All kośas › Paryāyaśabdaratna
पर्यायशब्दरत्न Paryāyaśabdaratna
981 verses · 5,697 words tagged · 1,066 marked doubtful (dashed)
ऊर्ध्वलोकसर्गः (1/2)
पर्यायशब्दरत्नम् ।
॥ श्रीः ॥
धनंजयविरचितं पर्यायशब्दरत्नम् ।
अथ ऊर्ध्वलोकसर्गः ।
कैलासे शैलाटिं करुणारसपूर्णचित्तकमनीयम् ।प्रणमामि मूलकन्दं गौरीयुतवामभागमरुणाङ्कम् ॥ १ ॥
1.1 · p. 1
गीतिः
श्रीमद्धनंजयकविर्विबुधाग्रगण्यःसंस्तूयमानबुधपुंगवमङ्गलार्यः ।शब्देन्दुशेखरकृतिप्रविलासमान-कीर्तिर्विपक्षपरमस्तकदत्तपादः ॥ २ ॥
1.2 · p. 1
वसन्ततिलका
सोऽयं समस्तजगदन्तरचिन्त्यमान-शब्दानुशासनविचित्रपदाभिरामम् ।सर्गत्रयानुरचितं सरसानुमोद्यंनिर्माति दुर्मतिविमोहकशब्दरत्नम् ॥ ३ ॥
1.3 · p. 2
वसन्ततिलका
यच्छब्दश्रवणादेव विद्वानपि विमुह्यति ।तैरेव कुर्वे पर्यायशब्दरत्नं मनोहरम् ॥ ४ ॥
1.4 · p. 2
अनुष्टुप्
आः सन्तः सर्वशब्दानुशासनैर्निर्विशेषकैः ।सुखेनैतच्छब्दरत्नं कण्ठे कुर्वन्तु कामतः ॥ ५ ॥
1.5 · p. 2
अनुष्टुप्
ऊर्ध्वमध्यमपातालवस्तुपर्यायभासुराः ।प्राचुर्येणात्र भण्यन्ते त्रयः सर्गा मितामिताः ॥ ६ ॥
1.6 · p. 2
अनुष्टुप्
ऊर्ध्वं लेखगमानन्दमनन्तं सर्वगं पृथु ।पुष्करं दुष्करं निष्कं नभः खं नभसं नभम् ॥ ७ ॥
1.7 · p. 2
अनुष्टुप्
भगं नित्यं च नीरूपं मूलस्थानं च शाश्वतम् ।ब्राह्मीरन्ध्रं च संपूर्णं वियद्विः खगमङ्गणम् ॥ ८ ॥
1.8 · p. 2
अनुष्टुप्
नाकोऽम्बरं विष्णुतीर्थं निर्मोकः कञ्चुकोऽपि च ।कर्बुरं नभसः सोमं व्योमनं पिच्छमस्त्रियाम् ॥ ९ ॥
1.9 · p. 2
अनुष्टुप्
ब्रह्मपुर्यां ब्रह्मवेदी योगिनी नित्यसुन्दरी ।आभ्री नन्द्यानन्द(न्दि?)नी च वाची शौकी विशोधिनी ॥ १० ॥
1.10 · p. 2
अनुष्टुप्
वैष्ट्रं वासुविनोदी च गोप्त्री गुह्या विलासिनी ।ब्रह्मानन्दा ब्रह्मवृन्दाजापत्या जगती परा ॥ ११ ॥
1.11 · p. 3
अनुष्टुप्
स्यात्परेष्टिः शतधृतिर्हेमाङ्गो द्रुघणोऽपि च ।अक्षरः करणं प्राणो विराड्गोपतिगोमुखौ ॥ १२ ॥
1.12 · p. 3
अनुष्टुप्
लोकेशो लोकनाथश्च लोककर्ता डभीशुगः ।कवली कन्दरोऽब्जश्च मिठाकी मोदकप्रियः ॥ १३ ॥
1.13 · p. 3
अनुष्टुप्
