All kośas › Kalpadrukośa
कल्पद्रुकोशः Kalpadrukośa
4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)
भूमिस्कन्धः · नरादिप्रकाण्डः (1/4)
इति पूःप्रकाण्डः ।
भूपर्यायस्पृशो मर्त्त्या मानवा मनुजा विशः ।मनुष्याः पृतना मर्ताः क्षितयो मानुषा अपि ॥ १ ॥
1.4.1 · p. 20
अनुष्टुप्
अण्डीरा जगतः पञ्चजनाश्चर्षणयः पुनः ।मन्तवो भूतलस्थाना द्विपदाश्चेतना जनाः ॥ २ ॥
1.4.2 · p. 20
अनुष्टुप्
मनूंषि मनुषा जानपदा जनपदाः प्रजाः ।स्त्री भूम्न्येऽधतवश्चैषां विशेषाः पुरुषा नराः ॥ ३ ॥
1.4.3 · p. 20
अनुष्टुप्
नरः पुमांसः पुरुषा अस्त्रियां तु नपुंसकम् ।पुंसि क्लीबे पण्डषण्डषाण्डाः पाण्डः पुनः स्त्रियाम् ॥ ४ ॥
1.4.4 · p. 20
अनुष्टुप्
तृतीयप्रकृतिश्चाथ नारी योषा च योषिता ।प्रतीपदर्शिनी योषिद्वनिता महिलापि च ॥ ५ ॥
1.4.5 · p. 20
अनुष्टुप्
रामाऽबला महेला स्त्री सीमन्तिन्यपि मेहली ।मेहला मेहिला चापि महिली महिलापि च ॥ ६ ॥
1.4.6 · p. 20
अनुष्टुप्
जोषिज्जोषा महेली च यामिर्यामी च जादिमे ।स्त्रीपर्यायजनार्थो ना मण्डयन्तश्च सुन्दरी ॥ ७ ॥
1.4.7 · p. 20
अनुष्टुप्
रमणी कामिनी कान्ता कोपना मत्तकाशिनी ।अङ्गना ललना भीरुर्भामिनी युवतिश्चरी ॥ ८ ॥
1.4.8 · p. 21
अनुष्टुप्
नितम्बिनी च प्रमदा वामा तदनुवासिता ।वरारोहा सुंदराङ्गी रत्नभूतोत्तमा च सा ॥ ९ ॥
1.4.9 · p. 21
अनुष्टुप्
सुखोष्णशीता तुहिनग्रीष्मयोर्वरवर्णिनी ।स्वगुणेनोपमानेन मनोज्ञादिपदेन च ॥ १० ॥
1.4.10 · p. 21
अनुष्टुप्
विशेषिताङ्गकर्मा स्त्री यथा तरललोचना ।मत्तेभगमना चापि स्यान्मृगाक्ष्यलसेक्षणा ॥ ११ ॥
1.4.11 · p. 21
अनुष्टुप्
वामाक्षी सुस्मितास्याः स्वं मानलीलास्मितादयः ।लीला विलासो विच्छित्तिर्विव्वोकः किलकिञ्चितम् ॥ १२ ॥
1.4.12 · p. 21
अनुष्टुप्
मोट्टायितं कुट्टमितं ललितं विहृतं तथा ।विभ्रमश्चेत्यलंकाराः स्त्रीणां स्वाभाविका दश ॥ १३ ॥
1.4.13 · p. 21
अनुष्टुप्
प्रागल्भ्यौदार्यमाधुर्यशोभाधीरत्वकान्तयः ।दीप्तिश्चायत्नजा भावहावहेलास्त्रयोङ्गजाः ॥ १४ ॥
1.4.14 · p. 21
अनुष्टुप्
सारङ्गगद्गदासास्याद्यात्यर्थं मधुरस्वरा ।अथ साध्वी सुशीला स्यादेकपत्नी पतिव्रता ॥ १५ ॥
1.4.15 · p. 21
अनुष्टुप्
