All kośas › Śabdaratnāvalī
शब्दरत्नावली Śabdaratnāvalī
4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)
भूमिकाण्डः · सिंहादिवर्गप्रकाशः (2/4)
गृहिणीदं कलत्रञ्च तत् कलत्रकमित्यपि ।कुटुम्बिनी पुरन्ध्रिः स्यात् पुरन्ध्री च पुरन्ध्रिका ॥
3.5.121 · p. 91
अनुष्टुप्
पतिपुत्रदुहित्रादियुक्तायां स्याच्चतुष्टयम् ॥
3.5.122 · p. 91
एकपत्नी सती साध्वी सुचरित्रा पतिव्रता ॥
3.5.123 · p. 91
अध्यूटा चाधिविन्ना च कृतसापत्निकापि च ।सपत्नीसहितायान्तु स्त्रियामेतत् त्रयं भवेत् ॥
3.5.124 · p. 91
अनुष्टुप्
स्वयम्वरा पतिम्वरा वर्या स्वयम्वरस्त्रियाम् ।यामिर्यामी च जामी च कुलजा कुलपालिका ॥
3.5.125 · p. 91
अनुष्टुप्metre not read in every line
कुलस्त्री कुलपाली स्यात् सप्तकास्तु कूलस्त्रियाम् ।कन्यका कन्यिका कन्या कन्यका च कुमारिका ॥
3.5.126 · p. 91
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 कू (wrong syllable)
कुमार्यलकनन्दा स्यादलकाख्यापि कुत्रचित् ।सस्वेदा दूषिता धर्षकारिणी च प्रमादिका ॥दूषितायान्तु कन्यायां भवेदेतच्चतुष्टयम् ।अनागतार्तवा गौरी गौरिका नग्निकापि च ॥
3.5.127 · p. 91
अनुष्टुप्
अष्टवर्षा भवेद्गौरी दशवर्षा च कन्यका ।द्वादशाब्दा कुमारी स्यादिति केचित् प्रचक्षते ॥
3.5.128 · p. 92
अनुष्टुप्
मध्यमा स्याद्दृष्टरजास्तथा मध्यमिकेत्यपि ।युवतिर्युवती यूनी तरुणी तलुनीति च ॥
3.5.129 · p. 92
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्दृ (wrong syllable)
दिक्करी वनिका चेति धनीकापि च कुत्रचित् ।स्नुषा वधुर्वधूटी स्याद् जनी च जनिरित्यपि ॥
3.5.130 · p. 92
अनुष्टुप्
पञ्चैते पूत्रवध्वाञ्च सामान्येऽपि वधूर्जनी ।चिरिण्टी च चिरण्टी स्यात् सुवासिनी स्ववासिनी ॥
3.5.131 · p. 92
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 सि (wrong syllable)
चिरं पितृगृहस्थायां भवेदेतच्चतुष्टयम् ।इच्छावती कामुका स्यान्नृत्यादीच्छायुतस्त्रियाम् ॥
3.5.132 · p. 92
अनुष्टुप्
कामुकी तु वृषस्यन्ती रतीच्छावलितस्त्रियाम् ।कान्तमुद्दिश्य सङ्केतं या याति साभिसारिका ॥असती धर्षिणी धृष्टा पांशुला कुलटेत्वरी ।पुंश्चली स्वैरिणी दुष्टा वन्धकी धर्षितापि च ॥
3.5.133 · p. 92
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ति (wrong syllable)
वयःप्राप्ताऽनपत्या चेत् अशिश्वी स्यादशिश्विका ।विधवा जनिका रण्डा विश्वस्ता यतिनी यतिः ॥
3.5.134 · p. 92
अनुष्टुप्
पतिपुत्रवती वीरा त्ववीरा तद्विहीनतः ।मरुण्डा मरुटात्युच्चललाटायां भवेद्द्वयम् ॥
3.5.135 · p. 92
अनुष्टुप्
पालिः पाली च पालाघ्नी पालहा नवमालिका ।नवाला पालभीता च भवेत् श्मश्रुयुतस्त्रियाम् ॥