तज्जटायां तु मदनं तत्खड्गे खचितः स्मृतः ।तद्दण्डे मणिदः सारः तद्धनौ घोररूपिणी ॥ १४ ॥
1.14 · p. 3
अनुष्टुप्
प्रजासृष्टिस्त (स्थ?) ले निर्विशङ्का सर्वांशदर्शनी ।तत्सभायां विशालाक्षी झराकाशी सुवर्चला ॥ १५ ॥
1.15 · p. 3
अनुष्टुप्
ब्राह्मी भगवती शाब्दी गौरी काषायमोहिनी ।गीर्गीर्वाणी गिरा बाला सा(ना?)दिनी वाग्वचाभ्रभा ॥ १६ ॥
1.16 · p. 3
अनुष्टुप्
वचनं जल्पितं नन्द्यं गदितं ब्रह्ममर्चितम् ।अस्थिरं लपितं शान्तमाहारो व्यवहारकः ॥ १७ ॥
1.17 · p. 3
अनुष्टुप्
वेदो वेदाः श्रुतिः प्रज्ञापौरुषेया त्रयी हविः ।ऋग्वेदे तु ऋगित्युक्ता ऋचा चापि ऋजा ऋजी ॥ १८ ॥
1.18 · p. 4
अनुष्टुप्
यजुर्वेदे यजुर्याज्या सामवेदे तु शामती ।गान्धर्वी मोदिनी गैती धनुर्वेदे धनुः स्मृतम् ॥ १९ ॥
1.19 · p. 4
अनुष्टुप्
छन्दः शिक्षा व्याकरणं निरुक्तं ज्योतिषं तथा ।कल्पश्चेति प्रणीतानि वेदाङ्गानि महात्मभिः ॥ २० ॥
1.20 · p. 4
अनुष्टुप्
शब्दशास्त्रे व्याकरणं साधनं शब्दसम्मतम् ।बृहत्प्रयोगं शुद्धाङ्गं शास्त्रचक्षुः पुरातनम् ॥ २१ ॥
1.21 · p. 4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व्या (wrong syllable)
तर्के न्यायो विवादी च वैयर्थी वरदा शुभा ।लोकानन्दी समर्थोऽथ पूर्वशास्त्रे तु पुण्यदा ॥ २२ ॥
1.22 · p. 4
अनुष्टुप्
कर्मिणी पूर्वमीमांसा गहना मोहिनी समा ।वेदान्तशास्त्रे वैद्यं स्यादकर्ता च स्वमोहिनी ॥ २३ ॥
1.23 · p. 4
अनुष्टुप्
अलंकृतावलंकारः शोभिनी सरसाकृती ।एवं तत्तद्ग्रन्थभेदा उन्नेयास्तत्त्ववेदिभिः ॥ २४ ॥
1.24 · p. 4
अनुष्टुप्
आम्रेडितं बहुततं पौनरुक्त्ये प्रकीर्तितम् ।निन्दावाचि विगर्हा स्यात्कुत्सा चापि विगर्हणा ॥ २५ ॥
1.25 · p. 4
अनुष्टुप्
अवर्णस्त्वपवादे स्यात्काकुर्भीत्यादिसंभवः ।अनुलापो मुहुर्भाषा प्रलापोऽनर्थवाग्भवेत् ॥ २६ ॥
1.26 · p. 4
अनुष्टुप्
निह्नवस्त्वपलापे स्यात्संदेशे वाच(चि?)कं गिरि ।अत्यर्थं संगतं सात्वं सरसं च मनोहरम् ॥ २७ ॥
1.27 · p. 5
अनुष्टुप्
ग्राम्यं तु निष्ठुरे क्लिष्टं परस्परपराहते ।लुप्तवर्णपदं ग्रस्तं निरस्तं त्वरितोदितम् ॥ २८ ॥
1.28 · p. 5
अनुष्टुप्
अविस्पष्टमथ म्लिष्टमाहतं तु मृषार्थकम् ।अम्बूकृतं सनिष्ठीवं वितथं त्वनृतं वचः ॥ २९ ॥
