कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Paramānandīyanāmamālā

परमानन्दीयनाममाला Paramānandīyanāmamālā

1,849 verses · 15,356 words tagged · 1,353 marked doubtful (dashed)

तृतीयः परिच्छेदः (3/4)

संघचारी झषो मस्त्यो मीनो वैसारिणोऽप्यसौ ।अण्डजः स्थिरजिह्वोऽपि विसारः स्वकुलक्षयः ॥ २४१ ॥
3.241 · p. 82
अनुष्टुप्
शकली च नरे शल्की शम्बोऽनिमिषस्तिमिः ।मत्स्यजातेरथो भेदान्कियतोऽपि वदाम्यहम् ॥ २४२ ॥
3.242 · p. 82
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
चित्रवल्लकपाठीनौ कलकः शकुलस्तु ना? ।उलूपी शिशुके प्रोष्ठी शफरः श्वेतकोलके ॥ २४३ ॥
3.243 · p. 82
अनुष्टुप्
सहस्रदंष्ट्रवादालौ राजशृङ्गस्तु मद्गुरे ।शिशुमारो जले कूर्मो महावक्त्रस्तु कुम्भिनि ॥ २४४ ॥
3.244 · p. 82
अनुष्टुप्
मत्स्यराजो लोहितः स्याज्जलौतुस्तूद्र उच्यते ।यादांसि जलजीवाः स्युः सामान्येनाप्यनेकशः ॥ २४५ ॥
3.245 · p. 82
अनुष्टुप्
महावसस्तूष्णवीर्यो जलशूकरगोमुखौ ।तन्तुर्ग्राहे तथा तन्तुनागः कुत्रापि तन्तुणः ॥ २४६ ॥
3.246 · p. 83
अनुष्टुप्
आलास्यनक्रकुम्भीरा जलजो नकुलो वसी ।चतुर्गतिः क्रोडपदः कमठे कू[46]र्मकच्छपौ ॥ २४७ ॥
3.247 · p. 83
अनुष्टुप्
पञ्चाङ्गगुप्तदौलेयौ दुली स्यात्कमठी समे ।दर्दुरे भेकमण्डूकौ वर्षाभूः प्लवगः पुनः ॥ २४८ ॥
3.248 · p. 83
अनुष्टुप्
प्लवंगमहरी शालूरो व्यङ्गः कुत्रचित्स्मृतः ।इत्यादयोऽपरे भेदा ज्ञेया ग्रन्थान्तरे स्वयम् ॥ २४९ ॥
3.249 · p. 83
अनुष्टुप्
स्थले नरादयो ये तु ते जले जलपूर्वकाः ।देशभाषाविभागेन स्वयं ज्ञेया अनेकशः ॥ २५० ॥
3.250 · p. 83
अनुष्टुप्
दुगतिर्नरकश्चैव निरयो नारकः पुनः ।तत्रोत्पन्नाः पापजीवा नारकः कथिताः स्मृतौ ॥ २५१ ॥
3.251 · p. 83
अनुष्टुप्
विष्टिराजूर्यातना तु कारणा तीव्रवेदना ।पुंसलिङ्गस्तथा नागलोकः पातालमुच्यते ॥ २५२ ॥
3.252 · p. 83
अनुष्टुप्
रसातलं बलेर्वेश्माधोजगद्वडवामुखम् ।रोपं छिद्रं तथा रन्ध्रं विवरं शुषिरं शुषिः ॥ २५३ ॥
3.253 · p. 83
अनुष्टुप्
रोकं बिलं निर्व्यथनं तथा निम्नं वपान्तरे ।श्वभ्रागाधावटा गर्तः पातालाख्येऽयमुच्यते ॥ २५४ ॥
3.254 · p. 83
अनुष्टुप्
विष्टपं भुवनं विश्वं जगल्लोको जगत्यपि ।जीवः स्यात्पुरुषः क्षेत्रज्ञात्मानावसुमानथ ॥ २५५ ॥
3.255 · p. 84
अनुष्टुप्
जन्तुः पुनर्भवी जन्युः सत्त्वं देहभृदप्यसौ ।उत्पत्तिरुद्भवो जन्म जननं जनिरुच्यते ॥ २५६ ॥
3.256 · p. 84
अनुष्टुप्
क्लीबलिङ्गे जनुः षान्तं जीवातुर्जीवनागदे ।श्वसितं श्वास इत्येवमुच्छ्वासोऽन्तर्मुखे मतः ॥ २५७ ॥