सत्पथाथ कुलस्त्री स्यान्मालिका पालिका कुलात् ।सुकुला पतिंवरा तु खरुर्वर्या स्वयंवरा ॥ १६ ॥
1.4.16 · p. 21
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 प (wrong syllable)
कन्या कुमारी कन्याका कन्यिका बालिका च सा ।स्याद्गौरी चाप्यथ पुनर्नग्निकाऽनागतार्त्तवा ॥ १७ ॥
1.4.17 · p. 22
अनुष्टुप्
कुमारी पुंप्रसङ्गोत्थरजा गुप्तरजस्वला ।राका नवफलार्था साप्यचिरोढा वधूर्नवा ॥ १८ ॥
1.4.18 · p. 22
अनुष्टुप्
सार्वाक् प्रसूतितः श्यामा दिक्करी नवयौवना ।वयः संधिमती चाथ दृष्टपुष्पा तु धेनुका ॥ १९ ॥
1.4.19 · p. 22
अनुष्टुप्
यदृतुप्रथमस्नाने मङ्गल्यं ध्रियतेऽम्बरम् ।स आनन्दपटस्तत्र मैथुनं नवरङ्गकम् ॥ २० ॥
1.4.20 · p. 22
अनुष्टुप्
अथ यूनी तु युवती तरुणी तलुनीति च ।युवतिर्यौवनाढ्या च कलावत्यथ कामुकी ॥ २१ ॥
1.4.21 · p. 22
अनुष्टुप्
वृषस्यन्ती कामुकाथ प्रज्ञा प्राज्ञी च धीमती ।कात्यायन्यर्द्धवृद्धा स्याद्विश्वस्ताविधवे समे ॥ २२ ॥
1.4.22 · p. 22
अनुष्टुप्
काषायवसना रण्डा विशस्ता मुण्डमुण्डिता ।वृद्धा पलिक्नी पलिता वशा वश्या च जर्जरा ॥ २३ ॥
1.4.23 · p. 22
अनुष्टुप्
स्यात्सध्रीची वयस्यालिः सखी च सहचारिणी ।सदाचारा कर्मकरा प्रेष्यान्तःपुरचारिणी ॥ २४ ॥
1.4.24 · p. 22
अनुष्टुप्
सैरन्ध्री परवेश्मस्था स्ववशा शिल्पकारिका ।सरस्वती च वलजा रोचना हारिणीति च ॥ २५ ॥
1.4.25 · p. 22
अनुष्टुप्
स्यात्संदेशहरा दूती घटका वाक्यहारिणी ।भिक्षुकी श्रमणा मुण्डा विवृक्ता दुर्भगा च सा ॥ २६ ॥
1.4.26 · p. 23
अनुष्टुप्
गतार्त्तवा निःकला स्याद्विन्दुर्नश्यत्प्रसूतिका ।अवीरा निःपतिसुता स्यादशिश्वी शिशुं विना ॥ २७ ॥
1.4.27 · p. 23
अनुष्टुप्
जीवतोका जीवसूः स्यात्कृमिला तु बहुप्रसूः ।सप्तपुत्रप्रसूर्या स्त्री सैवोक्ता सुतवस्करा ॥ २८ ॥
1.4.28 · p. 23
अनुष्टुप्
स्यात्पत्नीमातृपर्याया वीरात्तद्गुणसंयुता ।प्रजावती जाततोका प्रजाता च प्रसूतिका ॥ २९ ॥
1.4.29 · p. 23
अनुष्टुप्
संकेतं याति पत्यर्था सा तु प्रोक्ताभिसारिका ।या संकेतगृहं याता पतिं तत्र न विन्दति ॥ ३० ॥
1.4.30 · p. 23
अनुष्टुप्
सोक्ताद्रिका विदेशस्थे पत्यौ प्रोषितभर्तृका ।स्यात्प्रोष्यत्पतिका पत्यौ विदेशगमनोत्सुके ॥ ३१ ॥
