कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Trikāṇḍaśeṣa

त्रिकाण्डशेष Trikāṇḍaśeṣa

1,058 verses · 9,515 words tagged · 1,059 marked doubtful (dashed)

द्वितीयः काण्डः · क्षत्त्रियवर्गः

इति ब्रह्मवर्गः ॥ ७ ॥

द्विजलिङ्गी नृपः क्षत्रः क्षत्रियोऽथ प्रजेश्वरः ।राजाधिपौ मण्डलेश एकजन्मा भयापहः ॥ १ ॥
2.8.1 · p. 61
अनुष्टुप्
स्कन्धावारस्तु कटकः शिबिरं तु बलस्थितिः ।आदिराजः पृथुर्वैन्यः काकुत्स्थस्तु पुरञ्जयः ॥ २ ॥
2.8.2 · p. 61
अनुष्टुप्
यौवनाश्वस्तु मान्धाता खट्वाङ्गस्तु दिलीपराट् ।रामो दाशरथिः कौशल्यायनिर्दशकण्ठजित् ॥ ३ ॥
2.8.3 · p. 61
अनुष्टुप्
मैथिली जानकी सीता वैदेही भूमिजा च सा ।रामपुत्रौ कुशलवावेकयोक्त्या कुशीलवौ ॥ ४ ॥
2.8.4 · p. 61
अनुष्टुप्
सौमित्रिर्लक्ष्मणो मेघनादजिच्चाथ रावणः ।राक्षसेन्द्रो दशमुखो लङ्केशो धनदानुजः ॥ ५ ॥
2.8.5 · p. 62
अनुष्टुप्
मन्दोदरीशः पौलस्त्यो मेघनादस्तु शक्रजित् ।हनूमान्हनुमानाञ्जनेयो योगचरानिली ॥ ६ ॥
2.8.6 · p. 62
अनुष्टुप्
हिडिम्बारमणो रामदूतश्चैवार्जुनध्वजः ।ऐन्द्रिस्तु बाली बालिश्च सुग्रीवो रविनन्दनः ॥ ७ ॥
2.8.7 · p. 62
अनुष्टुप्
ऐलः पुरूरवो बौधिरुर्वशीवल्लभश्च सः ।ययातिर्नाहुषिः शाकुन्तलेयो भरतः स्मृतः ॥ ८ ॥
2.8.8 · p. 62
अनुष्टुप्
दौमन्तिः सर्वदमनोऽर्जुनो बाहुसहस्त्रभृत् ।हैहयः कार्तवीर्यश्च पुण्यश्लोकस्तु बाहुकः ॥ ९ ॥
2.8.9 · p. 62
अनुष्टुप्
नलोऽश्वविन्नैषधश्च महाभीष्मस्तु शान्तनुः ।प्रतीपोऽस्य प्रिया काली दासेयी च झषोदरी ॥ १० ॥
2.8.10 · p. 62
अनुष्टुप्
विचित्रवीर्या चित्राङ्गदसूर्योजनगन्धिका ।व्यासमाता सत्यवती गाङ्गेयो गान्दिनीसुतः ॥ ११ ॥
2.8.11 · p. 63
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स (wrong syllable)
देवव्रतः शान्तनवो गाङ्गो गाङ्गायनिश्च सः ।भीष्मः कौणपदन्तश्च स्वेच्छामृत्युः पुरावसुः ॥ १२ ॥
2.8.12 · p. 63
अनुष्टुप्
धृतराष्ट्रस्त्वाम्बिकेयः पाण्डुर्माद्री पृथापतिः ।दुर्योधनस्तु कुरुराङ्गान्धारेयः सुयोधनः ॥ १३ ॥
2.8.13 · p. 63
अनुष्टुप्
धर्मपुत्रोऽजमीढः स्यात्कर्णानुजयुधिष्ठिरौ ।अजातशत्रुः काङ्कोऽथ भीमसेनः कटव्रणः ॥ १४ ॥
2.8.14 · p. 63
अनुष्टुप्
वीररेणुर्नागबलो गुणकारी वृकोदरः ।बककीचककिर्मीरजरासन्धहिडिम्बजित् ॥ १५ ॥
2.8.15 · p. 63
