All kośas › Paryāyaśabdaratna
पर्यायशब्दरत्न Paryāyaśabdaratna
981 verses · 5,697 words tagged · 1,066 marked doubtful (dashed)
मध्यमलोकसर्गः (1/7)
इति श्रीमज्जगदेकपण्डितसार्वभौमद्विषत्कविराजशिरोमणिसंराजितपादपीठाग्रसमस्तविद्याधनंजयेन धनंजयभट्टाचार्येण विरचिते पर्यायशब्दरत्ने ऊर्ध्वलोकसर्गः प्रथमः समाप्तः ।
इति ऊर्ध्वलोकसर्गः ।
अथ मध्यमलोकसर्गः ।
शालिनी काश्यपी क्षोणिर्विपुला गह्वरी स्थिरा ।अचला सरसानन्ता मृत्सा मृत्स्ना च मृत्तिका ॥ २ ॥
2.2 · p. 25
अनुष्टुप्
प्रशस्ताथाप्रशस्ता स्यादूषरश्चोषकः खिलः ।जलराहित्यभूमौ स्यान्मरुर्धन्वा च धन्व च ॥ ३ ॥
2.3 · p. 25
अनुष्टुप्
स्यादप्रतिहतं भिन्नं खिलं चात्युन्नतस्थले ।प्रसिद्धराष्ट्रे नीवृत्स्यान्निवृद्वृदिति कथ्यते ॥ ४ ॥
2.4 · p. 25
अनुष्टुप्
विंशत्यादिग्रामदेशे तूपवर्तनमिष्यते ।वर्तनं वर्तनी च स्याद्विषयश्च षयः स्मृतः ॥ ५ ॥
2.5 · p. 25
अनुष्टुप्
पुरातने तु गोस्थाने गोष्ठीनं गोष्ठिनं मतम् ।वर्तमाने तु गोस्थाने गोष्ठं गोष्ठश्च गोष्ठकः ॥ ६ ॥
2.6 · p. 25
अनुष्टुप्
सेतौ स्यादालिरालीति स्यादली सदलीति च ।मार्गे सृतिश्च सरणिर्वर्त्मन्येकपदीति च ॥ ७ ॥
2.7 · p. 26
अनुष्टुप्
पद्या पदगता पाद्या पाद्यं तस्मिन् प्रकीर्तितम् ।कुमार्गे कुपथश्च स्यादपथो नपथः स्मृतः ॥ ८ ॥
2.8 · p. 26
अनुष्टुप्
व्यध्वो दुरध्वो विपथः कदध्वा कापथः समाः ।सुमार्गे सुपथः प्रोक्तः सुपन्थाः सत्पथश्च सः ॥ ९ ॥
2.9 · p. 26
अनुष्टुप्
समीपमार्गे स्वच्छं च प्रान्तरं सुखदं मतम् ।दूरमार्गे महाघोरं कष्टदं कठिनं तथा ॥ १० ॥
2.10 · p. 26
अनुष्टुप्
राजमार्गे तु नल्वः स्यात्पृथु संसरणं तथा ।निष्कुरं नीष्कुरं च स्यादुपनिष्कुरमित्यपि ॥ ११ ॥
2.11 · p. 26
अनुष्टुप्
प्रधानपट्टणे रम्यं स्थानीयं निगमस्तथा ।समस्तमोद्यं सरसं मोदकं पुटभेदनम् ॥ १२ ॥
2.12 · p. 26
अनुष्टुप्
पण्यवीथ्यां पणश्च स्यात्पनः पणिरिति स्मृतः ।आपणश्च निषद्या च निषिद्य इति कथ्यते ॥ १३ ॥
2.13 · p. 26
अनुष्टुप्
रथमार्गे तु विशिखा मुण्डी तोली प्रतोलिका ।प्राकाराधारभूमौ स्याच्चयः पुञ्जश्च भीषणम् ॥ १४ ॥
2.14 · p. 26
अनुष्टुप्
प्राकारे तु करः कारो वप्रो वरण इत्यपि ।गृहे तु वस्त्यं सं(प?)स्त्यं च वास्तु वासो निवासनम् ॥ १५ ॥
2.15 · p. 27
अनुष्टुप्
धिष्ण्यं निकायः संस्त्यायमुटजं कूटमस्त्रियाम् ।स्य दावासोदवसितवेश्मधाममुदाकरम् ॥ १६ ॥
2.16 · p. 27
अनुष्टुप्
