कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Abhidhānacintāmaṇi

अभिधानचिन्तामणि Abhidhānacintāmaṇi

1,988 verses · 12,741 words tagged · 2,473 marked doubtful (dashed)

तिर्यक्काण्डः · पञ्चेन्द्रियाः (2/2)

चक्रमण्डल्यजगरः पारीन्द्रो वाहसः शयुः ।
4.9.121 · p. 50
अनुष्टुप्
अलगर्दो जलव्यालः समौ राजिलदुन्दुभौ ॥ १३०५ ॥
4.9.1305 · p. 50
अनुष्टुप्
भवेत्तिलित्सो गोनासो गोनसो घोणसोऽपि च ।
4.9.123 · p. 50
अनुष्टुप्
कुक्कुटाहिः कुक्कुटाभो वर्णेन च रवेण च ॥ १३०६ ॥
4.9.1306 · p. 50
अनुष्टुप्
नागाः पुनः काद्रवेयास्तेषां भोगावती पुरी ।
4.9.125 · p. 50
अनुष्टुप्
शेषो नागाधिपोऽनन्तो द्विसहस्राक्ष आलुकः ॥ १३०७ ॥स च श्यामोऽथवा शुक्लः सितपङ्कजलाञ्छनः ।
4.9.126 · p. 50
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 स्तु (wrong syllable)
वासुकिस्तु सर्पराजः श्वेतो नीलसरोजवान् ॥ १३०८ ॥
4.9.1308 · p. 50
अनुष्टुप्metre not read in every line
तक्षकस्तु लोहिताङ्गः स्वस्तिकाङ्कितमस्तकः ।
4.9.128 · p. 50
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 स्तु (wrong syllable); pāda 3, syllable 6 ति (wrong syllable)
महापद्मस्त्वतिशुक्लो दशबिन्दुकमस्तकः ॥ १३०९ ॥
4.9.1309 · p. 50
metre not recognised
शङ्खस्तु श्वेतो बिभ्राणो रेखामिन्दुसितां गले ।
4.9.130 · p. 50
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 तो (wrong syllable); pāda 3, syllable 4 र्द्ध (wrong syllable)
कुलिकोऽर्द्धचन्द्रमौलिर्ज्वालाधूमसमप्रभः ॥ १३१० ॥
4.9.1310 · p. 50
metre not recognised
अथ कम्बलाश्वतरधृतराष्ट्रबलाहकाः ।इत्यादयोऽपरे नागास्तत्तत्कुलसमुद्भवाः ॥ १३११ ॥
4.9.1311 · p. 50
अनुष्टुप्metre not read in every line
निर्मुक्तो मुक्तनिर्मोकः सविषा निर्विषाश्च ते ।
4.9.133 · p. 50
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्तु (wrong syllable)
नागाः स्युर्दृग्विषा लूमविषास्तु वृश्चिकादयः ॥ १३१२ ॥
4.9.1312 · p. 50
अनुष्टुप्metre not read in every line
व्याघ्रादयो लोमविषा नखविषा नरादयः ।लालाविषास्तु लूताद्याः कालान्तरविषाः पुनः ॥ १३१३ ॥मूषिकाद्या दूषीविषं त्ववीर्यमोषधादिभिः ।
4.9.135 · p. 50
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 वि (wrong syllable)
कृत्रिमं तु विषं चारं गरश्चोपविषं च तत् ॥ १३१४ ॥
4.9.1314 · p. 50
अनुष्टुप्metre not read in every line
भोगोऽहिकायो दंष्ट्राशीर्दर्वी भोगः फटः स्फटः ।फणोऽहिकोशे तु निर्ल्वयनी निर्मोककञ्चुकाः ॥ १३१५ ॥
4.9.1315 · p. 50
अनुष्टुप्

