कलक
kalakaपुं · masc.In 4 kośas: 4 synonym verses.
शकुले स्यात्कलकोऽथ गडकः शकुलार्भकः ॥ १३४५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शुभ्रं सुगन्धिकं चापि कलकं चाथ शेखरम् ।स्त्रियां लवङ्गकलिका दिव्यं क्लीबे न च स्त्रियाम् ॥ ४०३ ॥
अनुष्टुप्
genderक्लीneut.
चित्रवल्लकपाठीनौ कलकः शकुलस्तु ना? ।उलूपी शिशुके प्रोष्ठी शफरः श्वेतकोलके ॥ २४३ ॥
अनुष्टुप्
genderपुंmasc.
शकुले कलकः स्याच्च गडके शकुलार्भकः ।उलूपी शिशुके स्याच्च शफरे श्वेतकोलकः ॥ २४४३ ॥
अनुष्टुप्
genderपुंmasc.