All kośas › Kalpadrukośa
कल्पद्रुकोशः Kalpadrukośa
4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)
भूमिस्कन्धः · क्षत्रियप्रकाण्डः (1/4)
इत्यृषिगोत्रब्रह्मप्रकाण्डः ।
राजन्यो बाहुपर्यायजन्मार्थः क्षत्रियो विराट् ।राड्राजा स्यादपि क्षत्रं राज्ञि भूपार्थपार्थिवौ ॥ १ ॥
1.6.1 · p. 89
अनुष्टुप्
भूपर्यायपतिक्षिद्भृत् पार्थवो भूपुरन्दरः ।भूमिप्रजामनुष्याणां पर्यायेभ्यो धनस्य च ॥ २ ॥
1.6.2 · p. 89
अनुष्टुप्
नेतृपेशपतीनां च पालार्थानां च वाचकः ।मूर्द्धाभिषिक्तः पृथिवी-शक्रपर्याय इत्यपि ॥ ३ ॥
1.6.3 · p. 89
अनुष्टुप्
मण्डलेश्वरपर्यायः सामन्तोथाप्यधीश्वरः ।प्रणताशेषसामन्तश्चक्रवर्ती भयापहः ॥ ४ ॥
1.6.4 · p. 89
अनुष्टुप्
एकजन्मा सार्वभौ मोप्यतोऽन्ये मध्यमवर्त्तिनः ।सत्वप्रतिरथो यस्य नास्ति प्रतिरथो युधि ॥ ५ ॥
1.6.5 · p. 89
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः ।शास्ति यश्चाज्ञया राज्ञः स सम्राडथ राजकम् ॥ ६ ॥
1.6.6 · p. 89
अनुष्टुप्
राजन्यकं च नृपतिः क्षत्रमस्त्रीगणे क्रमात् ।महामात्रो धी सचिवो मन्त्री सचिव इत्यपि ॥ ७ ॥
1.6.7 · p. 89
अनुष्टुप्
स च ग्रन्थिहरोऽमात्यः स्यात्प्रधानं च न स्त्रियः ।अमात्याः कर्मसचिवास्तत्तत्कर्माधिकारिणः ॥ ८ ॥
1.6.8 · p. 89
अनुष्टुप्
पुरोहितः पुरोधाः स्यात्स्थेयोऽथ द्वारपालके ।दौवारिकः प्रतीहारो द्वाःस्थितो वेत्रधारकः ॥ ९ ॥
1.6.9 · p. 89
अनुष्टुप्
दर्शको दर्शितद्वाः स्याद् द्वाःस्थो द्वाः स्थितदर्शकः ।स च द्वाःस्थितदर्शी स्यात् प्रतिहार उदास्थितः ॥ १० ॥
1.6.10 · p. 90
अनुष्टुप्
उपस्थितः प्रतीहारी प्रतिहार्यपि वा पुनः ।व्यवहारद्रष्टरि स्यात्प्राड्विवाकोऽक्षदर्शकः ॥ ११ ॥
1.6.11 · p. 90
अनुष्टुप्
अथापि स्यादनीकस्थो रक्षिवर्गो थकोट्टपः ।अध्यक्षोधिकृतस्तस्य नरे दौःसाधिकोऽपि च ॥ १२ ॥
1.6.12 · p. 90
अनुष्टुप्
गर्वाटो वर्त्तको दण्डधार्यथ स्थायुकोऽपि च ।राज्ञा योधिकृतः स स्याद्गोपो ग्रामेषु भूरिषु ॥ १३ ॥
1.6.13 · p. 90
अनुष्टुप्
स्वर्णाध्यक्षो भौरिकः स्यात् हेरिकोऽप्यथ नैष्किकः ।रौप्याध्यक्षष्टङ्कशाली टङ्कपर्यायतः पतिः ॥ १४ ॥
1.6.14 · p. 90
अनुष्टुप्