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्ना (wrong syllable)
पार्थः किरीटी गाण्डीवी गुडाकेशो बृहन्नलः ।अर्जुनः फाल्गुनो जिष्णुर्विजयश्च धनञ्जयः ॥ १६ ॥
2.8.16 · p. 63
अनुष्टुप्
सव्यसाची सुभद्रेशः शब्दभेदी कपिध्वजः ।वार्तघ्नश्चाऽपि बीभत्सुर्द्रौपदी पाण्डुशर्मिला ॥ १७ ॥
2.8.17 · p. 64
अनुष्टुप्
पाञ्चाली पार्वती कृष्णा चेदिजा नित्ययौवना ।याज्ञसेन्यथ राधेयो वसुसेनोऽर्कनन्दनः ॥ १८ ॥
2.8.18 · p. 64
अनुष्टुप्
घटोत्कचान्तकः कर्णश्चम्पेशः सूतपुत्रकः ।द्रोणस्तु गुरुराचार्योऽश्वत्थामा तु कृपीसुतः ॥ १९ ॥
2.8.19 · p. 64
अनुष्टुप्
द्रौणायनोऽथ राजर्षिर्जनमेजयसंज्ञकः ।पारीक्षितोऽप्यथ जरत्कारुर्यायावरो मतः ॥ २० ॥
2.8.20 · p. 64
अनुष्टुप्
प्रियाऽस्य मनसादेवी जरत्कारुरथैतयोः ।आस्तीकनामा तनयो विरोचनसुतो बलिः ॥ २१ ॥
2.8.21 · p. 64
अनुष्टुप्
बाणो बिन्ध्याबलिपुतस्त्वाष्ट्रो वृत्रोऽप्यहिश्च सः ।दमघोषसुतश्चैद्यश्चेदिराट् शिशुपालकः ॥ २२ ॥
2.8.22 · p. 64
अनुष्टुप्
बार्हद्रथिर्जरासन्धः कंसः स्यादुग्रसेनजः ।कर्णीसुतौ मूलदेवो मूलभद्रः कलाङ्कुरः ॥ २३ ॥
2.8.23 · p. 65
अनुष्टुप्
मन्त्री ग्रन्थिहरोऽमात्यो द्वाःस्थितो वेत्रधारकः ।द्वोःसाधिको वर्तरूको गर्वाटी दण्डवासिनिः ॥ २४ ॥
2.8.24 · p. 65
अनुष्टुप्
सहपांशुकिलः स्नेही वयसोऽप्यऽथ वार्त्तिकः ।वार्त्तायनः प्रवृत्तिज्ञो मौहूर्तो दैवलेखकः ॥ २५ ॥
2.8.25 · p. 65
अनुष्टुप्
चित्तोक्तिः पुष्पशकटी दैवप्रश्न उपश्रुतिः ।लेखको मसिपण्यः स्याद्वोलकः किरिकोऽपि सः ॥ २६ ॥
2.8.26 · p. 65
अनुष्टुप्
मसिधानी मसिमणिर्मेलान्धुर्वर्णकूपिका ।मसिजलं तु मेला स्यात्पत्रञ्जनं मसिर्द्वयोः ॥ २७ ॥
2.8.27 · p. 65
अनुष्टुप्metre not read in every line
लेखनी वर्णतूली स्याल्लेखो वाचिकहारकः ।वर्णदूतः स्वस्तिमुखः काचनं तन्निबन्धनम् ॥ २८ ॥
2.8.28 · p. 65
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्व (wrong syllable)
लेखस्थानं ग्रन्थकुटी मुद्रा प्रत्ययकारिणी ।यातुर्गन्तुश्च पथिको हरिः पथिकसन्ततिः ॥ २९ ॥
2.8.29 · p. 65
अनुष्टुप्
सन्देशः प्राभृतं कौशल्युत्कोचस्तूपदानकम् ।जनान्तिकं त्वप्रकाशो लुण्डी स्यान्न्यायसारिणी ॥ ३० ॥
2.8.30 · p. 66
अनुष्टुप्
ताम्बूलदो वाग्गुलिकः संवाहकोऽङ्गमर्दकः ।चामरं रोमगुत्सं च केशरं चावचूलकम् ॥ ३१ ॥
2.8.31 · p. 66