एकशाले तु शालीयं द्विशाले शालिकं स्मृतम् ।त्रिशाले शालिशाल्ये द्वे भाशालीति च भण्यते ॥ १७ ॥
2.17 · p. 27
अनुष्टुप्
आवशनं शिल्पिगेहे वाजिगेहे तु मन्दुरा ।प्रतिश्रयः सत्रगेहे बेला गञ्जा सुरागृहे ॥ १९ ॥
2.19 · p. 27
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 श (wrong syllable)
राजस्त्रीणां तु निलये त्ववरोधनमण्डलम् ।अवरोधो विरोधश्च सुरोधो रोध इत्यपि ॥ २० ॥
2.20 · p. 27
अनुष्टुप्
अङ्गणे त्वङ्गमसलमजरं चाजिरं तथा ।द्वारे तु प्रतिहारः स्याद्वारिति प्रोच्यते बुधैः ॥ २१ ॥
2.21 · p. 27
अनुष्टुप्
तदधोदशेदारोस्तु देहली दिहलीति च ।तदूर्ध्वदारुणि प्रोक्ता स्याना नासा च नासिका ॥ २२ ॥
2.22 · p. 27
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शे (wrong syllable)
पार्श्वदारो पक्षकः स्यात्पाक्षः पक्षकृदक्षपः ।नासासमानदारोस्तु पालिका च कपोतिका ॥ २३ ॥
2.23 · p. 28
अनुष्टुप्
कपोतपालिका चाथ तदाधारे तु कुट्टिमः ।अश्वो वलिन्दः कमनश्चाथ पक्षकपार्श्वगे ॥ २४ ॥
2.24 · p. 28
अनुष्टुप्
तद्बन्धदारुणि प्रोक्तो विष्कम्भश्चार्गलं तथा ।अयोविकारे तु सदः संननादो विघण्टकः ॥ २६ ॥
2.26 · p. 28
अनुष्टुप्
वसथः संवसथश्च ग्रामे संवासथश्च सः ।ग्रामान्तमुपशल्यं स्याद्ग्रामसीमा तु गामिनी ॥ २८ ॥
2.28 · p. 28
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 स (wrong syllable)
विप्रग्रामेऽग्रहारः स्यादग्रश्चाहार उत्तमः ।क्षत्रियाणां मिरञ्जीको वैश्यानां पालिको मतः ॥ २९ ॥
2.29 · p. 28
अनुष्टुप्
एतदादिग्रामभेदे गोभिलः परिकीर्तितः ।गोपग्रामे तु घोषः स्याच्छबराणां तु पक्कणः ॥ ३० ॥
2.30 · p. 29
अनुष्टुप्
रजकानां तु मञ्जीलो नापितानां कलिञ्जनः ।तान्तुवाये तु तरलस्तुरष्काणां तु शंसकः ॥ ३१ ॥
2.31 · p. 29
अनुष्टुप्
दाशानां शासनं प्रोक्तो घूर्जराणां विशारदः ।शिल्पीनां शालिकः प्रोक्तो निषादानां तु कश्मलः ॥ ३२ ॥
2.32 · p. 29
अनुष्टुप्
पर्वते विपुलाहार्यग्रावाणो गोत्रभूभृतौ ।फलके स्नुः सानुरिति स्यादुत्सः स्वल्पवाहिनी ॥ ३३ ॥
2.33 · p. 29
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सा (wrong syllable)
प्रकृष्टनद्यां निर्झः स्यान्निर्झरो झर इत्यपि ।अधित्यकाद्रेरूर्ध्वा भूः समीपा भूरुपत्यका ॥ ३४ ॥
2.34 · p. 29
अनुष्टुप्
सिंहे हर्यक्षपिङ्गाक्षचित्रकायमहाबलाः ।तनुमध्यः पञ्चनखः पञ्चाक्षः पञ्चकोपनः ॥ ३५ ॥
2.35 · p. 29
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable)