क्षुद्रोपकरणानां चोपाध्यक्षः परिकर्मिकः ।पुराध्यक्षे दण्डपतिः पौरिको दण्डपाशिकः ॥ १५ ॥
1.6.15 · p. 90
अनुष्टुप्
स्थानाध्यक्षः स्थानिकः स्याच्छुल्काध्यक्षस्तु शौल्किकः ।धर्माध्यक्षो धार्मिकः स्याद्धर्माधिकरणीत्यपि ॥ १६ ॥
1.6.16 · p. 90
अनुष्टुप्
हयाध्यक्षो हायिकः स्यात्पाकाध्यक्षस्तु पाकिकः ।चतुरङ्गबलाध्यक्षः सेनानीर्दण्डनायकः ॥ १७ ॥
1.6.17 · p. 90
अनुष्टुप्
स्यातामन्तःपुराध्यक्षेऽन्तर्वेशिकावरोधिकौ ।कुब्जो वर्षवरः षण्ढः (षाढः) सौविदल्लश्च कञ्चुकी ॥ १८ ॥
1.6.18 · p. 90
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 शि (wrong syllable)
स्थापत्यः सौविदोऽथ स्याद्भृत्यो भृतक इत्यपि ।सेवकोर्थानुजीवी स्याद्वैर्यरिर्द्वेषणो द्विषत् ॥ १९ ॥
1.6.19 · p. 91
अनुष्टुप्
दुर्हृद्दस्युः सपत्नो द्विड् विपक्षः शात्रवोऽहितः ।परौचाभेर्मातियाती परेः पन्थिकपन्थिनौ ॥ २० ॥
1.6.20 · p. 91
अनुष्टुप्
प्रतेरनीकपक्षाख्यौ जिघांसुद्वेषिशत्रवः ।अरात्यारात्यसहनपर्यवस्थात्रमित्रकाः ॥ २१ ॥
1.6.21 · p. 91
अनुष्टुप्
विद्विषश्च द्विषुर्विद्विट् विद्वेषी द्विषतो द्विषः ।अभिघाती चाभिमतिः सापत्नोऽपि सपत्नवत् ॥ २२ ॥
1.6.22 · p. 91
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 चा (wrong syllable)
वैरानुबन्धी योन्यार्थमुपनाहः स उच्यते ।वयस्यः स्निग्धः सवयाः स्नेह्यः पांशुलकः सखा ॥ २३ ॥
1.6.23 · p. 91
अनुष्टुप्
सुहृन्मित्रमपि क्लीबे सख्यं साप्तपदीनकम् ।आदिराजः पृथुर्वैन्यो मांधाता युवनाश्वजः ॥ २४ ॥
1.6.24 · p. 91
अनुष्टुप्
कुवलाश्वो धुन्धुमारो हरिश्चन्द्रस्त्रिशङ्कुजः ।पुरूरवा बौध ऐल उर्वशीरमणोऽपि च ॥ २५ ॥
1.6.25 · p. 91
अनुष्टुप्
उदुसन्तावायुरायुः पुत्रेस्याथ पुरुः पुरू ।शतधन्वा शतधनुः क्षत्रभेदेप्यथो नलः ॥ २६ ॥
1.6.26 · p. 91
अनुष्टुप्
बाहुको नैषधः पुण्यश्लोकोऽश्वज्ञोऽस्य च प्रिया ।दमयन्ती तु वैदर्भी भैमी स्यादथ नाहुषः ॥ २७ ॥
1.6.27 · p. 92
अनुष्टुप्
ययातिरर्जुनः कार्तवीर्यो हैहय इत्यपि ।कार्त्तिवीर्यः कार्त्तवीर्यार्जुनो माहिष्मतीपतिः ॥ २८ ॥
1.6.28 · p. 92
अनुष्टुप्
सहस्रबाहुपर्यायो दौष्यन्तिर्भरतोऽपि च ।सर्वंदमः सर्वदमः स्यात्सर्वदमनोऽपि सः ॥ २९ ॥
1.6.29 · p. 92
अनुष्टुप्
