कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Kalpadrukośa

कल्पद्रुकोशः Kalpadrukośa

4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)

भूमिस्कन्धः · नरादिप्रकाण्डः (4/4)

उपचर्याथात्मनीनमायुष्यं च हितं च तत् ।पथ्यं स्यादप्यथारोग्यं वार्त्तं पाटवलाघवे ॥ ३६१ ॥
1.4.361 · p. 60
अनुष्टुप्
अनामयमथोल्लाघः पटुः कल्पो निरामयः ।अग्लास्नुरगदो नीरुगनातङ्को लघुः पुनः ॥ ३६२ ॥
1.4.362 · p. 60
अनुष्टुप्
वार्त्तोपि स्यादथो वैद्य आयुर्वेदी चिकित्सकः ।रोगहार्यगदंकारो रोगज्ञो जीवदो भिषक् ॥ ३६३ ॥
1.4.363 · p. 60
अनुष्टुप्
स्रष्टा विद्वान्विधिरथ विषवैद्यस्तु जाङ्गली ।कथाप्रसङ्गः क्लिन्नाक्षे चुल्लश्चिल्लश्च पिल्लकः ॥ ३६४ ॥
1.4.364 · p. 60
अनुष्टुप्
वाच्यलिङ्गा अथो पथ्यं पादाहारः स्त्रियां मृजा ।स्यान्मार्ष्टिर्मार्जनी क्लीबे स्यादुद्वर्त्तनमित्यपि ॥ ३६५ ॥
1.4.365 · p. 60
अनुष्टुप्
परिकर्माङ्गसंस्कार आचामः स्नानमाप्लवः ।स्त्र्याप्लुतिः स्यादाचमनमभिषेकोऽवगाहनम् ॥ ३६६ ॥
1.4.366 · p. 61
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दा (wrong syllable)
अवगाहोऽपि चर्चा तु चार्चिक्यं स्थासकोऽपि च ।प्रबोधश्चानुबोधश्च स्याल्लेखेङ्गुलिपत्रयोः ॥ ३६७ ॥
1.4.367 · p. 61
अनुष्टुप्
यत्तु सर्वौषधिस्नानं तन्मङ्गल्यमलौकिकम् ।दिष्टं तु मृत्तिकास्नानमभिषेकस्तु मन्त्रवत् ॥ ३६८ ॥
1.4.368 · p. 61
अनुष्टुप्
क्लीबे तमालपत्रं स्याच्चित्रकं तिलकोऽस्त्रियाम् ।पुनर्विशेषकं क्लीबे शीतलं भोगिवल्लभम् ॥ ३६९ ॥
1.4.369 · p. 61
अनुष्टुप्
गोशीर्षं चापि मङ्गल्यं तिलपर्णं महार्हकम् ।सुगन्धं चावनं चास्त्री शीतगन्धोऽपि चन्दनः ॥ ३७० ॥
1.4.370 · p. 61
अनुष्टुप्
गन्धाढ्यो गन्धसारोऽपि श्रीखण्डो मलयोद्भवः ।सर्पावासश्च पाटीरो वेधकः पुंसि रौहिणः ॥ ३७१ ॥
1.4.371 · p. 61
अनुष्टुप्
गन्धराजोऽपि भद्रश्रीः स्वयं शुष्के तु सुक्कडिः ।वेरं षणार्द्रच्छिन्ने स्याद्द्विधा काष्ठं तु चान्दनम् ॥ ३७२ ॥
1.4.372 · p. 61
अनुष्टुप्
वेंटा मलयपादाः स्युस्तज्जं वेटं परे जगुः ।निम्बबिल्वहरिद्रादि तत्संगत्या भवन्ति ते ॥ ३७३ ॥
1.4.373 · p. 61
अनुष्टुप्
