कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Suśīlanāmamālā

सुशीलनाममाला Suśīlanāmamālā

3,712 verses · 16,502 words tagged · 1,236 marked doubtful (dashed)

तिर्यग्विभागः · पञ्चेन्द्रियजीवनामानि (3/3)

* चटकनामानि *

चटकस्तु कुलिङ्गश्च कलविङ्कः कुलिङ्ककः ॥ २४१३ ॥
5.9.2413 · p. 389
अनुष्टुप्metre not read in every line
स्याद्गृहबलिभुक् चेति नामानि चटकस्य वै ।चटका तस्य योषिद्वै स्त्र्यपत्ये चटका तयोः ॥ २४१४ ॥
5.9.2414 · p. 389
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ह (wrong syllable)
चाटकैरस्तु विज्ञेयः पुमपत्ये बुधैर्जनैः ।
5.9.243 · p. 389
अनुष्टुप्

* दात्यूहनामानि *

दात्यूहश्चैव दात्योहो दात्यौहः कालकण्टकः ॥ २४१५ ॥
5.9.2415 · p. 389
अनुष्टुप्
जलरङ्कुर्जलरञ्जस्तथा वै कालकण्ठकः ।नामान्येतानि सप्तैव मन्यन्ते पण्डितै जनैः ॥ २४१६ ॥
5.9.2416 · p. 389
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)

* बकनामानि *

बकः कह्वो बकोटश्च स्याद्बलाको बलाहकः ।बकेरुका बकेरुस्तु बलाका बिसकण्ठिका ॥ २४१७ ॥
5.9.2417 · p. 389
अनुष्टुप्
विसकण्टिकाऽपि नाम तथैव विसकण्ठिका ।बकपत्न्याश्च नामानि षडेव पठितानि वै ॥ २४१८ ॥
5.9.2418 · p. 390
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ण्टि (wrong syllable)

* भृङ्गनामानि *

कलिङ्गश्चाथ धूम्याटः भृङ्गो नामानि त्रीणि वै ।
5.9.248 · p. 390
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 नि (wrong syllable)

* कङ्कपक्षिनामानि *

कङ्कः स्याल्लोहपृष्ठश्च कर्कटः कमनच्छदः ॥ २४१९ ॥
5.9.2419 · p. 390
अनुष्टुप्metre not read in every line
दीर्घपादस्तथा स्कन्धमल्लकः कथ्यते पुनः ।
5.9.250 · p. 390
अनुष्टुप्

* चिल्लनामानि *

आतापी शकुनिश्चिल्लस्तथाऽऽतायी च मन्यते ॥ २४२० ॥
5.9.2420 · p. 390
अनुष्टुप्

* श्येनपक्षिनामानि *

श्येनः शशादनः पत्री नामानि श्येनपक्षिणः ।
5.9.252 · p. 390
अनुष्टुप्

* गृध्रस्य नामानि *

गृध्रश्च पुरुषव्याघ्रः शकुनिः कूणितेक्षणः ॥ २४२१ ॥
5.9.2421 · p. 390
अनुष्टुप्
आजः सुदर्शनश्चैव दांक्षाय्यो दूरदृक् पुनः ।कामायुश्चेति नामानि गृध्रस्य संभवन्ति वै ॥ २४२२ ॥
5.9.2422 · p. 390
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्य (wrong syllable)

* कुररस्य नामानि *

उत्क्रोशः कुररो नाम तथा च मत्स्यनाशनः ।
5.9.255 · p. 390
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)

* शुकस्य नामानि *

रक्ततुण्डः शुकः कीरः श्रीमान् वै प्रियदर्शनः ॥ २४२३ ॥
5.9.2423 · p. 391
अनुष्टुप्metre not read in every line
मेधातिथिश्च मेधावी वाग्मी फलादनः पुनः ।शुकस्य नवनामानि कथ्यन्ते कोविदैः किल ॥ २४२४ ॥
5.9.2424 · p. 391
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 फ (wrong syllable)

* सारिकानामानि *

शारिका सारिका चैव गोराटी गोकिराटिका ।पीतपादा च नामानि सारिकायाः भवन्ति वै ॥ २४२५ ॥
5.9.2425 · p. 391
अनुष्टुप्