1.29 · p. 5
अनुष्टुप्
शब्दे निर्ह्रादनिर्घोषारावारवविरावकाः ।मर्मरो मर्मकश्च स्याद्वस्त्रपर्णध्वनौ द्वयम् ॥ ३० ॥
1.30 · p. 5
अनुष्टुप्
शिञ्जितं भूषणानां स्यादायुधानां तु बर्बरम् ।शरीराणां विशेषः स्याद्दारूणां चटकं स्मृतम् ॥ ३१ ॥
1.31 · p. 5
अनुष्टुप्
कोलाहलः कलकलो बहुजन्तुध्वनौ मतः ।वीणाशब्दे तु निक्वाणो मार्दङ्गे कुण्डकः स्मृतः ॥ ३२ ॥
1.32 · p. 5
अनुष्टुप्
काहली मुखवाद्यानां परञ्जा वेणुवादने ।जज्जनी भेरिकाशब्दे झञ्झामिति यशोध्वनौ ॥ ३३ ॥
1.33 · p. 5
अनुष्टुप्
ढिण्ढीति ढक्काशब्दे तु टण्टं पटह इष्यते ।टिण्टीत्यानकशब्दे तु कदरेति प्रकीर्तिता ॥ ३४ ॥
1.34 · p. 5
अनुष्टुप्
सारङ्गिनिनदे पादी डिण्डी स्याड्डिण्डिमध्वनौ ।एवं तत्तद्वाद्यशब्दा उन्नेया बुद्धिमत्तरैः ॥ ३५ ॥
1.35 · p. 6
अनुष्टुप्
सूक्ष्मध्वनौ काकली स्यान्मध्ये मन्द्र इतीष्यते ।अन्त्य(न्ति?)मे प्रोच्यमानेति शारीरीति त्रये स्मृता ॥ ३६ ॥
1.36 · p. 6
अनुष्टुप्
ततं वीणादिके वाद्ये नद्धं स्यान्मुरजादिके ।वंशादिके तु सुषिरं कांस्यतालादिके घनम् ॥ ३७ ॥
1.37 · p. 6
अनुष्टुप्
वैष्णवं वरदं वैभ्रं वैकुण्ठं वासुकं परम् ।परं पदं महास्थानं रङ्गं भाग्यं शरालयम् ॥ ३८ ॥
1.38 · p. 6
अनुष्टुप्
विष्वक्सेनो वरो गोप्ता मधुरो विष्टरश्रवाः ।वनमाली विधुर्विश्वंभरोङ्कारौ गदाग्रजः ॥ ३९ ॥
1.39 · p. 6
अनुष्टुप्
वैकुण्ठो मुञ्जकेशश्च दाशार्हो लोकसम्मतः ।वासुः शान्तनन्दः शौरिरिन्दीशः शंकरप्रियः ॥ ४० ॥
1.40 · p. 6
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न (wrong syllable)
चक्रे सुदर्शनं शङ्खे पाञ्चजन्यः शिखामणौ ।नन्दकी स्याद्गदायां तु मोदी कौमोदकी तथा ॥ ४१ ॥
1.41 · p. 6
अनुष्टुप्
तत्खड्गे नन्दकः प्रोक्तस्तद्दण्डे निवृतिः स्मृता ।तत्पादुके सुखासीनौ तत्पीठं सुखदं स्थिरम् ॥ ४२ ॥
1.42 · p. 7
अनुष्टुप्
इन्दी(न्द्री?)न्दिरा लोकमाता शान्ता सौभाग्यशालिनी ।भगा भाग्यवती कान्ता मारी शोभा विलासिनी ॥ ४३ ॥
1.43 · p. 7
अनुष्टुप्
कन्दर्पोऽनन्यजः कान्तः कौमारो दर्पको वशी ।प्रद्युम्नो विषमेषुश्च कुटिलः सर्वतापनः ॥ ४४ ॥