3.5.136 · p. 92
अनुष्टुप्
पुत्रिका दारुकापि स्यात् दारुस्त्री शालभञ्जिका ।शालभञ्जी च शालाङ्की षट्कं काष्ठमयस्त्रियाम् ॥विवृक्ता दुर्भगा निःस्वा सौभाग्यरहितस्त्रियाम् ।सप्तपुत्रप्रसूतायां सप्तसूः दुतवस्करा ॥
3.5.137 · p. 92
अनुष्टुप्
विश्वसूर्दशपुत्रा स्यादेकाधिका तु रुद्रसूः ।पुत्रसूः पुण्यभूमिः स्याद् धनसूः पुत्रिकाप्रसूः ॥
3.5.138 · p. 92
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 धि (wrong syllable)
सख्याल्यालिर्वयस्या च पतिवत्नी सभर्तृका ॥
3.5.139 · p. 92
पलिता जरती वृद्धा पलिक्नी च पलिक्निका ॥
3.5.140 · p. 92
प्राज्ञी प्राज्ञा घीमती च प्रज्ञाबुद्धियुतस्त्रियाम् ।शूद्रस्य भार्या शूद्री स्यात् शूद्रा तु शूद्रजातिषु ॥
3.5.141 · p. 92
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 तु (wrong syllable)
आभीरी गोपिका गोपी महाशूद्री च वल्लवी ॥
3.5.143 · p. 92
जातिपुंयोगयोस्तुल्या तथा गोपालिकापि च ।केनाप्युद्वाहिता वैश्या त्वर्यार्यानी द्वयं भवेत् ॥
3.5.144 · p. 92
अनुष्टुप्
तथा जातौ क्षत्रकन्या क्षत्रिया क्षत्रियाण्यपि ।उपाध्यायान्युपाध्यायी विद्योपदेशकारिणी ॥
3.5.145 · p. 93
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 प (wrong syllable)
आचार्या गुरुकर्मादि मन्त्रव्याख्याकृति स्त्रियाम् ।आचार्यस्य तु भार्या स्यादाचार्याणीति सा मता ॥
3.5.146 · p. 93
अनुष्टुप्
उपाध्यायान्युपाध्यायीत्युपाध्यायकलत्रके ।स्त्रीपुंसलक्षणा पोटा तथा स्यात् पोटिकेत्यपि ॥
3.5.148 · p. 93
अनुष्टुप्
वीरपत्न्यां वीरभार्या वीरसूर्वीरमातरि ।प्रसूता च प्रजाता च जातापत्या प्रसूतिका ॥
3.5.149 · p. 93
अनुष्टुप्
अथ वश्या च वशगा वशा स्याद्वशकापि च ।कोटुवी कोटवी नग्ना नग्निका नग्नयोषिति ॥
3.5.150 · p. 93
अनुष्टुप्
दूती सञ्चारिका दूतिर्दूतीका दूतिकापि च ।क्षौमांशुकार्धवृद्धा या यतिः कात्यायनी तु सा ॥
3.5.151 · p. 93
अनुष्टुप्
आत्मवश्या परगृहे नितरां शिल्पकारिणी ।सौरिन्ध्रीत्यपि सैरन्ध्री सौरीन्ध्रिश्च समीरिता ॥
3.5.152 · p. 93
अनुष्टुप्
अन्तःपुरचरी प्रैष्या युवती स्यादसिक्न्यपि ।वारस्त्री झर्झरा वेश्या शूला वारविलासिनी ॥
3.5.153 · p. 93
अनुष्टुप्
रूपाजीवा वारवाणिर्गणिका भण्डहासिनी ।सा वेश्या वारमुख्या स्यादनेकजनसत्कृता ॥
3.5.154 · p. 93
अनुष्टुप्
विप्रश्निका चेक्षणिका दैवज्ञा दैवकोविदा ।उदक्या मलिनी पुष्पवती स्त्रीधर्मिनी त्वन्बिः ॥
3.5.156 · p. 93
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 त्व (wrong syllable)
अव्यात्रेयी ऋतुमती पुष्पहासा रजस्वला ।ऋतुः स्यात् कुसुमं पुष्पमार्तवञ्च रजोरजम् ॥
3.5.157 · p. 93