3.257 · p. 84
अनुष्टुप्
आहरानावथो बाह्यः श्वासो निःश्वास एतनः ।आयुर्जीवितकालः स्यान्मानसं हृदयं मनः ॥ २५८ ॥
3.258 · p. 84
अनुष्टुप्
हृदन्तःकरणं चेतश्चित्तं स्वान्तं तथोच्चलम् ।संकल्पः स्यान्मनःकर्म सुखं निर्वृतिशर्मणी ॥ २५९ ॥
3.259 · p. 84
अनुष्टुप्
सौख्यं सातं तथा दुःखं पीडा स्यादर्तिवेदने ।कष्टं कृच्छ्रं व्यथा बाधा स्यादाभीलं तथाशुभम् ॥ २६० ॥
3.260 · p. 84
अनुष्टुप्
आधिर्मनोभवा पीडा आमनस्यं प्रगाढतः ।अत्यन्तपीडने चैव सपत्राकृतिरुच्यते ॥ २६१ ॥
3.261 · p. 84
अनुष्टुप्
निष्पत्राकृतिरप्येवं क्षुत्पीडा जाठराग्निजा ।निर्णयो निश्चयस्तुल्यो अविद्याहंमतिः स्त्रियाम् ॥ २६२ ॥
3.262 · p. 85
अनुष्टुप्
अज्ञानं तु भ्रमे भ्रान्तिर्मिथ्यामतिविपर्ययौ ।अतत्त्वे तत्त्वबुद्धिश्च संदेहः संशयः समौ ॥ २६३ ॥
3.263 · p. 85
अनुष्टुप्
आरेकद्वापरे तुल्ये संख्योहा चर्चया सह ।आद्यज्ञानमुपज्ञा स्यात्संस्कारो वासना मता ॥ २६४ ॥
3.264 · p. 85
अनुष्टुप्
स्वरूपं सहजो रूपतत्त्वं सर्गो निसर्गवत् ।प्रीतौ प्रेम स्नेहहार्दे समाधाववधानता ॥ २६५ ॥
3.265 · p. 85
अनुष्टुप्
कैवल्यममृतं सिद्धिर्महानन्दोऽपुनर्भवः ।मुक्तिर्ब्रह्म शिवं मोक्षो निर्वृतिः श्रेयसा सह ॥ २६६ ॥
3.266 · p. 85
अनुष्टुप्
महोदयापवर्गौ च निर्वाणं सर्वदुःखहृत् ।निःश्रेयसं च निर्याणं मोक्षनामान्यमूनि हि ॥ २६७ ॥
3.267 · p. 85
अनुष्टुप्
प्रणिधानसमाधानावधानान्यपि तत्र च ।अनुकूलता दाक्षिण्ये परवाक्यसहिष्णुता ॥ २६८ ॥
3.268 · p. 85
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ता (wrong syllable)
मङ्गः पुण्यं वृषो धर्मः सुकृतं श्रेयसा सह ।अशुभं कल्मषं पापं वृजिनं किण्वपातके ॥ २६९ ॥
3.269 · p. 85
अनुष्टुप्
अंहो दुष्कृतमेनश्चाघं कल्कं तमसा सह ।दुरितं किल्बषं चापि पङ्कः कलुषमेव च ॥ २७० ॥
3.270 · p. 86
अनुष्टुप्
भावुकं भविकं भव्यं भद्रमदे समे उभे ।मङ्गलं कुशलं श्रेयः क्षेमोऽस्त्री श्वोवसीयसम् ॥ २७१ ॥
3.271 · p. 86
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)
श्वःश्रेयसं शिवं शस्तं शुभं कल्याणनाम च ।शुभावहो विधिर्ना यः प्रधानं प्रकृतिः स्त्रियाम् ॥ २७२ ॥
3.272 · p. 86
अनुष्टुप्
भागधेयविधी भाग्यं दैवं च नियतिस्तथा ।अयो दिष्टमथालक्ष्मीर्निर्ऋतिः कालकर्णिका ॥ २७३ ॥
3.273 · p. 86
अनुष्टुप्
चतुर्वर्गो धर्मकाममोक्षवित्ताख्यभेदतः ।अभिप्रायाशयौ तुल्यौ मताकूतेऽपि सम्मते ॥ २७४ ॥
3.274 · p. 86
अनुष्टुप्