1.4.31 · p. 23
अनुष्टुप्
अन्योपभुक्तपतिका खण्डितेति निगद्यते ।अश्लीलदृढरूपा सा या लावण्यविवर्जिता ॥ ३२ ॥
1.4.32 · p. 23
अनुष्टुप्
श्लाघ्यावयवसंस्थाना रूपसौन्दर्यवत्यपि ।जीवत्पतिर्जीवपत्नी पतिवत्नी सभर्त्तृका ॥ ३३ ॥
1.4.33 · p. 23
अनुष्टुप्
पतित्यक्ता सुकुलजा सा स्यात्पतिवतीति च ।कुलकूणी तु कुलटा पांसुला घर्षिणीत्वरी ॥ ३४ ॥
1.4.34 · p. 23
अनुष्टुप्
बन्धकी लाञ्छवी खण्डशीला मदननालिका ।धर्षणिर्वर्षणिश्चापि लाञ्छिका चर्षणीति च ॥ ३५ ॥
1.4.35 · p. 24
अनुष्टुप्
चर्षणिर्वर्षणी रण्डा पांशुलापि निगद्यते ।दुःशृङ्गी पुंश्चली बन्धुरा स्वैरिण्यसतीत्यथ ॥ ३६ ॥
1.4.36 · p. 24
अनुष्टुप्
वारपण्यपणादीनामर्थेभ्यो योषिदर्थकाः ।कञ्जिनी लञ्जिका वेश्या बन्दी शूला च झर्झरा ॥ ३७ ॥
1.4.37 · p. 24
अनुष्टुप्
रूपाजीवा वारवाणिः कामलेखावगालिका ।क्षुद्राजिना कालकूची कुट्टकी सम्भली समे ॥ ३८ ॥
1.4.38 · p. 24
अनुष्टुप्
सनाली कुञ्चिका भोज्या चोटा कुहककारिका ।चेटी दासी कुम्भदासी नागरैः सत्कृता तु या ॥ ३९ ॥
1.4.39 · p. 24
अनुष्टुप्
मलिष्ठा मलिना म्लाना ऋतुपुष्पार्थतोवती ।पर्यायाः पांशुलोदक्यात्रेय्यविश्च रजस्वला ॥ ४० ॥
1.4.40 · p. 24
अनुष्टुप्
स्त्रीपर्यायेभ्यो धर्मिणी स्यात्सैवोक्ता व्युषिताप्यथ ।हीना पितृभ्यां छेमुण्डा रोषमूका खलुङ्गिका ॥ ४१ ॥
1.4.41 · p. 24
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वन्ध्या तु केशिनी शून्या मोघपुष्पा वृथार्त्तवा ।भोण्डा वृषत्करिः सा स्याल्लोकाचारं न या चरेत् ॥ ४२ ॥
1.4.42 · p. 24
अनुष्टुप्
उच्चभाला मरुण्डा स्यात्षण् रजः पुष्पमार्त्तवम् ।स्त्रीधर्मो ना रजोऽपि स्यादथ जाया कुटुम्बिनी ॥ ४३ ॥
1.4.43 · p. 24
अनुष्टुप्
भार्या दाराः पुंसि भूम्नि स्यादेकत्वे स्त्रियामियम् ।पत्नी पाणिगृहीती च पुरन्ध्रिश्च पुरन्ध्र्यपि ।अन्या पाणिगृहीता स्यात् द्वितीया सहधर्मिणी ॥ ४४ ॥
1.4.44 · p. 25
अनुष्टुप्metre not read in every line
गुर्विण्यापन्नसत्त्वा स्यादन्तर्वत्न्युदरिण्यपि ।अस्त्रियां दोहदं क्लीबे दौहृदं लालसा स्त्रियाम् ॥ ४५ ॥
1.4.45 · p. 25
अनुष्टुप्