1.44 · p. 7
अनुष्टुप्
सुन्दरः सुन्दरद्वेषी चोरः स्वप्रियवेदनः ।राजमित्रः सुमसखश्चण्डश्चण्डपराक्रमः ॥ ४५ ॥
1.45 · p. 7
अनुष्टुप्
तद्धनुः शीतलः प्रोक्तस्तच्छङ्खश्च विलासकः ।तत्पत्नी तु रती रामा लोलुपा रञ्जनी समा ॥ ४६ ॥
1.46 · p. 7
अनुष्टुप्
शैवी सुखप्रदा वीरा शुभ्रा शुभ्रप्रिया वरा ।नित्या योगीन्द्रगम्या च सेव्या मृद्वी च शाश्वता ॥ ४७ ॥
1.47 · p. 7
अनुष्टुप्
अपरावृत्तनिलया निशान्ता रत्नभित्तिका ।कर्पूरवेदिका काम्या काल्पा कैलास आकरी ॥ ४८ ॥
1.48 · p. 7
अनुष्टुप्
सर्वेश्वरो वामदेवः कपाली नीललोहितः ।राजराजो देवमणिः फ(फा?)लकः कील इत्यपि ॥ ४९ ॥
1.49 · p. 7
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 दे (wrong syllable)
बभ्रुर्दक्षः शुचिः प्राणः प्रलम्बो भृगुरित्यपि ।वृषाङ्कः शम्बरः शङ्कुः केदारोऽक्षर एव च ॥ ५० ॥
1.50 · p. 7
अनुष्टुप्
नारायणो भृङ्गराजः पवित्रः कट इत्यपि ।शिपिविष्टो विराड्भानुश्चन्द्रापीडो विरोचनः ॥ ५१ ॥
1.51 · p. 8
अनुष्टुप्
श्रीपतिर्गोपतिर्गोप्ता हीरो हंसः पुरातनः ।यज्ञः सम्राड्यजः प्राज्ञः सर्वज्ञः सर्वतोमुखः ॥ ५२ ॥
1.52 · p. 8
अनुष्टुप्
कृशानुरेता दिग्वासा महाकालो महानटः ।व्योमकेशो व्योमवासा हेमकेशो हरिप्रियः ॥ ५३ ॥
1.53 · p. 8
अनुष्टुप्
बुध्नोऽप्यहिः क्रतुहरो गगनाम्बर इत्यपि ।पटकः कुहनाः शंभुर्दृष्टिगोधिर्विलोचनः ॥ ५४ ॥
1.54 · p. 8
अनुष्टुप्
विद्यानिधिः शाश्वतोऽर्यश्चार्येशो वटगो विभुः ।पश्यल्ललाटः खट्वाङ्गधरो भूतप्रियो मरुत् ॥ ५५ ॥
1.55 · p. 8
अनुष्टुप्
जटाजूटः कपर्दः स्याल्ललाटाक्षः किकीदिविः ।अजागवमजगवं धनुः खड्गेऽपराजितः ॥ ५६ ॥
1.56 · p. 8
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 व (wrong syllable)
चन्द्रहासो धालधल्यश्चर्म शाबरमिष्यते ।त्रिशूले कङ्कटः कोटी त्रिमुखी लौहितः सुकः ॥ ५७ ॥
1.57 · p. 8
अनुष्टुप्
प्रमथाः स्युः पारिषदाः परिकाः शासनप्रियाः ।नान्द्यः सभायामास्थानी चास्था वैखी विघट्टिनी ॥ ५८ ॥
1.58 · p. 8
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पा (wrong syllable)