* चर्मचटकानामानि *

जतूका जतुका चर्मचटकाऽजिनपत्रिका ।अजिनपत्रा नामाऽपि जतुकायाश्च कथ्यते ॥ २४२६ ॥
5.9.2426 · p. 391
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 जि (wrong syllable)

* वल्गुलिकानामानि *

वल्गुलिका परोष्णी च मुखविष्टा निशाटनी ।तैलपायिका नामाऽपि जतुकाभेद उच्यते ॥ २४२७ ॥
5.9.2427 · p. 391
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 लि (wrong syllable); pāda 3, syllable 5 का (wrong syllable)

* करेटुनामानि *

करेटुः कर्करेटुश्च करटुः कर्कराटुकः ।कर्कराटुश्च नामानि करटोः संभवन्ति वै ॥ २४२८ ॥
5.9.2428 · p. 391
अनुष्टुप्

* शरारिनामानि *

आटिराटी शराटिश्च शराडिः शरारिस्तथा ।आतिराडी शरातिश्च शरालिः शराली पुनः ॥ २४२९ ॥
5.9.2429 · p. 391
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 रा (wrong syllable); pāda 4, syllable 5 रा (wrong syllable)

* क्रकरनाम *

क्रकरः कृकणो नामद्वयं क्रकरपक्षिणः ।
5.9.263 · p. 392
अनुष्टुप्

* शकुन्तनाम *

भासस्तथा शकुन्तश्च भासनामद्वयं स्मृतम् ॥ २४३० ॥
5.9.2430 · p. 392
अनुष्टुप्

* जलकुक्कुभ नामानि *

कोयष्टिः शिखरी चैव जलकुक्कुभ उच्यते ।
5.9.265 · p. 392
अनुष्टुप्

* कपोतनामानि *

पारापतः कपोतश्च ख्यातः पारावतः पुनः ॥ २४३१ ॥
5.9.2431 · p. 392
अनुष्टुप्
कलरवस्तथा रक्तलोचनोऽपि च कथ्यते ।
5.9.267 · p. 392
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)

* चकोरनामानि *

चकोरश्चलचञ्चुश्च तथैव विषसूचकः ॥ २४३२ ॥
5.9.2432 · p. 392
अनुष्टुप्metre not read in every line
नाम ज्योत्स्नाप्रियो लोके चकोरस्य चतुर्थकम् ।
5.9.269 · p. 392
अनुष्टुप्

* गुन्द्रालनामानि *

जीवंजीवश्च गुन्द्रालो विषदर्शनमृत्युकः ॥ २४३३ ॥
5.9.2433 · p. 392
अनुष्टुप्

* व्याघ्राटनामानि *

व्याघ्राटश्च भरद्वाजो भारद्वाजोऽपि ज्ञायताम् ।
5.9.271 · p. 392
metre not recognised

* प्लवनाम *

प्लवश्च गात्रसंप्लवो नाम द्वयं निगद्यते ॥ २४३४ ॥
5.9.2434 · p. 393
metre not recognised

* तित्तिरिनाम *

तित्तिरिः खरकोणश्च नाम तित्तिरिपक्षिणः ।
5.9.273 · p. 393
अनुष्टुप्

* हारीतनाम *

हारीतस्य द्वयं नाम हारितश्च मृदङ्कुरः ॥ २४३५ ॥
5.9.2435 · p. 393
अनुष्टुप्

* मरुलनाम *

मरुलो मरुलस्य स्याद् नाम कारण्डवः पुनः ।
5.9.275 · p. 393
अनुष्टुप्

* सुगृहनाम *

सुगृहः प्रथमं नाम द्वितीयञ्चञ्चुसूचिकः ॥ २४३६ ॥
5.9.2436 · p. 393
अनुष्टुप्

* कुक्कुभनामानि *

कुक्कुभः कुहकस्वनः स्यात् कुम्भकारकुक्कुटः ।
5.9.277 · p. 393
अनुष्टुप्metre not read in every line

* दीपकपक्षिनाम *

गृह्यन्ते पक्षिणा येन पक्षिणोऽन्ये स दीपकः ॥ २४३७ ॥
5.9.2437 · p. 393
अनुष्टुप्metre not read in every line