श्रद्धालुर्दोहदवती स्त्रियां गर्भाशयस्तु ना ।जरायुर्ना चास्त्रियां द्वे कललोल्वेऽपरामरे ॥ ४६ ॥
1.4.46 · p. 25
अनुष्टुप्
स्त्रियां क्लीबे जरायुः स्यात्सान्तमेवाथ वै पुनः ।गर्भस्यैवाष्टमो मासो देवमासोऽप्यथ स्त्रियाम् ॥ ४७ ॥
1.4.47 · p. 25
अनुष्टुप्
कुमारभृत्या सा बाल तन्त्रं गर्भिण्यवेक्षणम् ।क्लीबे विजननं गर्भो गरभोचूड इत्यपि ॥ ४८ ॥
1.4.48 · p. 25
अनुष्टुप्
प्रसवोऽपि प्रसूति स्त्री नग्निका कोटवीत्यपि ।धात्री स्यादुपमात्रर्था भर्त्तुः पत्न्यः परस्परम् ॥ ४९ ॥
1.4.49 · p. 25
अनुष्टुप्
एकपत्न्यः सपत्न्यः स्युर्गणिकादेर्गणे तु षण् ।गाणिक्यं यौवतं पौंस्नं स्त्रैणं गार्भिण्यमित्यपि ॥ ५० ॥
1.4.50 · p. 25
अनुष्टुप्
पूर्वोढा त्वधिविन्ना स्यात् पश्चादूढाधिवेदिनी ।ज्येष्ठायामप्यनूढायामूढा या स्यात्कनीयसी ॥ ५१ ॥
1.4.51 · p. 25
अनुष्टुप्
दिधीषुर्दिधिषुर्ज्येष्ठा स्यादग्रेदिधिषुः पुनः ।पुंस्येतासां धवा एते दीर्घान्ताः स्युः पुनश्च षट् ॥ ५२ ॥
1.4.52 · p. 26
अनुष्टुप्
धीपर्यायमतो प्रज्ञा प्राज्ञा प्राज्ञी ततः पुनः ।शूद्रस्य भार्या शूद्री स्याच्छूद्रा तज्जातिरङ्गना ॥ ५३ ॥
1.4.53 · p. 26
अनुष्टुप्
आभीरी तु महाशूद्री जातिपुंयोगयोः समा ।आर्याणी स्वयमर्या स्यात् क्षत्रिया क्षत्रियाण्यपि ॥ ५४ ॥
1.4.54 · p. 26
अनुष्टुप्
उपाध्यायाप्युपाध्यायी स्यादाचार्यापि च स्वतः ।आचार्याणी तु पुंयोगे स्यादार्यी क्षत्रियीति च ॥ ५५ ॥
1.4.55 · p. 26
अनुष्टुप्
उपाध्यायान्युपाध्यायी सश्मश्रुर्नरमालिनी ।नरपालिनी सा च स्यान्नरनारीविलक्षणा ॥ ५६ ॥
1.4.56 · p. 26
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नी (wrong syllable)
पोटा तु सैव पोढा तु वोढा कुहककारिका ।कानीनः स्यात्तु कन्याजे सुभगायाः सुते त्रिषु ॥ ५७ ॥
1.4.57 · p. 26
अनुष्टुप्
सौभागिनेयः स्यात्परस्त्रैणेयश्च परस्त्रियाः ।भार्योरूरन्यभार्यायां पुत्रस्योत्पत्तिकारिणि ॥ ५८ ॥
1.4.58 · p. 26
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 स्या (wrong syllable)
भार्याजितः काकरूकः स्त्रीजितः स्त्रीवशोऽपि च ।अथ धामिश्च धामी च जामिश्चैव सहोदरा ॥ ५९ ॥
1.4.59 · p. 26
अनुष्टुप्