अनुष्टुप्
या तु गर्भवशात् अन्नपानादेरभिलाषिनी ।श्रद्धालु दोहदवती द्वयं तत्र निगद्यते ॥
3.5.158 · p. 93
अनुष्टुप्
स्यात् निष्कली निष्कला च निष्फली निष्फलापि च ।विकली विकला चेति ऋतुहीनस्त्रियान्तु षट् ॥
3.5.159 · p. 93
अनुष्टुप्
अन्तर्वत्नी गुर्विनी स्याद् गर्भिणी गर्भवत्यपि ।ससत्त्वापन्नसत्त्वा स्यात्तथा दोहदवत्यपि ॥
3.5.160 · p. 93
अनुष्टुप्
गणिकानां समूहे तु गाणिक्यं समुदाहृतम् ।गार्भिणं गर्भिणीनाञ्च युवतीनाञ्च यौवतम् ॥
3.5.161 · p. 93
अनुष्टुप्
दिधीषु दिधिषुश्चैव पुनर्भूर्दिधिषूस्तथा ।द्विरूढायां स्त्रियामेतत् भवेदेवं चतुष्टयम् ॥
3.5.162 · p. 93
अनुष्टुप्
दिधिषु दिधिषुश्चैव द्विरूढायाः स्त्रियाः पतिः ।स्यादग्रेदिधिषूरग्रदिधिषूर्ब्राह्मणो यदि ॥
3.5.163 · p. 94
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 षु (wrong syllable)
तथा दौर्भागिनेयस्तु दुर्भगासुत ईरितः ।पारस्त्रैणेय आख्यातः सुतो जातः परस्त्रियाः ॥
3.5.165 · p. 94
अनुष्टुप्
अथ पितृस्वसेयः पैतृस्वस्रीय इत्यपि ।तथा मातृस्वसेयश्च मातृस्वस्रीय इत्यपि ॥
3.5.166 · p. 94
अनुष्टुप्metre not read in every line
बन्धुलः कौलटेरश्च कौलटेयोऽसतीसुतः ।तथा बान्धकिनेयश्च स्यात् (कौलटेकेय) इत्यपि ।अथ सत्यास्तु भिक्षुक्याः पुत्रो भवति यः पुनः ॥
3.5.167 · p. 94
अनुष्टुप्metre not read in every line
तत्र कौलटिनेयः स्यात् कौलटेयोऽपि स स्मृतः ।अथ पुत्रस्तनूजः स्यादात्मजस्तनयः सुतः ॥
3.5.168 · p. 94
अनुष्टुप्
अपत्यसूनुदायादकुलाधारकनन्दनाः ।आत्मजन्मा द्वितीयश्च प्रसूतिः स्वात्मजः स्वजः ॥
3.5.169 · p. 94
अनुष्टुप्
आत्मजा दुहिता पुत्री पुत्रिका तनुजा सुता ।अपत्यं पुत्रका स्वजा तनयापि च नन्दिनी ॥
3.5.170 · p. 94
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 स्व (wrong syllable)
अथापत्यञ्च तोकञ्च द्वितीयं पुत्रकन्ययोः ।औरस्यमौरसञ्चेति स्वजातेऽपत्यमात्रके ॥
3.5.171 · p. 94
अनुष्टुप्
तातः पिता प्रसविता वप्ता जनयिता गुरुः ।जन्मदो जनको जन्यो जनितापि च कुत्रचित् ॥
3.5.172 · p. 94
अनुष्टुप्
माता सवित्री जननी जनयित्री जनिर्जनी ।जनित्र्यक्का प्रसूरम्वा त्वभ्विकाम्बालिकापि च ॥
3.5.173 · p. 94
अनुष्टुप्
अथ भ्राता दायबन्धुस्तथा स्याद्भगिनी स्वसा ।ननान्दा नन्दिनी नन्दा ननन्दा च पतिस्वसा ॥
3.5.174 · p. 94
अनुष्टुप्
नप्त्री पौत्री पुत्रपुत्र्यां दौहित्रः कुतपोऽपि च ।भाविन्यो भ्रातृवर्गानामन्योन्यमिह यातरः ॥
3.5.175 · p. 94
अनुष्टुप्
प्रजावती भ्रातृपत्नी मातुलानी तु मातुली ।पतिपत्न्योरम्विकायां श्वश्रूरपि च साश्रुधीः ॥
3.5.176 · p. 95
अनुष्टुप्