कालिका कालका काली चाम्बिकाम्बा त्रिलोचनी ।रोहिणी धिषणा कन्या कल्याणी सर्वमङ्गला ॥ ५९ ॥
1.59 · p. 9
अनुष्टुप्
नारायणी विशालाक्षी भार्गवी विजया जया ।अदितिर्मानिनी गौरी मातङ्गी महिला शिवा ॥ ६० ॥
1.60 · p. 9
अनुष्टुप्
श्यामा षोडशवर्षा च भूषा त्रिपुरसुन्दरी ।ललिता धवला भारा लोहिता कमनी भवा ॥ ६१ ॥
1.61 · p. 9
अनुष्टुप्
स्वः स्वर्लोकः स्वर्भुवनं सैरिकः साधुसंगतः ।मन्दरो विन्दरो विन्द इन्द(न्द्र?)भूः सुरसद्म खम् ॥ ६२ ॥
1.62 · p. 9
अनुष्टुप्
नाको जीवन्तिका माला चावरोधः फलोदयः ।नभो गुलूची दुर्वारा दूर्वा चिन्तितकामदा ॥ ६३ ॥
1.63 · p. 9
अनुष्टुप्
वृद्धश्रवाः शचीनाथः पुरुहूतो जगत्पतिः ।वास्तोष्पतिर्दुश्च्यवनश्च्यवनो गर्भभिच्छरी ॥ ६५ ॥
1.65 · p. 9
अनुष्टुप्
सौख्यराजो हरिहयो राजा मारुत इत्यपि ।स्वराण्मरुत्वान् गोपाणिः शतमन्युर्दिवस्पतिः ॥ ६६ ॥
1.66 · p. 9
अनुष्टुप्
स्वरुः शम्भो भिदुर्वज्रं दम्भोलिर्भिदुरं पविः ।पवी झरी गिरी(रि?) कण्ठो(ण्टो?) व्याधावः शबलोऽक्षजः ॥ ६७ ॥
1.67 · p. 10
अनुष्टुप्
वाल्मीकं कठिनं शाम्बं लोहितं ऋजु मङ्गलम् ।चाक्षुषं भासुरं मोक्षं तेजोमयमरिंदमम् ॥ ६८ ॥
1.68 · p. 10
अनुष्टुप्
तैजसं सर्वदं मिश्रं तद्धनुः प्रोच्यते बुधैः ।तत्खड्गे मण्डलं चारु परञ्जं च पुरातनम् ॥ ६९ ॥
1.69 · p. 10
अनुष्टुप्
तत्प्रासादो वैजयन्तो भास्वरं कामदं शिवम् ।तत्सभा सुरसा धर्मा सुधर्मा नाटकी झरा ॥ ७० ॥
1.70 · p. 10
अनुष्टुप्
तद्रथे कौतुकं श्मारो वाही पूर्णोऽपराजितः ।ऐरावणः शरालिश्च दैत्यभेदी चतुर्दती ॥ ७१ ॥
1.71 · p. 10
अनुष्टुप्
ऐरावतोऽभ्रमातङ्गश्चण्डविक्रम इत्यपि ।हय उच्चैःश्रवा नीला शुभ्राङ्गी खग इन्दकः ॥ ७२ ॥
1.72 · p. 10
अनुष्टुप्
मातलिर्माकलिः शित्रो देवसारथिराशुगः ।जयन्तो विजयो मोदी सुन्दरः सुखलोलुपः ॥ ७३ ॥
1.73 · p. 10
अनुष्टुप्
सुकुमारः कुमारश्च शृङ्गारी रणदूषकः ।शची ऋभुक्षा पौलोमी रतिलोभा पृथुस्तनी ॥ ७४ ॥
1.74 · p. 10
अनुष्टुप्
सौन्दर्यगर्विता रामा चतुरा मृदुभाषिणी ।मञ्जुवाणी कीरवाणी शुकाङ्गी भाग्यशालिनी ॥ ७५ ॥
1.75 · p. 11
अनुष्टुप्
तद्ध्वजे वैजयन्तः स्याज्जर्झरः परभेदकः ।तद्धाट्यां लङ्घिनी बाला पूरणा परमावती ॥ ७६ ॥