सोदरा भगिनी भग्नी स्वसा जामिश्च सा पुनः ।ज्येष्ठा चाथ कनिष्ठा स्यादम्बिका तत्तनूद्भवे ॥ ६० ॥
1.4.60 · p. 26
अनुष्टुप्
जामेयो भागिनेयः स्यात्स्वस्रीयः कुतपो द्वयोः ।स कष्टभागिनेयो यः सपत्नीतनयः स्वसुः ॥ ६१ ॥
1.4.61 · p. 27
अनुष्टुप्
नप्ता पौत्रः पुत्रपुत्रपर्यायस्तस्य चात्मजः ।प्रतिनप्ता प्रपौत्रः स्यात्षष्ठस्तु स्यात्परंपरः ॥ ६२ ॥
1.4.62 · p. 27
अनुष्टुप्
पत्युः स्वसा ननन्दा स्यान्ननान्दा नन्दिनीति च ।प्रजावती भ्रातृजाया मातुलानी तु मातुली ॥ ६३ ॥
1.4.63 · p. 27
अनुष्टुप्
दम्पत्योर्भ्रातृवर्गस्य भार्यास्तुल्याः परस्परम् ।यातरश्चाथ दंपत्योः पितरौ श्वाशुरौ च तौ ॥ ६४ ॥
1.4.64 · p. 27
अनुष्टुप्
जरन्तकः शतानीकस्ते श्वश्र्वौ मातरौ तयोः ।स्त्रीभ्राता देवरः शालः संयुक्तो वारकीति च ॥ ६५ ॥
1.4.65 · p. 27
अनुष्टुप्
वार्गरोथ कुली श्वश्रूर्ज्येष्ठा स्त्रीभगिनी च सा ।कनीयसी तु शाली स्यात्सैवोक्ता केलिकूचिका ॥ ६६ ॥
1.4.66 · p. 27
अनुष्टुप्
तद्भर्त्तरि तु शाल्यूढा शाल्यूढोऽपि सखाप्यथ ।भर्त्तुर्भर्ता लघुर्देवा देवरो दिविरोग्रजे ॥ ६७ ॥
1.4.67 · p. 27
अनुष्टुप्
भावुकः श्वशुरो ज्येष्ठो जामाता जन्य इत्यपि ।पुत्र्यर्थेभ्यः पतिरथ दुहित्रर्थात्सुतार्थकः ॥ ६८ ॥
1.4.68 · p. 27
अनुष्टुप्
दौहित्रः समदूर्नप्ता द्वितीयकुलधारकः ।षाण्मातुरः स्यात्षण्मातृजातेऽपि स्यादथोत्तरे ॥ ६९ ॥
1.4.69 · p. 27
अनुष्टुप्
एवं द्वैमातुरेऽपि स्याद्व्याप्यस्तु पितुरग्रजे ।तत्कनिष्ठे तु कर्कः स्यात्तौ तु स्यातां पितृव्यकौ ॥ ७० ॥
1.4.70 · p. 28
अनुष्टुप्
मातुर्भ्राता मातुलः स्यान्मामको मातृकेशरः ।सकष्टमातुलो मातुः सपत्न्यास्तु सहोदरे ॥ ७१ ॥
1.4.71 · p. 28
अनुष्टुप्
पितृष्वसुस्तुक्पर्यायः पैतृष्वस्रेय इत्यपि ।मातृष्वसुः सुते मातृष्वस्रेयो मातुलात्मजे ॥ ७२ ॥
1.4.72 · p. 28
अनुष्टुप्
मातुलेयोऽथ सापत्नो वैमात्रेयो विमातृजः ।मातुः सपत्नीतनयेऽथासतीजे तु बन्धुलः ॥ ७३ ॥
1.4.73 · p. 28
अनुष्टुप्
अथ बान्धकिनेयः स्याद्भिक्षुकी त्वसती यदि ।विद्धप्रजननः स स्याद्यः स्वयं चण्डिलो भवेत् ॥ ७४ ॥
1.4.74 · p. 28
अनुष्टुप्
दासीसुते तु दासीरदासेयौ कुलटात्मजे ।कौलटेरः कौलटेयः कौलटिनेय इत्यपि ॥ ७५ ॥
1.4.75 · p. 28