व्याघ्रे द्विपादद्विपिनौ(?) मसूरश्चण्डकोपनः ।शिवाङ्गे तु तरक्षुः स्यात्तरक्षश्च विसारकः ॥ ३६ ॥
2.36 · p. 29
अनुष्टुप्
वराहे दन्तपाण्डित्यः स्तब्धरोमा किरिः किटिः ।दंष्ट्री पोत्री गरः क्रोडः कुभित्पुष्पप्रकोपनः ॥ ३७ ॥
2.37 · p. 29
अनुष्टुप्
महिष सिरिणः पोटी सैरणश्चण्डमाद्यकः ।सैरिभः कासरः पण्डः परमार्थी हयद्विषः ॥ ३८ ॥
2.38 · p. 30
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ष (wrong syllable)
सृगाले वञ्चकः फेरुः क्रोष्टा दक्षश्च बुद्धिमान् ।मार्जाले तु वृषादोतुः पुत्रिकारिर्गृहालयः ॥ ३९ ॥
2.39 · p. 30
अनुष्टुप्
उडो(डौ?)गा(गौ?)धेयगोधाशकीटदारुणदन्तकाः ।एदौ तु शललं शल्यं शलः श्वावित्तरक्षकः ॥ ४० ॥
2.40 · p. 30
अनुष्टुप्
वृके तु कोकस्त्वीहाश ईहामृग इभप्रियः ।कुरङ्गे मृदुचर्मा स्याद्वातायुर्वायुमोदकः ॥ ४१ ॥
2.41 · p. 30
अनुष्टुप्
वानायुर्विततः कोरो भीतदृष्टिश्चलात्मकः ।श्वेतकण्ठे तु चीनः स्याच्चिनो नीलकलेवरे ॥ ४२ ॥
2.42 · p. 30
अनुष्टुप्
युद्धशौण्डे तु कदली चमूरुर्युद्धभीतके ।प्रियकः श्वेतपुच्छे स्यात्समूरुः सर्वतः सिते ॥ ४३ ॥
2.43 · p. 30
अनुष्टुप्
पादवक्त्रश्वेतमृगे पण्डितः कमलोऽरुणे ।मुखश्वेते पृषत्कोणः कण्ठिकः कमलोदरः ॥ ४४ ॥
2.44 · p. 30
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्वे (wrong syllable)
आवत्सरात्तु जिङ्कः स्थाद्दशवर्षः कपोतनः ।पक्षवर्षे तु कालीनो रुरुर्विंशतिवत्सरः ॥ ४५ ॥
2.45 · p. 31
अनुष्टुप्
सारः कृष्णश्च रङ्कुश्च कृष्णसारः सुराकृतौ ।मण्डलादिक्रमेणैव कुण्डलीत्यादिकं विदुः ॥ ४६ ॥
2.46 · p. 31
अनुष्टुप्
गोकर्णः पीलुकर्णश्च पृषतोऽप्येण ऋश्यकः ।रोहितः कुण्डपालाद्या मृगभेदा इतीरिताः ॥ ४७ ॥
2.47 · p. 31
अनुष्टुप्
बाल्ये मोदः प्रियङ्गश्च गन्धर्वो यौवने स्मृतः ।वार्धक्ये सृमरश्चेति मृगाणां भेद ईरितः ॥ ४८ ॥
2.48 · p. 31
अनुष्टुप्
रौहिषः शम्बरः कण्वः शैलमेषे जतुप्रियः ।उन्दुरुर्मूषके तु स्यात्सरटे कृकलासकः ॥ ४९ ॥
2.49 · p. 31
अनुष्टुप्
लूतायां तन्तुवायुः(यः?) स्यादूर्णनाभश्च मर्कटः ।नीलङ्गुस्तु क्रिमौ कर्णजलूका शतपत्स्मृतः ॥ ५० ॥
2.50 · p. 31
अनुष्टुप्
स्यात्पत्रवृश्चिके शूककीटः स्याद्वृश्चिके त्वलिः ।पारावत्स्यात्कलरवे पत्री श्येने प्रकीर्तितः ॥ ५१ ॥
2.51 · p. 31
अनुष्टुप्
उलूके पेचकः पेचो नीले स्यात्खञ्जरीटकः ।लोहपृष्ठश्च कङ्कश्च दृढे तस्मिन्प्रकीर्तितः ॥ ५२ ॥
2.52 · p. 31
अनुष्टुप्