नातिपीतं तु कैरातं कवरं चन्दनं च् तत् ।गन्धकाष्ठं शैलगन्धं किराताभिधवल्लभम् ॥ ३७४ ॥
1.4.374 · p. 61
metre not recognisednearly अनुष्टुप्
तत्स्याद्बहलगन्धं च पित्तगन्धं तु पीतकम् ।कालेयवर्वरं पीतचन्दनं माधवप्रियम् ॥ ३७५ ॥
1.4.375 · p. 62
अनुष्टुप्
अथ रक्तार्कक्षुद्रेभ्यश्चन्दनं रक्तसारकम् ।कुचन्दनं हिमं चाय? वर्वरं श्वेतवर्वरम् ॥ ३७६ ॥
1.4.376 · p. 62
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्क (wrong syllable)
वर्वरोत्थं लोहितं तु सुरार्हं नन्दनोद्भवम् ।हरिगन्धं महागन्धमिन्द्रपर्यायचन्दनम् ॥ ३७७ ॥
1.4.377 · p. 62
अनुष्टुप्
स्यादस्त्रियां दिव्यमथ काश्मीरं पिशुनं वरम् ।शठं वरेण्यं घुसृणमरुणं वह्निशेखरम् ॥ ३७८ ॥
1.4.378 · p. 62
अनुष्टुप्
गौरं कालेयकं कान्तं जागुडं केशरोऽस्त्रियाम् ।कुङ्कुमं चापि वाह्लीकं पीतं काश्मीरसंभवम् ॥ ३७९ ॥
1.4.379 · p. 62
अनुष्टुप्
असृक्पर्यायि काश्मीरं सूर्यपर्यायि दीपनम् ।संकोचं सौरमं धीरं वर्णं स्यात्पीतचन्दनम् ॥ ३८० ॥
1.4.380 · p. 62
अनुष्टुप्
घोरं चाथ तृणोत्थं तु तृणार्थात्कुङ्कुमार्थकम् ।तृणपुष्पार्थकं चाथ श्यामा गन्धमृगाण्डजा ॥ ३८१ ॥
1.4.381 · p. 62
अनुष्टुप्
कस्तूरी मृगनाभिः स्यान्मदनी गन्धवेलिका ।मार्जारी सुभगा वेधमुख्या स्याद्बहुगन्धदा ॥ ३८२ ॥
1.4.382 · p. 62
अनुष्टुप्
श्यामला ललिता गन्धधूलिरामोदिनीत्यपि ।मृगः सहस्रवेधी स्यान्मार्गो मृगमदोऽपि च ॥ ३८३ ॥
1.4.383 · p. 62
अनुष्टुप्
कपिला पिङ्गला कृष्णा त्रिविधातस्तु पञ्चधा ।चूर्णीकृता तु खरिका तिलाभा तिलकापरा ॥ ३८४ ॥
1.4.384 · p. 63
अनुष्टुप्
कुलत्थिका कुलत्थाभा तस्याः स्थूला तु पिण्डका ।ततः स्थूला नापिकाथ कर्पूरो हिमवालुकः ॥ ३८५ ॥
1.4.385 · p. 63
अनुष्टुप्
स्याद्वेणुघनपर्यायसारपर्याय इत्यपि ।अपि स्याच्चन्द्रपर्यायो हिमाङ्कः शाम्भवः पुनः ॥ ३८६ ॥
1.4.386 · p. 63
अनुष्टुप्
गोशीर्षस्तैलपर्णः स्यात्ताराभ्रः कुमुदः शिला ।मिहकाप्यथ तद्भेदाः पोताभो भीमसेनकः ॥ ३८७ ॥
1.4.387 · p. 63
अनुष्टुप्
अपि स्याच्छंकरावासः पांसुः शीतकरः पुनः ।पिञ्जोब्जसारः सारोपि जूटिका वालुकः पुनः ॥ ३८८ ॥
1.4.388 · p. 63
अनुष्टुप्
हिमयुक्तः शीतलोपि पञ्चिकश्चैवमादयः ।चीनकश्चीनकर्पूरः कृत्रिमो धवलः पटुः ॥ ३८९ ॥