इन्द्रियं करणं खं तु हृषीकं श्रोतसा सह ।अक्षं विषयिसंज्ञं च रूपाद्यर्थनिबन्धनम् ॥ २७५ ॥
3.275 · p. 86
अनुष्टुप्
रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी ।गोचरा इन्द्रियार्थाश्च विशिष्यैवं विभाव्यताम् ॥ २७६ ॥
3.276 · p. 86
अनुष्टुप्
क्रियेन्द्रियं पाणिमुख्यं स्पर्शनादि मतीन्द्रियम् ।------------ [48] सुशीमः शिशिरो जडः ॥ २७७ ॥
3.277 · p. 86
metre not recognised
तुषारः शीतलः शीतो हिमोऽपि कथितो बुधैः ।उष्णस्तीव्रः खरस्तीक्ष्णः पटुतिग्मौ मनागथ ॥ २७८ ॥
3.278 · p. 87
अनुष्टुप्
मन्दोष्णश्च कवोष्णश्च कदुष्णः कोष्ण इत्यपि ।कर्कशः पुरुषः क्रूरः कक्खटो निष्ठुरः पुनः ॥ २७९ ॥
3.279 · p. 87
अनुष्टुप्
कठोरकठिनौ तुल्यौ दृढे ननु खरः समः ।कोमलं मृदुलं तुल्यं सोमालसुकुमारके ॥ २८० ॥
3.280 · p. 87
अनुष्टुप्
गुल्यस्वादू च मधुरो रसज्येष्ठो मधूलकः ।अम्लो दन्तशठः प्रोक्तः पाचनोऽपि निरीक्ष्यते ॥ २८१ ॥
3.281 · p. 87
अनुष्टुप्
ओषणो वक्त्रभेदी च कटुतिक्तौ समावुभौ ।सरः सर्वरसश्चैव लवणोऽपि तथोच्यते ॥ २८२ ॥
3.282 · p. 87
अनुष्टुप्
कटुः स्यादोषणो वक्त्रशोधनश्च समो मतः ।वक्त्रभेदी तु तिक्तः स्याद्विशेषोऽयं निरीक्ष्यताम् ॥ २८३ ॥
3.283 · p. 87
अनुष्टुप्
कषायतुबरौ तुल्यौ निर्हारी घ्राणतर्पणः ।इष्टगन्धिः समाकर्षी सुगन्धिः सुरभिस्तथा ॥ २८४ ॥
3.284 · p. 87
अनुष्टुप्
विमर्दोत्थः परिमलः आमोदः स विदू[र]गः ।मुखवासन आमोदी विशषो गन्धगोचरः ॥ २८५ ॥
3.285 · p. 87
अनुष्टुप्
दुर्गन्धिः पूतगन्धिस्तु विस्रं स्यादामगन्धि यत् ।शुक्लः श्वेतः सितः शुभ्रो गौरः स्याद्धवलोऽर्जुनः ॥ २८६ ॥
3.286 · p. 88
अनुष्टुप्
वलक्षहरिणौ पाण्डुपाण्डरौ पाण्डरोऽपि च ।शुचिः श्येतावदातौ तु धूसरस्त्वल्पपाण्डुरे ॥ २८७ ॥
3.287 · p. 88
अनुष्टुप्
कापोतस्तु कपोताभः कालः कृष्णोऽसितः शितिः ।श्याममेचकरामास्तु नीलः श्यामलकः समौ ॥ २८८ ॥
3.288 · p. 88
अनुष्टुप्
हारिद्रः पीतलः पीतो गौरः स्यात्सितरञ्जनः ।हरितस्तालकाभश्च पालाशोऽप्यथ लोहिते ॥ २८९ ॥
3.289 · p. 88
अनुष्टुप्
अरुणो रोहितो रक्तशोणौ रक्तसिते अथ ।पाटलोऽप्यरुणो बालसन्ध्याभः पीतरक्तके ॥ २९० ॥
3.290 · p. 88
अनुष्टुप्
पिञ्जरः कपिलः पिङ्गपिशङ्गौ कपिशो हरिः ।कडारः श्यावबभ्रू च कद्रुरेतस्तु कर्बुरे ॥ २९१ ॥
3.291 · p. 88
अनुष्टुप्
कल्माषशबलौ चित्रकिर्मीरौ चित्रलश्च सः ।[49] ध्वनिः स्वानो रवो नादः शब्दो निर्घोषनिःस्वनौ ॥ २९२ ॥
3.292 · p. 88
अनुष्टुप्
स्वरो ह्रादारवौ क्काणः स्वनः क्कणरणावपि ।संगीते तु स्वराः सप्त षड्जगान्धारनामकौ ॥ २९३ ॥