शाकुन्तलेयः खट्वाङ्गो दिलीपोप्यथ शान्तनुः ।शन्तनुश्च महाभीष्मः प्रतीपोऽथ परावसुः ॥ ३० ॥
1.6.30 · p. 92
अनुष्टुप्
गङ्गापर्यायपुत्रार्थो गाङ्गेयो गाङ्ग इत्यपि ।गाङ्गायनिः शान्तनवो भीष्मो देवव्रतोपि च ॥ ३१ ॥
1.6.31 · p. 92
अनुष्टुप्
रक्षःपर्यायदन्तार्थः स्यादिच्छामरणार्थकः ।प्रज्ञापर्यायनेत्रार्थो धृतराष्ट्रोऽम्बिकासुतः ॥ ३२ ॥
1.6.32 · p. 92
अनुष्टुप्
वैचित्रवीर्यः पाण्डुः स्याद्धृतराष्ट्रानुजोऽपि च ।अम्बालिकेयः पत्न्यस्य कुन्ती कुन्ता च सात्वती ॥ ३३ ॥
1.6.33 · p. 92
अनुष्टुप्
पृथान्या शल्यभगिनी माद्री शल्यस्तु मद्रपः ।दुर्योधनस्तु कुरुराड् गान्धारेयः सुयोधनः ॥ ३४ ॥
1.6.34 · p. 92
अनुष्टुप्
शताग्रजोऽस्यावरजास्ते स्युर्दुःशासनादयः ।शकुनिः सौबलोऽपि स्याद्गान्धारोऽप्यक्षकोविदः ॥ ३५ ॥
1.6.35 · p. 92
अनुष्टुप्
दुर्द्यूतवेदी कर्णस्तु चम्पाधिपतिरङ्गराट् ।राधार्कपर्यायसुतो वसुषेणश्च सूतजः ॥ ३६ ॥
1.6.36 · p. 93
अनुष्टुप्
कालपृष्ठं जयो धन्वा स्यैषा दुष्टचतुष्टयी ।सुयोधनादिका सौयोधनिर्लक्ष्मण इत्यपि ॥ ३७ ॥
1.6.37 · p. 93
अनुष्टुप्
अजातशत्रुपर्यायः शल्यारिश्च युधिष्ठिरः ।कर्णानुजोजमीढः स्याद्धर्मराजस्तपःसुतः ॥ ३८ ॥
1.6.38 · p. 93
अनुष्टुप्
वृकोदरो भीमसेनो वायुपुत्रः करव्रणः ।वीररेणुर्नागबलो वल्लवो गुणकारकः ॥ ३९ ॥
1.6.39 · p. 93
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 र्ना (wrong syllable)
अर्जुनः फाल्गुनः पार्थः सव्यसाची धनञ्जयः ।राधावेधी किरीट्यैन्द्रिः श्वेताश्वः फाल्गुनो नरः ॥ ४१ ॥
1.6.41 · p. 93
अनुष्टुप्
बृहन्नडो गुडाकेशः सुभद्रेशश्च कर्णजित् ।हनूमत्कपिपर्यायध्वजपर्याय इत्यपि ॥ ४२ ॥
1.6.42 · p. 93
अनुष्टुप्
बीभत्सुर्विजयो जिष्णुर्गाण्डिवी कालखञ्जहा ।बीभत्सश्चित्रयोधी च धन्वी योगी च तद्रथे ॥ ४३ ॥
1.6.43 · p. 93
अनुष्टुप्
नन्दिघोषो धनुरपि गाण्डीवो गाण्डिवोऽस्त्रियाम् ।गाञ्जीवो गाञ्जिवोऽप्यस्त्री नकुलस्त्वश्वशास्त्रवित् ॥ ४४ ॥
1.6.44 · p. 93
अनुष्टुप्
तन्तिपालः शाकुनस्तु गोवित्स्याद्ग्रन्थिकः पुनः ।सहदेवोऽपि चरमावेतौ माद्रीसुतावुभौ ॥ ४५ ॥
1.6.45 · p. 94
अनुष्टुप्