* छेकनाम *

छेका गृह्याश्च ते प्रोक्ताः ये भवन्ति गृहस्थिताः ।पञ्चेन्द्रियाः पक्षिभेदाः सर्वे इमे तु खेचराः ॥ २४३८ ॥
5.9.2438 · p. 393
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 इ (wrong syllable)

॥ इति खेचरपञ्चेन्द्रियजीवनामानि ॥

अथ जलचरपञ्चेन्द्रियनामानि

* मत्स्यनामानि *

मत्स्यो मीनो मूको मत्सः शम्बरः शंवरस्तिमिः ।आत्माशी शकली शल्की विसारः स्वकुलक्षयः ॥ २४३९ ॥
5.9.2439 · p. 394
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 मू (wrong syllable)
अण्डजः स्थिरजिह्वश्च पृथुरोमा जलाशयः ।झषः वैसारिणः शेवः आत्माशी जलपिप्पकः ॥ २४४० ॥
5.9.2440 · p. 394
अनुष्टुप्
सङ्घचारी च नामानि सामान्यानि भवन्ति वै ।
5.9.282 · p. 394
अनुष्टुप्metre not read in every line

* मत्स्यविशेषनामानि *

वदालः सहस्रदंष्ट्रो वादाल एतनः पुनः ॥ २४४१ ॥
5.9.2441 · p. 394
अनुष्टुप्metre not read in every line
जलवालश्च नामानि वादालस्य हि सन्ति वैः ।पाठीनश्चित्रवल्लिको मृदुपाठक इत्यपि ॥ २४४२ ॥
5.9.2442 · p. 394
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ल्लि (wrong syllable)
शकुले कलकः स्याच्च गडके शकुलार्भकः ।उलूपी शिशुके स्याच्च शफरे श्वेतकोलकः ॥ २४४३ ॥
5.9.2443 · p. 394
अनुष्टुप्
प्रोष्ठी नामाति विख्यातं वर्त्तते शफरस्य वै ।नडमीनो नलमीनश्चिलिचिमश्चिलिचिमिः ॥ २४४४ ॥
5.9.2444 · p. 394
अनुष्टुप्metre not read in every line
रोहितो मत्स्यराजः स्याद् राजशृङ्गस्तु मद्गुरः ।शृङ्गी तु मद्गुरप्रिया व्यवहारे प्रसिद्ध्यति ॥ २४४५ ॥
5.9.2445 · p. 394
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 प्रि (wrong syllable)
क्षुद्राण्डमत्स्यजातः स्यात् पोताधानं जलाणुकम् ।नन्द्यावर्तो महामत्स्याश्चीरिल्लिश्च तिमिङ्गलः ॥ २४४६ ॥
5.9.2446 · p. 395
अनुष्टुप्
तिमिङ्गिलगिलश्चेति मत्स्यभेद उदाहृतः ।महामत्स्यस्य नामानि पञ्चैव प्रथितानि वै ॥ २४४७ ॥
5.9.2447 · p. 395
अनुष्टुप्
स्युर्यादांसि नक्राद्या हिंसका जलजन्तवः ।
5.9.290 · p. 395
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 स्यु (syllables merged)

* महामुखनामानि *

आलास्यो गोमुखो नक्रो कुम्भी च जलसूकरः ॥ २४४८ ॥
5.9.2448 · p. 395
अनुष्टुप्metre not read in every line
कुम्भीरस्तालुजिह्वश्च शङ्खमुखो महामुखः ।शङ्कुमुखश्च नामानि मन्यन्ते गोमुखस्य वै ॥ २४४९ ॥
5.9.2449 · p. 395
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 मु (wrong syllable); pāda 3, syllable 3 मु (wrong syllable)

* शिशुमारनामानि *

अम्बुकर्म उष्णवीर्यः शिशुमारो महाबलः ।जलकपिश्च नामानि शिशुमारस्य सन्ति वै ॥ २४५० ॥
5.9.2450 · p. 395
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 र्म (wrong syllable); pāda 3, syllable 3 क (wrong syllable)