पतिपत्न्योश्च पितरि श्वशुरः पूज्य इत्यपि ।पितृव्यो जनकभ्राता ज्येष्ठतातोऽग्रजो यदि ॥
3.5.177 · p. 95
अनुष्टुप्
पितुः कनिष्ठभ्राता तु खुल्लतातो विधीयते ।मातुर्भ्राता मातुलः स्यान्मामको मातृकेशटः ॥
3.5.178 · p. 95
अनुष्टुप्
पत्नीभ्राता च वाक्कीरः श्यालः श्यालक इत्यपि ।पत्युर्ज्येष्ठे श्वशुरको भ्रातृश्वशुर इत्यपि ॥
3.5.179 · p. 95
अनुष्टुप्
पत्नीभगिन्यां श्याली स्यात् श्यालिका केलिकुञ्चिका ।स्याद्भगिनीपतिर्भामो भामको श्रीसहासकः (?) ॥
3.5.181 · p. 95
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 गि (wrong syllable)
यामातापि च जामाता स्यात्तथा कन्यकापतिः ।पितामहः पितृपिता तत्पिता प्रपितामहः ॥
3.5.183 · p. 95
अनुष्टुप्
प्रपितामहतातस्तु स्याद्वृद्धप्रपितामहः ।मामामहादयोऽप्येवं सपिण्डास्तु सनाभयः ॥
3.5.184 · p. 95
अनुष्टुप्
समानोदर्य्यसहजसोदर्यसोदरा अपि ।सहोदरः सगर्भोऽपि सगर्भ इति कुत्रचित् ॥
3.5.185 · p. 95
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्य (wrong syllable)
ज्ञातिस्वबन्धुदायादगोत्रस्वजनबान्धवाः ।ज्ञातेयं ज्ञातिभावे स्याद् बन्धुवृन्दे च बन्धुता ॥
3.5.186 · p. 95
अनुष्टुप्
पतिः कान्तः प्राणनाथो भरुर्भर्त्ता धवः प्रियः ।हृदयेशो जीवितेशो जामाता च सुखोत्सवः ॥
3.5.187 · p. 95
अनुष्टुप्
नर्मकीलो रतगुरुः स्वामी रमण इत्यपि ।अथ जारः पापपतिः पांशुलोपपती अपि ॥
3.5.188 · p. 95
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पा (wrong syllable)
भ्रात्रीयो भ्रातृजो भ्रातृपुत्रो भ्रातृव्य इत्यपि ॥
3.5.190 · p. 96
पुत्रौ पुत्रश्च कन्या च पुत्रश्च दुहिता च तौ ।प्रकृत्यन्तरमित्येके पितरौ तातमातरौ ॥
3.5.192 · p. 96
अनुष्टुप्
तथा मातरपितरौ स्यान्मातापितराविति ।श्वश्रूश्च श्वशुरश्चेति श्वशुरौ तावुभावपि ॥
3.5.193 · p. 96
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त (wrong syllable)
दञ्च जञ्च कलत्रार्थं पतिश्चैवेति दम्पती ।जम्पती तावुभौ जायापती भार्यापती च तौ ॥
3.5.194 · p. 96
अनुष्टुप्
दम् जम्भावश्च जायायाः क्वचिदन्यैर्निगद्यते ।गर्भाशयो जरायुः स्याद् जरायुरवलापता (?) ।न स्त्रियां कललोल्वा च सप्तकं त्वामलाह्वये ॥
3.5.195 · p. 96
अनुष्टुप्
कुमारभृत्या निकीला बालतन्त्रमिति त्रयम् ।गर्भिण्या रक्षणे तन्त्रे तन्त्रकमित्यपि (स्मृतम्) ॥
3.5.196 · p. 96
metre not recognisednearly अनुष्टुप्
सूतिमासो वैजननो भ्रूणगर्भो समावुभौ ।तृतीयाप्रकृतिश्चापि तृतीयप्रकृतिस्तथा ।शण्टः षण्टश्च पण्डः (च) क्लीवः क्लीबं नपुंसकम् ॥
3.5.197 · p. 96
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अथ बृद्धत्वं वार्धक्य-वार्धक-स्थविराण्यपि ।वृद्धवृन्दे वार्धकं स्यात् विभ्रमा विस्रसा जवा ॥
