चोत्तरःसंपूर्वः समरेऽथ कालविवरे प्राकारगर्त्तेऽवधौ ।अर्द्धे छद्मनि पुंसि नेम उदितः [31b] सोमस्तु शीतद्युतौवित्तेशे पितृदैवते च पवने[व]स्वन्तरे स्यात्कपौ ॥ ६४ ॥
6.25.64 · p. 280
शार्दूलविक्रीडितम्metre not read in every line
कर्पूरे सलिले तथा स्मरहरे स्याद्यज्ञनेत्र्योषधा-विष्मः कामवसन्तयोर्नरि मतो युध्मः शरे योद्धरि ।युद्धे धन्वनि चाथ भीम उदितः शम्भौ बकद्वेषिणिस्यादम्लेऽपि च वेतसे त्रिषु पुनर्घोरेऽथ भामो रवौ ॥ ६५ ॥
6.25.65 · p. 281
शार्दूलविक्रीडितम्
क्रोधे यामिपतौ रुचौ च नरके भौमस्तथा मङ्गलेभूजेषु त्रिषु मण्डपे तु समये श्रामः पुमान्कीर्तितः ।यक्ष्मो रोगपतौ गदेऽपि गदितो रुक्मं तु हेमायसो-स्तोक्मं स्याद्धरिते यवे हरिति चाम्भोदे तु न स्याद्द्वयोः ॥ ६६ ॥
6.25.66 · p. 281
शार्दूलविक्रीडितम्
भीष्मः शंतनुनन्दने स्मरहरे रात्रिंचरे दारुणेभेद्ये क्षीरखयोः सुमस्तु [न] युगे पुष्पे पुनः स्यात्सुमम् ।धर्मोऽस्त्री सुकृतेऽथ पुंसि च यमे न्याये स्वभावे क्रता-वाचारोपमयोस्तथोपनिषदि स्यात्कार्मुकोपाधिगः ॥ ६७ ॥
6.25.67 · p. 281
शार्दूलविक्रीडितम्
खर्मं दुकूलेऽपि च पौरुषे चघर्मो निदाघे च तथातपे ना ।स्वेदोदके चोष्णगतस्तु न स्त्रीक्लीबे तु[32a]जिह्म तगरद्रुमे स्यात् ॥ ६८ ॥
6.25.68 · p. 281
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 2, syllable 5 ह्म (wrong syllable)
वक्रे च मन्दे परवच्च सूक्ष्मंत्वध्यात्मके कैतवके च षण्ढे ।अणौ पुमान्स्यात्त्रिषु चाल्पवाचिदस्मस्तु चौरानलयष्टृषु स्यात् ॥ ६९ ॥
6.25.69 · p. 281
उपजातिः
पद्मः पुमान्व्यूहनिधिप्रभेदेनागान्तरे स्त्री तु न पङ्कजे स्यात् ।संख्यान्तरे पद्मकबिन्दुनालेस्त्रियां तु लक्ष्म्यामपि फञ्जिकायाम् ॥ ७० ॥
6.25.70 · p. 281
उपजातिः
भूमिः स्थितौ स्याद्भुवि चाथ वह्नौवमिः पुमान्स्त्री वमनेऽथ रश्मिः ।पक्षे द्युतौ योषिति रज्जुवाचीजामिः कुलस्त्रीभगिनीगतः स्त्री ॥ ७१ ॥
6.25.71 · p. 281
उपजातिः
यामिः स्त्रियां संयमयामयोस्तथाभवेद्भगिन्यां च कुलस्त्रियां च ।चक्रान्तकूपत्रिकयोस्तु नेमिःस्त्रियां पुमान्स्यात्तिनिशद्रुमे च ॥ ७२ ॥
6.25.72 · p. 282
upajati mixed
किर्मी पलाशे गृहहेमपुत्र्योःस्त्रियां तदेनेहसि पुंसि सर्मः ।ऊर्मिर्द्वयोर्वेगतरंगभङ्ग-प्रकाशलेखार्तिषु वेदनायाम् ।स्याद्वस्त्रसंकोचन उत्कतायांकृमिः क्रिमिर्ना जतुकासु कीटे ॥ ७३ ॥
6.25.73 · p. 282
उपजातिः