1.4.389 · p. 63
अनुष्टुप्
दीपकर्पूरजोपि स्यात्स च कर्पूरनामकः ।पीता तु गौतमी गव्या वन्दनीया च काञ्चनी ॥ ३९० ॥
1.4.390 · p. 63
अनुष्टुप्
मेध्या मनोरमा श्यामा रामा गौरी च रोचना ।गोरोचना च मङ्गल्याथ जवादिः स्त्रियामियम् ॥ ३९१ ॥
1.4.391 · p. 63
अनुष्टुप्
गन्धपर्यायराजार्थो मृगार्थाद्घर्मजोऽपि च ।अस्त्रियां कर्दमः स्निग्धः कृत्रिमोऽपि ततः पुनः ॥ ३९२ ॥
1.4.392 · p. 63
अनुष्टुप्
समूहगन्धो गन्धाढ्यः सुगन्धतैल इत्यपि ।कटुमोदोथ स्तूणीकः स्तूणीकान्तः कुठेरकः ॥ ३९३ ॥
1.4.393 · p. 64
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 न्ध (wrong syllable); pāda 3, syllable 5 थ (wrong syllable)
स्तूणिकः पीतकः कान्तो नन्दीकलप इत्यपि ।जातिपत्री जातिकोशी सुमनापि च पत्रिका ॥ ३९४ ॥
1.4.394 · p. 64
अनुष्टुप्
जातीफलं जातिसस्यं शालूकं सुमनः फलम् ।मजुसारं जातिसारं पुटं द्वेष्यं तु कोलकम् ॥ ३९५ ॥
1.4.395 · p. 64
अनुष्टुप्
कङ्कोलकं कृतफलं मरिचं कटुकं फलम् ।कट्फलं स्थूलमरिचं माधवोचितमित्यपि ॥ ३९६ ॥
1.4.396 · p. 64
अनुष्टुप्
कर्पूरागरुकस्तूरी कक्कोलैर्यक्षकर्दमः ।गात्रानुलेपनी वर्त्तिर्वर्णकं तु विलेपनम् ॥ ३९७ ॥
1.4.397 · p. 64
अनुष्टुप्
चूर्णानि वासयोगाः स्युर्वासितं भावितं त्रिषु ।प्रियंगुः फलिनी श्यामा प्रियवल्ली फलप्रिया ॥ ३९८ ॥
1.4.398 · p. 64
अनुष्टुप्
शुभा पीता च मङ्गल्या श्रेयस्यथ सुधूपकः ।श्रीवासः श्रीरसो वेष्टो धूपाङ्गस्तिलपर्णिकः ॥ ४०० ॥
1.4.400 · p. 64
अनुष्टुप्
वेष्टसारो रमावेष्टः क्षीरशीर्षक इत्यपि ।उशीरं तु मृणालं स्याज्जलवासो हरिप्रियः ॥ ४०१ ॥
1.4.401 · p. 64
अनुष्टुप्
अभयं वीरणं वीरं समगन्धिकमित्यपि ।रणप्रियं वीरतरं शिशिरं शीतमूलकम् ॥ ४०२ ॥
1.4.402 · p. 65
अनुष्टुप्
शुभ्रं सुगन्धिकं चापि कलकं चाथ शेखरम् ।स्त्रियां लवङ्गकलिका दिव्यं क्लीबे न च स्त्रियाम् ॥ ४०३ ॥
1.4.403 · p. 65
अनुष्टुप्
लवङ्गं देवपर्यायपुष्पपर्यायकं फलम् ।लक्ष्मीपर्यायपुष्पार्थं भृङ्गारं वान्तसम्भवम् ॥ ४०४ ॥
1.4.404 · p. 65
अनुष्टुप्
रुचिरं स्यादथ स्वादुः सुधूमो गरुसारकः ।गन्धधूमभवोथास्त्री कृष्णादगरुकाष्ठके ॥ ४०५ ॥