3.5.199 · p. 96
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 त्वं (wrong syllable)
जरया शुक्लतायान्तु केशादेः पलितं स्मृतम् ।स्तनन्धयी च स्तनपा डिम्भोत्थानशयापि च ॥
3.5.200 · p. 96
अनुष्टुप्
वयस्थश्च वयःस्थोपि तरुणस्तलुनो युवा ।स्थविरः प्रवया वृद्धो जीर्णो जीनो जरन्नपि ॥
3.5.202 · p. 96
अनुष्टुप्
वर्षीयान् दशमी ज्यायान् अतिवृद्धे समं त्रयम् ।अथ ज्येष्ठः पूर्वजः स्यादग्रजोऽग्रिय इत्यपि ॥
3.5.203 · p. 96
अनुष्टुप्
जघन्यजः कणिष्ठः स्यात् कनीयान् अतुजोऽपि च ।स्याद्यवीयान् अवरजो जघन्योऽपि च कुत्रचित् ॥
3.5.204 · p. 97
अनुष्टुप्
वीर्यवान् मांसलश्चापि बलवान् अंसलो बली ।पिचिण्डिलो बृहत्कुक्षिस्तुन्दिकस्तुन्दिभोऽपि च ॥
3.5.206 · p. 97
अनुष्टुप्
तुन्दी तुन्दिल इत्येवं विशालजठरे जने ।अवभ्रटोऽवनाश्चावटीटो नतनासिके ॥
3.5.207 · p. 97
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
केशवान् केशिकः केशी केशवः शस्तकेशके ।उद्दन्तुरोन्नतरदौ दन्तुरोऽत्युच्चदन्तके ॥
3.5.208 · p. 97
अनुष्टुप्
बलिनो बलिभश्चेति द्वयं त्रिबलिसंयुते ।अपोगण्डस्तु पोगण्डो विकलाङ्गोऽङ्गहीनके ॥
3.5.209 · p. 97
अनुष्टुप्
वामने खर्वह्रस्वौ च नीचको नीच इत्यपि ।खरणाः स्यात् खरणसो द्वितयं तीक्ष्णनासिके ॥
3.5.210 · p. 97
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्व (wrong syllable)
अथ विख्रस्तु विग्रोऽपि द्वितयं छिन्ननासिके ।खुरणाः स्यात् खुरणसः खुरसन्निभनासिके ॥
3.5.211 · p. 97
अनुष्टुप्
अथोर्धज्ञुरूर्ध्वज्ञुश्च द्वयं स्यादूर्ध्वजानुके ।तथा संज्ञुरसंज्ञुश्च द्वयं संहतजानुके ॥
3.5.213 · p. 97
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रू (wrong syllable)
एडः स्याद्वधिरः कल्लः त्रितयं श्रवणापटौ ।कुब्जः न्युब्जस्तु गडुलो गडुरो गडुरित्यपि ॥
3.5.214 · p. 97
अनुष्टुप्
कुणिः कूणिश्च कुकरे पृथ्नि-(दल्पहेतके) रल्पशरीरके ।जङ्घाहीने श्रोणः पङ्गुः स्यान्मुण्डो मुण्डितेऽपि च ॥
3.5.215 · p. 97
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्रो (wrong syllable)
बलिरः केकरश्चापि केकरश्चापि टेरके ।खोडे खोलश्च खोरश्च खञ्जः खञ्जक इत्यपि ॥
3.5.216 · p. 97
अनुष्टुप्
स्तनन्धयादि खञ्जान्ता एते निगदितास्त्रिषु ॥
3.5.217 · p. 97
जटिलो जटुलः पिप्लुः कालकस्तु जटान्विते ।शिपिविष्टः शिविपिष्टः खल्लीटः खल्लिटोऽपि च ॥
3.5.218 · p. 97
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 वि (wrong syllable)
अरोगतायां स्वास्थ्यं स्यात्तदारोग्यमनामयम् ।अथ रोगप्रतीकारे चिकित्सा रुक्प्रतिक्रिया ॥