कृष्यन्विते रासभवाचक[32b]श्चकामिस्तु खन्यां त्रिषु कामुके सा ।होमिः पुमान्पावकसर्पिषोः स्यात्लक्ष्मीः स्त्रियां संपदि [वि]ष्णुनार्याम् ॥ ७४ ॥
6.25.74 · p. 282
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 1, syllable 10 क (wrong syllable)
कान्तौ फलिन्यामपि ऋद्धिनामौ-षधौ सभायामपि लोहपुत्र्याम् ।वल्लीपलाशेऽपि च बिल्ववृक्षेशमी द्वयोः शङ्कुफला च शम्बा ॥ ७५ ॥
6.25.75 · p. 282
उपजातिः
स्याद्गुग्गुलुश्चाथ सिमस्तु सर्व-शक्तावबद्धेषु तथावधौ च ।स्यात्सर्वनामापि समोऽखिलार्थःसाधौ सदृक्षे च विशेष्यवत्स्यात् ॥ ७६ ॥
6.25.76 · p. 282
इन्द्रवज्रा
समा तु वर्षे वृषणे तु सीमास्त्री ब्रह्मशक्तावपि फञ्जिकायाम् ।ब्राह्मी च शाकेऽपि गिरां च देव्यांघाटे स्थितौ क्षेत्रकचेलयोश्च ।क्षुमातसीनालिकयोश्च नाम्निपरत्विषि स्यादथ कान्तिकीर्त्त्योः ॥ ७७ ॥
6.25.77 · p. 282
उपजातिःtwo metres in one verse
त्रिमाः ।
उत्कृष्ट उक्ता स्वविशेष्यलिङ्गास्यान्मध्यमोऽपि स्वरमध्यवा[33a]ची ।ना देहमध्ये त्रिषु मध्यजे स्यात्स्त्रियां तु दृष्टार्तवयोषिदर्थः ॥ ७९ ॥
6.25.79 · p. 283
उपजातिःmetre not read in every line
छन्दोविशेषेऽपि च कर्णिकायांमध्याङ्गुलावप्यधमस्तु निन्द्ये ।न्यूने त्रयेथावसरे क्रमे चा-रम्भे तथा प्रक्रम ईरितोऽत्र ॥ ८० ॥
6.25.80 · p. 283
इन्द्रवज्रा
तथोपधायामथ विक्रमः स्यात्क्रान्तौ च शक्तेर्विभवे बले च ।स्यात्संक्रमः संक्रमणेऽन्यराशि-गतौ रवेः संतरणे जलस्य ॥ ८१ ॥
6.25.81 · p. 283
उपजातिः
संक्राम एवं मतिसंपदि स्यात्ना निष्क्रमो निर्गति-दुष्कुलार्थः ।स्यादागमोऽथागतिशास्त्रवाचीस्याद्विभ्रमो भ्रान्तिविलासभेदे ॥ ८२ ॥
6.25.82 · p. 283
इन्द्रवज्रा
स्यात्संभ्रमोऽपि त्वरणेऽतिवेगेतथा दरे स्यान्नरि चादरे च ।ना विद्रुमो रत्नतरौ प्रवालेतथा प्रदिष्टो नवपल्लवे च ॥ ८३ ॥
6.25.83 · p. 284
उपजातिः
स्याद्ब्रह्मचर्यादिचतुष्टयेऽस्त्रीतथाश्रमः स्यान्मठवाचकोऽपि ।स्यात्सत्तमः संयमे वाच्यवत्तुश्रेष्ठे च पूज्ये नियमस्तु पुंसि ॥ ८४ ॥
6.25.84 · p. 284
उपजातिःmetre not read in every linenearly उपजातिः: pāda 1, syllable 7 मे (wrong syllable)
यमे प्रतिज्ञासु च यन्त्रणायांवेदे पुरे स्यान्निगमः कटे च ।वणिक्पथे वाणिजके तथोक्तो-ऽथो[33b]नैगमो वाणिजनागरार्थः ॥ ८५ ॥
6.25.85 · p. 284
उपजातिःmetre not read in every line
चौरे च शालौ कलमोऽपि लाक्षा-रके तथा लेखनिकाह्वयेऽपि ।क्लीबे तु तल्पे तलिमं विताने ।तथा कृपाणेऽपि च कुट्टिमे च ॥ ८६ ॥