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ह (wrong syllable)
कुठेरुर्मन्थरुः प्रोतोत्सादनं वस्त्रकुट्टिमम् ।छत्रं पुटोटजं राजशृङ्गं कनकदण्डकम् ॥ ३२ ॥
2.8.32 · p. 66
अनुष्टुप्
हस्ती महामृगः पीलुः सिन्धुरो दीर्घमारुतः ।राजीवो जलकाङ्क्षश्च निर्झरः करटी कटी ॥ ३३ ॥
2.8.33 · p. 66
अनुष्टुप्
विलोमजिह्वान्तःस्वेदापण्डपादलतालकाः ।वराङ्गः पुष्करी शूर्पकर्णसामजपेचिलाः ॥ ३४ ॥
2.8.34 · p. 66
अनुष्टुप्
करिणी वासिता गम्भीरवेद्यंकुशदुर्धरः ।चालकव्यालकौ राजवाह्यो विजयकुञ्जरः ॥ ३५ ॥
2.8.35 · p. 66
अनुष्टुप्
ईषादन्तो महादन्तः कर्णास्फाले झलज्झला ।मदप्रयोगो व्यस्तारः विक्कस्तु करिशावकः ॥ ३६ ॥
2.8.36 · p. 67
अनुष्टुप्
आरक्षः कुम्भमन्धिः स्यात्सन्दानोऽष्ठीवतोरधः ।नासापूर्वं स्थूलहस्तं दन्तमूले करीरिका ॥ ३७ ॥
2.8.37 · p. 67
अनुष्टुप्
शङ्खः कटो दन्तमध्ये प्रवेष्टः पृष्ठतल्पने ।आयस्कारः प्रजङ्घाग्रे प्रोहश्चरणपर्वणि ॥ ३८ ॥
2.8.38 · p. 67
अनुष्टुप्
न ना गात्रावरे नाली कर्णारा कर्णवेधनी ।आलानं शङ्कुरक्षोभः प्रारब्धिर्गजबन्धनी ॥ ३९ ॥
2.8.39 · p. 67
अनुष्टुप्
प्राची तु शृङ्खला हिञ्जीरोऽस्त्री स्यादन्दुकश्च सः ।पित्तज्वरः पाकलोऽस्य कूटपूर्वस्त्रिदोषजः ॥ ४० ॥
2.8.40 · p. 67
अनुष्टुप्
अश्वः किण्वी हरिक्रान्तः शालिहोत्रश्च मुद्गभुक् ।श्रीपुत्रश्चामरी हेषी राजस्कन्धो मरुद्रथः ॥ ४१ ॥
2.8.41 · p. 67
अनुष्टुप्
वातायनश्चैकशफो यस्ग्तु पचाङ्गपुष्पितः ।स पञ्चभद्रः सूर्याश्वे वाताटहरितौ समौ ॥ ४२ ॥
2.8.42 · p. 67
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
यायावरोऽश्वमेधीयः पारसीकः परादनः ।आरट्टजश्च चोस्कस्तु सिन्धुवारो हयोत्तमः ॥ ४३ ॥
2.8.43 · p. 68
अनुष्टुप्
वाताश्वतात्याजानेयो वेशरोऽश्वतरः खरः ।श्रीवृक्षोऽस्य हृदावर्तो रोचमानो गलोद्भवः ॥ ४४ ॥
2.8.44 · p. 68
अनुष्टुप्
ऊर्ध्वस्थितिः पुरूषिकं विक्रान्तिस्तु पुलायितम् ।पुलासन्नाहप्रखरौ कवियं कविकाकोच्यते ॥ ४५ ॥
2.8.45 · p. 68
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 षि (wrong syllable)
ग्रीवाघण्टा धर्धरा स्याद्रश्मिः प्रवयणं च तत् ।प्रतोदोऽथ खुरो विड्खः पुटो लुण्टनवेल्लने ॥ ४६ ॥
2.8.46 · p. 68
अनुष्टुप्
वल्गा दन्तालिका पल्यनं पर्याणमस्य तु ।वङ्काग्रभागः स्यादश्ववारो वल्लभपालकः ॥ ४७ ॥
2.8.47 · p. 68