गुडकाके तु छा(चा?)षः स्यात्किकी चापि दिवो दिविः ।धूम्याटे तु कलिङ्गः स्याद्दार्वाघाटे तु पत्रकः ॥ ५३ ॥
2.53 · p. 32
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तु (wrong syllable)
स्तोककश्चातके प्रोक्तः कृकवाक(कु?)स्तु कुक्कटे ।आत्मघोषस्तु काके स्यात्काकोलो वृद्धकारवे ॥ ५४ ॥
2.54 · p. 32
अनुष्टुप्
दात्यूहे दित्यवाहः स्याद्विचारो दित्यवाट् चरः ।कालकण्ठः कालगलो नीलकण्ठो विरोचनः ॥ ५५ ॥
2.55 · p. 32
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
आतापी चिल्लिपक्षी स्याद्दाक्षाय्यो गृध्रपक्षिणि ।बकमात्रे कजीवी स्यात्कह्वः कठिनमानसः ॥ ५६ ॥
2.56 · p. 32
अनुष्टुप्
पुष्कराह्वयनामाः स्यात्सारसे मेघलोलुपः ।उत्क्रोशे कुररः प्रोक्तः कुरण्टश्च कुरण्टकः ॥ ५७ ॥
2.57 · p. 32
अनुष्टुप्
आतिश्चाटिः शरारिश्च पुंसि माने प्रयोगिताः ।वरटा बिसकण्ठी च कण्ठिका हंसिका स्मृता ॥ ५८ ॥
2.58 · p. 32
अनुष्टुप्
चिकुवायां चर्मपत्रा जतुका प्रौढकण्ठिका ।परोष्णी श्रोत्रकण्ठी ना तीक्ष्णः स्यात्तैलपायिका ॥ ५९ ॥
2.59 · p. 32
अनुष्टुप्
चर्वणा वर्वणा चैव मक्षिकायां प्रकीर्तिता ।पतङ्गिका पतङ्गा च दंशश्च वनमक्षिका ॥ ६० ॥
2.60 · p. 33
अनुष्टुप्
अथ तु प्रसरा तीव्रा सरघा मधुमक्षिका ।अरण्यमशके दंशी ग्राम्ये स्वल्पायुरिष्यते ॥ ६१ ॥
2.61 · p. 33
अनुष्टुप्
झिल्लिकायां तु गन्धोलिर्भृङ्गारी वरणा चिरी ।चिरिका चीरिका चाथ खद्योतो ज्योतिरिङ्गणः ॥ ६२ ॥
2.62 · p. 33
अनुष्टुप्
भ्रमरे पुष्पलिट् प्रोक्तो मधुव्ययकरोऽप्यलिः ।भृङ्गो मधुलिहः पुष्पनन्दी मधुकरः समः ॥ ६३ ॥
2.63 · p. 33
अनुष्टुप्
मयूरे मेघनादी स्याद्बर्ही बर्हिण इत्यपि ।पिच्छः शिखण्डस्तद्बर्हे तच्चूडा पिण्डिका स्मृता ॥ ६४ ॥
2.64 · p. 33
अनुष्टुप्
शकुन्ते तु नगौकाः स्याद्गरुत्मान्विकिरोऽपि विः ।वाजी विविष्करः पत्रः पत्री पत्ररथः पतत् (न्?) ॥ ६५ ॥
2.65 · p. 33
अनुष्टुप्
पित्सन्विहायसः पक्षी नीडजोऽण्डज इत्यपि ।हारितो वनकाके स्यान्मद्गुः स्याज्जलवायसे ॥ ६६ ॥
2.66 · p. 33
अनुष्टुप्
कारण्डवे तु कारण्डः प्लवः स्याज्जलकुक्कुटे ।लावे तु ककुभः प्रोक्तो लकुमुक्यां तु टिट्टिभः ॥ ६७ ॥
2.67 · p. 34
अनुष्टुप्
कोयष्टिकष्टिट्टिभकष्टिट्टिः कष्टक्रियाकरः ।पल्यङ्कपत्री पाराशो वर्तकः कङ्कमोचकः ॥ ६८ ॥
2.68 · p. 34
अनुष्टुप्
पक्षिणां तूर्ध्वगमने तूड्डीनं चोड्डिनं तथा ।अधोगतौ विदारिः स्यात्पलायनगतौ पलः ॥ ६९ ॥
2.69 · p. 34
अनुष्टुप्