3.293 · p. 88
अनुष्टुप्
ऋषभो मध्यमः पञ्चमो निषादोऽथ धैवतः ।तद्भेदा मन्द्रमध्याख्यताराः स्थानादिभेदतः ॥ २९४ ॥
3.294 · p. 88
अनुष्टुप्
क्रन्दितं रुदितं क्रुष्टं प्रणादः सीत्कृते नृणाम् ।पर्दनं गुदजः शब्दः कर्दनं तूदरोद्भवः ॥ २९५ ॥
3.295 · p. 89
अनुष्टुप्
क्ष्वेडा सिंहध्वनिः शब्दस्तुमुलो व्याकुलः स्वनः ।भटानां तु कलकलः कोलाहल इतीरितः ॥ २९६ ॥
3.296 · p. 89
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
मर्मरो वस्त्रपत्राणां शिञ्जितं भूषणोद्भवे ।वाजिनां हेषया ह्रेषा करिणां गर्जबृंहिते ॥ २९७ ॥
3.297 · p. 89
अनुष्टुप्
शब्दे धनुर्भवेऽथ स्याद्विस्फारोऽथाब्दनिस्वने ।गर्जिस्तु गर्जितं चैव स्वनितं स्तनितं समम् ॥ २९८ ॥
3.298 · p. 89
अनुष्टुप्
पक्षिणां कूजितं नादस्तिरश्चां वासितं रुतम् ।भषणं बुक्कनं श्वानध्वाने रेषा वृकोद्भवे ॥ २९९ ॥
3.299 · p. 89
अनुष्टुप्
कणितं पीडितध्वाने सुरते मणितं रवः ।गुन्दलो मर्दलोद्भूते प्रक्वणस्तन्त्रिकारवः ॥ ३०० ॥
3.300 · p. 89
अनुष्टुप्
क्षीजनं वंशजे शब्दे टुट्टुरो भेरिसंभवे ।तारोऽत्युच्चैर्ध्वनिर्मन्द्रो गम्भीरो मधुरः कलः ॥ ३०१ ॥
3.301 · p. 89
अनुष्टुप्
शब्दविकृतिकाकू तु प्रतिशब्दप्रतिध्वनी ।इत्थं शब्दोद्भवो वर्गो विशेषेण विवेचितः ॥ ३०२ ॥
3.302 · p. 89
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 वि (wrong syllable)
समूहः प्रकरः संघो निकरौघव्रजा अपि ।संघातो मण्डलं चक्रवालं वृन्दकदम्बके ॥ ३०३ ॥
3.303 · p. 90
अनुष्टुप्
कलापः पटलं कूटं स्तोमो व्रातगणावपि ।संहतिः संचयो जातं चयो निवहजालके ॥ ३०४ ॥
3.304 · p. 90
अनुष्टुप्
राशिर्विस[र]पुञ्जौ च संदोहो व्यूहपेटके ।उत्करः समवायोऽपि यूथं तिर्यग्गणे मतम् ॥ ३०५ ॥
3.305 · p. 90
अनुष्टुप्
प्राणिनां संघसार्थौ तु निकायस्तुल्यधर्मिणाम् ।सजातीनां कुलं चैव वर्गः स्यात्सदृशां पुनः ॥ ३०६ ॥
3.306 · p. 90
अनुष्टुप्
पशूनां समजः संघः समाजो देहिनां स तु ।शुकानां शौकमित्यादिप्रत्ययैः स्यात्तदर्थकैः ॥ ३०७ ॥
3.307 · p. 90
अनुष्टुप्
मायूरतैत्तिरादीनि नामानि स्युस्तदर्थतः ।कथ्यन्ते तेऽपि संघार्थः प्रत्ययाः कतिचिन्मया ॥ ३०८ ॥
3.308 · p. 90
अनुष्टुप्
यौवतं गार्भिणं क्लीबे युवतीगर्भिणीचये ।तथौपगवम[50]प्युक्तमौक्षकं वात्सकं पुनः ॥ ३०९ ॥
3.309 · p. 90
अनुष्टुप्
औरभ्रहास्तिके कावचिकमाजकमित्यपि ।मानुष्यकधैनुके तु गाणिक्यं कैश्यकैशिके ॥ ३१० ॥
3.310 · p. 90
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क (wrong syllable)