युधिष्ठिराद्यास्तेऽपि स्युर्ज्येष्ठाः कुन्तीसुतास्त्रयः ।पञ्चामी धर्मवाय्विन्द्रनासत्यानां सुताः क्रमात् ॥ ४६ ॥
1.6.46 · p. 94
अनुष्टुप्
तेऽपि स्युः पाण्डुपुत्रार्थास्तापसा अथ यज्ञजा ।पाञ्चाली द्रौपदी कृष्णा पार्वती नित्ययौवना ॥ ४७ ॥
1.6.47 · p. 94
अनुष्टुप्
याज्ञसेनी वेदिजन्मपर्याया पाण्डुशर्मिला ।सैरन्ध्री पञ्चसूः पञ्चवल्लभा पञ्चमीति च ॥ ४८ ॥
1.6.48 · p. 94
अनुष्टुप्
स्यात्पतिः श्वशुरो ज्येष्ठः कनीयान्देवरः पतिः ।त्रितयं त्रिषु मध्येषु कृष्णासम्बन्ध ईदृशः ॥ ४९ ॥
1.6.49 · p. 94
अनुष्टुप्
सौभद्रेयोऽभिमन्युः स्यादार्जुनिस्तस्य चात्मजः ।परीक्षितः परीक्षित्स्यादुत्तरातनयार्थकः ॥ ५० ॥
1.6.50 · p. 94
अनुष्टुप्
पारीक्षितस्तु राजर्षिर्जनमेजय इत्यपि ।यजमानः सर्पसत्रे स च जन्मेजयोप्यथ ॥ ५१ ॥
1.6.51 · p. 94
अनुष्टुप्
द्रुपदो यज्ञसेनः स्यात् पृषतः कम्पिलापतिः ।धृष्टद्युम्नो द्रोणरिपुरपि याजाभिचारजः ॥ ५२ ॥
1.6.52 · p. 94
अनुष्टुप्
द्रौपदः पार्षतः सेनापतिश्चाथ शिखण्डिनि ।भीष्मारिः स्त्रीरूपकोऽपि स्थूणपुंस्त्वप्रधारकः ॥ ५३ ॥
1.6.53 · p. 94
अनुष्टुप्
घटपर्यायजन्मार्थो भारद्वाजः कृपीपतिः ।द्रोणः शन्तनुजामाता गुरुराचार्य इत्यपि ॥ ५४ ॥
1.6.54 · p. 95
अनुष्टुप्
द्रौणायनिः कृपीपुत्रो द्रौणिर्द्रोणायनोऽपि च ।अश्वत्थामापि गौरः स्यात्कृपाचार्यस्तु गौतमः ॥ ५५ ॥
1.6.55 · p. 95
अनुष्टुप्
शैनेयः सात्यकिस्तुल्यौ सात्वतोऽपि च माधवः ।सत्राजितश्च सत्रजित् सत्यभामापितर्यथ ॥ ५६ ॥
1.6.56 · p. 95
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 त्र (wrong syllable)
रुक्मिणीजनकेऽपि स्याद्भीष्मो भीष्मक इत्यपि ।दमघोषश्चेदिपतिः शिशुपालश्च चेदिराट् ॥ ५७ ॥
1.6.57 · p. 95
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्चे (wrong syllable)
श्रौतश्रवेयः कंसः स्यादुग्रसेनसुतोऽपि च ।बार्हद्रथिर्जरासन्धो मागधो मगधेश्वरः ॥ ५८ ॥
1.6.58 · p. 95
अनुष्टुप्
द्वैमातुरो राजगृहस्वामी कर्णसखोऽपि च ।इन्द्रपर्यायजो बाली बालिर्दुन्दुभिदर्पहा ॥ ५९ ॥
1.6.59 · p. 95
अनुष्टुप्
सूर्यपर्यायपुत्रार्थः सुग्रीवो वानरेश्वरः ।मारुतिः केसरिसुतो हनूमान्हनुमानपि ॥ ६० ॥
1.6.60 · p. 95
अनुष्टुप्