1.4.405 · p. 65
अनुष्टुप्
अगुरुर्वसुकः केश्यः शृङ्गारो विश्वरूपकः ।धूपार्हो वल्लरोऽपि स्यान्मिश्रवर्णोऽथ पीतकः ॥ ४०६ ॥
1.4.406 · p. 65
अनुष्टुप्
अलारोऽनार्यको लोहः स च वर्णप्रसादनः ।काष्ठागुरुः कृमिजग्धश्चाथ स्याद्दहनागुरुः ॥ ४०७ ॥
1.4.407 · p. 65
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 मि (wrong syllable)
दाहागुरुर्दाहकाष्ठं पुरं धूपाङ्गदः पुनः ।वल्लभः पूरमथनं मङ्गल्यामल्लिके स्त्रियौ ॥ ४०८ ॥
1.4.408 · p. 65
अनुष्टुप्
गन्धार्थमङ्गलाच्चाथ तुरुष्को यवनः कपिः ।पिण्याकः कपिजो धूम्रः शिल्पिसारः सुगन्धकः ॥ ४०९ ॥
1.4.409 · p. 65
अनुष्टुप्
शिल्पिकः पीतसारः स्यात् पिण्डितः पिण्डतैलकः ।करेवरः कृत्रिमको लेपनश्चाथ गुग्गुलुः ॥ ४१० ॥
1.4.410 · p. 65
अनुष्टुप्
म्लेच्छद्विष्टो भवानीष्टो जटालः कौशिकः पुरः ।निशाटको भूतहरः कालनिर्यासशावरौ ॥ ४११ ॥
1.4.411 · p. 66
अनुष्टुप्
मरुदेश्यो रूक्षगन्धा वातघ्नो महिषाक्षकः ।देवेष्टोऽपि च रक्षोहा दित्यो दुर्गः शिवोप्यथ ॥ ४१२ ॥
1.4.412 · p. 66
अनुष्टुप्
गन्धराजः स्वर्णवर्णः सुवर्णकणगुग्गुलुः ।पलंकषश्च सुरभिर्वंशपीतोथ भूमिजः ॥ ४१३ ॥
1.4.413 · p. 66
अनुष्टुप्
महिषासुरमज्जोत्थो दुर्गापर्यायवल्लभः ।आशापुरोद्भवो दुर्गाह्लादो भूतघ्न इत्यपि ॥ ४१४ ॥
1.4.414 · p. 66
अनुष्टुप्
मेध्यः सौरभ्यदः शालनिर्यासस्त्वग्निवल्लभः ।रालः सर्जरसः शालः कालः कनकलोद्भवः ॥ ४१५ ॥
1.4.415 · p. 66
अनुष्टुप्
बहुरूपः कललजः सुरभिर्यक्षधूपकः ।देवेष्टः शीतलोऽपि स्यादथ पालीन्दभीषणौ ॥ ४१६ ॥
1.4.416 · p. 66
अनुष्टुप्
सौराष्ट्रः शिखरी कन्दुः कन्दूरकसुकन्दकौ ।बहुगन्धो गोपुरगस्तीक्ष्णः शंखः खरः शकः ॥ ४१७ ॥
1.4.417 · p. 66
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 गो (wrong syllable)
रुप्योऽपि बदरीपत्रः श्ललः कोशीहनुः स्त्रियाम् ।शिपिः शुक्तिर्नागहनुः पुनः पर्णविलासिनी ॥ ४१८ ॥
1.4.418 · p. 66
अनुष्टुप्
संधिनालो नखार्थः स्यादथ व्यालनखः पुनः ।व्यालायुधो व्याघ्रनखः कूटस्थश्चक्रनायकः ॥ ४१९ ॥
1.4.419 · p. 66
अनुष्टुप्
चक्री चक्रनखश्चापि कालः पुंस्यथ षण्पुनः ।संस्कारो गन्धमाल्याद्यैर्यत्स्यात्तदधिवासनम् ॥ ४२० ॥