आश्वमश्वीयमश्वानां स्मृतं वाडव्यमित्यपि ।कैदारिकं तु कैदार्यं पार्श्वं पर्शुगणे स्मृतम् ॥ ३११ ॥
3.311 · p. 90
अनुष्टुप्
वातूलं वात्यया साकं गोत्रं गव्या गवां चयः ।खल्या च खलिनी पाश्या बन्धुता जनता मता ॥ ३१२ ॥
3.312 · p. 91
अनुष्टुप्
ग्रामता गजतेल्यादिः स्वयं ज्ञेया धिया बुधैः ।श्रेणी रेखा तती राजी पङ्क्तिर्मलावलिः पुनः ॥ ३१३ ॥
3.313 · p. 91
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्म (wrong syllable)
धोरणी श्रेमिवीथ्यौ च द्वितयं युगलं समम्? ।यामलं यमलं द्वन्द्वं युग्मं द्वैतं यमं द्वयम् ॥ ३१४ ॥
3.314 · p. 91
अनुष्टुप्
प्रभूतं प्रचुरं भूरि पुरुहं बहुलं बहु ।अदभ्रपुष्कले भूयः स्फिरं भूयिष्टमित्यपि ॥ ३१५ ॥
3.315 · p. 91
अनुष्टुप्
क्षुल्लस्तोके तुच्छमल्पं दभ्राणुतलिनं तनु ।कृशं सूक्ष्मं तथा क्षुद्रं पेशले श्लक्ष्णमित्यपि ॥ ३१६ ॥
3.316 · p. 91
अनुष्टुप्
कणे लेशलवौ तुल्यौ ह्रस्वे चापि लघु स्मृतम् ।अतिस्तोके तथाल्पिष्ठमल्पीयोऽणीय इत्यपि ॥ ३१७ ॥
3.317 · p. 91
अनुष्टुप्
अथोच्छ्रायोत्सेधा ------नगाद्यारोह एव हि ।उद्धुरं चोन्नते तुङ्गमुच्चं प्रांशूच्छ्रिते समे ॥ ३१८ ॥
3.318 · p. 91
अनुष्टुप्metre not read in every line
उदग्रमथ नीचैव मन्थरं कुब्जवामने ।खर्वं ह्रस्वं पृथौ व्यूढं विशालं पृथुलं पुनः ॥ ३१९ ॥
3.319 · p. 91
अनुष्टुप्
स्फारं विशङ्कटं चोरु विस्तीर्णविपुले महत् ।बृहत्ततं तथानाहो दैर्घ्यमायामसंज्ञकम् ॥ ३२० ॥
3.320 · p. 91
अनुष्टुप्
आरोह उदयोच्छ्रायौ समासः संग्रहः समः ।संक्षेपश्च समाहारो व्यासाभोगौ तु विस्तरे ॥ ३२१ ॥
3.321 · p. 92
अनुष्टुप्
समग्रं सकलं विश्वं सर्वाशेषाखिलानि च ।अनूनाखण्डकृत्स्नानि समस्तान्यून एव च ॥ ३२२ ॥
3.322 · p. 92
अनुष्टुप्
भित्तं नेमं दलं शल्कं खण्डार्धशकलानि तु ।भागो वण्टस्तथांशोऽपि तुर्यांशः पादसंज्ञकः ॥ ३२३ ॥
3.323 · p. 92
अनुष्टुप्
कश्मलं मलिनं म्लानं कच्चरं च मलीमसम् ।पवित्रं मेध्यपूते च पावनं पुण्यनाम च ॥ ३२४ ॥
3.324 · p. 92
अनुष्टुप्
निर्मलं विमलं वी[51]ध्रमुज्ज्वलं विशदं शुभम् ।चोक्षं शुचि विशुद्धं चावदातं चाप्यनाविलम् ॥ ३२५ ॥
3.325 · p. 92
अनुष्टुप्
निर्णिक्तं क्षालितं धौतं मृष्टसंशोधिते समे ।पराङ्मुखपराचीनेऽभिमुखे सम्मुखं मतम् ॥ ३२६ ॥
3.326 · p. 92
अनुष्टुप्
वर्य्यं मुख्यं प्रकृष्टं च वरेण्यप्रवरे वरम् ।प्रवेकानुत्तरेऽग्र्यं चाग्रेसरं प्रमुखं तथा ॥ ३२७ ॥
3.327 · p. 92
अनुष्टुप्