संतोषगमने सण्डी सण्डीनं चापि सण्डिनम् ।अण्डे तु पेशीकोशः स्यात्पेशः(शी?) कोशश्च कथ्यते ॥ ७० ॥
2.70 · p. 34
अनुष्टुप्
समुदाये समुदयो व्यूहो वाह(र?)श्चयो गणः ।समवायश्च पटलं निकरश्चक्रवालकम् ॥ ७१ ॥
2.71 · p. 34
अनुष्टुप्
पेटिका चक्रकं चैव वितानं मण्डलं तथा ।मार्गजन्तुव्रजे सार्थो वर्गोऽभिन्नकदम्बके ॥ ७२ ॥
2.72 · p. 34
अनुष्टुप्
समूहः पुञ्जितश्चैव सजातीयगणे स्मृतः ।यूथं तिर्यग्जातिवृन्दे समजः पशुसंहतौ ॥ ७३ ॥
2.73 · p. 34
अनुष्टुप्
समाजस्त्वन्यजन्तूनां निकायः समवृत्तिनाम् ।धान्यादिवृन्दे राशिः स्यादुत्करश्च करो विसत् (?) ॥ ७४ ॥
2.74 · p. 35
अनुष्टुप्
गृहासक्ताः पक्षिमृगाश्छेकास्ते गृह्यकाश्च ते ।वने तु कदलाः स्थूलाः कलपाः परिवालकाः ॥ ७५ ॥
2.75 · p. 35
अनुष्टुप्
प्रतीपदर्शनी चेला कामिन्यां वामलोचना ।उत्तमस्त्री वरारोहा चोत्तमा मत्तकाशिनी ॥ ७६ ॥
2.76 · p. 35
अनुष्टुप्
कुटुम्बपोषकायां तु पुरन्ध्री च दयावती ।अध्यूढा चाधिविन्ना च कृतसापत्न्यकस्त्रियाम् ॥ ७७ ॥
2.77 · p. 35
अनुष्टुप्
पतिंवरा तु कन्या स्यात्सुचरित्रा पतिव्रता ।संतानसंपाद(दि?)कायां संप्रोक्ता कुलपालिका ॥ ७८ ॥
2.78 · p. 35
अनुष्टुप्
अनागतार्तवा सप्तवर्षाधिकवयोयुता ।नग्निका जिजिका गौरी लज्जिकेति च गीयते ॥ ७९ ॥
2.79 · p. 35
अनुष्टुप्
सुवासिनी चिरण्टी स्यात्कमलाकरकारिका ।स्यात्पुत्रभार्यायां नीला जननी जरिका जनी ॥ ८० ॥
2.80 · p. 35
अनुष्टुप्
स्वनाथेऽभिरतायां तु कामुकी कामुकेति च ।परनाथे रतायां तु पांसुला चर्षणीति च ॥ ८१ ॥
2.81 · p. 35
अनुष्टुप्
कर्षकी बन्धकी चैव कांसला चेत्वरी सरा ।कुलटा स्वैरिणी मन्दा चालिनी व्यभिचारिणी ॥ ८२ ॥
2.82 · p. 35
अनुष्टुप्
पतिपुत्रविहीनायामवीरा मलिनेति च ।पुत्रमात्रविहीनायामशिश्वी पुत्रगर्धिनी ॥ ८३ ॥
2.83 · p. 36
अनुष्टुप्
विवाहे भर्तृसहिता पतिवत्नी सभर्तृका ।वृद्धकान्ता पलिक्नी स्याद्वलिनी कष्टकालया ॥ ८४ ॥
2.84 · p. 36
अनुष्टुप्
विशेषलौक्याभिज्ञाना प्राज्ञी प्रज्ञा विलासिनी ।प्रकृष्टबुद्ध्यां प्राज्ञा स्याद्विज्ञाना घनमानसा ॥ ८५ ॥
2.85 · p. 36
अनुष्टुप्
शूद्रजातिस्त्रियां शूद्रा शूद्रपत्नी तु शूद्रिका ।शूद्री चापि विजातीया चाथ चाभीरमोदिनी ॥ ८६ ॥
2.86 · p. 36
अनुष्टुप्
आभीरीत्येव कथिता सर्वासामेवमेव सा ।आ(अ)र्याणी चार(र्य?)का चार्या सत्कुलोत्पन्ननायिका ॥ ८७ ॥
2.87 · p. 36
अनुष्टुप्
ब्रह्मजात्युद्भवा ब्राह्मी ब्राह्मणी चेति कथ्यते ।क्षत्रियाणी क्षत्रिया च क्षत्रजा परिसम्मता ॥ ८८ ॥