रामदूतो योगचरः स च स्याद्वज्रकङ्कटः ।लङ्कारिराञ्जनेयः स्यादर्जुनार्थाद्ध्वजार्थकः ॥ ६१ ॥
1.6.61 · p. 95
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 यो (wrong syllable)
सुबाहुजस्तु सगरो दैलीपिः स्याद्भगीरथः ।विक्रमादित्यपर्यायो महेन्द्रादित्यसम्भवः ॥ ६२ ॥
1.6.62 · p. 95
अनुष्टुप्
असौ विषमशीलोऽपि साहसाङ्कः शकोत्तरः ।भम्भसारः श्रेणिकः स्याद्धालस्तु शालिवाहनः ॥ ६३ ॥
1.6.63 · p. 96
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्तु (wrong syllable)
सर्वे पृथुप्रभृतयो मताः सौखरयो नृपाः ।यथार्हवर्णः प्रणिधिरपसर्पश्चरः स्पशः ॥ ६४ ॥
1.6.64 · p. 96
अनुष्टुप्
वार्त्तायनिः प्रवृत्तिश्च चरश्चारोऽपि वार्त्तिकः ।प्रतिष्कशोवसर्पः स्यात् प्रविकाशोऽप्यमी त्रिषु ॥ ६५ ॥
1.6.65 · p. 96
अनुष्टुप्
सांवत्सरो ज्यौतिषिको दैवज्ञो देवलेखकः ।कार्त्तान्तिकश्च मौहूर्ती ज्ञानी प्रश्नार्थवाद्यपि ॥ ६६ ॥
1.6.66 · p. 96
अनुष्टुप्
अथ स्यात्पुष्पशकटी दैवप्रश्न उपश्रुतिः ।तान्त्रिको ज्ञातसिद्धान्तः सत्री गृहपतिः समौ ॥ ६७ ॥
1.6.67 · p. 96
अनुष्टुप्
लिपिङ्करो लिपिकरो मसिपण्यश्च लेखकः ।लिविङ्करो लिविकरो लेखकारक इत्ययम् ॥ ६८ ॥
1.6.68 · p. 96
अनुष्टुप्
स्यादक्षराच्चणश्चञ्चुः किरिका मसिधानिका ।वर्णकूची च मेलान्धुः स्यान्मसीजलमित्यपि ॥ ६९ ॥
1.6.69 · p. 96
अनुष्टुप्
मेलामसिर्द्वयोः पत्राञ्जनं स्याच्च मसी स्त्रियाम् ।स्त्रियां स्यात्कलमः पुंसि लेखनी चापि न स्त्रियाम् ॥ ७० ॥
1.6.70 · p. 96
अनुष्टुप्
वर्णतूल्यथ लेखः स्याद्वर्णदूतार्थकोऽपि च ।स्यात्स्वस्तिमुखपर्यायो वाचः पर्यायहारकः ॥ ७१ ॥
1.6.71 · p. 96
अनुष्टुप्
तस्यैव मुद्रणं मुद्रा स्त्रियां प्रत्ययकारिणी ।तेषां निबन्धनार्थं तु काचस्थानं च न द्वयोः ॥ ७२ ॥
1.6.72 · p. 97
अनुष्टुप्
अपि स्यात्कलमस्थानपर्याया मसिधानिका ।उत्तमर्णाधमर्णादिव्यवहारार्थपत्रके ॥ ७३ ॥
1.6.73 · p. 97
अनुष्टुप्
द्रव्याङ्गबन्धनं तत्स्यात्तेषां भेदा अनेकशः ।लिखिताक्षरविन्यासे लिपिर्लिविरुभे स्त्रियौ ॥ ७४ ॥
1.6.74 · p. 97
अनुष्टुप्
लिपी लिवी च तुल्ये स्तो लिखनीयं तु लेखितम् ।लेखनीयं च लिखितं लिख्यं लेख्यममूनि च ॥ ७५ ॥
1.6.75 · p. 97
अनुष्टुप्