परप्रष्ठपरार्ध्यानि ग्रामण्यग्रण्यनुत्तमम् ।श्रेष्ठसत्तमतुल्याश्च शब्दा योज्या धिया स्वयम् ॥ ३२८ ॥
3.328 · p. 93
अनुष्टुप्
स्यात्पूर्वपदतो योगश्चैषां मुख्यार्थवाचिनाम् ।शार्दूलसिंहनागोद्धमचर्चिकामतल्लिकाः ॥ ३२९ ॥
3.329 · p. 93
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्चि (wrong syllable)
प्रकाण्डतल्लजेत्यादिशब्दा ज्ञेया यथायथम् ।अप्रधानाधमे गर्ह्यमणकं कुत्सितं पुनः ॥ ३३० ॥
3.330 · p. 93
अनुष्टुप्
अवद्यमपकृष्टं च निकृष्टं ब्रुवरेफसी ।याप्यं काण्डावमे चेलं कुपूयं खेटमेव च ॥ ३३१ ॥
3.331 · p. 93
अनुष्टुप्
मनोहरमनोज्ञे तु रुचिरं मञ्जुमञ्जुले ।कान्तं वल्गु प्रियं रुच्यं शोभनं चारुपेशले ॥ ३३२ ॥
3.332 · p. 93
अनुष्टुप्
बन्धुरं चाभिरामं स्यात्सुषमं साधुसुन्दरे ।मनोहारि? काम्यकम्रे कमनीयमनोरमे ॥ ३३३ ॥
3.333 · p. 93
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 रि (wrong syllable)
व्युष्टिः फलमसारं तु फल्गु शून्यार्थवाचकम् ।वशिकं रिक्ततुच्छे च शुन्येऽथ निबिडे पुनः ॥ ३३४ ॥
3.334 · p. 93
अनुष्टुप्
निरन्तरघने सान्द्रं बहुले दृढमुच्यते ।नीरन्ध्रं गाढमित्येवं पेलवं विरलं तनु ॥ ३३५ ॥
3.335 · p. 93
अनुष्टुप्
सद्यस्कं नूतने नूत्नं नवीनं नव्यनामकम् ।प्रत्यग्राभिनवे जीर्णं पुरातनचिरंतने ॥ ३३६ ॥
3.336 · p. 93
अनुष्टुप्
प्रत्नं जरत्प्रतनं च मूर्ते स्यान्मूर्तिमत्तथा ।उच्चावचं नैकभेदमतिरिक्ताधिके समे ॥ ३३७ ॥
3.337 · p. 94
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 त (wrong syllable)
समीपसंनिधानोपकण्ठाभ्यग्राणि संनिधिः ।उपान्त्यसविधे पार्श्वमुपान्तनिकटे अपि ॥ ३३८ ॥
3.338 · p. 94
अनुष्टुप्
संनिकर्षोऽन्तिकाभ्याशे ससीमं चोपकण्ठके ।सनीडं संनिकृष्ठं च समर्यादमनन्तरे ॥ ३३९ ॥
3.339 · p. 94
अनुष्टुप्
अत्यन्तनिकटे नेदिष्ठं दूरे दवीयो मतम् ।दविष्टं त्वतिदूरे स्याच्छाश्वतं ध्रुवमित्यपि ॥ ३४० ॥
3.340 · p. 94
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 वी (wrong syllable)
नित्यं त्वनश्वर स्थेयः स्थिरे स्थेष्ठमतिस्थिरम् ।स्थास्नु[52] कूटस्थमित्येवं सर्वकालैकरूपगम् ॥ ३४१ ॥
3.341 · p. 94
अनुष्टुप्
स्थावरं त्वगति प्रोक्तं जङ्गमे तु चराचरम् ।चरं त्रसं जगच्चैवं चरिष्णाविङ्गमित्यपि ॥ ३४२ ॥
3.342 · p. 94
अनुष्टुप्
चपलं चञ्चलं लोलं कम्पनं तरलं चलम् ।पारप्लवं कम्प्रमुक्तं चटुलं चास्थिरे समम् ॥ ३४३ ॥
3.343 · p. 94
अनुष्टुप्
अवक्रसरलौ तुल्यावृजुः प्रगुणसंगतः ।कुटिलं वेल्लितं वक्रं भङ्गुरवृजिने समे ॥ ३४४ ॥