2.88 · p. 36
अनुष्टुप्
वैशी वैश्या विडङ्गा च वैश्यजा शूद्रजा कृता ।प्रसूता सूततनया पोटा स्त्रीपुंसलक्षणा ॥ ८९ ॥
2.89 · p. 36
अनुष्टुप्
बलादपेतवस्त्रायां कोटरी परिकीर्तिता ।राजभार्यागृहे दासी स्यादसिक्नी सुकेशिनी ॥ ९० ॥
2.90 · p. 36
अनुष्टुप्
विटवेश्यायोजनी स्याद्धिनस्ती शम्बलीति च ।कुट्टनी कदसी चाथ दैवज्ञा चेक्षणी तथा ॥ ९१ ॥
2.91 · p. 37
अनुष्टुप्
विप्रश्निका चेक्षणिका दासी जन्मप्रबोधिनी ।रजस्वलायामविरा चात्रेयी मलिनी तथा ॥ ९२ ॥
2.92 · p. 37
अनुष्टुप्
उदक्या चाथ गर्भिण्यां श्रद्धालुर्दोहदप्रदा ।निवृत्तरजसो नाम निष्कला चाथ गर्भिणी ॥ ९३ ॥
2.93 · p. 37
अनुष्टुप्
गुर्विणी चाथ संप्रोक्ता विवाहद्वयसंस्कृता ।दिधिषूश्च पुनर्भूश्च दिधिषुश्चापि कथ्यते ॥ ९४ ॥
2.94 · p. 37
अनुष्टुप्
भागवत्याः सुतः सौभागिनेयो भाग्यवान्स्मृतः ।पारस्त्रेणेय इत्युक्तः परस्त्रीसंभवः सुतः ॥ ९५ ॥
2.95 · p. 37
अनुष्टुप्
सुते तु व्यभिचारिण्याः बन्धुलः कौलटेयकः ।कौलटेयः कौलटेरो बान्धक्यः पलिकश्च सः ॥ ९६ ॥
2.96 · p. 37
अनुष्टुप्
भिक्षुक्यां कुलटा प्रोक्ता तत्पुत्री कौलटेयका ।कौलटेयः कौलटिनेयः कौलटिक इत्यपि ॥ ९७ ॥
2.97 · p. 37
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कौ (wrong syllable)
तोकं पुत्रदुहित्रोश्च पुत्रे चोरस्य इष्यते ।पुत्रिकायां तु दुहिता दुही दोग्धीति कथ्यते ॥ ९८ ॥
2.98 · p. 37
अनुष्टुप्
भ्रातृवर्गस्य भार्यास्तु यातरः कथिता बुधैः ।प्रजावती भ्रातृजाया मातुलानी तु मातुली ॥ ९९ ॥
2.99 · p. 38
अनुष्टुप्
पतिभ्रातरि देवा स्याद्देवरश्च प्रकीर्तितः ।एकोदरेषु सोदर्यः सगर्भः सहजोऽपि च (?) ॥ १०० ॥
2.100 · p. 38
अनुष्टुप्
सनाभयः सपिण्डाः स्युर्ज्ञातेयं ज्ञातिता स्मृता ।सति भर्तरि कुण्डः स्यान्मृते भर्तरि गोलकः ॥ १०१ ॥
2.101 · p. 38
अनुष्टुप्
पितरौ श्वशुरौ पुत्रौ दम्पती द्वन्द्ववाचकाः ।उल्बं जरायुषि प्रोक्तं तस्मिन्गर्भाश्रयोऽपि च ॥ १०२ ॥
2.102 · p. 38
अनुष्टुप्
शुक्लशोणितसंयोगे कललं कल इत्यपि ।सूतिमासो वैजननो वार्धं वृद्धकुरुम्बके ॥ १०३ ॥
2.103 · p. 38
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वै (wrong syllable)
तृतीयाप्रकृतिः शब्दः पुमान्षण्डे प्रकीर्तितः ।जरायां विस्रसा प्रोक्ता पौरुषेये (सुतायां स्त्री?) सुते पुमान् ॥ १०४ ॥
2.104 · p. 38
अनुष्टुप्
अप्युत्तानशयो डिम्बः स्तनपाश्च स्तनंधयी ।वृद्धे जिनो जिरो(जरी?) जीर्णः प्रवयाः प्रकचः कवः ॥ १०५ ॥
