आर्याणी
āryāṇīस्त्री · fem.In 5 kośas: 5 synonym verses.
आभीरी तु महाशूद्री जातिपुंयोगयोः समा ।आर्याणी स्वयमर्या स्यात् क्षत्रिया क्षत्रियाण्यपि ॥ ५४ ॥
अनुष्टुप्
genderस्त्रीfem.
आभीरीत्येव कथिता सर्वासामेवमेव सा ।आ(अ)र्याणी चार(र्य?)का चार्या सत्कुलोत्पन्ननायिका ॥ ८७ ॥
अनुष्टुप्
genderस्त्रीfem.
अर्याऽर्याणी च सा नारी मन्यते वैश्यजातिजा ।आर्याऽऽर्याणी तथैवास्ति साऽपि वैश्योद्भवा किल ॥ ८३२ ॥
अनुष्टुप्
genderस्त्रीfem.
जातिपुंयोगयोस्तुल्या तथा गोपालिकापि च ।केनाप्युद्वाहिता वैश्या त्वर्यार्यानी द्वयं भवेत् ॥
अनुष्टुप्
genderस्त्रीfem.
उपाध्यायान्युपाध्यायी शूद्र्यर्यी क्षत्रियीति च ।आचार्यानी च पुंयोगादार्यार्याण्यौ तु जातितः ॥ २२ ॥
अनुष्टुप्
genderस्त्रीfem.