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 टि (wrong syllable)
काणीपुत्रस्तु काणेयो नाटेयस्तु नटीसुते ।द्वितीयस्य पितुर्योन्नं भुक्त्वा परिणतो द्विजः ॥ ७६ ॥
1.4.76 · p. 28
अनुष्टुप्
अवटेट इति ख्यातो ज्येष्ठाजो ज्यैष्ठिनेयकः ।मुञ्जकेशो गुडाकेश उभौ वर्वरकेशिनि ॥ ७७ ॥
1.4.77 · p. 28
अनुष्टुप्
खलतिः खल्लतिर्बभ्रुर्ल्लल्लीरश्चैन्द्रलुप्तिकः ।शिपिविष्टोऽपि खल्वाटः खल्लकश्चन्द्रिकान्वितः ॥ ७८ ॥
1.4.78 · p. 28
अनुष्टुप्
चण्डो द्विनग्नोऽथ पुनश्चण्डिकोऽप्यथ संततिः ।स्त्रियां सूनुः पुमान्पुत्र आत्मजस्तनयोऽपि च ॥ ७९ ॥
1.4.79 · p. 29
अनुष्टुप्
आत्मनीनः सुतोऽपि स्यादुद्वहो नन्दनोऽपि च ।दायादः पिण्डदश्च स्यादङ्गभूर्यस्तु पञ्चमः ॥ ८० ॥
1.4.80 · p. 29
अनुष्टुप्
परंपरः पल्ययनः षष्ठस्त्वपि परंपरः ।पुत्रपौत्रान्पश्यति यः पुत्रपौत्रीण एष च ॥ ८१ ॥
1.4.81 · p. 29
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्प (wrong syllable)
बीजी तु सप्तमः पूर्वं पुमान्याभिरथाप्यमी ।पुत्रादयः स्त्रियामाहुर्दुहिताथ प्रजास्त्रियाम् ॥ ८३ ॥
1.4.83 · p. 29
अनुष्टुप्
क्लीबे बीजं स्यादपत्यं तोकं तुगपि चास्त्रियाम् ।त्रिष्वालघ्वौरसौ रस्यौ धर्मपत्नीसमुद्भवे ॥ ८४ ॥
1.4.84 · p. 29
अनुष्टुप्
मृते जारोद्भवो गोलः कुण्डो जारोद्भवोऽमृते ।दत्तको दत्रिमः पुत्रः पौत्रिकेयोऽभिसंधितः ॥ ८५ ॥
1.4.85 · p. 29
अनुष्टुप्
समानोदर्यसोदर्यसगर्भ्यसहजाः समाः ।सहोदरः सोदरोऽपि तस्मिञ्ज्येष्ठे तु पूर्वजः ॥ ८६ ॥
1.4.86 · p. 29
अनुष्टुप्
ज्यायानप्यग्रजोऽग्र्यः स्यादग्रीयोऽथ जघन्यजः ।कनिष्ठश्च यविष्ठश्च कनीयाननुजो लघुः ॥ ८७ ॥
1.4.87 · p. 29
अनुष्टुप्
यौवनं न स्त्रियां क्लीबे तारुण्यं यौवनी स्त्रियाम् ।वृद्धर्त्वं स्थाविरं क्लीबे वार्द्धकं वृद्धसंघके ।वलितः पलितोऽपि स्यात्त्रिष्वथो पलितं तु षण् ॥ ८८ ॥
1.4.88 · p. 30
अनुष्टुप्
पलितं जरसा शौक्ल्यं केशादिषु वली स्त्रियाम् ।त्वचोर्थादूर्मिपर्यायास्त्वक्तरङ्गः पुमानयम् ॥ ८९ ॥
1.4.89 · p. 30
अनुष्टुप्
अस्थ्नस्त्वक्स्नायुशैथिल्यमथोत्तानशयास्त्रिषु ।पाकोऽर्भकः शिशुः शावः पृथुको डिम्भ इत्यपि ॥ ९० ॥
1.4.90 · p. 30