3.344 · p. 94
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 ङ्गु (wrong syllable)
जिह्मभुग्ने अरालं चादिमादी प्रथमः पुनः ।पौरस्त्यमग्र्यपूर्वे च जघन्यान्तेऽन्तिमं मतम् ॥ ३४५ ॥
3.345 · p. 94
अनुष्टुप्
पश्चिमं चरमं चापि पाश्चात्यान्तावपि स्मृतौ ।मध्यमं मध्यमीयं तु विचालाभ्यन्तरे समे ॥ ३४६ ॥
3.346 · p. 95
अनुष्टुप्
अन्तरं चान्तरालं च मध्यं माध्यन्दिनं समम् ।सधर्मा सदृशश्चैव समानः संनिभः सदृक् ॥ ३४७ ॥
3.347 · p. 95
अनुष्टुप्
सरूपस्तु सवर्णोऽपि प्रतिबिम्बं प्रतिच्छन्दः ।अपष्ठुरं विलोमं च प्रतिकूलमपष्ठु च ॥ ३४८ ॥
3.348 · p. 95
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 च्छ (wrong syllable)
अपसव्यप्रतीपेऽपि प्रसव्यं तद्विशेषतः ।वपुरङ्गं तथा सव्यमपसव्यं च दक्षिणे ॥ ३४९ ॥
3.349 · p. 95
अनुष्टुप्
अयन्त्रितमबन्धं चानर्गलोच्छृङ्खले समे ।उद्दामं प्रकटं व्यक्तं स्फुटं स्पष्टोल्बणो समे ॥ ३५० ॥
3.350 · p. 95
अनुष्टुप्
निस्तलं वर्तुलं वृत्तं परिमण्डलमित्यपि ।करम्बकबरौ मिश्रे संपृक्तखचितौ समौ ॥ ३५१ ॥
3.351 · p. 95
अनुष्टुप्
शीघ्रं क्षिप्रं द्रुतं तूर्णं त्वरितं सत्वरं लघु ।अनारतानिशे नित्याजस्त्रे त्वविरतं पुनः ॥ ३५२ ॥
3.352 · p. 95
अनुष्टुप्
अश्रान्तानवरते[ऽपि?] सततं संततं समम् ।आकीर्णं? संकुलं कीर्णं संकीर्णेऽथाकुलं मतम् ॥ ३५३ ॥
3.353 · p. 95
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
पूरितं भरितं व्याप्तं निचितं छन्नसंज्ञके ।प्रतिक्षिप्तनिरस्ते तु प्रत्याख्यातनिराकृते ॥ ३५४ ॥
3.354 · p. 96
अनुष्टुप्
प्रत्यादिष्टापविद्धे च परीतं परिवेष्टितम् ।परिक्षिप्तनिवृत्ते च प्रत्यक्तं तूज्झितं धुतम् ॥ ३५५ ॥
3.355 · p. 96
अनुष्टुप्
उत्सृष्टविधुते हीनं विन्नवित्ते विचारितम् ।[53] संरुद्धसंवृते छन्नं संवीते रुद्धमित्यपि ॥ ३५६ ॥
3.356 · p. 96
अनुष्टुप्
स्थगितं तिरोहितं च पिधानस्थगने समे ।छदनं च तिरोधानं व्यवधा दर्शिऽतेप्यथ ॥ ३५७ ॥
3.357 · p. 96
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ति (wrong syllable)
दर्शिताविष्कृते तुल्ये बोधितं तु प्रकाशितम् ।अनादृतेऽप्यवमतं तथावगणितं समम् ॥ ३५८ ॥
3.358 · p. 96
अनुष्टुप्
अवहेलाप्यवज्ञा स्याद्रीढाथोन्मूलिते पुनः ।आवर्हितोद्धृतोपाटितानि त्रिषु मतान्यथ ॥ ३५९ ॥
3.359 · p. 96
अनुष्टुप्
कम्पितं चलितं ? धूतं लुलितं वेल्लितं समम् ।प्रोङ्खितान्दोलिते चापि देश्ये हिञ्चितमीक्ष्यते ॥ ३६० ॥
3.360 · p. 96
अनुष्टुप्