कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

गाङ्गायनि

gāṅgāyaniपुं · masc.

In 4 kośas: 4 synonym verses.

कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.31 · p. 92
गङ्गापर्यायपुत्रार्थो गाङ्गेयो गाङ्ग इत्यपि ।गाङ्गायनिः शान्तनवो भीष्मो देवव्रतोपि च ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.23 · p. 246
गाङ्गायनिस्तथा देवव्रतः स्वच्छन्दजीवनः ।धृतराष्ट्रस्त्वाम्बिकेयो धार्तराष्ट्रास्तु कौरवाः ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.86 · p. 184
चामुण्डा चण्डमुण्डा च चर्च्चा चर्च्चिः सचर्चिका ।स्कन्दे गाङ्गायनिर्गाङ्गो गाङ्गेयो भीष्मकेऽप्यमी ॥ ८६ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव क्षत्त्रियवर्गः Trikāṇḍaśeṣa 2.8.12 · p. 63
देवव्रतः शान्तनवो गाङ्गो गाङ्गायनिश्च सः ।भीष्मः कौणपदन्तश्च स्वेच्छामृत्युः पुरावसुः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.