त्रिषु द्रव्येऽथ लिखनं लेखनं लेख इत्यपि ।पुस्तकं त्रिषु पुस्तं स्त्री क्लीबे तु शरयन्त्रकम् ॥ ७६ ॥
1.6.76 · p. 97
अनुष्टुप्
पुस्तकस्थापनस्थाने प्रोथवैदेशिकौ समौ ।स्यात्संदेशहरो दूतो दौत्यं भावे च कर्मणि ॥ ७७ ॥
1.6.77 · p. 97
अनुष्टुप्
अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि ।यातुर्गन्तुरथो हारिः पथिकानां च संहतौ ॥ ७८ ॥
1.6.78 · p. 97
अनुष्टुप्
स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च ।सप्तैवाङ्गान्यमूनि स्युरथ पौरास्तु पुंस्यमी ॥ ७९ ॥
1.6.79 · p. 97
अनुष्टुप्
श्रेणिः स्त्रियां च प्रकृतिर्द्वे इमे चाथ षड्गुणाः ।सन्धिर्ना विग्रहो यानमासनं द्वैध आश्रयः ॥ ८० ॥
1.6.80 · p. 97
अनुष्टुप्
अथ स्युः शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः ।क्षयः स्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम् ॥ ८१ ॥
1.6.81 · p. 98
अनुष्टुप्
स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम् ।सामदाने भेददण्डावित्युपायचतुष्टयम् ॥ ८२ ॥
1.6.82 · p. 98
अनुष्टुप्
दमः पुंस्यस्त्रियां दण्डस्तद्वत्साहसमस्त्रियाम् ।साम सान्त्वमुभे क्लीबे लञ्चाकौशलिके स्त्रियाम् ॥ ८३ ॥
1.6.83 · p. 98
अनुष्टुप्
पुंस्युत्कोच उपाचारोदाहार आमिषं द्वयोः ।ग्राह्यं प्रदानमयनमुपादानं च ढौकनम् ॥ ८४ ॥
1.6.84 · p. 98
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
उपायनमुपग्राह्यं प्राभृतं च प्रदेशनम् ।उपदा स्त्र्युपहारे ना यौतकादेस्तु देयके ॥ ८५ ॥
1.6.85 · p. 98
अनुष्टुप्
दायो ना हरणं क्लीबे पुंसि भेदोपजापकौ ।त्रिवर्गेण भिया वापि परीक्षा सोपधा स्त्रियाम् ॥ ८६ ॥
1.6.86 · p. 98
अनुष्टुप्
मायोपेक्षेन्द्रजालानि क्षुद्रा भेदा अमी त्रयः ।तत्र चास्त्र्यषडक्षीणं यत्तृतीयाद्यगोचरम् ॥ ८७ ॥
1.6.87 · p. 98
अनुष्टुप्
विकाशोऽपि च वीकाशोऽवकाशश्च प्रकाशवत् ।विविक्तविजनच्छन्ननिःशलाकाप्रकाशकाः ॥ ८८ ॥
1.6.88 · p. 98
अनुष्टुप्
त्रिष्वस्त्र्युपह्वरं क्लीबे रहस्यं च जनान्तिकम् ।एकान्तं केवलं छन्नमुपांशुरहसी उभे ॥ ८९ ॥
1.6.89 · p. 98
अनुष्टुप्
क्लीबाव्ययेथ मन्त्रः स्याद्रहस्यालोचने पुनः ।स्याद्विश्वासस्तु विश्रम्भोऽभ्रेषोऽभ्रंशो यथोचितात् ॥ ९० ॥
1.6.90 · p. 99