3.5.220 · p. 97
अनुष्टुप्
औषधं भेषजं जायुर्भैषज्यमगदोऽपि च ।उपतापो रुजा रुक् स्त्री रोगव्याध्यामया गदः ॥
3.5.221 · p. 97
अनुष्टुप्
जक्ष्मा यक्ष्मा राजयक्ष्मा पुमान् शोषः क्षयोऽपि च ।प्रतिश्यायः प्रतिश्या च पीनसो नासिकामये ।अथ स्त्री क्षुत् क्षुता छिक्का क्षवथुर्णा क्षुतं क्षवः ॥
3.5.222 · p. 98
अनुष्टुप्metre not read in every line
क्षवथुः काशकासौ च श्वयथुः शोथशोफकौ ।स्फुटी विपादिका पादस्फोटश्च स्फुटिरित्यपि ॥
3.5.223 · p. 98
अनुष्टुप्
किलासं सिध्नसिध्नञ्च छोद इत्याह्वये त्रयम् ।कच्छुः पच्छुः पाम पामा पादरोगा विचर्चिका ॥
3.5.224 · p. 98
अनुष्टुप्
खर्जूः कण्डूश्च कण्डूया कण्डूतिः कण्डुरित्यपि ।विस्फोटकस्तु विस्फोटः विटकः पिटकोऽपि च ॥
3.5.225 · p. 98
अनुष्टुप्
कामला कामलः पाण्डुः पाण्डुरः पाण्डुकोऽपि च ।औदर्यशूले स्यादीर्म मरुः क्लीबे व्रणोऽस्त्रियाम् ॥
3.5.226 · p. 98
अनुष्टुप्
अथ नाडीब्रणोऽपि स्यात्तथा नालींब्रणोऽपि च ।कोठः मण्डलकञ्चैव मण्डलाकारकुष्ठके ॥
3.5.227 · p. 98
अनुष्टुप्
श्वित्रं कुष्ठे सिते दर्द्रुर्दद्रुर्दद्रूश्च दद्रुके ।अर्शं दुर्नामकार्शसी ग्रहणी रुक् प्रवाहिका ॥
3.5.228 · p. 98
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 र्श (wrong syllable)
प्रछर्दिका वमिः स्त्री तु वमथुर्वमणं तथा ।उत्कासिकायां छर्दिः स्त्री छर्दं छर्दणमित्यपि ॥
3.5.230 · p. 98
अनुष्टुप्
व्याधिभेदा विद्रधिः स्त्री पृष्ठोदरगलव्रणे ।ज्वरस्तापकसन्तापौ मेहस्तु बहुमूत्रके ॥
3.5.231 · p. 98
अनुष्टुप्
गुदादिचिह्नतदेशे ब्रणभेदे भगन्दरः ।अश्मरी मूत्रकृच्छं स्याद् बालीशो वङ्क्षणावकः ॥
3.5.232 · p. 98
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 त (wrong syllable)
योन्यर्शः कन्दसंज्ञं स्यात् किणः सूक्ष्मव्रणेऽपि च ।अजीर्णेऽन्त्रलुमिर्वायुगण्डः स्यात् पललाशयः ॥
3.5.233 · p. 98
अनुष्टुप्
कोषबृद्धिः कुरण्डः स्याद् गर्वण्डो नाभिकण्टकः ।युवगण्डो वरण्डः स्याद् वयः स्फोटाह्वये द्वयम् ॥
3.5.235 · p. 98
अनुष्टुप्
पापरोगो रक्तवटी मसूरी च मसूरिका ।वसन्तोऽप्पतिसारः स्यादन्नगन्धिर्यमारकः ।शतारुषी शतारुश्च कुष्ठभेदे द्वयं भवेत् ॥
3.5.236 · p. 98
अनुष्टुप्metre not read in every line
विरेको रेचनं रेको रेचना च विरेचनम् ।अथ स्यात् पदगण्डीरः श्लीपदश्च शिलीपदः ॥
3.5.237 · p. 98
अनुष्टुप्
पूयकं पूयमाख्यातं व्रणादिप्लाविते रजे ।खारी खाटिरर्बुदश्च किणो व्रणादिखाटिषु ॥
3.5.238 · p. 98
अनुष्टुप्metre not read in every line
अर्बुदोऽर्मं दृष्टिरोगेप्यतः शुक्रावधेः त्रिषु ।भिषग्वैद्योऽगदङ्कारो रोगहारी चिकित्सके ॥
3.5.239 · p. 99
अनुष्टुप्