कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

शकुलार्भक

śakulārbhakaपुं · masc.

In 6 kośas: 6 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1345 · p. 51
शकुले स्यात्कलकोऽथ गडकः शकुलार्भकः ॥ १३४५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वारिवर्गः Amarakośa 1.10.17
पृथुरोमा झषो मत्स्यो मीनो वैसारिणोऽण्डजः ।विसारः शकुली चाथ गडकः शकुलार्भकः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वारिवर्गः Koṣakalpataru 1.7.83 · p. 108
स्थिरजिह्वश्चानिमिष आत्माश्यप्सुचरस्तथा ।स्याद्दण्डपालः शकुलः गडकः शकुलार्भकः ॥ ८३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्चा (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2443 · p. 394
शकुले कलकः स्याच्च गडके शकुलार्भकः ।उलूपी शिशुके स्याच्च शफरे श्वेतकोलकः ॥ २४४३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.334 · p. 45
तिमिस्तिमिंगिलः शृङ्गी वीरल्लश्च महाझषाः ।शफरः शफरी प्रोष्ठी गण्ड(ड?)कः शकुलार्भकः ॥ ३३४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश सरीसृपाध्यायः Vaijayantī 4.1.45 · p. 151
नलमीनश्चिलिचिमो गण्डकाः शकुलार्भकाः ।क्षुद्राण्डो मत्स्यसंघातः पोताधानं नपुंसकम् ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.