अनुष्टुप्
कल्पादेशनवान्याया देशरूपं समञ्जसम् ।युक्तमौपयिकं न्याय्यमभिरूपं च साम्प्रतम् ॥ ९१ ॥
1.6.91 · p. 99
अनुष्टुप्
उचितं भजमानं च प्राप्तं चाथ समर्थनम् ।संप्रधारणानुवादो निर्देशोपि निदेशकः ॥ ९२ ॥
1.6.92 · p. 99
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र (wrong syllable)
आदेशोप्यथ वै शास्तिः शास्ती स्यातां स्त्रियाविमे ।आज्ञा शिष्टिः स्त्रियौ क्लीबे शासनं चावधारणा ॥ ९३ ॥
1.6.93 · p. 99
अनुष्टुप्
संस्था स्थितिश्च मर्यादा सीमा मन्तुस्तु पुंस्ययम् ।अपराधोप्यलीको स्त्री स्यात् क्लीबे विप्रियागसी ॥ ९४ ॥
1.6.94 · p. 99
अनुष्टुप्
शत्रुर्जिगीषोः पुरतः स्वदेशानन्तरो नृपः ।तस्याप्यनन्तरो मित्रमुदासीनस्ततः परः ॥ ९५ ॥
1.6.95 · p. 99
अनुष्टुप्
पार्ष्णिग्राहः पृष्ठवासी तस्याक्रन्दो निरन्तरः ।ततः परस्तादासारोऽवनतोस्यापि पृष्ठगः ॥ ९६ ॥
1.6.96 · p. 99
अनुष्टुप्
अरेश्च विजिगीषोश्च मध्यमो भूम्यनन्तरः ।सपञ्चमस्तकः षष्ठ उदासीनस्ततः पृथक् ॥ ९७ ॥
1.6.97 · p. 99
अनुष्टुप्
विजिगीषुः सप्तमः स्यात्पञ्चत्वस्तादयो मताः ।अरिर्मित्रमरेर्मित्रं मित्रमित्रमतः परम् ॥ ९८ ॥
1.6.98 · p. 99
अनुष्टुप्
तथारिमित्रमित्रं च विजिगीषोः पुरस्सराः ।उशना मण्डलमिदं प्राह द्वादशराजकम् ॥ ९९ ॥
1.6.99 · p. 100
अनुष्टुप्
विजिगीषुररिर्मित्रं पार्ष्णिग्राहश्च मध्यमः ।उदासीनात्पुलोमेन्द्रौ षट्कं मण्डलमूचतुः ॥ १०० ॥
1.6.100 · p. 100
अनुष्टुप्
चत्वारः पार्थिवा मौलास्तिर्यक् पश्चात्पुरः स्थिताः ।मूलप्रकृतयः शत्रुमित्रे सहजकृत्रिमे ॥ १०१ ॥
1.6.101 · p. 100
अनुष्टुप्
सहजं स्वकुलोत्पन्नं कृत्रिमं कार्ययोगतः ।मयास्योपकृतं पूर्वमयं चोपकरिष्यति ॥ १०२ ॥
1.6.102 · p. 100
अनुष्टुप्
इति यः क्रियते सन्धिः प्रतीकारः पुमानयम् ।द्विपाद्यो द्विगुणो दण्डो भागधेयोऽस्त्रियां बलिः ॥ १०३ ॥
1.6.103 · p. 100
अनुष्टुप्
कारः करो नाथोद्दानं बन्धनं शुल्कमस्त्रियाम् ।घट्टादिदेये द्रव्ये स्यादथापि द्विविधं भयम् ॥ १०४ ॥
1.6.104 · p. 100
अनुष्टुप्
अदृष्टं तोयवह्न्यादि दृष्टं स्वपरचक्रजम् ।महीभुजामहिभयं स्वचक्रप्रभवं भयम् ॥ १०५ ॥
1.6.105 · p. 100
अनुष्टुप्