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
नन्दीघोषोऽर्जुनरथो नीतिधोषस्तु गीष्पतेः ।चङ्कुरं घोरणं यानमात्रे चक्रं त्वरि स्मृतम् ॥ ४८ ॥
2.8.48 · p. 69
अनुष्टुप्
लध्वी त्वाष्ट्री रथी कालवलनं त्वङ्कवर्मणी ।मेठो मेण्डो हस्तिपके जङ्घात्राणं तु मङ्खुणम् ॥ ४९ ॥
2.8.49 · p. 69
अनुष्टुप्
स्यान्नायकाग्रेसरिकौ नासीरं दर्प ऊष्मणि ।शस्त्रमायुधमुद्घातः स्थावरं तु धनुर्गुणी ॥ ५० ॥
2.8.50 · p. 69
अनुष्टुप्
शरावापो धनुः स्त्री स्यात्तृणता त्रिणतापि च ।व्यधस्तु प्रतिकायः स्याज्जीवा स्याद्भारवं गुणः ॥ ५१ ॥
2.8.51 · p. 69
अनुष्टुप्
शस्त्राभ्यासश्च खुरली बाणः स्यादत्स्त्रकण्टकः ।स्थूलक्ष्वेडो विपाटश्च चित्रपुङ्खः शरः सरः ॥ ५२ ॥
2.8.52 · p. 69
अनुष्टुप्
पत्रवाहो विकर्षोऽथ तीरं विज्जालसायके ।लोहनालस्तु नाराचः प्रसरः काण्डगोचरः ॥ ५३ ॥
2.8.53 · p. 69
अनुष्टुप्
ऋष्टिः खड्गः तरवारिः शस्त्रो भद्रात्मजश्च नः ।धाराविषो विरासनो न्युब्जखड्गः कटीतलः ॥ ५४ ॥
2.8.54 · p. 69
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable); pāda 3, syllable 7 स (wrong syllable)
स्यादट्टनं चक्रफलं पर्शुः परशुरित्यपि ।दीर्घायुधं शलः कुन्तः शल्यः शङ्कुर्विषाङ्कुरः ॥ ५५ ॥
2.8.55 · p. 70
अनुष्टुप्
शूलोऽस्त्री सीसकं लग्नाः प्रातर्गेयाः स्तुतिव्रताः ।भोगावली वन्दिपाठो वसुकीटस्तु याचकः ॥ ५६ ॥
2.8.56 · p. 70
अनुष्टुप्
वातकेतुः क्षितिकणः स्यात्पांशुर्मेदिनीद्रवः ।सम्भारः सर्वपूर्णत्वं पताका व्योममडलम् ॥ ५७ ॥
2.8.57 · p. 70
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 म (wrong syllable)
कदली कन्दली चीनमक्षंवाटस्तु मल्लभूः ।भीरुस्तु भेलो हरिणहृदयः स्यात्पलङ्कटः ॥ ५८ ॥
2.8.58 · p. 70
अनुष्टुप्
विद्रवस्तु शृगाली स्यादाघातस्तु वधस्थली ।कदनं मारणं मन्थः सौप्तिकं रात्रिमारणम् ॥ ५९ ॥
2.8.59 · p. 70
अनुष्टुप्
निपातो भूमिलाभश्च मृत्युरप्यथ मारकः ।मरको मारिरुत्पाटः शवस्तु क्षितिवर्धनः ॥ ६० ॥
2.8.60 · p. 70
अनुष्टुप्
पञ्चावस्थः कटः स्थागः श्मशानं तु शतानकम् ।रुद्राक्रीडो दाहसरः संस्क्रिया सत्क्रिया समे ॥ ६१ ॥
2.8.61 · p. 70
अनुष्टुप्
चिता काष्ठमटी चैत्यं चिताचूडकमिष्यते ।चितं चाऽथान्तशय्यायां खटिर्वारुठ इत्यपि ।उपग्रहस्तु ग्राहः स्याद्वन्द्वी करमरीत्यपि ॥ ६२ ॥
2.8.62 · p. 71
अनुष्टुप्