इति स्थलचरपञ्चेन्द्रियाः

विहगो विहंगमखगौ पतगो विहंगः शकुनिः शकुन्तिशकुनौ विवयः शकुन्ताः ।नभसंगमो विकिरपत्त्ररथौ विहायो द्विजपक्षिविष्किरपतत्रिपतत्पतङ्गाः ॥ १३१६ ॥पित्सन्नीडाण्डजोगौकाश्चञ्चुश्चञ्चू सृपाटिका ।त्रोटिश्च पत्त्रं पतत्रं पिच्छं वाजस्तनूरुहम् ॥ १३१७ ॥पक्षो गरुच्छदश्चापि पक्षमूलं तु पक्षतिः ।
4.9.138 · p. 50
metre not recognised
प्रडीनोड्डीनसंडीनडयनानि नभोगतौ ॥ १३१८ ॥
4.9.1318 · p. 50
अनुष्टुप्
पेशीकोशोऽण्डे कुलायो नीडे केकी तु सर्पभुक् ।मयूरबर्हिणौ नीलकण्ठो मेघसुहृच्छिखी ॥ १३१९ ॥शुक्लापाङ्गोऽस्य वाक्केका पिच्छं बर्हं शिखण्डकः ।प्रचलाकः कलापश्च मेचकश्चन्द्रकः समौ ॥ १३२० ॥
4.9.1320 · p. 50
अनुष्टुप्
वनप्रियः परभृतस्ताम्राक्षः कोकिलः पिकः ।कलकण्ठः काकपुष्टः काकोऽरिष्टः सकृत्प्रजः ॥ १३२१ ॥आत्मघोषश्चिरजीवी घूकारिः करटो द्विकः ।एकदृग्बलिभुग्ध्वाङ्क्षो मौकुलिर्वायसोऽन्यभृत् ॥ १३२२ ॥
4.9.1322 · p. 50
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
वृद्धद्रोणदग्धकृष्णपर्वतेभ्यस्त्वसौ परः ।वनाश्रयश्च काकोलो मद्गुस्तु जलवायसः ॥ १३२३ ॥
4.9.1323 · p. 50
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ण (wrong syllable)
घूके निशाटः काकारिः कौशिकोलूकपेचकाः ।दिवान्धोऽथ निशावेदी कुक्कुटश्चरणायुधः ॥ १३२४ ॥कृकवाकुस्ताम्रचूडो विवृताक्षः शिखण्डिकः ।
4.9.143 · p. 50
अनुष्टुप्
हंसाश्चक्राङ्गवक्राङ्गमानसौकः सितच्छदाः ॥ १३२५ ॥
4.9.1325 · p. 50
अनुष्टुप्
राजहंसास्त्वमी चञ्चुचरणैरतिलोहितैः ।
4.9.145 · p. 51
अनुष्टुप्
मल्लिकाक्षास्तु मलिनैर्धार्तराष्ट्राः सितेतरैः ॥ १३२६ ॥
4.9.1326 · p. 51
अनुष्टुप्
कादम्बास्तु कलहंसाः पक्षैः स्यादतिधूसरैः ।
4.9.147 · p. 51
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
वारला वरला हंसी वारटा वरटा च सा ॥ १३२७ ॥
4.9.1327 · p. 51
अनुष्टुप्metre not read in every line
दार्वाघाटः शतपत्त्रः खञ्जरीटस्तु खञ्जनः ।
4.9.149 · p. 51
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 त (wrong syllable); pāda 3, syllable 4 स्तु (wrong syllable)
सारसस्तु लक्ष्मणः स्यात्पुष्कराख्यः कुरंकरः ॥ १३२८ ॥
4.9.1328 · p. 51
metre not recognised
सारसी लक्ष्मणाथ क्रुङ्क्रौञ्चे चाषे किकीदिविः ।
4.9.151 · p. 51
अनुष्टुप्
चातकः स्तोकको बप्पीहः सारङ्गो नभोऽम्बुपः ॥ १३२९ ॥
4.9.1329 · p. 51
अनुष्टुप्
चक्रवाको रथाङ्गाह्वः कोको द्वन्द्वचरोऽपि च ।
4.9.153 · p. 51
अनुष्टुप्
टिट्टिभस्तु कटुक्वाण उत्पादशयनश्च सः ॥ १३३० ॥
4.9.1330 · p. 51
अनुष्टुप्
चटको गृहबलिभुक्कलविङ्कः कुलिङ्ककः ।
4.9.155 · p. 51
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 गृ (wrong syllable)