सहायाः साधनोपाया विभागो देशकालयोः ।विपत्तेश्च प्रतीकार एष पञ्चाङ्गको नयः ॥ १०६ ॥
1.6.106 · p. 100
अनुष्टुप्
कृषिर्वणिक्पथो दुर्गं सेतुः कुञ्जरबन्धनम् ।खन्याकरबलादानं शून्यानां च निवेशनम् ॥ १०७ ॥
1.6.107 · p. 100
अनुष्टुप्
अष्टवर्गो नृपस्यायमस्यैवापचयः क्षयः ।वृद्धिस्तु वर्द्धनं चैवं साम्यं स्यात्सोप्यं त्रिकः ॥ १०८ ॥
1.6.108 · p. 101
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
उदयश्च त्रिवर्गश्च शान्ति स्त्री स्याद्दमो नरि ।मन्त्री पुरोधाः सेनानीर्द्वास्थोन्तर्वेशिकस्तथा ॥ १०९ ॥
1.6.109 · p. 101
अनुष्टुप्
युवराजः प्रशास्ता च समाहर्त्तोपदेशकः ।कर्मान्तिकः सन्निधाता रूपाद्यधिकृतस्तथा ॥ ११० ॥
1.6.110 · p. 101
अनुष्टुप्
मन्त्रपारिषदः पौरव्यावहारिकनायकौ ।आटविको दुर्गपालो दण्डेश इति षट् त्रिकाः ॥ १११ ॥
1.6.111 · p. 101
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 वि (wrong syllable)
तीर्थानि शत्रुपक्षे स्युर्येषु चारः प्रयुज्यते ।समाहर्तृप्रशास्तारौ नायकं चापवर्त्त्य तु ॥ ११२ ॥
1.6.112 · p. 101
अनुष्टुप्
महिषी मुख्यमन्त्री च वैद्यश्चेति पठन्ति ये ।तेषामिमे त्रयः स्वीयाश्चाराणां स्युरगोचराः ॥ ११३ ॥
1.6.113 · p. 101
अनुष्टुप्
अतः स्वपक्षे तीर्थानि भवन्ति दश पञ्च च ।चरन्ति पुरुषाः शत्रुपक्षे चेति चरास्त्रयः ॥ ११४ ॥
1.6.114 · p. 101
अनुष्टुप्
प्राज्ञा दर्शननास्तिक्यप्रमादालसताक्रुधः ।असत्यं दीर्घसूत्रत्वमेकेन बहुभिः सह ॥ ११५ ॥
1.6.115 · p. 101
अनुष्टुप्
प्रकाशे च त्रयो मन्त्रा मन्त्रितत्याग एव च ।अघसंग इति ज्ञेया दोषा द्वादश भूपतेः ॥ ११६ ॥
1.6.116 · p. 101
अनुष्टुप्
कामक्रोधौ लोभहर्षौ मानश्चापि मदः पुनः ।अन्तर्गतोऽरिषड्वर्गः प्राणस्य क्षुत्तृषे पुनः ॥ ११७ ॥
1.6.117 · p. 102
अनुष्टुप्
शोकमोहौ तु मनसो जरामृत्यू च वर्ष्मणः ।षडूर्मयोतिवृष्टिः स्यादवृष्टिः शलभाः शुकाः ॥ ११८ ॥
1.6.118 · p. 102
अनुष्टुप्
आखुस्वपरचक्राणि सप्तैता ईतयः पुमान् ।भृत्यैर्मित्रैश्च मन्त्रैश्च बलं त्रिविधमुच्यते ॥ ११९ ॥
1.6.119 · p. 102
अनुष्टुप्
हस्त्यश्वरथपादातं सेनाङ्गं स्याच्चतुष्टयम् ।षडङ्गं भारिकस्वाभ्यां वारदैशिकयोद्धृभिः ॥ १२० ॥
1.6.120 · p. 102
अनुष्टुप्