1.4.420 · p. 67
अनुष्टुप्
तल्पमस्त्री तु तलिनं क्लीबे स्याच्छयनं पुनः ।शयनीयं स्त्रियां शय्या खट्वा स्यान्मञ्चकोऽस्त्रियाम् ॥ ४२१ ॥
1.4.421 · p. 67
अनुष्टुप्
द्वयोर्मञ्चश्च पर्यङ्कपल्यङ्कौ पुंसि चास्तरः ।क्लीबे चास्तरणं तत्राच्छादने कशिपुः पुनः ॥ ४२२ ॥
1.4.422 · p. 67
अनुष्टुप्
अस्त्रियां कसिपुश्चाथ स्यादुच्छीर्षकमस्त्रियाम् ।उपधानं चोपबर्हश्चाथ पर्यस्तिका स्त्रियाम् ॥ ४२३ ॥
1.4.423 · p. 67
अनुष्टुप्
अवसक्थिनिका खट्वा निषद्या खट्विका समे ।स्याद्वेत्रासनमासन्दी प्रतिग्राहपतद्ग्रहौ ॥ ४२४ ॥
1.4.424 · p. 67
अनुष्टुप्
अस्त्रियां पालकं क्लीबे विष्टरासनके उभे ।स्त्रियां क्लीबे तु पीठं स्यादौशीरं शयनासने ॥ ४२५ ॥
1.4.425 · p. 67
अनुष्टुप्
द्वे एकोक्त्याथात्मदर्श आदर्शः पीतचम्पकम् ।दर्पणो मुकुरश्चाथ प्रदीपः कज्जलध्वजः ॥ ४२६ ॥
1.4.426 · p. 67
अनुष्टुप्
दोषापर्यायतिलको गृहपर्यायतो मणिः ।स्नेहार्थाशनपर्यायो दशार्थादिन्धनार्थकः ॥ ४२७ ॥
1.4.427 · p. 67
अनुष्टुप्
दीपिका दीपमल्ली स्यादथ निर्मन्थनं च षण् ।नीराजनं दीपपात्रैर्दीपस्थानं स्त्रियां पुनः ॥ ४२८ ॥
1.4.428 · p. 67
अनुष्टुप्
पूषिः स्यादथ दीपाधो दण्डे सति शिखा मरुः ।दीपार्थाद्वृक्षपर्यायः कौमुदी तरुरित्यपि ॥ ४२९ ॥
1.4.429 · p. 68
अनुष्टुप्
अथ स्यात्कज्जलं क्लीबे दीपोच्छिष्टं तथाञ्जनम् ।पुंसि स्यात्पक्षकोऽस्त्री स्याद्व्यजनं तालवृन्तकम् ॥ ४३० ॥
1.4.430 · p. 68
अनुष्टुप्
उत्क्षेपो बर्हिपिच्छोत्थे चामरे तु प्रकीर्णकः ।अस्त्री त्रिषु विचित्रं स्यान्मृगादित्वक्समुद्भवे ॥ ४३१ ॥
1.4.431 · p. 68
अनुष्टुप्
आलावर्तं जलक्लिन्नवस्त्रेण रचितेऽपि च ।त्रिषु स्यात्कङ्कतः केशमार्जनश्च प्रसाधनः ॥ ४३२ ॥
1.4.432 · p. 68
अनुष्टुप्
गिरियको गिरिगुडो बालक्रीडनको गुडः ।गिरिपर्यायवचनः समौ कन्दुकगन्दुकौ ॥ ४३३ ॥
1.4.433 · p. 68
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 य (wrong syllable)
निश्चुङ्कतं दन्तशानं पिष्टान्तो धूलिगुच्छकः ।कल्पद्रौ केशवकृते फलिते नामलुम्बकैः ॥ ४३४ ॥
1.4.434 · p. 68
अनुष्टुप्
तार्तीयो नरकाण्डोऽयं भूस्कन्धे सिद्धिमागतः ॥ ४३५ ॥
1.4.435 · p. 68