तस्य योषित्तु चटका स्त्र्यपत्ये चटका तयोः ॥ १३३१ ॥
4.9.1331 · p. 51
अनुष्टुप्metre not read in every line
पुमपत्ये चाटकैरो दात्यूहे कालकण्ठकः ।जलरङ्कुर्जलरञ्जो बके कह्वो बकोटवत् ॥ १३३२ ॥
4.9.1332 · p. 51
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 ल (wrong syllable)
बलाहकः स्याद्बलाको बलाका बिसकण्ठिका ।
4.9.158 · p. 51
अनुष्टुप्
भृङ्गः कलिङ्गो धूम्याटः कङ्कस्तु कमनच्छदः ॥ १३३३ ॥लोहपृष्ठो दीर्घपादः कर्कटः स्कन्धमल्लकः ।
4.9.159 · p. 51
अनुष्टुप्
चिल्लः शकुनिरातापी श्येनः पत्त्री शशादनः ॥ १३३४ ॥
4.9.1334 · p. 51
अनुष्टुप्
दाक्षाय्यो दूरदृग्गृध्रोऽथोत्क्रोशो मत्स्यनाशनः ।कुररः कीरस्तु शुको रक्ततुण्डः फलादनः ॥ १३३५ ॥
4.9.1335 · p. 51
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र (wrong syllable)
शारिका तु पीतपादा गोराटी गोकिराटिका ।
4.9.162 · p. 51
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
स्याच्चर्मचटकायां तु जतुकाऽजिनपत्त्रिका ॥ १३३६ ॥
4.9.1336 · p. 51
अनुष्टुप्metre not read in every line
वल्गुलिका मुखविष्टा परोष्णी तैलपायिका ।
4.9.164 · p. 51
अनुष्टुप्metre not read in every line
कर्करेटुः करेटुः स्यात्करटुः कर्कराटुकः ॥ १३३७ ॥
4.9.1337 · p. 51
अनुष्टुप्metre not read in every line
आटिरातिः शरारिः स्यात्कृकणक्रकरौ समौ ।
4.9.166 · p. 51
अनुष्टुप्
भासे शकुन्तः कोयष्टौ शिखरी जलकुक्कुभः ॥ १३३८ ॥
4.9.1338 · p. 51
अनुष्टुप्
पारापतः कलरवः कपोतो रक्तलोचनः ।
4.9.168 · p. 51
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
ज्योत्स्नाप्रिये चलचञ्चुचकोरविषसूचकाः ॥ १३३९ ॥
4.9.1339 · p. 51
अनुष्टुप्metre not read in every line
जीवंजीवस्तु गुन्द्रालो विषदर्शनमृत्युकः ।
4.9.170 · p. 51
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्तु (wrong syllable)
व्याघ्राटस्तु भरद्वाजः प्लवस्तु गात्रसंप्लवः ॥ १३४० ॥
4.9.1340 · p. 51
अनुष्टुप्metre not read in every line
तित्तिरिस्तु खरकोणो हारीतस्तु मृदङ्कुरः ।
4.9.172 · p. 51
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
कारण्डवस्तु मरुलः सुगृहश्चञ्चुसूचिकः ॥ १३४१ ॥
4.9.1341 · p. 51
अनुष्टुप्metre not read in every line
कुम्भकारकुक्कुटस्तु कुक्कुभः कुहकस्वनः ।
4.9.174 · p. 51
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र (wrong syllable)
पक्षिणा येन गृह्यन्ते पक्षिणोऽन्ये स दीपकः ॥ १३४२ ॥
4.9.1342 · p. 51
अनुष्टुप्metre not read in every line
छेका गृह्याश्च ते गेहासक्ता ये मृगपक्षिणः ।
4.9.176 · p. 51
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 थु (wrong syllable)