1.76 · p. 11
अनुष्टुप्
स्तनयित्नुर्धूमयोनिर्मुदिरः शिशिरः शुची ।अजिरगः कन्दरश्च नागः कन्धर इत्यपि ॥ ७७ ॥
1.77 · p. 11
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 र (wrong syllable)
वसुधः करकः कीनः कीरः कन्दोऽनकः शुभः ।गन्धर्वनगरं देवः संवर्तो रसदोऽभ्रजित् ॥ ७८ ॥
1.78 · p. 11
अनुष्टुप्
कादम्बिनी कालिका च मेघपङ्क्तावथाशनिः ।ह्रादिनी विहृता शम्पा स्फूर्जथुः स्फुरिताक्षिभित् ॥ ७९ ॥
1.79 · p. 11
अनुष्टुप्
ऐरावती स्वर्णशाखा क्षणज्योतिः शतह्रदा ।तद्ध्वनौ रसितं छन्नं स्तनितं गर्जितं मतम् ॥ ८० ॥
1.80 · p. 11
अनुष्टुप्
इरंमदो घनज्योतिः शतभिद्भिन्नभूतलः ।धूमोष्माग्निसमुद्भूतास्त्रिविधा मेघजातयः ॥ ८१ ॥
1.81 · p. 11
अनुष्टुप्
जलगो जलकोऽग्निश्च बर्हिष्केशस्तनूनपात् ।शुष्मा कृष्णः कृष्णवर्त्मा रेटिकेतुः शिखी तथा ॥ ८२ ॥
1.82 · p. 12
अनुष्टुप्
पुष्पवानाश्रयच्छेदी रोहिताश्व उषर्बुधः ।जूर्णिः कृशो बृहद्भानुर्बलवानाशुशुक्षणिः ॥ ८३ ॥
1.83 · p. 12
अनुष्टुप्
तरणिर्दमुनाः शोणः कीली शुक्रश्च कीलकः ।हरिरप्पित्तमः शुद्धो बभ्रुरुष्णो भृगुर्विधुः ॥ ८४ ॥
1.84 · p. 12
अनुष्टुप्
दवो द वो वसुर्दक्ष उदर्चिर्भास्करोऽपि च ।त्रिधामा च वदान्यश्च विष्करो वेसुरिस्तथा ॥ ८५ ॥
1.85 · p. 12
अनुष्टुप्
उशीरः सुषिरो धूमकेतुर्यज्ञश्च पिङ्गलः ।वामनो दहनश्चिन्त्यः कामारिश्च प्रजापतिः ॥ ८६ ॥
1.86 · p. 12
अनुष्टुप्
वेदगर्भः स्वर्णरेता वण्टकः सूक्ष्मभेदकः ।कोसलः सङ्घलः सम्राट् चित्रभानुर्धनंजयः ॥ ८७ ॥
1.87 · p. 12
अनुष्टुप्
घृणिर्घृष्टिर्मयूखश्च रुगर्चिर्वर्च इत्यपि ।शोचिः केतुः पदः पादस्तेजः कान्तिर्भगो रुचिः ॥ ८८ ॥
1.88 · p. 12
अनुष्टुप्
भित्तिर्हेतिः प्रभा भानुश्चरणं किरणं द्युतिः ।उमा जिह्वा दशा कीलः कोशः काशः प्रकाशनम् ॥ ८९ ॥
1.89 · p. 13
अनुष्टुप्
शिखा मरीचिः ष्ट्यूमश्च स्थूमः शम्बः खरः शरः ।सूर्यसोमाग्निमुख्यानामंशुष्वेते प्रकीर्तिताः ॥ ९० ॥
1.90 · p. 13
अनुष्टुप्
उल्का स्यान्निर्गतज्वाला क्षारो रक्षा च भस्मनि ।तत्पत्न्यां तु स्वधा स्वाहा जिह्मा कान्तिमतीति च ॥ ९१ ॥
1.91 · p. 13