अनुष्टुप्
स्यात्पोतो हितपर्यायो गर्भोऽपि गरभः पुनः ।बालो वटुर्माणवकः क्षीरकण्ठः स्तनंधयः ॥ ९१ ॥
1.4.91 · p. 30
अनुष्टुप्
स्यादुत्तानशयश्चापि दारकोऽप्यथ तद्भिदः ।जातमात्रो जातकः स्यादेकादशदिनावधि ॥ ९२ ॥
1.4.92 · p. 30
अनुष्टुप्
ततः षण्मासपर्यन्तं शिशुः संवत्सरावधि ।पृथुकोथा त्रिवर्षात्तु वटुरब्दाच्च सप्तमात् ॥ ९३ ॥
1.4.93 · p. 30
अनुष्टुप्
सुकुमारो माणवकः पौगण्डस्तु दशावधि ।कैशोर आपञ्चदशाद्युवा तु त्रिंशदब्दकः ॥ ९४ ॥
1.4.94 · p. 30
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 मा (wrong syllable)
आपञ्चाशदब्दं मध्यो वृद्धोऽशीत्यवधिस्ततः ।आसन्नास्तमयस्तत्र वर्षीयानुपधूपितः ॥ ९५ ॥
1.4.95 · p. 30
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द (wrong syllable)
तरुणस्तु वयस्थः स्याद्युवोत्पन्नवया अथ ।प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि ॥ ९६ ॥
1.4.96 · p. 31
अनुष्टुप्
झर्झरोऽपि च यामः स्याद्वर्षीयान्दशमीत्यपि ।पितामहाः पितुर्वंश्या मातुर्मातामहाश्च ते ॥ ९७ ॥
1.4.97 · p. 31
अनुष्टुप्
सर्वेऽमी पितरः पूर्वे पूर्वजा अथ बान्धवाः ।सगोत्रः स्वजनो ज्ञातिः सगन्धो बन्धुरित्यपि ॥ ९८ ॥
1.4.98 · p. 31
अनुष्टुप्
सपिण्डश्चापि दायादः सनाभिः स्वेऽप्यथ स्त्रियाम् ।जातिता बन्धुता पुंसि ज्ञातिभावो नपुंसकम् ॥ ९९ ॥
1.4.99 · p. 31
अनुष्टुप्
ज्ञातेयं देहकर्त्ता तु तातो जनयिता पिता ।जन्यो वप्रश्च सविता वप्ता जन्मार्थकारकः ॥ १०० ॥
1.4.100 · p. 31
अनुष्टुप्
पितुः पर्यायशब्देभ्यः पित्रर्थः स्यात्पितामहः ।पितामहस्य च पिता प्रपितामह इत्यपि ॥ १०१ ॥
1.4.101 · p. 31
अनुष्टुप्
मातुर्मातामहाद्येवं जननी तु प्रसूः शिफा ।अम्बा जनित्र्यम्बिका स्यादक्का मधुमती च सा ॥ १०२ ॥
1.4.102 · p. 31
अनुष्टुप्
जनयित्र्यपि माताथ पितुर्माता पितामही ।मातुर्मातामहीत्याद्या उन्नेयास्ताः क्रमादथ ॥ १०३ ॥
1.4.103 · p. 31
अनुष्टुप्
एकयोक्त्या प्रसू मातापितरौ पितरौ च तौ ।स्यातां जनयितारौ तौ मातरपितरावपि ॥ १०४ ॥
1.4.104 · p. 31
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 त (wrong syllable)