इति खचरपञ्चेन्द्रियाः

मत्स्यो मीनः पृथुरोमा झषो वैसारिणोऽण्डजः ॥ १३४३ ॥संघचारी स्थिरजिह्व आत्माशी स्वकुलक्षयः ।विसारः शकली शल्की शंबरोऽनिमिषस्तिमिः ॥ १३४४ ॥
4.9.1344 · p. 51
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
सहस्रदंष्ट्रे वादालः पाठीने चित्रवल्लिकः ।
4.9.178 · p. 51
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
शकुले स्यात्कलकोऽथ गडकः शकुलार्भकः ॥ १३४५ ॥
4.9.1345 · p. 51
अनुष्टुप्metre not read in every line
उलूपी शिशुके प्रोष्ठी शफरः श्वेतकोलके ।
4.9.180 · p. 51
अनुष्टुप्
नलमीनश्चिलिचिमो मत्स्यराजस्तु रोहितः ॥ १३४६ ॥
4.9.1346 · p. 51
अनुष्टुप्
मद्गुरस्तु राजशृङ्गः शृङ्गी तु मद्गुरप्रिया ।
4.9.182 · p. 51
अनुष्टुप्metre not read in every line
क्षुद्राण्डमत्स्यजातं तु पोताधानं जलाणुकम् ॥ १३४७ ॥
4.9.1347 · p. 51
अनुष्टुप्metre not read in every line
महामत्स्यास्तु चीरिल्लितिमिंगिलगिलादयः ।
4.9.184 · p. 51
अनुष्टुप्
अथ यादांसि नक्राद्या हिंसका जलजन्तवः ॥ १३४८ ॥
4.9.1348 · p. 51
अनुष्टुप्
नक्रः कुम्भीर आलास्यः कुम्भी महामुखोऽपि च ।तालुजिह्वः शङ्खमुखो गोमुखो जलसूकरः ॥ १३४९ ॥
4.9.1349 · p. 51
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable); pāda 3, syllable 5 श (wrong syllable)
शिशुमारस्त्वम्बुकूर्म उष्णवीर्यो महावसः ।
4.9.187 · p. 51
अनुष्टुप्
उद्रस्तु जलमार्जारः पानीयनकुलो वसी ॥ १३५० ॥
4.9.1350 · p. 51
अनुष्टुप्
ग्राहे तन्तुस्तन्तुनागोऽवहारो नागतन्तुणौ ।अन्येऽपि यादोभेदाः स्युर्बहवो मकरादयः ॥ १३५१ ॥
4.9.1351 · p. 51
अनुष्टुप्
कुलीरः कर्कटः पिङ्गचक्षुः पार्श्वोदरप्रियः ।द्विधागतिः षोडशांह्रिः कुरचिल्लो बहिश्चरः ॥ १३५२ ॥
4.9.1352 · p. 51
अनुष्टुप्
कच्छपः कमठः कूर्मः क्रोडपादश्चतुर्गतिः ।पञ्चाङ्गगुप्तदौलेयौ जीवथः कच्छपी दुली ॥ १३५३ ॥
4.9.1353 · p. 51
अनुष्टुप्
मण्डूके हरिशालूरप्लवभेकप्लवंगमाः ।वर्षाभूः प्लवगः शालुरजिह्वव्यङ्गदर्दुराः ॥ १३५४ ॥स्थले नरादयो ये तु ते जले जलपूर्वकाः ।
4.9.192 · p. 51
अनुष्टुप्
अण्डजाः पक्षिसर्पाद्याः पोतजाः कुञ्जरादयः ॥ १३५५ ॥
4.9.1355 · p. 51
अनुष्टुप्
रसजा मद्यकीटाद्या नृगवाद्या जरायुजाः ।
4.9.194 · p. 51
अनुष्टुप्
यूकाद्याः स्वेदजा मत्स्यादयः सम्मूर्च्छनोद्भवाः ॥ १३५६ ॥
4.9.1356 · p. 51
अनुष्टुप्
उद्भिदः खञ्जनाश्चोपपादुका देवनारकाः ।
4.9.196 · p. 52
अनुष्टुप्
त्रसयोनय इत्यष्टावुद्भिदुद्भिज्जमुद्भिदम् ॥ १३५७ ॥
4.9.1357 · p. 52
अनुष्टुप्