All kośas › Dharaṇikośa
धरणिकोश Dharaṇikośa
1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)
यान्ताः · यपादः
॥ यपादः ॥
द्युरह्नि त्रिदिवेऽपि स्याज्ज्या स्यान्मौर्वी वसुंधरा ।द्योशब्दो गगने स्वर्गे यः सर्वनाम्नि योऽनिले ॥
25.1.1 · p. 147
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्व (wrong syllable)
पूज्यौ श्वशुरपूजार्हावर्यः स्यात्स्वामिवैश्ययोः ।नयो नीतौ द्यूतभेदे मृत्युः स्यान्मरणे यमे ॥
25.1.2 · p. 147
अनुष्टुप्
मय उष्ट्रे दैत्यभेदे मन्युर्दैन्ये क्रतौ क्रुधि ।स्मयौ गर्वाद्भुतौ ज्ञेयौ गोप्यौ संरक्ष्यचेटकौ ॥
25.1.3 · p. 148
अनुष्टुप्
दस्युः पाटच्चरद्विषोर्मूल्यं वेतनव[71]स्नयोः ।गुह्यं रहस्युपस्थे च सव्यं दक्षिणवामयोः ॥
25.1.4 · p. 148
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 द्वि (wrong syllable)
पथ्यं हितेऽभया पथ्या वीक्ष्यं विस्मयदृश्ययोः ।दैत्योऽसुरः सुरा दैत्या गेयौ गातव्यगायनौ ॥
25.1.5 · p. 148
अनुष्टुप्
भृत्यो दासे भूतिर्भृत्या पुष्यः कलियुगर्क्षयोः ।पद्यं श्लोके सृतिः पद्या लभ्यं लब्धव्ययुक्तयोः ॥
25.1.6 · p. 148
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भू (wrong syllable)
इभ्य आढ्ये हस्तिनीभ्या सस्यं वृक्षफले गुणे ।अर्थ्यो विपश्चिते न्याये अन्यावसदृशेतरौ ॥
25.1.7 · p. 148
अनुष्टुप्
चोद्ये चोदनाश्चर्ये चान्त्यावन्तभवाधमौ ।सेव्यमुशीरे सेवार्हे कुड्यं भित्तौ विलेपने ॥
25.1.8 · p. 149
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 1 चो (syllables merged); pāda 3, syllable 2 व्य (wrong syllable)
धान्यं व्रीहिषु धन्याके प्रियं हृद्ये धवे प्रियः ।शय्या तल्पे ग्रन्थगुम्फे व्रज्या त्वटनरङ्गयोः ॥
25.1.9 · p. 149
अनुष्टुप्
त्रयी त्रये त्रिवेद्यां च इज्या यजनशुद्धयोः ।माया स्याच्छाम्बरी बुद्धिर्विशल्येऽशल्यदन्तिके ॥
25.1.10 · p. 149
अनुष्टुप्
पौलस्त्यो रावणे श्रीदे शाण्डिल्य ऋषिबिल्वयोः ।बालेयो गर्दभे दैत्ये पर्यायोऽवसरे क्रमे ॥
25.1.11 · p. 149
अनुष्टुप्
अपत्ये दुहितृसुतौ लौहित्यौ व्रीहिसागरौ ।श्वशुर्यौ देवरश्यालौ विस्मयाऽद्भुतगर्वयोः ॥
25.1.12 · p. 149
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 दु (wrong syllable)
आदित्यौ सुरमार्तण्डौ भ्रातृव्यौ भ्रातृजद्विषौ ।व्यवायः सुरते शुद्धौ हृदयं चित्तवक्षसोः ॥
25.1.13 · p. 150
अनुष्टुप्