अनुष्टुप्
तत्पट्टणे चरा चारा दुर्गमा काशिकापि च ।तत्सौधे शामिनी खेगा तद्वाहे रोहितोऽखिलः ॥ ९२ ॥
1.92 · p. 13
अनुष्टुप्
सौरो वैवस्वतः सम्राड् यमराट् च परेतराट् ।परेतः समवर्ती च यमलो यम इत्यपि ॥ ९३ ॥
1.93 · p. 13
अनुष्टुप्
तस्य भार्या सुशीला स्यात्तद्वाहः कासरः स्मृतः ।तत्पुत्रः कुमुदः प्रोक्तस्तत्पुरी चित्रिताकरी ॥ ९४ ॥
1.94 · p. 13
अनुष्टुप्
तद्दूताः कालकाः स्युस्ते तद्दण्डो मूर्तिरिष्यते ।तत्पाशाः सूक्ष्मदाः कान्तास्तत्सौधं मणिशेखरम् ॥ ९५ ॥
1.95 · p. 13
अनुष्टुप्
नैऋतः कर्बुरो यातु पुण्यात्मा निर्जरोंऽशुमान् ।तत्खड्गे तु मुसुण्डः स्यात्तद्धनुः कमलं मतम् ॥ ९६ ॥
1.96 · p. 13
अनुष्टुप्
तत्पत्नी विरजा प्रोक्ता तत्पुत्रो मन्दवर्धनः ।आन्धरी नाम तत्पुर्यां तत्सौधे मणिमण्टपम् ॥ ९७ ॥
1.97 · p. 13
अनुष्टुप्
पाशी पाश्चात्य आभीलः प्रचेताश्च प्रचेतसः ।तत्पत्नी मदिला माया तत्पुत्रः पुष्कलोंऽशुमान् ॥ ९८ ॥
1.98 · p. 14
अनुष्टुप्
तत्खड्गश्चन्दनः प्रोक्तस्तत्पाशाः स्युर्मनोजवाः ।तत्पट्टणे सुखाभूमिस्तद्वाहे मकरः स्मृतः ॥ ९९ ॥
1.99 · p. 14
अनुष्टुप्
क्षेपण्यश्वसनो मारुत्पृषदश्वो मलिम्लुचः ।स्पर्शश्च स्पर्शनो वीरुदाशुगश्च प्रभञ्जनः ॥ १०० ॥
1.100 · p. 14
अनुष्टुप्
कौमारिर्मिहिरः शारो मारिसर्वगसर्वदाः ।शार्वी लक्ष्या च तत्पुर्यां शास्त्रगाधा च तद्रमा ॥ १०१ ॥
1.101 · p. 14
अनुष्टुप्
तत्खड्गे मिहिकः प्रोक्तस्तद्धनौ कीणितं मतम् ।तद्वाहे तुलिका शाणा तद्धाट्यामपराजया ॥ १०२ ॥
1.102 · p. 14
अनुष्टुप्
अरं तु त्वरिते प्रोक्तं जवे रंहस्तरस्त्वरा ।स्यादैलबिल एनाङ्कश्चैकपिङ्गो महाशुगः ॥ १०३ ॥
1.103 · p. 14
अनुष्टुप्
मनुष्यधर्मा धनदः श्रीदश्च नरवाहनः ।तद्वने स्याच्चैत्ररथं तत्पुर्यामलका मता ॥ १०४ ॥
1.104 · p. 14
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च्चै (wrong syllable)
तत्सौधे विशदः प्रोक्तस्तत्पुत्रो नलकूबरः ।तत्खड्गे कमठः कण्ठी तद्धनौ दलितः स्मृतः ॥ १०५ ॥
1.105 · p. 15
अनुष्टुप्
तत्पत्न्यां मुरजा पुत्र्यां मीनाक्षी मदिरा तथा ।ईशानो गिरिशो भोगी गिरीशो भक्तवत्सलः ॥ १०६ ॥
1.106 · p. 15