एकशेषाद्भ्रातरौ तौ भगिनीभ्रातरावुभौ ।पुत्रीपुत्रावुभौ पुत्रावथ भार्यापती च तौ ॥ १०५ ॥
1.4.105 · p. 32
अनुष्टुप्
दम्पती जम्पती जायापती अथ पुनश्च तौ ।श्वश्रू च श्वशुरौ श्वश्रू त्रिष्वितो मातृशासितात् ॥ १०६ ॥
1.4.106 · p. 32
अनुष्टुप्
अमांसो दुर्बलः शातश्छातः क्षामः शितः कृशः ।क्षीणस्तनुश्च तलिनस्तुन्दी तुन्दोऽपि चण्डिलः ॥ १०७ ॥
1.4.107 · p. 32
अनुष्टुप्
मुन्दिलस्तुन्दिकश्चापि बृहत्कुक्षिश्च तुण्डिनः ।पिचण्डिलश्चोदरिलो बलवान्मांसलोंऽसलः ॥ १०८ ॥
1.4.108 · p. 32
अनुष्टुप्
निदिग्धः स्यादुपचितो नःक्षुद्रः क्षुद्रनासिकः ।अवटीटोवनाटश्चावभ्रटो नतनासिके ॥ १०९ ॥
1.4.109 · p. 32
अनुष्टुप्
खरणाः स्यात्खरणस उन्नसस्तूग्रनासिकः ।खुरणाः स्यात्खुरणसो गन्धोपादानवर्जिते ॥ ११० ॥
1.4.110 · p. 32
अनुष्टुप्
विग्रो विघ्रश्च विनसः पीनसी गतना विखुः ।विक्लिधो घ्राणदुर्गन्धिरथ काणस्तु काननः ॥ १११ ॥
1.4.111 · p. 32
अनुष्टुप्
श्राणः स्यादेकपर्यायनेत्रार्थोऽप्यथ वक्रदृक् ।टेरो वलीरो वलिरः केकरः केदरोऽपि च ॥ ११२ ॥
1.4.112 · p. 32
अनुष्टुप्
पृश्निः पृष्णिश्चाल्पतनौ कुब्जो न्युब्जोऽप्यथो गडुः ।गडुलश्चाथ कुकरे कुणिः कूणिरतः पुनः ॥ ११३ ॥
1.4.113 · p. 32
अनुष्टुप्
बाहुकण्ठो दोर्गडुः स्यात्खर्वो ह्रस्वश्च वामनः ।विखर्वः खट्टनः खर्वशाखो वधिर एडकः ॥ ११४ ॥
1.4.114 · p. 33
अनुष्टुप्
कर्णपर्यायशून्यार्थः कल्लो वर्कर इत्यथ ।अन्धः स्यादेडमूकोऽपि दृक्पर्यायविनार्थकः ॥ ११५ ॥
1.4.115 · p. 33
अनुष्टुप्
विकलाङ्गस्तु पोगण्डः खोडखोरौ तु खञ्जके ।ऊर्ध्वज्ञश्चापि चोर्ध्वज्ञुरूर्ध्वजानुक इत्यपि ॥ ११६ ॥
1.4.116 · p. 33
अनुष्टुप्
प्रज्ञुस्तु प्रज्ञो विरलजानुः संयुतजानुकः ।संज्ञुः संज्ञोऽप्यथोदग्रदन्तो दन्तुर इत्यपि ॥ ११७ ॥
1.4.117 · p. 33
अनुष्टुप्
एडमूको नेडमूकः कलमूकोप्यवाक्श्रुतौ ।जडकाण्डो नेडमूको मूके स्यादथ काहलः ॥ ११८ ॥
1.4.118 · p. 33
अनुष्टुप्
लोहलोस्फुटवाचि स्याज्जडे नामविवर्जितः ।मूर्खो मन्दोऽपि तुन्दस्य पर्यायपरिमार्जकः ॥ ११९ ॥
1.4.119 · p. 33
अनुष्टुप्
अज्ञो जडो मातृमुखो यथाजातोऽपि बालिशः ।जाल्मो विपर्णो देवानां पर्यायेभ्यः प्रियार्थकः ॥ १२० ॥
1.4.120 · p. 33
अनुष्टुप्