2.105 · p. 38
अनुष्टुप्
अतिवृद्धे तु दशमी ज्यायाञ्शब्दश्च कथ्यते ।तुन्दिले तुण्डिभस्तुण्डी तुण्डिकश्चापि तुण्डिलः ॥ १०६ ॥
2.106 · p. 38
अनुष्टुप्
अथावभ्रटोऽवटीटः स्यात्किञ्चिन्निम्ननासिके ।अवनाटश्च चरटो वलिनो वलिभो वली ॥ १०७ ॥
2.107 · p. 39
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 भ्र (wrong syllable)
खर्वो वामनो वामे स्यात्पोगण्डो विकलाङ्गके ।गोखुराकृतिनासे तु खुरणः(णाः ?)खरणास्तथा ॥ १०८ ॥
2.108 · p. 39
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नो (wrong syllable)
ख(खु?)रण(णा?)सः खरणसस्तीक्ष्णनासे प्रकीर्तितौ ।विच्छिन्ननासिके विग्रो विखुर्विख इति स्मृतः ॥ १०९ ॥
2.109 · p. 39
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ण (wrong syllable)
गमने संताड्यमानजानुके संज्ञुरिष्यते ।वातादिदोषकुटिलजानुके प्रज्ञुरिष्यते ॥ ११० ॥
2.110 · p. 39
अनुष्टुप्
शिरोर्ध्वजानुके प्रोक्तश्चोर्ध्वज्ञुरुपवेशनात् ।एडस्तु बधिरे वातदोषस्थौल्यस्य वक्षसः ॥ १११ ॥
2.111 · p. 39
अनुष्टुप्
पृष्ठभागस्य च तथा गडुर्गडुल इत्यपि ।स्पृश्नी(पृश्नि?)स्त्वत्यल्पदेहे स्याच्छ्रोणः पङ्गौ प्रकीर्तितः ॥ ११२ ॥
2.112 · p. 39
अनुष्टुप्
वलिरः केकरश्चापि तिर्यग्दृष्टौ प्रकीर्तितौ ।खञ्जः स्यात्खोडखोरौ च(?) भग्नपादे प्रकीर्तितौ ॥ ११३ ॥
2.113 · p. 39
अनुष्टुप्
नीलबिन्दुस्त्वक्प्रदेशे तिलकस्तिलकालकः ।कालको जडुलः पिप्लुः कालः कालकरण्डकः ॥ ११४ ॥
2.114 · p. 39
अनुष्टुप्
औषधादौ तु जायुः स्यादुपतापो गदे पुमान् ।यक्ष्मा तु रोगराजे स्यात्प्रतिश्यायस्तु पीनसः ॥ ११५ ॥
2.115 · p. 40
अनुष्टुप्
क्षुतिः क्षुतं क्षुवः क्षुच्च कासः स्यात्कासरोगके ।श्वयथुः शोफशोषौ च शोषरोगे प्रकीर्तितौ ॥ ११६ ॥
2.116 · p. 40
अनुष्टुप्
कुष्ठरोगे व्याधियुतः पादस्फोटो विपादिका ।कण्ठादिरोगभेदे स्यात्किलासं सिध्ममित्यपि ॥ ११७ ॥
2.117 · p. 40
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व्या (wrong syllable)
गज्जिरोगे तु कच्छा(च्छूः?) स्यात्पाम पामा विचर्चिका ।कण्डूतौ पिटकः खर्जुर्विस्फोटो विकट(टक?)स्तथा ॥ ११८ ॥
2.118 · p. 40
अनुष्टुप्
अरुरीर्मं व्रणे मण्डलाकृतौ कुष्ठभेदके ।कोठो मण्डलकं चाथ चार्शे दुर्नामकं मतम् ॥ ११९ ॥
2.119 · p. 40
अनुष्टुप्
विण्मूत्रविष्टम्भरोगे त्वानाहः परिकीर्तितः ।एतत्प्रवाहरोगे तु ग्रहणी परिकीर्तितः ॥ १२० ॥
2.120 · p. 40
अनुष्टुप्