अनुष्टुप्
तद्भार्या गिरिजा पुत्रे नन्दिभो नन्दिकेश्वरः ।तन्मन्दिरे तु सौधालं तद्वाहे ढङ्क इट्चरः ॥ १०७ ॥
1.107 · p. 15
अनुष्टुप्
विभाकरोऽर्यमा ब्रध्नो भास्वत्स(स्वान्स?)प्ताश्व आञ्चलः ।भानुर्हंसः सुमाली च हरिदश्वो विकर्तनः ॥ १०८ ॥
1.108 · p. 15
अनुष्टुप्
जगद्योनिर्जगच्चक्षुः कुण्डली तरणिर्मणिः ।प्रद्योतनस्त्रयीमूर्तिर्वरुणः पृष्टिवान् खगः ॥ १०९ ॥
1.109 · p. 15
अनुष्टुप्
देवोत्तमः शुचिर्धाता लोकबन्धुर्द्विजोऽण्डजः ।भेनभातू च खद्योतो गभस्तिर्जूर्णिरित्यपि ॥ ११० ॥
1.110 · p. 15
अनुष्टुप्
उष्णस्त्वष्टा हरिर्हेलिरिनः सूनुश्च गोपतिः ।कुतपः सपु(हु?)रिस्तर्णिर्मिहिरो मण्डली ग्रही ॥ १११ ॥
1.111 · p. 15
अनुष्टुप्
ग्रहः पतंगः स्वर्भानुराशी(शि?)रश्च प्रजापतिः ।ग्रहराजश्चित्रभानुर्गरीरङ्कुश्च पुष्पवान् ॥ ११२ ॥
1.112 · p. 15
अनुष्टुप्
राकः क्रूरो विविंशश्च कठिनश्च ग्रहेश्वरः ।संज्ञा छाया च तत्पत्नी तत्पुरी भास्वती नभा ॥ ११३ ॥
1.113 · p. 16
अनुष्टुप्
चामीकरं तद्धनुः स्यात्तद्धाटी त्वजरामला ।परिवेषस्तु परिधिर्गमनं गारुडं मतम् ॥ ११४ ॥
1.114 · p. 16
अनुष्टुप्
ग्लौरात्रेयो मुरश्चन्द्रो वृष्णिर्मिहिर इत्यपि ।ष्ट्यूमः स्थ्यूमश्चर्वरश्च क्लेदुः कण्ठीरवोंऽशुमान् ॥ ११५ ॥
1.115 · p. 16
अनुष्टुप्
ग्रहश्च ग्रहराजश्च पुष्पवानमृतसृ(स्रु?)तिः ।तत्पुरे स्याच्चन्द्रमती तत्सौधे हृदयंगमम् ॥ ११६ ॥
1.116 · p. 16
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 6 त (wrong syllable); pāda 3, syllable 5 च्च (wrong syllable)
तत्पत्न्यां स्याच्चारुमती तच्छत्रे लोकसम्मतम् ।तत्पुत्रे रतिमान्वीरस्तद्धनौ तु विलोचनम् ॥ ११७ ॥
1.117 · p. 16
अनुष्टुप्
तल्लाञ्छने तु लक्षं च लक्षणं लक्ष्यमेव च ।संजीवं साकरं मोद्यं सच्छन्नमपि विद्यते ॥ ११८ ॥
1.118 · p. 16
अनुष्टुप्
तच्छोभा ललमा लाली ललामा चन्द्रिका मुदी ।भित्तं भित्तिः कलायां स्यात्प्रालेये मिहिका मता ॥ ११९ ॥
1.119 · p. 16
अनुष्टुप्
हिमानी हिमराशौ स्यात्तद्गुणे सुष(षि?)मो जडः ।भं नक्षत्रं तारकं च तारका धिष्ण्यमुन्नतम् ॥ १२० ॥
1.120 · p. 17
अनुष्टुप्