* जलमार्जारनामानि *

उद्रश्च जलमार्जारः पानीयनकुलो वसी ।एतन्नामानि कथ्यन्ते पानीयनकुलस्य वै ॥ २४५१ ॥
5.9.2451 · p. 395
अनुष्टुप्

* ग्राहनामानि *

ग्राहस्तन्तुस्तथा नागस्तन्तुनागश्च तन्तुणः ।जलसर्पोऽवहारश्च वरुणपाश उच्यते ॥ २४५२ ॥
5.9.2452 · p. 395
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ण (wrong syllable)
मकरश्च फणी शङ्कुर्मकरस्येति नाम वै ।अन्येऽपि यादोभेदाः स्युर्बहवो मकरादयः ॥ २४५३ ॥
5.9.2453 · p. 396
अनुष्टुप्

* कुलीरनामानि *

कुलीरः कुलिरश्चैवं कर्कटः कर्कडः पुनः ।करकटस्तथा पिङ्गचक्षुः पार्श्वोदरप्रियः ॥ २४५४ ॥
5.9.2454 · p. 396
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 क (wrong syllable)
कुरचिल्लो बहिश्चरः षोडशांह्रिर्द्विधागतिः ।एतन्नामानि मन्यन्ते कुलीरस्य हि पण्डितैः ॥ २४५५ ॥
5.9.2455 · p. 396
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 श्च (wrong syllable)

* कच्छपनामानि *

उहारः कच्छपः कूर्मः कमठो जीवथस्तथा ।क्रोडपादश्च दौलेयश्चतुर्गतिस्तथैव च ॥ २४५६ ॥
5.9.2456 · p. 396
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्ग (wrong syllable)
पुनः पञ्चाङ्गगुप्तोऽपि कच्छपस्याभिधा स्मृता ।
5.9.300 · p. 396
अनुष्टुप्

* कच्छपीनामानि *

स्त्रियां तु कच्छपी ज्ञेया कमठी च डुली दुली ॥ २४५७ ॥
5.9.2457 · p. 396
अनुष्टुप्

* मण्डूकनामानि *

मण्डूको दर्दुरो भेकः प्लवगश्च प्लवङ्गमः ।प्लवो व्यङ्गस्तथाऽजिह्वो वर्षाभूश्च हरिः पुनः ॥ २४५८ ॥
5.9.2458 · p. 396
अनुष्टुप्
शालूरश्चाथ सालूरो द्वादशैतानि संख्यया ।मण्डूकस्य हि मन्यन्ते सर्वदा साक्षरैर्जनैः ॥ २४५९ ॥
5.9.2459 · p. 397
अनुष्टुप्
स्थले नरादयो ये वै ते जले जलपूर्वकाः ।जलनरो जलहस्ती जलतुरङ्ग उह्यताम् ॥ २४६० ॥
5.9.2460 · p. 397
अनुष्टुप्metre not read in every line

॥ इति जलचरपञ्चेन्द्रियजीवनामानि समाप्तानि ॥

* अण्डजादयोऽष्टनामानि *

अण्डजाः पक्षिसार्पाद्याः मन्यन्ते पण्डितैरिह ।पोतजाः कुञ्जराद्याश्च कथ्यन्ते कोविदैः खलु ॥ २४६१ ॥
5.9.2461 · p. 397
अनुष्टुप्
रसजा मद्यकीटाद्यास्तथा जरायुजा अपि ।नरगवादयः प्रोक्ताः यूकाद्याः स्वेदजाः पुनः ॥ २४६२ ॥
5.9.2462 · p. 397
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ज (wrong syllable); pāda 3, syllable 3 ग (wrong syllable)
सम्मूर्च्छनोद्भवाः प्रोक्ता मत्स्यादयो बुधैर्जनैः ।उद्भिदः खञ्जनाद्याश्च जन्तवो बहवो भुवि ॥ २४६३ ॥
5.9.2463 · p. 397
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)
तथोपपादुकाः प्रोक्ताः देवाश्च नारका अपि ।त्रसयोनय इत्यष्टावुद्भिदुद्भिज्जमुद्भिदम् ॥ २४६४ ॥
5.9.2464 · p. 397
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)