6.25.86 · p. 284
उपजातिः
आदौ प्रधाने परमः परस्मिन्विशेष्यवत्स्यात्प्रणवे तु षण्ढे ।आदौ प्रधाने प्रथमोऽन्यवत्स्यात्पुष्पे फलेऽस्त्री कुसुमं दृगार्तौ ॥ ८७ ॥
6.25.87 · p. 284
उपजातिः
कान्तार्तवे चाथ कृतेऽन्यलिङ्गःस्यात्कृत्रिमोऽन्त्ये लवणान्तरे च ।स्यात्सिल्हके चाथ समे च चारौविशेष्यवत्स्यात्सुषमं स्त्रियां तु ॥ ८८ ॥
6.25.88 · p. 284
उपजातिः
उत्कृष्टशोभास्वथ सर्पभेदेपुमान्सुषीमः शिशिरे मनोज्ञे ।स्यात्पञ्चमो रागभिदि स्वरे चविशेष्यवत्पूरणवाचकश्च ॥ ८९ ॥
6.25.89 · p. 284
उपजातिः
हृद्ये प्रवीणे द्रुपदात्मजायांस्त्रियामथर्षेर्भिदि शाक्यसिंहे ।स्याद्गौतमः स्त्री उमरोचनायां ।गोदावरीशम्भुकलत्रयोश्च ॥ ९० ॥
6.25.90 · p. 285
उपजातिः
एलायां करके च दाडिम इति त्रय्यामथो भेषजेगोधूमो नरि नागरङ्ग उदितो व्रीहेर्विभेदेऽपि च ।व्याया[34a]मो नरि पौरुषे श्रमविधौ स्याद्दुर्गसंचारकेसर्पे पाशिनि कुक्कुरे नरि विलोमः स्यात्प्रतीपेऽन्यवत् ॥ ९१ ॥
6.25.91 · p. 285
शार्दूलविक्रीडितम्metre not read in every line
स्त्री स्यादामलकीगतोऽरघट्ठविषये त्वन्त्येऽथ वारस्त्रियांगौलोमी सितदूर्विकासुवचयोः स्त्री दन्तिबन्धे पुनः ।अर्चायां करिणस्तथानुकरणे कोषप्रवीणैर्मता
6.25.40 · p. 285
शार्दूलविक्रीडितम्metre not read in every line
चतुर्माः ।
भेके मर्कटके प्लवंगम इति प्रोक्तो विपश्चिद्गणैः ॥ ९२ ॥
6.25.92 · p. 285
शार्दूलविक्रीडितम्metre not read in every line
कान्ते चानुपमो विशेष्यसदृशः स्त्री सुप्रतीकस्त्रियांअभ्यर्णे च हतौ विरोधरणयोरभ्युद्गमेऽभ्यागमः ।जीर्णे भुक्तसमुज्झिते च गदितो ना यातयामस्तथाकीनाशे दिवसे घटोद्भवमुनौ स्याद्दण्डयामोऽपि च ॥ ९३ ॥
6.25.93 · p. 285
शार्दूलविक्रीडितम्
दिङ्नागे सकलक्षितेरधिपतौ स्यात्सार्वभौमस्तथासर्वक्षोणिनिमित्तयोरपि मतः संयोगकोत्पातयोः ।आरम्भेऽथ उपक्रमो गदचिकित्सोत्कोचयोर्विक्रमे-ऽथावर्ते जलगुल्म एव उदितः कूर्मे पयश्चत्वरे ॥ ९४ ॥
6.25.94 · p. 285
शार्दूलविक्रीडितम्
संख्याभेदभुजङ्गयोरपि[34b]महापद्मो निधौ चोदितः
6.25.44 · p. 285
शार्दूलविक्रीडितम्metre not read in every line
पञ्चमाः ।
स्वीकारागमनोन्तिकेऽभ्युपगमः संख्यावतां सम्मतः ।रेवत्याममृतद्युतौ निगदितश्चौत्तानपादौ तथाकोषाम्भोनिधिनाविकाः कृतधियो नक्षत्रनेमिं जगुः ॥ ९५ ॥
6.25.95 · p. 286
शार्दूलविक्रीडितम्metre not read in every line